04 शिष्टापरिग्रहाधिकरणम्

एतेन शिष्टापरिग्रहा अपि व्याख्याताः । तथा सति हीति- शिष्टाश्च ते अपरिग्रहाश्चेति व्याख्याने पूर्वोक्तप्रधानकारणवादस्यापि शिष्टापरिग्रहससिध्यति । शिष्टैरपरिगृहीता इति व्याख्याने तु वक्ष्यमाणानां वैशेषिकादिमतानामेव शिष्टापरिगृहीतत्वं पूर्वोक्तस्य प्रधानकारणवादस्य तु शिष्टपरिगृहीतत्वमित्येव प्रतीतेरितिभावः । प्रतिबन्द्या समाधत्ते कथं धर्मशास्त्रपरिगृहीतस्येति । ननु मीमांसान्यायविस्तर इति न्यायमतस्य परिगृहीतत्वेपि वैशेषिकमतस्य परिगृहीतत्वं नेत्याशङ्क्याह - नैयायिकोवैशेषिकश्चेति । शङ्कते - कारणत्वस्येति । पर भाष्ये- परमाणुकारणवाद इत्यादिना परमाणुत्वकीर्तने नान्यदपि शङ्काकारणं सूचितम् अल्पाधिकपरिमाणयोर्हि तन्तुपटादिषूपादानोपादेयभावो दृष्टः, नतु वैपरीत्यं दृष्टम् । अतस्त्रिसरेणुप्रभृतिषु पृथिवीलोकादिपर्यन्तेषु कार्येषु परमाणूनामेव कारणत्वं युक्त्तम्, नतु कार्येभ्योऽधिकपरिमाणस्य प्रधानादेरित्यानन्दगिरिणोक्तमनुवदति - तर्ककुशलताप्रसिद्धेरिति । ॥ इति शिष्टापरिग्रहाधिकरणम् ॥