03 विलक्षणत्वाधिकरणम्

is not available.चेतनत्वानुवृत्तिरप्यस्तीति । अत्र केचित्, कारणरोटौ विशेष्यभूतस्य ब्रह्मणः कार्यकोटौ विशेषणभूतेष्वचेतनेष्वप्युपादानत्वमुपपादनूयम्, अन्यथा तस्य सर्वोपादानत्वासिद्धेः, अत एव श्रुतिप्रक्रियायां यद्वा जगत इति निष्कर्षकशब्दः । ब्रह्मशब्दो विशेष्यमात्रपर इत्यादिना कार्यकोटौ विशेषणभूतस्य जगतः कारणकोटौ विशेष्यभूतब्रह्म प्रति उपादेयत्वशरीरत्वे स्त इत्याचार्यैरेव प्रतिपादितम् । ततश्च तत्र सालक्षण्याभावादुपादानत्वं न सम्भवतीत्याक्षेपस्य चेतनांशे चेतनाशत्वानुवृत्तिरप्यस्तीति परिहारस्यासम्भवादेतत्सूत्रोक्तन्यायेन विलक्षणयोरप्युपादानोपादेयभावोऽस्तीत्येव परिहर्तव्यमिति वदन्ति । इति माक्षिकस्येति - मधुन इत्यर्थः । तत्तु क्रिम्यादौ नास्तीत्यर्थः । ननु द्रव्यत्वसाक्षाद्वाप्यजात्या सालक्षण्यस्य पूर्वं विवक्षितत्वात्तत्र कथं व्यभिचारः प्रदर्शित इति चेन्न; माक्षिकस्य पृथिवीत्वात् क्रिम्यादेश्चेतनत्वेनात्मत्वात्तदानीमपि व्यभिचार एवेति भावः । किञ्च पार्थिवेभ्योऽरण्यादिभ्यः वह्नेस्सामुद्रजलात्पार्थिवस्य मुक्त्ताफलस्योत्पत्तिदर्शनाद्य्वभिचारस्य तादवस्थ्यमिति द्रष्टव्यम् । असदिति चेन्न प्रतिषेधमात्रत्वात् । भाष्ये - कारणे परस्मिन् ब्रह्मणि कार्यं जगदिति । तादात्म्येनेतिशेषः । कारणावस्थायां कार्यं जगत्कारणात्मना न विद्यत इति असत उत्पत्तिप्रसङ्ग इत्यर्थः । कार्यकारणयोस्सजातीयत्वमेवेति - प्रतिषिद्धमितिशेषः । तस्य व्याख्यानमस्येदमितिप्रत्यभिज्ञानार्हावान्तरजात्या सालक्षण्यनियमः प्रतिषिद्धः, न त्वेकद्रव्यत्वमित्यर्थ इति ।अपीतौ तद्वत्प्रसंगादसमञ्जभसम् । भाष्ये - अपीतिपूर्वकसृष्टयादेः प्रदर्शनाथर्मिति । अत्र केचित् - प्रपञ्चस्थितिकाले तद्दोषैर्दुष्टत्वेपि तत्प्रलये निर्दोषं कल्याणगुणविशिष्टं ब्रह्मावतिष्ठत इति तद्विषयत्वं वेदान्तवाक्यानामुपपद्यते । चेत्रस्सुखं जीवतीतिवाक्यानामिव व्याध्यादिरहितकालविषयत्वमिति शङ्कानिराकरणार्थमपीताविति प्रत्यस्य सूत्रे विशिष्यग्रहणम् प्रलयेपि भाविकल्पभोग्यफलहेतूनां पाप्मनां सूक्ष्मरूपापन्नेषु जीवेषु सत्त्वावश्यम्भावात्तैर्दुष्टत्वं स्थितिकाल इव प्रलयकालेपि ब्रह्मणः प्रसज्यत इति अपहतपाप्मत्वादिश्रुतीनामसामञ्जस्यमितिभाव इति वदन्ति । मत्वर्थीय प्रत्यय इति - भावप्रधानश्च निर्देश इति भावः । परोक्तमिति - चेष्टाभोगेन्द्रियाश्रयत्वरूपं तार्किकोक्तं लक्षणत्रयमित्यर्थः । अन्तर्गतत्वमेवोपपादयति सुखदुःखेतीति । भोगाश्रयत्वे इन्द्रियाश्रयत्वोक्तिरिति - यद्यपि सुखदुःखसाधनेन्द्रियाश्रयत्वमेकं लक्षणं सुखदुःखोपभोगसाधनत्वस्येन्द्रियविशेषणत्वात् तथाप्यर्थात्तदपि सूचितामित्यभिप्रायः । मुक्त्तेश्वरशरीरस्येति - मुक्त्तेश्वरयोश्शरीरासम्भवद्योतनार्थमित्यर्थः । चेष्टाश्रयत्वोक्तिरिति - प्राण शरीरसंयोगासमवायिकारणक्रियाया एव चेष्टात्वादिति भावः । भोगायतनत्वं पृथग्दूषयतीति - पूर्वोक्तानि लक्षणानि पूर्वं न दूषितानि अपितु तेषां लक्षणानां सामाचीन्यं सिद्धवत्कृत्यैव चिदचितोस्तादृशलक्षणाभावाद्भगवच्छरीरत्वं न सम्भवतीति शरीरत्वमेव दूषितम् । भोगायतनलक्षणे त्वतिव्याप्त्या लक्षणमपि दूष्यत इति वैरूप्यं द्रष्टव्यमिति भावः । असम्भवमाहेति - चेतनेषु शरीरतयाभिमतेषु लक्षणस्याभावमाहेत्यर्थः । न त्वव्याप्त्यतिव्याप्तिसमभिव्याहृतमसम्भवरूपं लक्षणं दूषणमिति मन्तव्यम् । इन्द्रियाधिष्ठानावयवनिषेधमुखेनेति - पाण्यादिमत एव शरीरत्वादिति भावः ॥सू । नतु दृष्टान्तभावात् । असामञ्जस्यं प्रतिषेधता नेत्यनेनैव हेयसम्बन्धगन्धासम्भवस्य सिद्धतया तुशब्दस्य शरीरशरीरिभावसम्भवज्ञापकत्वमेव तुशब्दोत्रेति भाष्येपि विवक्षितमित्यभिप्रेत्याह- नेतिपदेनैवेत्यादि । केचित्तु तद्वत्प्रसङ्गादसमञ्जसम्’ इति सूत्रेणापुरुषार्थसम्बन्धप्रसङ्गादसामञ्जस्यमिति शङ्कितेनेत्यनेनासामञ्जस्यं निषिद्ध्यते, तुशब्देन तद्वत्प्रसङ्गादित्युक्त्तहेयसम्बन्धगन्धाभावः प्रदर्श्यत इति यथाश्रुतभाष्यमेव समर्थयन्ते - तच्च तल्लक्षणमिति - प्रवृत्तिनिमित्तभूतं लक्षणमित्यर्थः । अयं भावः, गोर्हि त्रीणि लक्षणानि, गमिकर्तृत्वरूपं व्युत्पत्तिलक्षणमेकं लक्षणम्, गोशब्दप्रवृत्तिनिमित्तगोशब्दप्रवृत्तिनिमित्तगोत्वव्यञ्जकं सास्नादिमत्त्वमेकम्, गोशब्दप्रवृत्तिनिमित्तभूतं गोत्वमेकमिति इह च शरीरशब्दव्युत्पत्तिनिमित्तलक्षणम्, विशरण कर्मफलभोगः इत्यादिकं तु सास्नादिवदुपलक्षणरूपलक्षणं न भवितुमर्हति, सास्नादिव्यङ्गयगोत्वरूपजातिवद्भोगेन्द्रियाश्रयत्वादिव्यङ्गयायाश्शरीरत्वजातेरभावादि इतीदमेव प्रवृत्तिनिमित्तभूतं लक्षणमिति पर्यवस्यतीत्यभिप्रेत्य कर्मफलहेतुरित्यादिकं प्रवृत्तिनिमित्तलक्षणमिति प्रवृत्तिनिमित्तलक्षणत्वेन भाष्येऽनूदितमितिभावः । प्रथमोपात्तमिति - इन्द्रियाश्रयत्वादेर्मुक्त्तशरीरेषु सम्भवादितिभावः । नन्वाकल्पमिन्द्रियाणामवस्थानात् “तदन्तरप्रतिपत्तौ रहति’ इत्यधिकरणे भूतसूक्ष्मेन्द्रियाणामनुवृत्तिकथनाच्च कथमहल्यादिशरीराणामिन्द्रियाश्रयत्वाभाव इत्याशङ्कयाह - इन्द्रियाश्रयत्वं ज्ञानप्रवृत्तिजननेति । चेष्टेन्द्रियार्थाश्रय इति अर्थशब्दो भोगपरः । नहि ज्ञानं ज्ञानविशिष्टेनेति - अयमर्थः, यदीयधर्मभूतज्ञानेन यद्धार्यं यन्नियाम्यं च तत्तस्य शरीरमिति विवक्षितम् । ततश्च यावइसुस्तं धार्ये यूकादौ गर्भस्थविनष्टजन्तौ वा नातिव्याप्तिः । प्रभाव्यावृत्तिरिति - प्रभायाः प्रभावता नित्यधार्यत्वादिति भावः।is not available.is not available.मृषावादिपक्षं दूषयति - तर्काप्रतिष्ठानादित्यादिकमिति । व्यपदेशाच्च क्रियायामिति - अस्यायमर्थः, “विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिच’ इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्च कर्ता जीवः । ननु विज्ञानशब्देन नात्मनो व्यपदेशः, अपि तु अन्तःकरणस्येति चेत्; एवं सति निर्देशविपर्ययः स्यात् बुद्धेः करणत्वात्, विज्ञानेनेतिकरणविभक्त्तिनिर्देशस्स्यादिति । सूत्रत्रयं परैस्त्वेवं व्वाख्यातमिति - इतरेषां सूत्राणामत्यन्तवैरूप्याभावान्न तानि दूषितानि, यद्यपि असदिति चेन्न प्रतिषेधमात्रत्वात्’ इति सूत्रे यदि विलक्षणाद्ब्रह्मणो विलक्षणं जगदुत्पद्यते तर्हि प्रागुत्पत्तेः कार्यमसत्स्यादित्यसत्कार्यवादप्रसङ्ग इतिचेन्नैष दोषः । प्रागुत्पत्ते रसदितिवादस्य प्रतिषेधमात्रत्वात्प्रतिषेधस्य प्रतिषेध्य शून्यत्वान्निर्विषयत्वादित्यर्थः । प्रागुत्पत्तेः कार्यमसत्स्यादिति किं कार्यस्य कारणात्मना सत्त्वं न स्यादित्यापाद्यते, उत कारणात्मतां विहाय स्वातन्त्र्ेण? नाद्यः, कारणात्मना सत्त्वस्य प्रागुत्पत्तेरपि सत्त्वात् । न द्वितीयः, स्वातन्त्रेण सत्त्वस्येदानीमप्यभावात्; अत उत्पत्तेः प्रागसदित्युक्त्तिरुक्त्तिमात्रमेव नार्थवतीत्यर्थो वर्णितः । तथापि तस्यार्थस्यात्यन्तविरुद्धत्वाभावादुपेक्षितम् । यथा स्वप्नदृगेकस्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्यगतत्वात्, एवमवस्थात्रयसाक्षी एकः, अव्यभिचारी अवस्थात्रयेण व्यभिचारिणा न स्पृश्यते, मायामात्रं ह्येतत् । यत्परमात्मनोऽवस्थात्रयभासनं रज्ज्वा इव सर्पादिभावेनेतिपरभाष्योक्तं दृष्टान्तमर्थतोऽनुवदति - स्वप्नतर्शी च पुरुषः स्वमायया न स्पृश्यत इति । अस्य चायमर्थः, एको जागरितसुषुप्त्योरनुवर्तमानः स्वप्नदृक् स्वप्नदर्शनरूपया स्वप्नोपादेयमाययोपादानभूतो यथा न स्पृश्यते, अवस्थान्तरेऽनुवृत्त्यदर्शनात्, एवमुत्पत्तिस्थितिप्रलयरूपावस्थादर्शी परमात्मापि नावस्थात्रयेण संसृज्यते, अवस्थात्रयस्यापि मिथ्यात्वादिति । इदमस्योपादानमिति - इदमस्य भोगसाधनं मन इन्द्रियादीत्यर्थः । जडत्वानृतत्वपरित्यागाभावादिति - यद्यपि शाङ्करभाष्ये अत्यल्पं चेदमुच्यते, कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति स्थितावपि समानोयं प्रसङ्गः । कार्यकारणयोरनन्यत्वाभ्युपगमात् । “इदं सर्वं यदयमात्मेति’ श्रुतिः त्रिष्वपि कालेष्वविशेषेण कार्यकारणानन्यत्वं ग्राह्यते, तत्र यः परिहारः कार्यस्य कार्यधर्माणां चाविद्याध्यारापितत्वान्न तैः कारणं संसृज्यत इति अपीतावपि समान इति अप्ययस्थित्ययोस्साम्यप्रतिपादनात् कार्यकारणानन्यत्वप्रयुक्त्तदोषस्योद्भावनीयत्वे स्थूलत्व ह्रस्वत्वादिदोषाणामपि जडत्वानृतत्ववदापादयितुं शक्यत्वात् स्थूलत्वाद्याकारे परित्यक्त्तेपि जडत्वानृतत्वपरित्यागाभावादितिवैषम्यं किन्निबन्धनम् ? नहि स्थूलत्वादिदशायामैक्यम् अप्ययदशायां जडनैक्यमस्तीति तैरभ्युगतम् येनायं सरम्भस्सफलस्स्यात्, तथाप्यपीतावितिसूत्रे अप्ययस्य विशिष्योक्तया तत्र किञ्चिद्वैषम्यं वक्त्तव्यमित्यभिप्रेत्यैवमुक्त्तमिति द्रष्टव्यमिति - हस्तिशस्त्रादेरविप्रकर्षादिति - हस्तिशस्त्रादेरपि कायर्स्य ज्ञानोपादानकस्योपादानादनधिकदेशत्वादितिभावः । वर्तमानाविद्याया आदिमत्त्वं च भवेदिति - पूर्वाविद्यायाः पूर्वं मुक्त्तिकाले नष्टत्वादितिभावः । बन्धमोक्षव्यवस्थोक्तिरिति - जीवोपाधिभूतानामविद्यानां नानात्वात् यस्य जीवस्य तत्त्वज्ञानेनाज्ञानं नष्टं तस्य मुक्त्तिः नान्यस्येति व्यवस्थोक्तिरित्यर्थः । पूर्वोक्तदोष इति - निवृत्ताविद्यानां पुनरुत्पत्तिस्यादित्यर्थः । उपाधिविरह एव भेद इतिचेदिति । यद्यपि निवृत्तोपाधित्वमेव भेद इति चेदिति पूर्वमेव शङ्कितम् तथापि दूषणान्तरदानाय पुनरु पढन्यास इति द्रष्टव्यम् । अंशभेदस्याबाध्यत्व इति - उपाधिविरहरूपांशभेदस्य बाध्यत्व इत्यर्थः । क्षणमात्रमपसरणमपीति - मृषावादिमतमपरमार्थकञ्चुकाश्रयणादेकां कक्ष्यां सहते, भास्करमतं तु तावदपि न सहत इत्यर्थः । कार्यावस्थायामेवेति - मूलकारणदशाव्यतिरिक्त्तदशायामित्यर्थः । आनीदवातमिति “अन प्राणने’ आनीदिति सत्त्वलक्षणाननसम्बन्धकथनादितिभावः । विनाशहेतुवैयर्थ्यप्रसङ्गादिति - प्रलयहेतुभूतसञ्जिहीर्षादिवैयर्थ्यप्रसङ्गादित्यर्थः । तद्वत्प्रसङ्गादसामञ्जस्यमिति । तद्वत्प्रसङ्गात्- शून्यत्वप्रसङ्गादित्यर्थः । असच्छब्दवाच्यमपीति - कार्यावस्थमित्यनुषज्यते । अधिकरणद्वयेन निर्णीत इति - असदिति चेत् अपीतावित्यधिकरणद्वयेनेत्यर्थः । तदभावस्येति - सत्त्वाभावस्येत्यर्थः ।