02 योगप्रत्युक्त्यधिकरणम्

ननु ईश्वरत्वाभ्युपगमस्साङ्खयानामप्यविशिष्ट एव, सेश्वरसाङ्खयानामपि वाक्यात्तन्निराकरणस्यापि पूर्वाधिकरणे कर्तव्यत्वादित्यस्वरसादाह; भाष्ये- योगस्य चाभिधानादिति । योगशास्त्रे प्रधानप्रतिपाद्यस्य श्वेताश्वेतरादिप्रत्यक्षश्रुतिषु मोक्षोपायतया विधानान्न साङ्खयस्मृतितुल्येति भावः । ननु सृज्यत्वश्रुतिर्ब्रह्मणः क्षेत्रज्ञत्वे कथं प्रमाणमित्याशङ्कयाह - कर्मकृतनामरूपाभ्यामिति । भगवद्वचनेनेति भावः। भगवदंशत्वमिति- शौनकेन प्रदर्श्यत इत्यर्थः । स्तम्बस्याप्यकर्मवश्यत्वप्रसङ्गादिति - ननु “आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनित संसारवशवर्तिनः’ इति श्लोके आब्रह्मस्तम्बपर्यन्ता इति नैकं पदम्, आङो ब्रह्मस्त म्बाभ्यामन्वये वैरूप्यपरिहारार्थमुभयत्राप्येकार्थत्वमाश्रयणीयं स्यात्, किन्तु स्तम्बपर्यन्ता इति पृथक् पदम् । इतरथा पर्यन्तशब्दवैयर्थ्यप्रसङ्गात्, ततश्च पर्यन्तपदस्वारस्यात्स्तम्बस्य माण्यन्तर्भावेपि न ब्रह्मणोऽन्तर्भावो युक्त्तः, तत्राङो मर्यादार्थत्व सम्भवदिति चेन्न; अभिविधिसाहचर्यादभिविधित्वोपपत्तेर्वैरूप्याश्रयणस्यान्याय्यत्वादिति भावः । प्रविश्य च तथापूर्वामिति - अपूर्वाभितिछेदः । युक्त्तावस्थायामिति - योगदशायामित्यर्थः । कार्यस्मृत्यनुपपत्त्येति - महदहङ्कारादिकार्यविषयस्मृतेर्यथा मूलश्रुत्यनुपलम्भादप्रामाण्यम्; एवं कारणप्रधानविषयस्मृतेरपीति सूत्र तात्पयर्ार्थः । परैस्तु औपनिषदयोगसापेक्षाच्छ्रुतिसंवादबाहुल्याच्च योगस्मृतिः प्रमाणमि त्यधिकाशङ्का युक्त्तिद्वयेन वर्णिता, तत्र प्रथमयुक्त्तेर्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानादिति भाष्येणोक्तत्वाद्द्वितीयां संवादबाहुल्ययुक्त्तिमनूद्य दूषयति - अधिकशङ्कापरिहारौ परैरेवमुक्त्तावित्यादिना । तत्कारणं साङ्खययोगाधिगम्यमिति - नच साङ्ख्ययोगशब्दयोः ज्ञानपरत्वं शाङ्करभाष्ये वर्णितमितिवाच्यम्; प्रसिद्धार्थपरित्यागे हेत्वभावादितिभावः ॥