01 स्मृत्यधिकरणम्

प्रत्यक्षादिप्रमाणगोचरादिति - न च साङ्खयाभिमतस्य कथं प्रत्यक्षगोचरत्वमिति शङ्कयम्, कार्यावस्थायां प्रत्यक्षसम्भवात्; अत एव वक्ष्यति प्रत्यगर्थवदिति । पदविवक्षितमाह- मुक्त्तव्यावृत्त्यर्थमिति । एकशब्दविवक्षितमर्थमाह - निमित्तोपादानरूपेति । शरीरगतदोषाणां शरीरिण्यस्पर्शः सर्वान्तरभूतमित्यनेन भाष्ये विवक्षित इत्यभिप्रयन्नवतारिकामाह - जगत्कारणत्व इति । वक्ष्यत इति - परैरुद्भाविता दोषाः परिहृताः । इदानीं स्वपक्षरक्षणाय परपक्षाः प्रतिक्षिप्यन्त इति द्वितीयपादाद्यभाष्येणेत्यर्थः । चालयितुं शक्यत इति कम्पने चलिरितिघटादिपाठान्मित्वम् । तदेतदभिप्रेत्याह, विरोधे त्वनपेक्षं स्यादिति पाठश्चेत्समीचीनः । उक्त्तं हीति भाष्यस्य पूर्वमेव अवतारितत्वादिति द्रष्टव्यम् । अतो व्याकुलत्वाद्वेदान्तवाक्यानामिति - अयमाशयः, श्रुतिस्मृत्योर्न श्रुतिस्मृतित्वकृतं नियतं प्राबल्यदौर्बल्यम्, अपि तु श्रुतिस्मृत्योर्विरोधे श्रुतिर्बलीयसीत्युत्सर्गमात्रम्; तत्तु क्वचिद्बलाबलवैपरीत्यहेतुना अपोद्यते; अत एव तवेदं कृत्वा वेदि’रितिपदार्थधर्मभूतक्रमविषयश्रुतेः “क्षुत आचामे’दितिस्मृतेः धर्मिभूतपदार्थविषयत्वं प्राबल्यकारणमस्तीति बलाबलवैपरीत्यमाश्रितम् । यथोक्तं वार्तिककारैः दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा । तदा हि विपरीतत्वं शिष्टाकोपे यथोदितम् । अत्यन्तबलवन्तोपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः’ इति । तद्वदिहापि अव्यवस्थितार्थत्वव्यवस्थितार्थत्वरूपमन्यद्बलाबलवैपरीत्यकारणमस्ति । अत एव “यदृचा स्तुवत तदसुरा अन्ववायन् यत्साम्ना स्तुवत तदसुरा नान्ववायन् य एवं विद्वान् यत्साम्ना स्तुवते’ इत्यत्र स्तुतिविधिरूपयोरुपक्रमोपसंहारयोः अप्रतिग्रहेष्टिगतयोरिव प्राप्तस्य प्राबल्यदौर्बल्योत्सर्गस्य यदृचा स्तुवत इत्यादिना किमसुरागमनहेतुतया ऋकनिन्द्यते, उत वशीकर्तुमशक्यानामपि वशीकरणहेतुतया ? अव्यवस्थितार्थकत्वात् । कापिलस्मृतेस्तु प्रधानकारणत्वैकविषयतया व्यवस्थिताथर्कत्वात् कापिलस्मृतेरेव प्राबल्यमिति । “वचनविरोध’ इति कापिलस्मृतिवचनविरोध इत्यर्थः । ततश्च वचनस्यैव न्यायाभासमूलत्वाद्वचनविरोधे न्यायस्य दुर्बलत्वादिति कथमुच्यत इति शङ्का परास्ता । इममर्थमभिप्रेत्याहेति - इदं वैषम्यमभिप्रेत्य वाक्यद्वयमुपात्तमित्यर्थः । तस्याप्तत्वे प्रमाणमुक्त्तमिति - “ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति न जायमानं न पश्येत्’ इति हिरण्यगर्भस्येव कपिलस्यापि जायमानावस्थाप्रसृतभगवत्कटाक्षलब्धाप्रतिज्ञानातिशयशालित्वप्रतिपादनादिति भावः । अन्यपरत्वमुक्त्तमिति - अत एतद्ग्रन्थानुसारादेतदुक्त्तं भवतीति ग्रन्थावतारिकायामपि साङ्ख्यस्मृतीनामन्यपरत्वं किं न स्यादित्याक्षेपोऽपि न निवेशनीयः । साकल्येनानवकाशत्वमिति - यथा “यत्किञ्चित्प्राचीनमग्नीषोमीयातेनोपांशुचरन्तीति सावकाशादुपांशुत्वविधेः मन्द्रं प्रायणीयायां मन्द्रतरमातिथ्यायाम् इति । प्रायणीयादिगतमन्द्रादिस्वरविधेः अनवकाशत्वेन प्राबल्यं तद्वदिहापिनिरवकाशकपिलस्मृतेः प्राबल्यमिति भावः । तत्र परमकारणभूतस्यैवेति - अग्नीन्द्राद्याराधनात्मनां कर्मणां भगवदाराधनरूपत्वस्योपपादयिषितस्य भगवतस्सर्वदेवतातादात्म्यमन्तरेणोपपादयितुमशक्यतवात्तादात्म्यस्य कारणत्व निर्वाह्यत्वात्तादात्म्यनिर्वाहकं कारणत्वमुपपादयितुं तन्मुखेन भगवत एव “यतो वा इमानी’त्यादिलक्षणलक्षितब्रह्मत्वं च प्रतिपादयितुं वेदान्तेषु सृष्टेः प्रलयपूर्वकत्वस्य प्रतिपादितत्वात्प्रथमं प्रलयदशामाहेत्यर्थः । सर्वदेवतातादात्म्योपपत्त्यर्थमिति - परमकारणत्वंवक्त्तुम् इत्यनेनान्वयः । सर्वथा साम्यव्यावृत्त्यर्थमिति - कतिपयवस्तुविषयत्वेन साम्यव्यावृत्त्यर्थमित्यर्थः । उक्त्तं हि प्रकृत्यधिकरणे सुषुप्तावे- कदेशलयः । अत्र तु सर्वलय इत्यर्थ इति । सम्प्राप्ते सर्गकाल इति - “क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ’ इति श्रीविष्णुपुराणश्लोकः । लक्षणहेत्वोरिति - आर्जयन् वसतीतिवद्धेतौ शतृप्रत्यय इत्यर्थः । आसीदिदं तमोभूतमित्यस्यार्थमाह- पूर्वमविभक्त्ततमश्शरीरक इति । व्यञ्जयन्नित्यस्यार्थमाह - व्यष्टिसृष्टीति । महाभूतादिवृत्तौजा इत्यस्यार्थमाह - स्वसङ्कल्पादिति । तमोनुदशब्दार्थमाह - - विभक्त्ततमश्शरीरक इति । अत्र भूत्वेत्यध्याहार्यम्, अत्र तमोनुद इत्यत्र अकारादनुपपदात् कर्मोपपदो भवति, विप्रतिषेधेनेति इगुपदइतिकस्य अणाबाधाद्रूपासिद्धिश्शङ्कनीया, मूलविभुजातित्वात्तत्सिद्धेः । ननु तमोनुद इति क्विबन्तं पञ्चम्यन्तपदम्, ततश्च आसीदिदं तमोभूतमिति पूर्वश्लोके प्रतिपादनात्, यदातमस्तदिति मन्त्रप्रतिपाद्यशिवात्तमोधिष्ठातुः अव्यक्त्तः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न; तथापि यस्य तमशशरीरमित्यादिसुबालोपनिषद्वाक्यपर्यालोचनया भगवत एव तमश्शरीरकत्वेन देवतान्तरस्याप्रतीतेः परस्येष्टासिद्धेः । अव्यक्त्त इत्यस्यार्थमाह - अव्यक्त्तावस्थेति । नन्वव्यक्त्तशब्दस्य नपुंसकलिङ्गस्य त्रिगुणे रूढत्वेपि पुल्लिङ्गाव्यक्त्तशब्दस्य तदुपस्थापकत्वे किं प्रमाणम्? नहि पङ्कजो वर्तत इत्युक्त्ते अर्श आद्यजन्ततया पद्मवतः प्रतीतिरस्ति, तं व्यञ्जयन्निति व्यक्त्तिवाचिपदसमभिव्याहारादव्यक्त्तपदेपि व्यक्तयभावरूपार्थस्यैवोन्मेषात् । किञ्च प्रादुरासीदित्यस्य तमोनुद इति सन्निहितेनान्वयसम्भवे व्यवहितेनाव्यक्त्त इत्येनेनान्वयस्य क्लिष्टत्वाच्च; ततश्च प्रलयकाले रूपादिहीनतया अव्यक्त्तः परमात्मा विभक्त्ततमश्शरीरकः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न; तस्याप्यर्थस्येष्टत्वेनादोषात् । अतीन्द्रियग्राह्येत्यत्रातिशब्दस्येन्द्रियेणेन्द्रियग्राहेण वा समाससम्भवादुभ यथाप्याचष्टे - इन्द्रियमतीत्येत्यादिना । इन्द्रियमतीत्य वर्तमानेनेति - शास्त्रस्येन्द्रियातीतत्वं नाम इन्द्रियक्राह्यक्रहणशक्त्ति मत्त्वमिति भावः । शाब्दप्राधान्यं चेति - “तस्मिन् जज्ञे स्वयं ब्रह्मा’ इत्यत्र ब्रह्मशब्दस्य चतुर्मुखशरीरकभगवत्परत्वस्य तैरनभ्युपगमादिति भावः । अज एको नित्य इतीति - “अज एको नित्यो यस्य पृथिवी शरीरम्’ इत्यादि वाक्य इत्यर्थः । अज इति निर्विकारत्वं “यस्याक्षरं शरीरम् यस्य मृत्युश्शरीरम्’ इति कारणत्वमन्तर्यामित्वं चोक्तमिति भावः । विशब्दाथर्भूतविशेषं दर्शयति - जीवबुद्धयव्यवधानेनेति । अण्डान्तर्वर्तिपदार्थसृष्टौ तु हिरण्यगर्भादिजीवानां सिसृक्षारूपां बुद्धिमुत्पाद्य तद्द्वारा सृजतीति भावः । भूतशब्द सिद्धपर इति - भूमिशब्दो भावप्रधानः, ततश्चातिक्रान्ता सकलेतरप्रमाणसम्भावनाभूमिर्येन सोऽतिक्रान्तप्रत्यक्षादिसकलेतरप्रमाणसम्भावनाभूमिः, प्रत्यक्षादिप्रमाणानामविषय इति यावत् । स चासौ भूतार्थश्चेति समास इति भावः ॥is not available.