35 सर्वव्याख्यानाधिकरणम्

एतेन सर्वे व्याख्याताव्याख्याताः ॥ 29 ॥ त्रय एव यज्वान इति - एवकारः कोशेषु दृश्यते, तस्य नतीव प्रयोजनं पश्यामः । सद्ब्रह्माक्षरशब्दैरिति - अन्विता इत्यादिशेषः पूरणीयः । द्वात्रिंशदधिकरणन्यायनिर्णीतत्वादिति - अतीतेषु चतुस्त्रिंशत्यधिकरणेषु सामान्यतो ब्रह्मविचारकर्तव्यतापरस्याद्याधिक रणस्यापशूद्रधिकरणस्य च देवताविशेषनिर्णयानुपयोगमभिप्रेत्य द्वात्रिंशत्त्वोक्तिः, अत एव जन्माद्यस्य यत इत्यादीनामधिकरणानामिति पृथक्कृत्य वक्ष्यति; अपशूद्राधिकरणं च नोदाहरिष्यति । नचैवं भगवच्छब्दतुल्यत्वं प्रथमसूत्रे उपपादितमिति वक्ष्यमाणग्रन्थविरोध इति वाच्यम्; तत्रापि भगवत्परत्वसम्भवाभिप्रायेण तथोक्तमिति द्रष्टव्यम् । यद्वा तृतीयं तु सामान्येनोपयुक्त्तमितिवक्ष्यमाणत्वात् तृतीयाधिकरणबहिर्भावेन द्वात्रिंशत्त्वं द्रष्टव्यम् । नारायणातिरिक्त्तेति - पाशुपतमते “उपादानं तु भगवान्निमित्तं तु महेश्वरः’ इति नारायणातिरिक्त्तनिमित्तप्रतिपादनात्तन्मतनिरास इति भावः । हिरण्यमयत्वविशेषणेन चेति - आदित्यवर्णमित्यस्य प्रत्यभिज्ञानादिति भावः । परमपुरुषविषयतया समर्थनपरत्वमिति - आकाशाधिकरणे आकाशस्य भूतेभ्यो ज्यायानिति ज्यायस्त्वकीर्तनेन “ततो ज्याया’नित्युक्त्तपुरुषसूक्त्तोक्तार्थस्य प्राणाधिकरणे तस्योक्तार्थन्यायातिदेशरूपतया आकाशशब्दोक्ताथर्परत्वस्य ज्योतिरधिकरणे ज्योतिश्शब्दस्य पादोऽस्य विश्वाभूतानि’ इत्यनेन पुरुषसूक्त्तार्थपरत्वस्य प्राणाधिकरणे इर्न्दप्राणयोः मामुपाख’ इति हिततमोपासनकर्मत्वप्रतीतेः “तमेवं विद्वानमृत इह भवति नान्यः पन्था’ इतिपुरुषसूक्त्तार्थपरत्वस्य च स्वरसतः प्रतीयमानत्वात्तत्परत्वसमर्थनं स्फुटमिति भावः । अत्रेन्द्रशब्दो मामितिशब्दपरो द्रष्टव्यः । इदञ्च पूर्वमेव प्रदर्शितम्, “हृदा मनीषा मनासाभिक्लृप्तः’ इति, अस्य वाक्यस्य तैत्तिरीयगतस्य पुरुषविषयत्वादिति भावः । अमृतत्वस्य परमपुरुषत्वसाधकतामुपपादयति- तस्मिन्नयमिति वाक्यप्रत्यभिज्ञानादिति । मुण्डोपनिषदः कार्त्स्नेनेति - येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् “दिव्यो ह्यमूर्तः पुरुषः कर्तारमीशं पुरुषम्’इति पुरुषशब्दाभ्यासदर्शनादिति भावः । तत्र श्रुतरूपविशेषान्वयादेवेति - मुण्डकोपनिषच्छ्रुतेत्यर्थः । इदञ्च स्मर्यमाणमनुमानं स्यादित्यत्र स्पष्टम् । अन्तर्यामिविद्ानन्तरवाक्यप्रतिपाद्यत्वाच्चेति - यद्यप्यनतर्यामिब्राह्मणमुद्दालककर्तृकस्यान्तर्यामिप्रश्नस्योत्तरम्, गार्गिब्राह्मणं तु गार्गिकर्तृकाकाशाधारप्रश्नस्योत्तरमिति नानयोरेकविषयत्वनियमः । अथापि कियदपि नियामकं सम्भवन्न परित्याज्यमित्यभ्युच्चययुक्त्तितयोपन्यस्तमिति द्रष्टव्यम् । आकाशो ह वै नामेतिवाक्यमिति - सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा’ इति पुरुषसूक्त्ते श्रवणात्तत्प्रत्यभिज्ञापकमिति भावः । यस्मात्परमितिवाक्यस्याधीतत्वादिति - तत्र “तेनेदं पूर्णं पुरुषेण सर्वमिति पुरुषशब्दश्रवणादिति भावः । बृहदारण्यक इति - “ब्रह्म वा इदमग्र आसीत्तदेकं सन्न व्यभवत्तच्छ्रेयोरूपमत्यसृजत क्षत्रम् । यान्येतानि देवक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः इति तस्मात्क्षत्रात्परं नास्ति तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र षव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यदपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिं य एनं हिनस्ति स्वां योनिमृच्छति स पापीयान्भवति यथाश्रेयांसं हित्वा स नैव व्वभवत्स विश्वमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवोरुद्रा आदित्या विश्वेदेवा मरुत सति स नैवं व्यभवत्स शौद्रं वर्णमसृजत पूषणं इश्वं वै पूषा इयं हीदं सर्वं पुष्यति यदिदं किञ्च स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यतो बलीयान्बलीयांसमाशंराते यथा धर्मेण राज्ञा यं यो वै स धर्मस्सत्यं वैतत्तस्मात्सत्यं वदन्तमाहुर्धर्मं वदन्तीति । धर्मं वा वदन्तं सत्यं वदतीत्येव तद्धैव तदुभयं भवति तदेतद्ब्रह्म क्षत्रं विट्छूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यश्शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्तो ब्राह्मणो मनुष्येषु एताभ्यां हि रूपाभ्यां ब्रह्माभवत्’ न व्यभवत् न विभूतवत्कर्मणे नालमासीदित्यर्थः । श्रेयोरूपम् प्रशस्तरूपम् अत्यसृजत- अतिशयेनासृजत् देवताक्षत्राणि देवेषु क्षत्राणि, राजसूयेऽभिषिक्त्तमासाद्यस्थितम् राजानमधस्तात्स्थितमृत्विक् हे राजन् । त्वं राजन् ब्रह्मासीदिति ब्रूयादिति उपासनं विहितं तद्यश आत्मीयं यशो दधाति, परमतां राजसूयाभिषेकेणोत्कृष्टतां गच्छति, अन्ततः कर्मसमाप्तौ परोहितमेवाश्रयतीत्यर्थः । यस्तु क्षत्रियः स्वकारणभूतां ब्रह्मयोनिं हिनस्ति, स स्वां योनिं नाशयति, इयं पृथिवी क्षत्रस्य क्षत्रं क्षत्रियस्यापि नियन्त्रीत्यर्थः । अभलीयान् दुर्बलः, बलीयांसमात्मनो बलवत्तरमपि धर्मेण बलेन जेतुमाशंसते, यथा राज्ञा लोके बलवत्तरेणापि कश्चिद्दरिद्रो धर्मेण विजिगीषते, तस्मात्सिद्धं धर्मस्य बलवत्वम् । तदधिष्ठितब्राह्मणजातिपर इति - अग्निदेवताधिष्ठितब्राह्मणजातिपर इत्यर्थः । प्रथमपक्षे ब्राह्मणजातिपरत्वसत्त्वेपि अग्निदेवताधिष्ठितब्राह्मणजातिपरत्वाभावात्तत्पक्षादस्य पक्षस्य विशेष इति द्रष्टव्यम् । क्षत्रियसृष्टिश्रवणादिति - यदि परं ब्रह्मैव प्रकान्तं स्यात् तदा सर्ववर्णसृष्टिरपि कथ्येत, न क्षत्रप्रमुखसृष्टिरिति भावः । ब्रह्मशब्दो ब्राह्मणपर इत्यन्तेन ब्राह्मणपरत्वं प्रसाध्य इतरपक्षद्वयमुपक्षिपति - तदभिमान्यग्निपर इत्यादिना । उपक्रमस्थब्रह्मशब्देति - चातुर्वर्ण्यनिगमनस्थब्रह्मशब्दस्य ब्राह्मणवर्णपरत्वस्य सम्प्रतिपन्नत्वादिति भावः । अग्निसृष्टत्वायोगश्चेति - इदमुपलक्षणम् । ब्राह्मणजातिसृष्टत्वयोगश्चेत्यपि द्रष्टव्यम् । इन्द्रादिस्रष्टृत्व कल्पभेदनाग्नेस्स्यादित्यत्राह- अस्याः श्रुतेरिति । अग्निब्राह्मणान्यत्वञ्च प्रतीयत इति - ननु तच्छब्दपरामृष्टब्रह्मणः अग्निनेति व्यधिकरणनिर्दिष्टाग्नेरन्यत्वं प्रतीयतां नाम, ब्राह्मणानन्यत्वं कथं प्रतीयतामिति चेन्न, मृत्पिण्डो घटो भवतीतिवत् तद्ब्राह्मणो भवतीत्युक्त्ते तच्छब्दितस्य ब्राह्मण्यात्पूर्वभावित्वप्रतीतेरनुभवसिद्धत्वादिति भावः । देवमनुष्यविभागेनेति - देवरूपो मनुष्यरूपश्च ब्राह्मणोऽस्तीत्यर्थः । परमात्मसृष्टतया प्रागुक्त्त इति - “नैवेह किञ्चनाग्र आसी’दित्यस्मिन्ब्राह्मण इत्यर्थः । क्षत्रादिविभागवत्तदभिमानीति - क्षत्रादिभेदभिन्नतत्तज्जात्यभिमानीन्द्रादिसृष्टिरित्यर्थः । ब्राह्मणाभिमान्यग्निसृष्टेरिति - तस्य श्रान्तस्य तप्तस्य तेजो निरवर्त्तते पूर्वब्राह्मण इति भावः । ब्राह्मणत्वादिविभाग उक्त्तस्यादिति । ततश्च ब्राह्मणवाचिनो ब्रह्मशब्दस्य लक्षणा न समाश्रयणीयेति भावः ।तत्परं ब्रह्म मनुष्येष्विति - तदग्निनैव देवेष्वित्यतःपरं ब्रह्मपदतच्छब्दोऽनुकृष्यते, अग्निनैव देवेषु ब्रह्माभवदित्यतो ब्रह्माभवदित्यप्यनुकृष्यत इति भावः । नन्वग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येष्वित्यत्र देवेषु देवानां मध्ये ब्रह्माग्निनैवागमत् विकारान्तरमप्राप्यैवाग्निस्वरूपयुक्त्तमेवाभवत्, मनुष्याणां मध्ये च विकारमप्प्राप्यैव ब्रह्मस्वरूपमेव ब्रह्म स्थितम् अग्नौ ब्राह्मणजातौ च ब्रह्माविकृतमित्यर्थः । क्षत्रियादिषु तु क्षत्रियादिविकारनिमित्तकं क्षत्रियत्वं ब्रह्मणः, तस्माद्यत अग्निब्राह्मणवविकृतब्रह्मस्वरूपौ तस्माल्लोकमिच्छन्तो अग्नौ ब्राह्मणे च कुर्वन्तीत्येवं परोक्तरीतिः कुतो नाश्रीयत इत्याशङ्कयाह - श्रुतपदानुषङ्गेणेति । तत्प्रशंसाया विवक्षितत्वादिति - ननु प्रकरणस्य चातुर्वर्ण्यतदभिमतानिसृष्टिसाधा रण्येऽग्निब्राह्मणयोः प्रशंसायां किं बीजम्? नह्यस्मिन्प्रकरणेऽग्निब्राह्मणयोरिन्द्रक्षत्रादिव्यावृत्ततया असाधारण्येनोद्देश्य विधेयकोट्योरनुप्रवेशोस्ति, येन विशिष्य तयोः प्रशंसा विवक्षिता स्यात्, अग्निब्राह्मणप्रशंसामुखेन चातुर्वण्यर्तदभिमानिप्रशंसाया विवक्षितत्वमित्यत्र तात्पर्यात् । मुख्यार्थासम्भव इति - अग्निनैव देवेषु ब्रह्माभवदित्यत्र मुख्यार्थसम्भवात् ब्राह्मणजातिरूपमुख्यार्थस्वीकारेपि ब्रह्मण इदमग्र आसीदित्यत्र मुख्यार्तसम्भवस्थलेपि ब्राह्मणजातिरूपामुख्यार्थस्वीकारस्यायुक्त्तत्वादिति भावः । आत्मैवेति - “आत्मैवासीत्पुरुषविदस्सोन्वीक्ष्य नान्यदात्मनोऽपश्यत्सोहमस्मीत्यग्रे व्याहरत्ततोऽहन्नामाभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्तवा अथान्यन्नाम प्रब्रते यदस्य भवति स यत्पुर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन ओषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद सोबिभेत्तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्न्यास्ति कस्मान्नु बिभेमीति तत एवास्य भयं विहाय कस्माध्द्यभेष्यत् द्वितीयादौ भयं भवति स वै नैव रे मे तस्मादेकाकी न रमेत स द्वितीयमैच्छत्’ इत्यादि । एतर्ह्यामन्त्रित इति । अस्मिन्नपि काले आहूत इत्यर्थः । स यत्पूर्व इति- यत् यस्मात्काणादस्मात्सर्वस्मात्पूर्वस्सन् सर्वान्पाप्मनोऽटहत्तस्मात्पुरुष इत्यर्थः । ओषति ह वै स तमित्यादि- य एवं वेद सः स्वस्मात्पूर्वं प्रजापतित्वप्रेप्सुं दहतीत्यर्थः । लोके हि उत्कृष्टसाधनशाली तादृशसाधनशून्यं दहन्निव दृश्यते । नैवेह किञ्चतेत्यादि- “आसीन्मृत्युनेवेदमामृतमासीदशनाया अशनायया हि मृत्युस्सतं मनोऽकुरुत आत्मन्वी स्यामिति सोऽर्चन्नचरत्तस्यर्चत आपो जायन्त अर्चते वैमेकमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद आपो वा अर्कः यद्यदपां रस आसीत्तत्समहन्यत सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य आन्तस्य तेजो रसो निरवर्तताग्निः’ इति हि श्रुतिः । आत्मन्वी स्यामिति- मनस्वीस्यामिति सङ्कल्प्य मनोऽकरोदित्यर्थः । अर्चते वैमे अशनाया विशिष्टत्वाञ्चेति । यद्यपि मृत्युनानशनाययेतिसामानाधिकरण्यमेव प्रतीयते, नत्वशनायाविशिष्टत्वम्, तथापि मृत्योरिहाशनायात्वासम्भवात् अशनायाशब्देन अशनायावान् लक्ष्य इति भावः । अर्चनादिकर्मकर्तृत्वमिति - अचर्नादिक्रियाकर्तृत्वमित्यर्थः । सुबालोपनिषदीति - सुबालोपनिषदुपक्रमे “तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्नसदसदिति तस्मात्तमस्सञ्जायते तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुर्वायोरग्निरग्नेरापोऽब्भ्यः पृथिवी तदण्डं समभवत्तत्सं वत्सरमात्रमुषित्वा द्विधा करोत् । अधस्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्सहस्रबाहुरिति सोग्ने भूतानां मृत्युमसृजत्त्र्यक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुं तस्य ब्रह्मा बिभीते’ इत्यादि श्रुतिः । मृत्यो परे देव एकीभावः श्रूयत इति - मृत्योरिति पञ्चमी परे देवे मुक्त्तस्य एकीभावः श्रूयत इत्यर्थः । कोशं भिनत्तीत्यादि - प्रकरणस्य मुच्यमानविषयत्वात्, अत्र मृत्योः परत्वं नाम मृत्युं प्रति कारणत्वं तस्य च देवशब्दितत्वं श्रूयत इति भावः । युक्तयन्तरमाह- विभागापादानस्यैवेति । अस्यामेवोपनिषदि अक्षरं तमसि लीयते तम एकी भवति परस्मिन्निति परस्य तमोविभागस्थानत्वप्रतिपादनादविभागस्थानस्यैव तमस्सञ्जायत इति विभागपादानत्वं युक्त्तमिति भावः । मुक्त्तप्राप्यत्वादीति - अक्षरं भिनत्तीत्यादेर्मुक्त्तगतिप्रकरणत्वान्मुक्त्तप्राप्यत्वस्य च सोध्वनः पारमाप्नोति तद्विष्णोः परं पदम्’ इत्यादिषु नारायणस्यैवेति स्थितत्वादिति भावः । केवलाच्चेतनादित्यादि न सन्नासच्छबनदाभ्यां केवलचेतनाचेतनवैलक्षण्यं विवक्षितम् न सदसदितिशब्देन मिश्रवैलक्षण्यं विवक्षितम् । व्यष्टिभ्य इत्येतन्मिश्रादित्येतस्य व्याख्यानमिति द्रष्टव्यम् । तदुक्त्तमृषिणेति - ऋषिणावेदेनेत्यर्थः । जगतस्तस्थुषश्चेति - जङ्गमस्य स्थावरस्य चेत्यर्थः । परमकारणव्याप्तत्वादिति - इदमुपलक्षणम् । स्थावरजङ्गमान्तर्यामित्वस्यापि कारणत्वव्याप्तत्वादिति द्रष्टव्यम् । आदित्यमभिजायत इति - अनेनादित्यलोकप्राप्तिप्रतिपादनेनार्चिरादिगतिः प्रत्यभिज्ञायत इति भावः । प्रत्यगात्मा विशोध्यत इति - मोक्षसाधनीभूतपरमात्मोपासनाङ्गभूतप्रत्यगर्थानुसन्धानार्थमितरव्यावृर्त्त्यर्थं प्रत्यगात्मस्वरूपं प्रतिपाद्यत इत्यर्थः । नन्वस्यामेव ऋचि “स दधार पृथिवीं द्यामुतेमाम्’ इति पृथिव्यादिधारकत्वं व्यावर्तकमस्त्वित्याशङ्कयाह - पृथिव्यादिधारकत्वं त्विति । श्रुतौ दधारेतिदधारेत्यर्थः। धृजादीनां “दीर्धोभ्यासस्ये’ति अभ्यासस्य छान्दसो दीर्घः । नन्वस्मिन्नेवाष्टर्चे “यस्य छायामृतं मृत्यु’रिति अमृतमृत्युशब्दितयोर्बन्धमोक्षयोर्नियाम्यत्वश्रवणात् परमात्मपरत्वमित्याशङ्कयाह - अमृतमृत्युशब्दौ चेति । यमन्तस्समुद्र इति - अन्तस्समुद्रे कवयो वयन्ति- अवगच्छतीत्यर्थः। तपश्शब्देनेति “ऋतञ्च सत्यं चाभीद्धात्तपसो जायते’ति तपश्शब्देनेत्यर्थः । तपश्शब्दश्च “ये चेमेरण्ये श्रद्धां तपइत्युपा सते’ इत्यादाविव परमात्मपर इति भावः । उपक्रमस्थधातृशब्दैकरूप्यस्येति - “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ इतिपूर्ववाक्यश्रुतधातृशब्दैकरूप्यस्यैव धातुः प्रसादिति धातृशब्देप्याश्रयणीयत्वादित्यर्थः । उत्तरे चानुवाक इति - “स ब्रह्मा स शिव’ इतिनारायणानुवाके प्रतिपादनादिति भावः । ब्रह्मकार्यवर्गप्रतिपादनप्रकरण इति - “सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषस्समिधस्सप्त जिह्वाः। सप्तमे लोका येपु चरन्ति प्राणाः गुहाशयां निहितास्सप्त सप्त । अतस्समुद्रा गिरयश्च सर्वे तस्मात्यन्दन्ते सिन्धवस्सर्वरूपाः । अतश्च विश्वा ओषधयो रसाश्च येनैषभूतस्तिष्ठत्यन्तरात्मा । ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृद्ध्णां स्वधितिर्वनानां सोमः पवित्रमत्येति रेफन्’ इति हि प्रकरणम् । तस्मात्तुल्यबलेति - ननु तुद्रमहेश्वरश्रुत्योरुपक्रमस्थेन धातृपदेन तुल्यबलत्वं पूर्वतन्त्रे हि “विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सवर्मवत्वम्’ इत्यधिकरणे कस्मिंश्चित् काम्येष्टिविशेषे ऐन्द्राग्न एकादशकपालः प्राजापत्यं दधि मधु घृतमाप इति पञ्चानां हविषामाद्ययोरैन्द्राग्नसान्नायविकारत्वेनामावास्याविध्यन्तप्राप्तौ उपांशुयाजविकाराणां मधूदकधृतानां चरमश्रुतत्वेपि भूयस्त्वात्तदनुग्रहाय पौर्णमासविध्यन्त इति निर्णीतम् । ततश्चोपसंहारस्थानेकप्रमाणापेक्षयोपक्रमस्थमेकं दुर्बलम् । अन्तर उपपत्तेरित्यधिकरणे तथा निर्णीतं चेति चेन्न; विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्धर्मत्वमिति पूर्वपक्षं कृत्वा मुख्यं वा पूर्वचोदनाल्लोकवदिति सिद्धान्त्यते, अतश्च द्वयोरपि सूत्रयोरैकाधिकरण्यमिति एकदेशिमतानुसारेणेदमिति द्रष्टव्यम् । किञ्चात्रापि “धाता यथापूर्वमकल्पयत् धातुः प्रसादा’दिति धातृशब्दाभ्याससत्त्वाच्च भूयोऽल्पत्वरूपवैषम्यं नास्तीति द्रष्टव्यम् । अनुवादस्यान्यसापेक्षत्वादिति । ननु यो वेदानामित्येतस्य कथमनुवादत्वशङ्का? नहि विश्वाधिकस्य महर्षेः रुद्रस्य हिरण्यगर्भजनकत्वरूपः प्रतीयमानोऽर्थो मानान्तरप्राप्तेः, येनेदं वाक्यमनुवादि स्यात्, असत्यां च मानान्तरप्राप्तौ यदुपबन्धसहस्रेणापि अनुवादकत्वस्य कल्पयितुमशक्यत्वात् । न च यदुपबन्धबलाद्रुपदस्य नारायणो लक्षणमाश्रित्य नारायणाद्ब्रह्मा जायत इतिवाक्यस्य पुरोवादित्वमङ्गीकृत्यास्य वाक्यस्यानुवादित्वं परिकल्प्यत इति वाच्यम्; तथासति यदाग्नेय इत्यादिवाक्येष्वपि यदुपबन्धबलेन सौर्यचरुपरत्वाश्रयणेनानुवादित्वप्रसङ्गादिति चेन्न; द्वयोर्हिरण्यगर्भकारणत्वासम्भवात् श्रुतिविशेषश्रुतयोरुद्रनारायणपदयोरन्यतरलक्षणावश्यम्भावात् यदुपबन्धानुग्रहाय रुद्रपदस्यैव लक्षणाश्रियते सम्भवान्नियामकस्य त्यागायोगादिति भावः । ननु “अकारेणोच्यते विष्णुः’ इत्याकारवाच्यस्य विष्णुत्वप्रतिपादकवाक्यमेकम् “यः परस्य महेन्वरः’ इत्याकारवाच्यस्य रुद्रत्वप्रतिपादकमपरम्, कोऽनयोविर्शेषः? चैत्रो मित्रायाः प्रतिरित्येकं वाक्यम्, यो मित्रायाः पतिस्स मैत्र इत्यपरम्, नह्यनयोरुपजीव्योपजीवकभावोऽनुवाद्यनुदकभावो वा बलाबलप्रयोजकः, कश्चिन्मृग्यमाणोपि वीक्ष्यत इत्यस्वरसादाह - नारायणस्याकारवाच्यतासिद्धेश्चेति । नारायणस्याकारवाच्यत्वस्य अकारेणाखिलाधारः परमात्माभिधीयते । समस्तशब्दमूलत्वादकारस्य स्वभावतः । समस्तवाच्यमूलत्वाद्ब्रह्मणोपि स्वभावतः । वाच्यवाचकसम्बन्धस्तयोरर्थात्प्रतीयते । “अ निषेधे पुमान्विष्णौ अकारो विष्णुवाचकः अकारोणोच्यते विष्णुः अ इति ब्रह्म’ अ इति भगवतो नारायणस्य प्रथमाभिधानमभिदधता’ इत्यादिबहुप्रमाणसम्प्रतिपन्नतया तदनुरोधेनैवैतद्वाक्यार्थस्य वर्णनीयतया यः पर इत्यनेन नारायणमेवानूद्य महेश्वरशब्दे रूढिं परित्यज्य योगार्थभूतं महत्त्वविशिष्टमीशितृत्वं विधीयत इति भावः । अनुवादरूपतयेति- “यो देवानां प्रभवश्चोद्भवश्च विन्वाधिको रुद्रो महर्षिःहिरण्यगर्भं जनयामास पूर्वं स नो देवश्शुभया संयुनक्त्त’ इति यच्छब्दयुक्त्ततया श्रवणादनुवादरूपत्वमिति भावः । अविरोधश्च वस्त्वैक्येनेति - पिण्डरूपमृज्जन्यस्य घटस्य कपालत्वावस्थापन्नमृज्जनकत्वदर्शनाद्वस्त्वैक्यमविरोधसम्पादकमिति भावः । अवस्थाद्वयपौर्वापर्येति - मृज्जन्यघटस्य तज्जनकत्वदर्शनेपि यदवस्थापन्नमृज्जन्यत्वं घटस्य तदवस्थापन्नभृज्जनकत्वं न दृष्टमिति भावः । आकाशप्राणादिष्वपीति - “सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते’ सर्वाणि ह वा इमानि भूतानि प्राणमवाभिसंविशन्ति’ इत्यादिवाक्यानामपि कल्पविशेषप्रवृत्तवृत्तान्तविषयतया अविरोधसम्भवात्तद्वाक्यानां परमात्मपरत्वं न कल्पयेत इति भावः ।

ननु

“त्रयस्ते कारणात्मानो
जातास्साक्षान्महेश्वरात् ।
ब्रह्मा सर्गे हरिस्त्राणे
रुद्रस्संहरणे पुनः ।
तथाप्य् अन्योन्य-मात्सर्याद्
अन्योन्यातिशयार्थिनः ।
तपसा तोषयित्वा तं
पितरं परमेश्वरम् ।
ब्रह्मनारायणौ पूर्वं
रुद्रः कल्पान्तरेऽसृजत् ।
कल्पान्तरे पुनर्ब्रह्मा
रुद्रविष्णू जगन्मयः ।
विष्णुश्च भगवांस् तद्वद्
ब्रह्माणम् असृजत् पुनः ।
नारायणं पुनर्ब्रह्मा
ब्रह्माणं च पुनर्भवः ।

एवं कल्पेषु कल्पेषु
ब्रह्मविष्णुमहेश्वराः ।
परस्परस्माज् जायन्ते
परस्-पर-जयैषिणः

तत्-तत्-कल्पान्त-वृत्तान्तम्
अधिकृत्य महर्षिभिः ।
प्रभावः कथ्यते तेषां
परस्पर-समुद्भवात् ।
क्वचिद् ब्रह्मा क्वचिद् रुद्रः
क्वचिद् विष्णुः प्रशस्यते

नानेन तेषामाधिक्यं
न्यूनत्वं वा कथञ्चन ।
तत्तत्कल्पान्त-वृत्तान्तम्
अधिकृत्य महर्षिभिः ।

तानि तानि प्रणीतानि
विद्वांस् तत्र न मुह्यति

अयं परस् त्वयं नेति
संरम्भाभिनिवेशिनः
यातुधाना भवन्त्य् एव
पिशाचाश् च न संशयः ।

यो ब्रह्म-विष्णु-रुद्राणां
भेदम् उत्तम-भावतः ।
साधयेद् उदर-व्याधि-
युक्तो भवति मानवः । +++(4)+++

निर्दिष्टः परमेशानो
महेशो नीललोहितः ।
पुत्रो भूत्वानुगृह्णाति
ब्रह्माणं ब्रह्मणोऽनुजः ।

अहं च भवतो वक्त्रात्
कल्पान्ते घोर-रूप-धृक् ।
शूलपाणिर् भविष्यामि
क्रोध-जस् तव पुत्रक ।
अंश-भूतो महा-देवः
सर्व-देव–नमस्-कृतः ।

अर्धनारीश्वरो भूत्वा
प्रादुर् आसीत् कृपानिधिः ।
तस्य हृत्-कमल-स्थस्य
नियोगाद् अंशजो विभोः ।
ललाटं तस्य निर्भिद्य
प्रादुर् आसीत् प्रभोर् मुखात्'

इति कौर्म–सूत-संहिता–लैङ्गैः स्मृति-वचनैः
कल्प-भेदस्यावतार-रूपत्वस्य च प्रतिपादनात्

“न चास्य कश्चिज् जनिता न चाधिपः'

इति श्वेताश्वेतरे रुद्रस्य जनयितृ-भाव-प्रतिपादनाच् च
तथाभ्युगन्तव्यम्

इत्य् अ-स्वरसाद् आह - वस्त्वैक्य-कल्प-भेदावतारेति ।
न चैवम् उदाहृत-वचनानुसार(स्) त्रिमूर्ति-साम्यैक्य-मेक्षोन्मज्जन-प्रसङ्ग इति वाच्यम्;
तामस–पुराणेषु
अपचरद्-अवस्थतया प्रक्षेप-शङ्कास्पदेषु एवं श्रवणे ऽप्य्
अतादृशेषु तथा श्रवणाभावात्
श्वेताश्वतरस्य शिवपरत्वस्यासम्प्रतिपन्नत्वाच् चेति द्रष्टव्यम् ।
रुद्रशब्दस्यैव प्रसिध्यानादर इति - रुद्रहिरण्यगर्भशब्दयोर्मध्ये रुद्रशब्दस्य मुख्यत्वादसञ्जातविरोधित्वान्न तत्र मुख्यार्थत्यागो युक्त्तः । किन्तु जघन्यविरण्यगर्भशब्दस्यैव स्कन्दपरत्वमितिवाच्यम्; रुद्रशब्दस्य “रुद्रो बहुशिरा बभ्रुः’ इत्यादिषु भगवत्परतया प्रयोगद्धिरण्यगर्भशब्दस्य स्कन्दे क्वापि प्रयोगादर्शनात् ततोपि मुख्यानां विश्वाधिकादिशब्दानां बहूनां सत्त्वाच्च तदनुग्रहाय रुद्रशब्दस्यैव भगवत्परत्वं युक्त्तमिति भावः । उदगादितिब्राह्मणानुरोधेनेति - शैलालिब्राह्मण इति । शैलालिब्राह्मणं समन्वयसूत्रे उदाहृतम् । “अस्य देवस्य मीदुष’ इति । अस्य विष्णोः, देवस्य दीप्तस्य एषस्य एषणीयस्य सर्वैः स्वामित्वेनापेक्षणीयस्य, मीदुषः- सेतुं वा वशाखेति निरुक्त्तभाष्यम्, शाखा यथा तथा विष्णोस्तरुस्थानीयस्य शाखास्थानीयो रुद्रः, प्रभुते- यज्ञे रुद्रकर्तृके, हविर्भिः रुद्रियं महित्वं विदधे लब्धवानित्यर्थः । महापुरुषं वार्चयेदितीति - यद्यपि वेदाहमेतं पुरुषं महान्त’मित्यत्र महापुरुषशब्दो न प्रयुक्त्तः, तथापि महच्छब्दसमानाधिकरणपुरुषशब्दोसाधारण इति भावः । ननु यथा “नारायणाद्ब्रह्माऽजायत’ इति श्रुत्या ब्रह्मजनकत्वस्य नारायणचतह्नत्वनिश्चयः तद्वदिहापि रुद्रो महषिर्र्हिरण्यगर्भं जनयामास’ इति श्रुत्या हिरण्यगर्भजनकत्वस्य रुद्रदिह्नत्वनिश्चयोऽस्त्वित्याशङ्कय प्रतिबन्धकसदसद्भावाभ्यां वैषम्यमाह - नचानयैव श्रुत्येति । ननु नारायणाद्ब्रह्माजायत इत्यत्रापि ईदृशोन्योन्याश्रयस्सृवचः, नच प्रतिबन्धकसदसद्भावाभ्यां विशेष इत्युक्त्त इतिवाच्यम्; तर्हि स एव दोषः, न त्वन्योन्याश्रयः । न ह्यस्य वाक्यस्य रुद्रपरत्वनिश्चयोः हिरण्यगर्भजनकत्वस्य रुद्रलिङ्गत्वनिश्चयाधीनः, रुद्राभिधानश्रुत्यैव तत्परत्वस्य निश्चेतुं शक्यत्वात्, इतरथा नारायणाद्ब्रह्माजायत इत्यत्राप्यगतेरित्यस्वरसादाह - अनुवादरूपत्वाच्चेति । देवात्मप्रेरित्रीशब्रह्मशब्दैरिति - उत्तरत्र प्रेरितृशब्दप्रत्यभिज्ञाप्यश्रुतिर्न दृश्यते, तथाप्यन्तरोमययत इत्यादिसौबालादिवाक्यं द्रष्टव्यम् । तृतीयेचेति - खण्ड इति शेषः । ईशानपदं त्विति - “सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत्’ इत्यत्र श्रुमीशानपदमित्यर्थः । मायाप्रेरकत्वपर इति - यौगिकार्थपर इत्यर्थः । मायाप्रेरके प्रयुज्यमानो महेश्वरशब्दो यौगिक एव नारायणस्यैव सुबालोपनिषत्प्रतिपाद्यतमोधिष्ठातृत्वेन श्रवणादिति भावः । ईशानशब्देनोच्यत इति - येनेदं सञ्चविचैति सर्वं तमीशानं वरदं देवमीड्यम्’ इति हि श्रुतिः । तमीशानमित्यत्रेशानप्रतिसम्बन्ध्याकाङ्क्षायां यस्मिन्निदमिति पूर्ववाक्यनिर्दिष्टस्यैव सर्वस्य प्रतिसम्बन्धितया ग्रहणमिति भावः । तत्रेशानो भूतभव्यस्येति - यद्यपि श्वेताश्वेतरे “अङ्गुष्ठमात्रः पुरुषोन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाधिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति’ इत्येव पाठः, न तत्रेशानशब्दोस्ति तथा कठवल्लयामेतद्वाक्यप्रत्यभिज्ञाप्याङ्गुष्ठमात्रवाक्ये प्रतिसम्बन्ध्युपादानेन ईशानपदस्य योगार्थपरत्वमिति भावः । इह सर्यशब्देनेति - येनेदं सञ्चाविचेति सर्वमितिवाक्य इति भावः । कालस्यापि परिच्छेदक इति - ततश्च “यः कालकालः’ इत्यन्तकरिपुर्नोच्यत इति भावः। योनियोनाविति - प्रतीयोनीत्यर्थः । विभक्त्तिविपरिणामेनानुषङ्ग इति - कारणानां कारणं धाता स्रष्टा ध्याता आदिसर्ग सङ्कल्पकर्ता न प्रसूयत इति योजनेति भावः । न ब्रह्मादिवदुत्पत्तिरित्यर्थ इति - ननु ब्रह्मविष्णुरुद्रास्ते सर्वे सम्प्रसूयन्ते कारणं कारणानां धाता ध्यातेतिवाक्ये ब्रह्मविष्णुरुद्रेन्द्राणामुत्पत्तिसत्त्वाध्द्येयत्वं प्रतिपाद्यत इति वाक्यतात्पर्यं वक्त्तव्यम्; नैतत्सिद्धान्तिन उपपद्यते, ब्रह्मरुद्रमध्यपठितस्य विष्णोः ध्येयत्वप्रतिक्षेपकस्य सिद्धान्त्यनभिमतत्वादिति चेन्न; त्रिमूर्तिमध्यस्थितस्य विष्ण्ववतारस्य मुमुक्षुध्येयत्वं प्रतिक्षिप्य परवासुदेवमूर्तेः समस्ताः शक्त्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् । समस्तशक्त्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यड्मनुष्याख्याचेष्टावन्ति स्वलीलया’ इत्यादिप्रमाणप्रतिपन्नाया एव ध्येयतया विधिपरत्वादस्याः श्रुतेरिति द्रष्टव्यम् । नतु परमपुरुषासाधारणधर्मासम्भवादिति - प्रतर्दनविद्यायां हि चिदचिद्य्वावर्त्तकधर्मानन्वयेन तच्छरीरकपरमात्मपरत्वमुक्त्तम्, इह तु सार्वात्म्यस्य परमपुरुषासाधारणधर्मत्वप्रतिपादनमुखेन तद्धर्मानन्वयेन सिद्धान्तः क्रियते, नह्ययं न्यायस्तत्रोपन्यस्तः, येन गतार्थता स्यादिति भावः । नतु रुद्रवाक्यमिति - ततश्च “सोन्तरादन्तरं प्राविशत् इतिश्रुतिवाक्ये तच्छब्देन रुद्र एव परामृश्यते, ततश्च तस्यैवान्तर्यामित्वमुच्यत इति भावः । अहमेकमासमिति कारणत्वमुक्त्तमिति । ननु को भवा’नित्यभिमुखस्य रुद्रस्य स्वरूपे देवैः पृष्टे “अहमेकः प्रथममास’मित्यादिना मदन्तर्यामी परमात्मेति प्रतिवचनम् “आम्रं पृष्टः कोविदारा’नितिन्यायः कथं नानुसरेत्? नच मदन्तर्यामी सर्वात्मेत्मुक्त्तेस्सर्वात्मभूतभगवच्छरीरभूतोहमित्यर्थे पर्यवसन्नतया को भगवानिति प्रश्नंप्रति उत्तरत्वसम्भादितिवाच्यम्; तथा सति किं त्वं सकलकारणसर्वान्तरर्यामिशेषभूतः, उत स्वतन्त्र? इतिप्रश्नाभिप्रायः पर्यवसन्नस्यात् ततश्च तादृशप्रश्नस्यानुगुणे अहं न स्वतन्त्रः, अपि तु सर्वकारणसर्वान्तर्यामिशेषभूत इत्युत्तरे वक्त्तव्ये विरुद्धमतिकृतेदृशप्रतिवचनस्यासम्भवादिति चेन्न, श्रुतीनां परोक्षप्रियत्वेन गूढाभिप्रायतया समीचीनमीमांसावसेयतात्पर्यकत्वस्यादोषत्वादिति द्रष्टव्यम् । बुध्द्या प्राविशदिति - मनसि कृतवानित्यर्थः । तेन तेन हि तं नरम् अनुप्रविश्येति - तत्तद्भावयुक्त्ततया तं ज्ञात्वेत्यर्थः । रुद्रवाक्यानुवादेनेति - “अहमेकः प्रथममासम्’ इत्यादिरुद्रवाक्यार्थीभूतनारायणसर्वान्तर्यामित्वानुवादेन स्तुतिपरत्वादित्यर्थः । तद्धितद्वयकल्पकाभावादिति - पशुपतिना प्रोक्तं पाशुपतं शास्त्रं तत्प्रतिपाद्यं पाशुपतमिति तद्धितद्वयकल्पकाभावादितिभावः । इदमुपलक्षणम् । पाशुपतशब्दस्य वृद्धत्वा च्छप्रत्ययप्रसङ्गेन पाशुपतमिति रूपासिद्धिप्रसङ्गादित्यपि द्रष्टव्यम् । समन्त्रकभसितस्पर्शनं त्विति - अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेतिश्रुतमित्यर्थः । ननु “भस्माद्धूलनस्य मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा प्रह्महत्यां च कृत्वा भस्मच्छन्नो भस्मशय्याशयानो रुद्रध्यायी मुच्यते सवपाशैः’ इति शातातपस्मृतौ सर्वपापक्षयहेतुत्वस्मरणात् पापक्षयस्य सर्वब्रह्मविद्यापेक्षितत्वादपेक्षालक्षणवस्तुसामर्थ्यलिङ्गेन पाशुपतप्रकरणं बाधित्वा सर्वविद्यार्थत्वमेवाभ्युपगन्तव्यम् । अत एव “तमेतं वेदानुवचनेन’ इत्यत्र दहरविद्यायाः प्रकृतत्वेपि “धर्मेण पापमनुदति’ इतिश्रुतिप्रतिपन्नस्य कर्मजन्यस्य पापक्षयरूपद्वारस्य सर्वविद्यापेक्षितत्वाद्यज्ञादिकर्मणां सवर्विद्यासाधारण्यम्; तथा “तस्मादेवंविच्छान्तो दान्त’ इत्यादिश्रुतौ प्रकृतविद्यापरामर्शकैवविच्छब्दे सत्यपि शमदमादिसाध्यचित्तैकाग्रयादेस्सर्वविद्यापेक्षित्वादेव सर्वविद्यासाधारण्यमभ्युपेयत इति चेन्न; यदि प्रकरणपठितानामप्यपेक्षामात्रेण सर्वसाधारण्यम्, तर्हि दर्शपूर्णमासप्रकरणपठितानां व्रीहिप्रोक्षणावघातादीनां सन्निपत्याङ्गानां “वर्म वा एतद्यज्ञस्य क्रियते’ इत्याद्यर्थवादप्रतिपन्नयागापेक्षितोपकारजनकानां प्रयाजद्यङ्गानामपि उपदेशत एव सर्वयागसाधारण्यप्रसङ्गः यज्ञेन दानेन’ इत्यादिस्थलेतु सर्वविद्यासाधारण्य सिद्धावप्यन्यत्र तथात्वे प्रमाणाभावाच्छमदमादिस्थलेपि शमाद्येकसाध्यचित्तैकाग्रयैकसाध्यत्वाद्ब्रह्मोपासनस्य शमादेस्सवर्विद्यासाधारण्यम्, ब्रह्मविद्यापेक्षितपापक्षयस्य भस्मोद्मूलनैकसाध्यत्वे प्रमाणाभावात् भस्मोद्धूलनस्य न सर्वब्रह्मविद्याङ्गत्वमित्यलमतिचर्चया । ज्ञातव्यार्थस्य समाप्तिसूचक इति - “तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम्, “य यतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते अभ्योशो ह यदेनं साधवो घोषा आगच्छेयुरुपनिम्रेडरन् निम्रेडरन्’ इत्यादौ अब्रह्मप्रतिपादकोपनिषद्भागेपि अभ्यासदर्शनात् गौतमधमर्शास्त्रे प्रतिखण्डिकमभ्यासदर्शनाच्च प्रायिकमेतदिति मन्तव्यम् । पादषट्कात्मकत्वेनेति - शरभादावष्टचरणत्ववद्भ्रमरादौ षट्चरणत्वस्यापि दर्शनाच्छरभाध्यायवद्भ्रूमराध्यायतयापि निबन्धनप्रसङ्गादिति भावः । ननु इतिहासपुराणाद्यनुग्राहका न्याया अभ्यासेन सङ्ग्राह्यास्सूच्या इत्याशङ्क्याह - इतिहासपुराणादीनामिति । अर्थसमाप्तिर्हीति - सर्वे व्याख्याता इत्येतावतैवार्थसमाप्ताववगतायामध्यायसमाप्तिरप्यवगंस्यत इति किं समाप्तिद्योतकेनाभ्यासेनेति भावः । शास्त्रावसाने त्विति - इदमुपलक्षणम् । अध्यायान्तरेष्वपीति द्रष्टव्यम् । ननु महतः परमव्यक्त्तमिति महत्तत्त्वस्याव्यक्त्तभेदप्रतिपादनात् प्रकृते ब्रह्मत्वसमर्थनमात्रादेव महदादीनां ब्रह्मत्वासिद्धेस्सफलमिदमधिकरणमित्याशङ्कयाह - महतः परमव्यक्त्तमित्यादिवाक्यानाञ्चेति । चतुर्थाद्यविरुद्धमिति - महच्छब्दस्यात्मविशेषणत्वेन महत्तत्त्वपरत्वाभावस्य समर्थितत्वादित्यर्थः । पूर्वमकृतत्वाच्चेति - प्रधानकारणवादनिरासस्य पूर्वमकृतत्वेन तस्या एतच्छब्देन परामर्शायोगादिति भावः । अनुदाहृतवाक्यानामतत्परत्वमिति - अनुदाहृतवाक्यानां परमाण्वादिपरत्वाभाव इत्यर्थः । इन्द्रियाणामपि तच्छरीरत्वमुक्त्तमिति - स्थानादिव्यपदेशाच्चेति सूत्र इति भावः ॥ ॥ इति सर्वव्याख्यानाधिकरणम् ॥ इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायाम् प्रथमस्याध्यायस्य चतुर्थः पादः ॥