34 प्रकृत्यधिकरणम्

पेटिकासङ्गतिमिति - पेटिकाभ्यामस्याधिकरणस्य सङ्गतिमित्यर्थः। विकल्पेनेति -आनुमानिकमपीत्याद्यधिकरणत्रये ब्रह्मकारणत्वाप्रातक्षेपेणैव ब्रह्मणः कारणत्वमभ्युपगम्य क्वचित्प्रधानमपि कारणं भवत्वित्युत्थितो विकल्पोऽन्ययोगव्यवच्छेदेन निरस्तः कारणत्वेन चेत्याद्यधिकरणत्रये तु प्रधानमेव जगत्कारणमित्युत्थित नियमेन कारणत्वमयोगव्यवच्छेदाय निरस्तमिति भावः। नतुु द्वितीयाधिकरणत्रयस्य कथं प्रासङ्गिकत्वम् ? छायानुसारिवाक्यस्य विषयतया त्रिपाद्यासाक्षात्सङ्गतत्वादित्याशङ्कयोभयथापि साक्षात्सङ्गतिरस्तीत्याह - तत्र छायानुसारीति । ननु सिद्धान्तेपि प्रधानश्वरयोरुभयोरपि कारणत्वस्येष्टत्वात्समुच्चयनिरासो न युक्त्त इत्याशङ्कय समप्रयानतया समुच्चयस्य निरसनीयत्वं विवक्षितमित्याह - स्वनिष्ठवस्तुद्वयस्येति । परस्परशरीरशरीरिभावा नापन्नवस्तुद्वयस्येत्यर्थः। सर्वशक्त्तित्वादितीति - सर्वं शक्त्तियर्स्य तत्सर्वशक्त्ति, तत्त्वादित्यर्थः। यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः’ इति सर्वस्यापि शक्त्तिस्थानीयत्वात्प्रकृतेर्विशेषणत्वमिति भावः। वेदान्तैरेवेति - व्याख्येयं पदम् । तद्विशेषणतयेति - तेनैवाधिष्ठिता जग’दितिवाक्ये अर्थतः प्रधानस्यापीश्वरस्य तृतीयया प्रथमान्तविशेषणत्वप्रतिपादनविरुद्धमिति द्रष्टव्यम् । मायां प्रतिप्रेरकत्वमिति - ईशनं हि नियमनम् , तञ्च प्रेरणम् तत्र प्रेर्याकाङ्क्षायां सन्निधानान्मायाया एव प्रेर्यत्वं लभ्यत इति भावः । इदमुपलक्षणम् । “मायां तु प्रकृतिं विद्या’दित्यत्र प्रकृतिशब्द उपादानपरः । जनिकर्तुः प्रकृतिः’ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिवत्, ततश्च मायाया उपादानत्वस्य मायाविनमीश्वरत्वस्य च प्रतिपानान्निमित्तोपादानभेदः श्रुतिप्रतिपाद्य इति पूर्वपक्षिणो हृदयमित्यपि द्रष्टव्यम् । उपादानत्वं समर्थयतीति क्वचित्कोशे पाठो दृश्यते, तत्र परिवृढमाचष्टे, परिवृढयतीतिवत्समर्थशब्दात्तत्करोतीति णिचि परस्मैपदं निर्वोढव्यम् । समर्थयत इति पाठस्तु सुगम एव । एवमेव हीत्यादिभाष्यं श्रुत्यनभ्युपगमपक्षप्रतिपादक वाक्यव्यवहितमपि हिशब्दस्वारस्यानुरोधेन व्यवहितश्रुत्यनुग्राहकपरतया व्याचष्टे - कारणत्वश्रुतेरिति । ननु परिणामादिति सूत्रप्रयोजनस्य " न तु दृष्टान्ताभावात् , भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्’ incomplete!is not available.is not available.लोकवत्तु लीलाकैवल्यम्’ इत्यादिभिः कृतकरस्वाद्वैयर्थ्यमाशङ्क्याह - द्वितीयाध्याये बह्वधिकरणेष्विति । incomplete?इह प्रतिपन्नाच्छब्दादिवदिति - “शब्दादेव प्रमितः’ इत्यादावितिशेषः । प्रधानकारणत्ववादिनीनामिति । यद्यपि प्रधानकारणत्ववादिनीनां “गौरनाद्यन्तवती’ इत्यादीनां परमात्मपर्यन्तत्वं नात्र भाष्ये कथ्यते ; तथापि तमःप्रभृतेरीश्वरत्वकथनात् शरीरवाचिशब्दानां शरीरिपर्य - न्तत्वात्परमात्मपर्यन्तत्वं तेषामपि शब्दानामभिहितमेवेतिभावः । तत्र साहित्यमात्रं विवक्षितमिति - आकाशमिन्द्रियैः संयुज्यत इत्यर्थः । आकाशलयदशायां स्पर्शरूपरसगन्धतन्मात्राणां नष्टत्वादाह - बहुवचनेन तात्पर्यमिति । लयशब्देन जीवब्रह्मणास्स्वरूपैक्येत्यादि । अत्र विभागापत्तिदशायामपि चिद्वस्तु अतिसुक्ष्मं सकर्मसंस्कारं तिष्ठतीति पाठमाश्रित्य प्रथमतृतीयव्याख्याने, चिदचिद्वस्तु अतिसूक्ष्ममितिपाठमाश्रित्य द्वितीयव्याख्यानमिति द्रष्टव्यम् । श्रुत्यन्तरैकार्थ्यादिति “न जायते म्रियते वा विपश्चित्’ इत्यादिश्रुत्यन्तरैकार्थ्यादित्यर्थः । परमात्मना एकीभूतात्यन्तसूक्ष्मचिदचिद्वस्तुशरीरादेकस्मादेवाद्वितीयादिति भाष्ये अत्यन्तसूक्ष्मचिदचिद्वस्तुशरीरादित्यस्य एकस्मादेवाद्वितीयादित्येतद्य्वाख्यानरूपत्वमित्यभिधाय सूक्ष्मचिदचिच्छरीरकत्वाभ्युपगमे एकस्मादेवाद्वितीयादित्येतद्दृष्टान्ततया व्याचष्टे - यद्वा आनन्दवल्लयामिति । उदाहृतवाक्येप्विति - स तपोऽतप्यतेत्यादिप्वित्यर्थः । तप आलोचन इत्यस्माद्भातोरिति । यद्यपि तप आलोचन इति धातुर्गणे न पठितः, तत्र तप सन्ताप इति शब्विकरणे पठ्यते, तप ऐश्वर्ये वेति दिवादौ, तप दाहे इति चुरादौ, तथापि धातूनामनेकार्थत्वादालोचनमप्यर्थ इति भावः । घटकस्य वाक्यविशेषस्येतिभेदाभेदश्रुतिघटकस्य तदेवानुप्राविशदित्यादेरित्यर्थः । ननु सृष्ट्वानुप्राविशदिति सृष्टयनन्तरमेवानुप्रवेशश्रवणाद्विक्रियमाणद्रव्यस्यापीति विक्रियमाणत्वावस्थायामेवात्मतयाऽवस्थानं कथमुच्यत इत्याशङ्कयाह - तत्सृष्ट्वा तदेवानुप्राविशदित्यादि । त्वाप्रत्ययास्वारस्यप्रसङ्गमभिप्रयन्नाह - यद्वा सृष्टिपूर्वकेति । अस्मिन् पक्षे विक्रियमाणद्रव्यस्यापीत्यस्य निर्वाहमाह - तदानीमिहोक्तमिति । ततश्च तत्सृष्ट्वेति वाक्ये स्थित्यर्थानुप्रवेशः कथ्यते, तदनुप्रविश्येत्यनुप्रवेशस्य सामानाधिकरण्यहेतुत्वप्रति पादकवाक्ये सृष्टिसमयानुप्रवेश एवोच्यते, नतु पूर्ववाक्योक्तानुप्रवेशव्यक्त्तिरिति भावः । निमित्तमात्रत्वे परोक्ताया इति - निमित्तकारणत्वमात्रे प्रमाणत्वेन परोक्ताया इत्यर्थः । भाष्ये- तदात्मानं स्वयमकुरुतेत्यादिभिरैकार्थ्यादिति । सकलश्रुतिभिरैकार्थ्यादित्यर्थः । अन्यैरिति - शङ्करयादवादिभिरित्यर्थः । “योनिष्ट इन्द्र सदने अकारि’ इतिमन्त्रस्यायमर्थः । हे इन्द्र ! ते सदने तव उपवेशाय योनिः स्थानमकारीत्यर्थः । योनिशब्दस्योपादानवाचित्वाभावे दृष्टान्तः, अत्र चोदयन्ति, यदुक्त्तमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया दृष्टान्तस्य चानुपरोधार्थं ब्रह्मण उपादानत्वं वक्त्तव्यमिति , तन्न; प्राधान्येन सादृश्येन वा तदुपपत्तेः । लोके हि अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे सर्वे दृष्टा इति व्यपदेशो दृश्यते, प्रधानदर्शनस्य तदितरदर्शनकार्यधूर्वहत्वात् , एवमिहापि ब्रह्मदर्शनस्य तदितरदर्शनकार्यनिष्पादनसमर्थतया तथा व्यपदेशोपपत्तेः, तथा सादृश्यनिमित्तोपि व्यपदेशो दृश्यते, यथा एतेन गवादयोपि क्रतवो व्याख्याता इति ज्योतिर्व्याख्यानेनेतरेषां गवादीनां तत्सादृश्येन व्याख्यातत्वम् ; एवमिहापि ब्रह्मणि ज्ञाते सत्त्वादिना सादृश्यात् तदितरेषां ज्ञातत्वसम्भवात्; अत एव दृष्टान्तानुपरोधोप्यसङ्गतः, नह्मेकस्मिन्मृत्पिण्डे ज्ञाते सर्वं मृण्मयं विज्ञातं भवति, सर्वस्य मृत्कार्यस्य एकमृत्पिण्डारब्धत्वाभावादेकस्य नस्वनिकृन्तनस्य लोहमणेर्वा सर्वलोहमयकार्ष्णायसोपादानत्वाभावात् । न च सर्वं मृण्मयमित्यत्र सर्वशब्द एकमृत्पिण्डारब्धकार्यपर इति वाच्यम् ; तथा कल्पनायां प्रमाणाभावात् , अत एवाभिध्योपदेशाच्चेति सूत्रोक्तो वहुभवनसङ्कल्पोपि न प्रमाणम् , अन्तर्यामिरूपेणैव बहुभावस्य सङ्गल्पविषयत्वसम्भवे तेजोबन्नादिरूपेणैव बहुभवनस्य सङ्कल्पविषयत्वे प्रमाणाभावात्, उक्त्तञ्चाभियुक्त्तैः बहुस्यामिति सङ्कल्पस्य तेजःप्रभृतिसर्जनम् । गुरुस्यामिति सङ्गल्पस्य शिष्यसम्पादनं यथा’ इति । अत एव “तदात्मानं स्वयमकुरुत’ इत्यपि व्याख्यातम् । अन्तर्याम्यादिरूपेण स्वकार्यत्वस्योपपत्तेः । एतेन “साक्षाच्च उभयाम्नानात् “योनिश्च हि गीयते’ इति युक्त्यन्तरमपि व्याख्यातमिति । अत्रोच्यते, यद्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां सादृश्यप्राधान्याभ्यां गौणमेव सर्वविज्ञानमभिहितं स्यात् तर्हि “कथं नु भगवस्य आदेशो भवति’ इतिप्रश्नस्य “यथा सोम्यैकेने’ ति प्रतिवचनस्य चासङ्गतत्वापत्तेः, ब्रह्मविज्ञानेन प्रपञ्चज्ञातत्वस्य मुख्यतायां कृत्स्नश्रुतिसन्दर्भस्य सामञ्जस्यात् । एवं ह्युपाख्यायते - उद्दालको ह्यारुणिः स्वपुत्रं श्वेतकेतुं स्वनियोगाद्द्वादशवर्षाणि गुरुकुले स्थित्वा सर्वान् वेदानधीत्य प्रतिनिवृत्तं “उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ इति पृष्ट्वा “कथन्तु भगवस्य आदेश’ इति एकविज्ञानेन सर्वविज्ञानं कथन्नूपपद्यत इत्याशयवता पुनः पृष्टो मृत्पिण्डादिदृष्टान्तैस्तदुपपादयामासेति । यद्यत्र सर्वविज्ञानं प्राधान्याद्यभिप्रायं गौणं स्यात् तदा प्रधानज्ञानेन सर्वमन्यदप्रधानमविदितमपि फलतो विदितप्रायं भवतीत्यस्यार्थस्य लोकसिद्धत्वेनैकविज्ञानेन सर्वविज्ञानस्यानुपपत्तिं पश्यतः “कथं नु भगवस्य आदेश’ इतिप्रश्नो न स्यात्, तदभिप्रायानभिज्ञेन कृतेपि प्रश्ने प्राधान्यात्सादृश्याद्वा सर्वं स्यादित्येव प्रत्यवक्ष्यत, नैतदुभयं युज्यते “वाचारब्भणं विकारो नाधेयम्’ इति दृष्टान्तेपि तदुपपादनमत्यन्तमनवलम्बनमेव स्यात्, तथा “बहु स्यां प्रजायेये’त्यभिध्योपदेशोपि उपादानत्वोपपादक एव, तत्तेजोऽसृजतेत्यादिनानन्तरवक्ष्यमाणतेजः प्रभृत्यात्मना बहुभवनस्यैव सङ्कल्पविषयतया वक्त्तव्यत्वात्, एकमेवाद्वितीयमित्यादिना सृष्टेः प्रागेकत्वेनाद्वितीयत्वेनावधारितस्योपादानत्वनिमित्तत्वयोरवश्यम्भावाच्च, तस्मादुपादानत्वप्रत्याख्यानं वेदान्तद्वेषनिमित्तमिति युक्त्तमित्युत्पश्यामः ।उपासनफलपरमिति - “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इति फलपरवाक्यस्थत्वादिति भावः । लक्षणायोगादिति उपादानलक्षणयोगादित्यर्थः - पीतशङ्खस्य शङ्खान्तरेणेति - शङ्खशब्दः शङ्खान्तरपरः । ततश्च शुक्लशङ्खे पीतशङ्खोऽध्यस्यत इति भावः। देहेऽधिष्ठानेऽध्यस्तत्वादिति - ततश्चाध्यस्तं यत्सामानाधिकरण्येन प्रतीयते तदुपादानमिति लक्षणायोगादिति भावः । आत्मनि देहाध्यास इति चेदिति । ततश्च देहं प्रति आत्मन एवोपादानत्वम्, नत्वात्मानं प्रति देहस्येति भावः । अध्यासो मिथ्येति भवितुं युक्त्तमिति - अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येति च विषये युष्मदर्थ इति पाठो दृश्यते, तत्र भवितुं युक्त्तमित्यरयान्तरमाक्षिप्य तथा पीतिशेषः पूरणीयः । अध्यासो मिथ्येति भवितुं युक्त्तमित्यन्तग्रन्थस्याध्यासो नास्तीति ह्यर्थः। तदन्तस्य शाङ्करभाष्यस्याध्यासाक्षेपरूपत्वात् , तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामित्यादिग्रन्थस्यैवाध्याससमर्थनपरत्वाच्चेतिद्रष्टव्यम् । भास्करमतमाह - यश्चापीति । यादवप्रकाशीये त्विति । अव्यवहितसाध्येनेति - ब्रह्मण उपादानत्वमव्यवहितसाध्यं तन्निर्वाहकम् , प्रकृत्यैक्यं तु व्यवहितं साध्यमित्यर्थः । वक्त्तव्यमिति - प्रकृतिश्चेतिपदेन साध्यतया वक्त्तव्यमित्यर्थः । उपादात्वं हि प्रधानसाध्यमिति - अध्यवहितं चेति विशेषः । विक्रियामितीति -दर्शयतीतिपूर्वेणान्वयः । नहि प्रलयात्पूर्वमेकत्वाप-त्तिरिति - “एकमेवाद्वितीयम्’ “तदैक्षत बहु स्यां प्रजायेयेति’ श्रुतिवशादेकत्वावस्थाया बहुभवनसङ्कल्पात्पूर्वभावावश्यम्भावादिति भावः । अलुप्तविभक्त्तिकत्वेनेति- यद्यपि समासाभेवेपि “स्वमोर्नपुंसका’दिति अमो लुगस्त्येव, तथापि दधि पश्येत्यादिवत्स्मृताया विभक्त्तेरेवार्थप्रत्यायकत्वोपपत्तौ समासे लक्षणाश्रयणस्यायुक्त्तत्वादिति भावः। मिथः प्रकारप्रकारिभावानभ्युपगमाच्चेति । अभ्युपगमेऽस्मदिष्टसिद्धिरितिभावः । प्रकृतेरेव महदाद्युपादानत्वं स्यादिति - ततश्चाभिन्ननिमित्तोपादानब्रह्मवादो न स्यात्, नियन्त्रंशस्य निमित्तत्वादितिभावः । इदमुपलक्षणम्; ब्रह्मबहुत्वं च स्यादित्यपि द्रष्टव्यम् । तत्किं वृक्षसमुदाय इति - यद्यपि भोक्तृभोग्यनियन्तारः किं प्रत्येकं ब्रह्मेति पूर्वविकल्पादस्य विकल्पस्य न विशेषः । ततश्च त्रयाणां मिथो भिन्नत्वेपीत्येतत्पर्यन्तो ग्रन्थो नातीव सप्रयोजन इति भाति । तथापि दूषणान्तरं वक्त्तुं पुनर्विकल्प इति द्रष्टव्यम् । शङ्कते त्रयाणां मिथो भिन्नत्वेपीति । ब्रह्मात्मनैकत्वं वर्णनीयमिति - ननु पत्रस्कन्धादीनां भेदाप्रहाणेन एकवृक्षानन्यत्ववदिष्टकानामिष्टकात्वरूपभेदाप्रहाणेन एकब्रह्मानन्यत्वं सिद्धान्तिनोप्यभिमतमिव प्रतीयते, नचैतत्सिद्धान्तिनोऽभिमतं भवति । त्रयाणामेकब्रह्मात्मकत्वाभावादितिचेन्न; चिदचिद्विशिष्ट ईश्वरो हि ब्रह्म, नतु विशेष्यमात्रम्, ततश्च विशिष्टान्तर्गतत्वं त्रयाणामपि साधारणमित्येतदभिप्रायेण ब्रह्मात्मना एकत्वं वर्णनीयमित्युक्त्तमिति द्रष्टव्यम् । छिन्नायामङ्गुलाविति- छेदेन स्वदेहात्पृथक्कृतत्वादित्यर्थः । कस्यचित्स्वरूपमिति - विशिष्टस्येत्यर्थः । यावद्विशेष्यभाविनामिति - इदमुपलक्षणम् । दण्डविशिष्टस्वरूपे दण्डस्यान्तर्भावेपि न दोष इत्यपि द्रष्टव्यम् । अग्नेरुष्णत्वं स्फोटजनन इति - ननूष्णस्पर्शस्य कथमग्निस्वरूपत्वम् ? गुणगुणिनोर्भेदात् स्वं हि रूपं स्वरूपमित्युच्यते, न तु स्वापृथक्सिद्धं सर्वं स्वरूपम् यदि कारणतावच्छेदककोट्यनुप्रविष्टं सर्वं स्वरूपमित्युच्यते तर्ह्यालोकगतोद्भूतरूपत्वस्य चाक्षुषप्रत्यक्षे उद्भूतरूपगतकारणतायामवच्छेदकत्वादालोकस्याप्युद्भूतरूपस्वरूपत्वप्रसङ्गः, तथार्द्रेन्धनप्रभववह्नित्वस्य धूमजनकतावच्छेदकत्वादार्द्रेन्धनादेरपि वह्निस्वरूपानुप्रवेशप्रसङ्गात्, अतस्तेषु स्वरूपत्ववादः स्वीयरूपत्वाभिप्रायः, न तु स्वाभिन्नरूपत्वाभिप्रायः, एवञ्च प्रकृत्यादीनामपि परमात्मापृथक्सिद्धविशेषणतया तन्वंशशक्त्तिरूपशब्दाद्यभिधेयत्वमस्तु नाम, नैतावता तद्गतावस्थाया एतन्निष्ठत्वमस्ति, तथा हि सति तद्गतशक्त्तित्वशरीरत्वांशत्वजडत्वा दीनामपि परमात्मगतत्वप्रसङ्गात्, ततश्च प्रकृतेर्महदादिरूपेण परिणममानत्वेन प्रकृदेरेवोपादानत्वं स्यात्, न तु ब्रह्मण इत्याशङ्कामुपसंहारव्याजेन निराकरोति - महदाद्यवस्थाविदचिद्विशिष्टब्रह्मस्वरूपगता इति । न हेत्वसिद्धिरिति - अयं भावः, चिदचिद्विशिष्टमेव ब्रह्म, न विशेष्यमात्रम् चिदचिद्विशिष्टे च महदाद्यवस्थायोगित्वमस्त्येवेति । नहि नाभिमात्रं रथचक्रमिति - यथा परस्परमाधाराधेयभावमापन्ना नाभिरथनेमयः रथचक्रशब्दवाच्यस्वरूपान्तर्गताः, यथा वा बाह्यदलविशिष्टेषीकास्वरूपं मुञ्चादिशब्दवाच्यम्, यथा वा त्वक्पत्रादियुक्त्तकाण्डस्वरूपमेव कलीशब्दवाच्यम्; एवमाधाराधेयभावापन्नभोक्तृभोग्यनियन्तृस्वरूपं ब्रह्मशब्दवाच्यमित्यर्थः । ननु काष्ठगतज्वालायाःकाष्ठगतकरणत्वोपपादकत्वे प्रकृतिगतावस्थायाः प्रकृतिगतोपादानत्वनिर्वाहकत्वमेव स्यात्, नतु ब्रह्मोपादानत्वनिर्वाहकत्वमित्यत आह - करणकारकस्य तु स्वनिष्ठत्वादिति । प्रकृतेस्तु स्वनिष्ठत्वाभान्नोपादनत्वमिति भावः । ननु मृत्पिण्डाश्रयस्य चक्रस्य मृत्पिण्डगतघटत्वाद्याश्रयत्वं किं न स्यादित्याशङ्कयाह - आश्रयिनिष्ठामिति । स्वतन्त्रं मृत्पिण्डादिवस्तु स्वाधारे चक्रे स्वगतावस्थायोगितां न निर्वाहयतीत्यर्थः । व्यवहितपत्रवेध इति - पत्रवेधान्तरेण व्यवहितपत्रवेध इत्यर्थः । कुलालस्येति - हेतुत्वेन सजातीयव्यापारव्यवहितत्वादितिभावः । शराव्यवहितस्येति - धनुश्शरयोर्द्वयोरपि हेत्ववान्तररूपप्रहरणत्वाक्रान्तत्वादिति भावः । निष्पादककायर्निष्पादनरूपकिञ्चित्कारसद्भावादिति - तन्निष्पादकव्यापारनिष्पादनरूपकिञ्चित्कारसद्भावादित्यर्थः । अतिप्रसङ्गः परिहृत इति- अन्वयव्यतिरेकाभ्यामतिप्रसङ्गस्य निवार्यत्वादित्यनेनेत्यर्थः । अग्न्यादेरिति - अव्यवहितस्यापीति शेषः । संयोगमात्रेण व्यवधायकत्वमिति - आस्तरणादिकं शयानस्य पर्यङ्कसंयोगं परं निरुणद्धि, नत्वानयाश्रयिभावमपीति भावः । स्वधारणसमर्थवस्तुनिष्ठव्यवधायकत्वादिति - नन्वेवं दर्भाणां स्वाश्रितदर्भत्वाद्यवस्थासु भूतलाश्रितत्वव्यवधायकत्वं न स्यात्, तथा यूकादीनां यूकात्वाद्यवस्थासु मनुष्याश्रितत्वव्यवधायकत्वं न स्यात् । स्वधारणसमर्थवस्तुनिष्ठव्यवधायकत्वादिति चेन्न, स्वधारणसमर्थेत्यस्य स्वाश्रितधारणसमर्थेत्यर्थः । मूतलमनुष्यादीनां दर्भत्वयूकत्वादिधारणसामर्थ्यं नास्ति, तेषां तदाश्रितत्वे प्रमाणाभावात् । नन्वेवं यत्र यदाश्रितत्वग्राहकप्रमाणमस्ति, तत्रान्तरालिकपदार्थानां तदव्यवधायकत्वम्, अत एव प्रासादे शेते पर्यङ्के शेते वेद्यां हवीष्यासादयति बर्हिषि हवींष्यासादयती’त्यादौ आन्तरालिकानां पर्यङ्कबर्हिरादीनामव्यवधायकत्वमिति पर्यवसन्नमिति चेत्, इष्टापत्तेः, व्यवहितस्याप्याश्रयताग्राहकप्रमाणसत्त्वे आश्रयत्वम्, प्रकृते च महदादिव्यवहितब्रह्मणोपि तत्तदवस्थं प्रत्याधारत्वग्राहकं प्रमाणमस्ति, सञ्च त्यच्चाभवदित्यादि। अतोऽवस्थाश्रयत्वान्मुख्यमुपादानत्वमुपपन्नमिति भावः । ननु महदाद्यवस्थाश्रयत्वस्य परमात्मनि मुख्यत्वे तुल्यन्यायतया देवत्वाद्यवस्थाश्रयत्वस्यात्मन्येव मुख्यत्वात्तत्र कथं न देवो न नर इति निषेधः? नचाद्वारकाश्रयत्वाभावान्निषेध उपपन्न इति वाच्यम्; संयोगेन भूतलाधारे घटे सम्बन्धान्तरेण घटाधारत्वं नेत्येतावता भूतलं न घटाधार इति वचनं समञ्जसं स्यात् । किञ्च तथा निषेधप्रतिपादकशास्त्रस्य भ्रमजनकतया अनुपादेयत्वमेव स्यादिति चेन्न; पर्वापरवाक्यानुरोधेन वाक्यतात्पर्यस्य वर्णनीयतया देवत्वादिनिषेधकशास्त्राणां “चत्वारः पञ्चदश रात्रा देवत्वं गच्छन्ति’ इत्यादिशास्त्रविरोधेनाद्वारकनिषेधपरत्वस्यावश्याश्रयणीयत्वान्नानुपपत्तिरिति भावः ।