33 वाक्यान्वयाधिकरणम्

बृहदारण्यके षष्ठे - “अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः । मैत्रेयी कात्यायनी चेति । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव, स्त्रीप्रज्ञैव तर्हि कात्यायनी, अथ ह याज्ञवल्क्योऽन्न्यद्वृत्तमुपाकरिष्यन्मैत्रीयीति होवाच याज्ञवल्क्यः प्रव्रजिप्यन्वा अरे अहमस्मात्स्थानादस्मि हन्त ते अनया कात्यायन्या अन्तं करवाणीति स होवाच मैत्रेयी यन्नु म इयं भगोस्सर्वा पृथिवी वित्तेन पूर्णा स्यात् । कथं तेनामृता स्यामिति स्यान्न्वहं तेनामृता आहो नेति होवाच याज्ञवल्क्यः। यथैवोपकरणवता जीवितं तथैव जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति सा होवाच मैत्रेयी । येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवन्वेत्थ तदेव मे ब्रूहीति स होवाच याज्ञसल्क्यः प्रिया खलु नो भवती सती प्रियमाववर्धतर्हि भवति ते व्याख्यास्यामि व्याचक्षाणस्यं मे निदध्यास्वेति । स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति न वा अरे जायायाः कामाय जाया प्रिया भवति आत्मनस्तु कामाय जाया प्रिया भवति न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति नवा अरे वित्तस्य + नवा अरे पशुनां + नवा अरे भूतानां + नवा अरे सर्वस्य +आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मन्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं ब्रह्म तं परादात् योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादाद्योन्यत्रात्मनो क्षत्रं वेद लोकास्तं+देवास्तं+भूतानि तं+सर्वं तं परादात् योन्यत्रात्मनस्सर्वं वेद इदं ब्रह्म इदं क्षत्रं इमा लोका इमे देवा इमे वेदाः इमानि भूतानि इदं सर्वं यदयमात्मा स यथा दुन्दुभेर्हन्यमानस्य न बाह्मान् शक्नुयात् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः । स यथा शङ्ख्ध्यमानस्य वा शब्दो गृहीतः । स यथा वीणायै वाद्यमानायै न बाह्मान् शब्दान् शक्नुयाद्ग्रहणाय वीणायास्तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः । स यथार्द्रेधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्ति एवं वा अरे अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेदो अथर्वाङ्गिरस इतिहासपुरुणं विद्या उपनिषदः श्लोकाः सूत्राणि च भूतानि अस्यैवैतानि सर्वाणि निश्वसितानि स यथा सर्वासामपां समुद्रमेकायनमेवं सर्वेषां स्पर्शानां जिह्वैकायनमेवं सर्वेषां गन्धानां घ्राणमेकायनमेवं सर्वेषां कर्माणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायतनं स यथा सैन्धवघनोऽनन्तरो बाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽमात्मानन्तरोबाह्यः कृत्स्नः प्रज्ञानघन एव तेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीति अरे ब्रवीमीति होवाच याज्ञवल्क्यस्य होवाच मैत्रेयी अत्रैव मा भगवान् मोहान्तरमापिवत् न वा अहं विजानामीति स होवाच न वा अरे मोहं ब्रवीमि अविनाशी वा अरेऽयमात्मानुच्छित्तधर्मा यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं श्रृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मा अगृह्यो नहि गृह्यते अशीर्यो न हि शीर्यते असङ्गो हि सज्जते अव्यथतो न व्यथते न रिष्यति विज्ञातारमरे केन विज्ञानीयादित्युक्त्तानुशासनासि मैत्रेयि एतावदेव स्वल्वरे अमृतत्वमिति होक्तवा याज्ञवल्क्यो विजहार’ इति श्रूयते । एवं चतुर्थपाठके किञ्चिद्भेदेनायं स्दर्भः पठितः। स्त्रीप्रजा इतरासां स्त्रीणां यादृशी तादृशी अस्याः प्रज्ञा, ब्रह्मवादिनी न भवतीत्यर्थः। अन्तं करवाणि युवयोर्द्रव्यविभागं करवाणीत्यर्थः। शिष्टमाकरे स्पष्टम् । कर्मफलभूतभोक्तृत्वश्रवणादिति - पतिजायापुत्रादिसम्बन्धेन भोक्तृत्स्याप्रतीयमानत्वादिति भावः। भाष्ये- मध्येपि विज्ञानघन एवेति । नचैतदुत्पत्तिविनाशकवाक्यं प्रकृतद्रष्टव्यार्थविषयं न भवति, किन्तु तत्सृज्यात्मविषय इति वाच्यम् , षष्ठे मैत्रेयीब्रह्मणे “यथा सैन्धवघनोनन्तरो बाह्यः कृत्स्नः प्रज्ञानघन एव एतेभ्यो भूतेभ्यस्समुत्थाय’ इत्यादिना प्रकृतस्य द्रष्टव्यात्मन एवायमात्मेति परामृष्टस्योत्पत्तिविनाशवर्णनात् , एवं वा अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवैभ्यो भूतेभ्यः’ इति चतुर्थे मैत्रेयीब्राह्मणेपि प्रकृतपरामर्शीदशब्दस्य सत्त्वेनोत्पत्तिविनाशप्रतिपादनं द्रष्टव्यात्मविषयमेवेति भावः। ननु कथमुपसंहारगतस्य विज्ञातारमरे इत्यस्य जीवप्रत्यायकत्वं तस्य जीवपरसाधारणत्वादित्यत आह - जीवहेत्वनुगृहीत इति । केचित्तु - “विज्ञानं यज्ञं तनुते ’ “विज्ञानमयः’ इत्यादौ जीवस्यैव मनोवृत्तिविशेषत्वरूपविज्ञानमयत्वप्रसिध्द्या विज्ञानघनशब्दस्य जीवल्किवाचितया जीववाचित्ववत् विज्ञातृशब्दस्यापि तथोत्वोपपत्तौ दोषाभावादिति वदन्ति । तस्य तदन्यत्वमुक्त्तमिति - उत्तरग्रन्थार्थोपयुक्त्ततयेति भावः । अन्यत्वदर्शनं नामेति- अन्यत्व निषेध इति भाष्यस्य “योन्यत्रात्मनस्सर्वं वेदे ‘ति श्रुत्यनुसारादन्यत्वदशर्ननिषेध इत्यर्थ सिद्धवत्कृत्यैत्तदुक्त्तमितिद्रष्टव्यम् । निष्कृष्टस्वरूपेति - अन्यत्त्वदर्शनं नामात्मस्वरूपे स्वान्यभूतदेवतादित्वदर्शनं निषिध्यत इत्यर्थः । ततश्च श्रुतेः पूर्वपक्षेऽयमर्थः, अन्यत्र द्वितीयार्थे त्रल्प्रत्ययः । आत्मनोऽन्यद्ब्रह्मक्षत्रादि सर्वं य आत्मत्वेन वेद तं सव्रमपि ब्रह्मक्षत्रादिलक्षणं पराकुर्यादिति । प्रबुद्धस्य - उत्पन्नतत्त्वज्ञानस्येत्यर्थः । परैरुच्यत इति - साङ्ख्यैः पूर्वपक्षिभिरुच्यत इत्यर्थः । अल्पशक्त्तित्वं मात्राचाऽभिप्रेतमिति - मात्रपदस्येतरव्यच्छेदार्थस्य महाशक्त्तिव्यवच्छेदकत्वमिति भावः । निर्व्यापारस्येत्येतन्मुक्त्तस्यैतद्विशेषणतया व्याख्यायेदानीं पुरुषमात्रस्येत्येतत्परतया व्याचष्टे - यद्वा कर्मपरवशस्येत्यादिना । स्ववाक्यत्वज्ञापनायेति - स्ववाक्यत्वात्प्रयुक्त्त इत्यर्थः । स्वतन्त्रस्यापर्यनुयोज्यत्वादिति भावः। ततश्च स्ववाक्यत्वज्ञापनस्य किं प्रयोजनमिति न चोदनीयम् । नतु देवादिदृष्टिनिषेध इति। आत्मस्वरूप इति शेषः । प्रागुक्त्तहेतुनिबन्धनत्वादिति - ब्रह्मात्मकत्वस्य प्रागुक्त्तत्वाद्भेदनिषेधः, अब्रह्मात्मकभेदनिषेध इत्यर्थः। यत्र हि देहात्मविवेकं प्रकृत्य ज्ञानैकाकारत्वेनात्मनामैक्यं प्रतिपाद्यते तत्र श्रूयमाणस्य भेदनिषेधस्यैव देवादिभेदनिषेधत्वमिति भावः। मैत्रेयीब्राह्मणानामनेकत्वादिति - चतुर्थे षष्ठे च मैत्रेयीब्राह्मणस्य दर्शनादिति भावः। मैत्रेयीब्राह्मणानामिति बहुत्वमविवक्षितम् । काण्वमाध्यन्दिनपाठभेदेन वा द्रष्टव्यम् । भाष्ये - प्रतिनियतदेशकालस्वरूपपरिमाणमिति । लोके हि किञ्चिद्वस्तु कस्मिंश्चिद्देशे कस्मिंचित्काले कञ्चित्पुरुषविशेषं प्रति तारतम्येन प्रियतमतामनुभवतीत्यर्थः। परतन्त्रो भोक्ता भुङ्क्त्त इति स्वेष्टनिवृत्त्यर्थं प्रीतिं कुर्वन् स्वातन्त्र्यं लभते, परेष्टनिवृत्त्यर्थे प्रीतिमतः पारतन्त्र्यमवश्यम्भावीति भावः। भोक्ता भक्त्त इति प्रियशब्दस्य भोत्यत्वार्थकत्वाद्भोक्तृत्वमपि सिद्धमेव, पत्युःकामाय पतिर्भोग्य इत्युक्त्ते पत्युः कामाय पतिर्भुङ्क्त्त इत्यस्य लाभादिति भावः। आत्मशब्दवैपरीत्याभावादिति - आत्मशब्दवैरूप्याभावादित्यर्थः। तस्माज्जीववाचिशब्दस्यापीति - “प्रतिज्ञासिद्धेः’ रित्यादिसूत्रत्रयानुरोधेन जीववाचिशब्दमपि परमात्मपर्यन्तं प्रापयितुं समर्थपरमात्मानुगुणबहुवाक्यस्वारस्यं भङ्क्त्तवा अन्यतरात्मशब्दस्य वा आत्मशब्दद्वयस्य वा जीववाचित्वाश्रयणापेक्षया आत्मशब्दद्वयस्यापि परमात्मपरत्वसमर्थनस्वरसस्य तत्परत्वा श्रयणमेव युक्त्तमिति भावः। अर्थैकरूप्यवर्णनं युक्त्तमिति- ननु परमात्मसङ्कल्पनिर्वृत्तये पत्यादयः प्रिया भास्तीति पतिजायादिषु प्रियत्वापादकत्वेनानन्दरूपत्वसमर्थनपरत्वमात्मनः कामायेतिवाक्यस्य न युज्यते, पतिजायादिषु कदाचित्प्रियत्वापादनेनानन्दरूपत्ववत् कदाचित्प्रियत्वापानेनानन्दरूपत्वस्यापि प्रसङ्गात् । किञ्च “न वा अरे पत्युः कामाये ‘तिवाक्यानां परमात्मविषयत्वे प्रसिद्धिद्योतको वैशब्दोपि न सङ्गच्छते, नहि परमात्मेच्छाधीनां पतिजायादीनां प्रियत्वमिति लोकसिद्धम् , न च श्रुतिप्रसिद्धं तदिति वाच्यम्; अनधीतिनीम्- अविज्ञातश्रुत्यर्थाम् मैत्रेयीं प्रति लोकप्रसिद्धेरेव द्योतनीयत्वात् , ततश्चात्मनः- कामायेत्यात्मशब्दस्य जीवपरत्वमेवोचितम् । तथाहि सर्वेषामपि स्वात्माःप्रियः पतिजायादयोपि प्रिया इति अनुभवसाक्षिकमेतत् , तत्र पतिजायादीनां स्वात्मवतिरिक्त्तानां सर्वेषां प्रियत्वं पतित्वादिप्रयुक्त्तं न भवति । अपितु स्वात्मप्रयुक्त्तमेव, तेषां स्वेष्टसम्पादकत्वदशायामिव स्वानिष्टसम्पादकत्वदशायां पि्रयत्वादर्शनात् , स्वात्मनस्तु पतिजायादीन् प्रति इष्टसम्पादकत्वदशायामनिष्टसम्पादकत्वदशायां चाविशेषेण स्वप्रियत्वदर्शनात् पतिजायाद्ययपेक्षया आत्मनोऽतिशयितपुरुषाथर्त्वात् जीवात्मैव द्रष्टव्य इत्ययमेवार्थो युज्यत इति । अत्र केचित्- अस्त्वेवमात्मनस्तु कामायेतिवाक्ये आत्मशब्दस्य जीवपरत्वम् , अमृतत्वप्राप्त्युपायत्वादिभिः प्रकरणस्य परमात्मपरत्वादर्ढ्यावगमात् द्रष्टव्यत्वं परमात्मन एवेति एतावदिह नस्सिषाधयिषितम् । आत्मनः कामायेति सन्दर्भस्य जीवपरत्वे का नः क्षतिः, नच पूर्ववाक्यस्य जीवपरत्वेऽनन्वयः शङ्कनीयः। यस्मात्स्वयमेव स्वस्य परमप्रेमास्पदं तस्मात्स्वस्य महापुरुषार्थसिध्द्यौ परमात्मा द्रष्टव्य इत्यर्थसम्भवाददोषात् , नचात्मशब्दवैरूप्यं दोषः। “स्याच्चैकस्य ब्रह्मशब्दव’दितिन्यायेन वैरूप्यस्य सोढव्यत्वात् । सूत्रस्यैकप्रकरणविषयत्वात्प्रकरणस्य महावाक्यरूपत्वादिति सूत्रस्य प्रकृतमहावाक्यविषयत्वादिति निष्कृष्टार्थः । सूत्रेणाविवक्षितस्स्यादिति - नन्वेवं विज्ञानघन एवेत्यादिमध्यवाक्यान्वयोपि तुल्यन्यायतया कथमविवक्षितस्स्यादिति चेत् सत्यम् ; उपक्रमस्य प्रधानत्वात् तद्विवक्षणमावश्यकम् , अत प्रवोक्तम् उपक्रमश्च महावाक्यावयवेषु प्रधानभूत ’ इति । जीवशब्देन परमात्माभिधाननिर्वाहपरमिति - ननु जन्मविनाशवत्त्वरूपजीवलिङ्गस्य परमात्मपरत्वनिर्वाहपरत्वमित्येव वक्त्तव्यम् जीववाचिशब्दस्य तत्राभावात् , विज्ञानघनशब्दस्य जविवाचित्वे प्रमाणाभावादिति चेत् , विज्ञानघनशब्दस्य जीववाचित्वाभावेपि मनोवृत्तिविशेषरूपविज्ञानघनत्वस्य जीवलिङ्गतया जीवलिङ्गवाचिनां विज्ञानघनोत्थानविनाशादिशब्दानां जीववाचिशब्देन ग्रहणोपपत्तिरिति भावः। यादवप्रकाशोक्तयोजनाव्यावृत्तिरिति । प्रतिज्ञासिद्धेरित्यादिसूत्रत्रयार्थोपि सूत्रकाराभिमत इति यादवप्रकाशयोजनाव्यावृत्तिरित्यर्थः।जीववाचिशब्देन परमात्माभिधानस्य जीवपरमात्मैक्यसूचकतया तल्लिङ्गत्वेपि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादकत्वाभावादाह- एकविज्ञानेन सर्वविज्ञानप्रतिज्ञापपादकेति । ननु जीवात्मशब्देन परमात्माभिधानस्य प्रागप्रस्तुतया तल्लाभः कथमित्याशङ्कयाह - हेतुवशादिति । योग्यतावशादित्यर्थः। ततश्च एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादककार्यकारणभावकृत्यैक्यदृढीकरणाय जीववाचिशब्देन परमात्माभिधानमिति सूत्रार्थः। अयं यादवप्रकाशपक्ष इति - आश्मरथ्यमतस्य सूत्रकारानभिमत्वादेतत्पक्षस्याप्यनभिमतत्वमिति भावः। कार्यात्मनेति- कार्यात्मना कारणात्मना च वर्तमानयोर्जीवब्रह्मणोः कार्यत्वकारणत्वात्मना भेदस्सत्त्वादिना अभेद इत्यथर्ः॥ “आमुक्त्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्त्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः’ इति पाञ्चरात्रकमतमस्मिन्सूत्रे उपन्यस्त इति । यद्वा वाचस्पतिनोक्तं न तन्त्रमूलं पश्यामः।“आमुक्त्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्त्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः’ इति पाञ्चरात्रकमतमस्मिन्सूत्रे उपन्यस्त इति । यद्वा वाचस्पतिनोक्तं न तन्त्रमूलं पश्यामः।ननु यादवाभिमतस्य स्वाभाविकपक्षस्य पूर्वमेव भाषिततया शङ्करभास्करमतयोरेव दूषयिषितत्वात् , तन्मते स्वाभाविकभेदानङ्गीकारात्स्वाभाविकौपाधिकविकल्पाऽस्मिन्सूत्रे इत्याशङ्कयाह - सम्भावितयो पक्षयोः पराभिमतमिति । अत उपाधेः पारमार्थ्यापारमाथ्यर्पक्षद्वयप्रीति - भास्करशङ्कापक्षद्वयेपीत्यर्थः। ब्रह्मण्यच्छेद्य इति - ब्रह्म स्वरूपोच्छित्वासम्बन्धाभावात् स्वरूपमात्रसम्बन्धित्वादुपाधेर्हेयोपाध्द्याश्रयैक्यप्रतिसन्धानस्य जीवपरयोरविशिष्टत्वात् जीवेश्वरविभागाभावप्रसङ्गादित्यर्थः। तर्हि कथयभिनिष्पत्तिश्रुतिरिति - अभिनिष्पत्तिशब्दस्यापूर्वरूपप्रादुर्भावे प्रसिद्धत्वादिति भावः। न क्वचिदप्यस्तीति - उत्कटतया नास्तीत्यर्थः। अचिदन्तः प्रवेशस्य स्पष्टत्वादिति - “हन्तहमिमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य’ इत्यचिदनुप्रवेशस्य स्पष्टं प्रतीतेस्स्पष्टतया तज्ज्ञापनार्थमित्यर्थः। स्पुटतरार्थश्रुत्यन्तरेति - “य आत्मनि तिष्ठन्’ इत्यादिः स्पुटतरार्थश्रुतिः। अभेदश्रुत्याभिप्रायेणेति - जगत्सृष्टिप्रलयाभिधायिश्रुतीनामप्युपादानोपादेयभावप्रतिपादनमुखेनाभेदप्रतिपादनपरत्वाभावादिति भावः। एतन्निर्वाहस्वीकारहेतुरिति- काशकृत्स्नीयनिर्वाहस्वीकारहेतुरित्यर्थः। याज्ञवल्क्यजनकसंवाद इति । ततश्च मैत्रेयीब्राह्मणस्यापि याज्ञवल्क्यकतृकत्वात् “अन्यश्च राजन् स परः’ इत्यादियाज्ञवल्क्यकर्त्तृकश्लोकसमानार्थत्वं वक्त्तव्यमितिभावः। अन्यश्च राजन् स पर इति - ननु पूर्वत्र “अन्यश्च शश्वदव्यक्त्तं तथाऽन्यः पञ्चविंशकः। तत्स्थं समनुपश्यन्ति तमेक इव साधवः’ इति लोके अव्यक्त्तिशब्दितदेहस्थमात्मानं लोकानुभवप्रवणबुद्धयो देहाभेदेन पश्यन्तीत्युक्त्तत्वात् अस्मिन्नपि श्लोके तदेकार्थ्यप्रत्यभिज्ञानात् “अन्यञ्च राजन् स परः’ इति श्लोकोपि देहात्मविवेकपर एव किं न स्यात् ? नच परशब्दः परमात्मन्येव प्रयोगार्हो न देह इतिवाच्यम्;“महतः परमव्यक्त्त’मित्यादौ शरीरेपि परशब्दप्रयोगादिति चेन्न; एकप्रकरणगतयोः श्लोकयोरेकार्थत्वे अन्तरवैयर्थ्यप्रसङ्गात् । “अन्यञ्च शश्वदव्यक्त्त’मितिश्लोको देहात्मविवेकपरः, “अन्यश्च राजन्स पर’ इति श्लोकस्तु “जुष्टं यदा पश्यत्यन्यमीशम्’ पृथगात्मानं प्रेरितारं च मत्वा’ इत्यादिश्रुत्यनुसारात् जीवविलक्षणासंसारिपरमात्म त्मप्रतिपादनपर इत्येव युक्त्त इति भावः। नन्ववस्थितिमात्रेण तदात्मकत्वे आकाशस्यापि तदात्मकत्वप्रसङ्ग इत्यत आह- अवस्थानं च शरीरप्रतिसम्बन्धितयेति । ननु शरीरतया अवस्थानं हि आत्मतयाऽवस्थानम् । ततश्चात्मतयावस्थितिहेतुकं सर्वात्मकत्वं किं सर्वशरीरत्वम् ? उत सर्वस्वरूपत्वम् ?। नाद्यः, हेतुहेतुमतोरभेदात् । न द्वितीयः, सर्वस्यापि तत्स्वरूपत्वाभावादिति चेन्न; सर्वात्मकत्वं नाम सर्वसामानाधिकरण्यनिर्देशार्हत्वम् तञ्च सर्वात्मभावनिबन्धनमित्यदोषः। सर्वेन्द्रियेति- “सर्वेन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् । स एव’ इति सामानाधिकरण्यं कृत्वा तत्र हेतुमाह- सर्वभूतात्मा विश्वरूपो यतोऽव्यय इति । चारुरूपा सालभञ्जिकेति- तत्र रूपशब्दस्य स्वरूपपरत्वदर्शनादिति भावः। ततश्च त्वमित्यस्य ततस्त्वमुत्पन्न इति भ्रान्तिं व्युदस्यति ततश्च त्वमितीति । ननु सर्वगत्वादित्यनेन व्याप्तिमात्रं सिध्येत् कथं शरीरत्वमित्यत आह- शरीरं हीति । नृपनभोभृत्येति- नृपनप्रतिद्वन्द्वी, भृत्यः, नभःप्रतिद्वन्द्वी कुम्भ इति द्रष्टव्यम् । तच्छब्दवाच्यत्वस्य शरीरशरीरिभावनिबन्धनत्वे “तदनु प्रविश्य सञ्च त्यञ्चाभवत् ’ “सर्वं स्वल्विदं ब्रह्म’ इति श्रुत्योः प्रमाणतामाह- अत एव तदनुप्रविश्येति । ननु नास्मिन्वाक्ये तच्छब्दवाच्यत्वं शरीरशरीरिभावनिबन्धनमिति प्रतीयते, अपि तु अनुप्रवेशनिबन्धनमिति प्रतीयत इत्याशङ्कयाह- अन्तःप्रवेशनेनेति । ननु सर्वं स्वल्विदं ब्रह्मेति वाक्ये ब्रह्मधीनोत्पत्तिस्थितिलयत्वाद्ब्रह्म सर्वशब्दवाच्यमित्येव प्रतीयते, न तु शरीरशरीरिभावनिबन्धनमि त्याशङ्कयाह- अननशब्दवाच्या स्थितिरिति । सदायतनशब्देन स्थितिहेतुत्वाभिधानादिति- “सन्मूलाः सत्प्रतिष्ठाः’ इत्याभ्यां वाक्याभ्यामुत्पत्तिलययोस्सदधीनत्वमुक्तवा स्थितेस्सदधीनत्वं वक्त्तुं प्रवृत्तं सदायतना इतिवाक्यं धारकत्वं दर्शयति, अतोऽवसीयते सदायतनशब्दनिर्दिष्टं धारणं स्थित्यर्थमिति भावः। हेतुत्वोपन्यासादिति- “सर्वं स्वल्विद’मितिवाक्य इति शेषः। शरीरशरीरिभाव एवेति- हेतुत्वाक्षिप्तशरीरशरीरिभाव एवेत्यर्थः। न केवलं सर्वश्रुत्यविरोधमुख्यत्वोपपत्तेरिति- हेतुत्वं सिद्धमित्युत्तरत्रान्वयः। “आत्मनो वा अरे दर्शनेनेति आत्मनि स्वल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदित’मिति षष्ठपाठो भाष्ये उदाहृतः, आत्मनो वा अरे दर्शनेनेति तचुर्थाध्यायपाठष्टीकायामुदाहृत इति द्रष्टव्यम् । लक्षणाभिधानमिति - जगत्कारणत्वलक्षणाभिधानमित्यर्थः। अन्यत्रात्मन इत्यस्यात्मानं विनेत्यस्यार्थस्य क्लिष्टत्वादाहयद्वान्यत्रेति । परैरेवमर्थ उक्त्त इति । दुन्दुभेर्हन्यमानस्येत्यनेन हन्यमानदुन्दुभिप्रभवशब्दसामान्यं लक्ष्यते, दुन्दुभेस्त्वित्यनेनापि तदेव लक्ष्यते, दुन्दुभ्याघातस्सङ्ग्रामभूयिष्ठवीररसाद्यनुकूलो दुन्दुभिध्वनिविशेषः। ततश्चायमर्थः- यथा दुन्दुभिशब्दसामान्यस्य विशेषभूतान् शब्दान् दुन्दुभिशब्दसामान्याद्बाह्यत्वेन ततो निष्कृष्य न कश्चिदपि गृहीतुं शक्नुयात् , किन्तु दुन्दुभिशब्दसामान्यग्रहणेनैव तद्विशेषशब्दो गृहीतो भवति । दुन्दुभिशब्द इत्येव हि दुन्दुभिशब्दविशेषा गृह्यन्ते, ततश्च दुन्दुभिशब्दसामान्यात् दुन्दुभ्याघातशब्दसामान्याच्च यथा तद्विशेषा न भिद्यन्ते, एवं चिद्रूपात्मस्फुरणं विना स्फुरणशून्यं जगच्चिदात्मनो न व्यतिरिच्यत इत्याशयः। शङ्खवीणादिदृष्टान्ता अप्येवमेव योजनीया इत्युक्त्तमित्यर्थः। दुन्दुभिशब्देऽध्यस्ता इति पाठो दृश्यते, तस्यायमर्थः, दुन्दुभिशब्दादव्यतिरिक्त्ता इति । विशेषस्य सामान्येऽध्यासाभावादिति द्रष्टव्यम् । उपरितनयोरिति- ननु दुन्दुभिघातशब्दस्य दुन्दुभ्याघातप्रभवशब्देलक्षणा, नतु दुन्दुभिशब्दमात्रस्य, ततश्चोपरितनयोर्दुन्दुभिशब्दयोरित्युक्त्तम् । दुन्दुभिशब्ददुन्दुभ्याघातशब्दयोरित्येव वक्त्तव्यमनञ्च मिति चेन्न; अस्यापि वाक्यस्य तत्रैव तात्पर्यात् पूर्ववाक्यवैयर्थ्यं चेति- यद्यपि दुन्दुभेर्हन्यमानस्येति वाक्यस्य दुन्दुभिशब्दसामान्यान्निष्कृष्य विशेषशब्दान् गृहीतुं शकोतीत्यर्थप्रतिपादकतया साफल्यमस्ति, तथापि नात्यन्तप्रयोजनम् । दुन्दुभेस्तु ग्रहणेनेत्यादिना दुन्दुभिशब्दसामान्यग्रहणेनैव विशेषशब्दो गृह्यत इत्यर्थप्रतिपादनात्तेनैव तद्ग्रहणमन्तरेण विशेषशब्दो न गृह्यत इत्यर्थस्यापि सिद्धत्वादित्यत्र तात्पर्यात्, विवक्षितार्थलाभे पदान्तरेण सिद्धे तदधिकपदान्तरवैयर्थ्ये दृष्टान्तमाह- नहि गङ्गायामिति। आघातशब्दस्येति- दुन्दुभ्याघातशब्दस्येत्यर्थः। न च दुन्दुभिशब्दावान्तरविशेषो दुन्दुभ्याघातसंज्ञितश्शब्दविशेषोऽस्तीत्युक्त्तमिति वाच्यम्; तत्र प्रमाणाभावात् । सत्यपि तस्मिन् दुन्दुभेस्तु ग्रहणेन विशेषा गृहीता भवन्तीत्यनेनैव चारितार्थ्यादिति भावः। परेणोपादीयमानेत्यादि - दुन्दुभितदाहन्तृपुरुषान्यतरापसरणेनेत्यर्थः। वाक्यत्रये द्रष्टव्य इति- समानार्थकमितिशेषः। तृतीयान्तयो रित्यादिशब्दरोरिति स यथार्द्रैघाग्नेरित्यादिना जगदेककारणत्वमेकायनमित्यादिना करणग्रामनियमनं चेत्यन्वय इति भावः। वृत्तिविशेषा बहवो दर्शिता भवन्तीति- स्पर्शानामिति बहुवचनेनैव शीतोष्णवैविध्ये सिद्धे सर्वग्रहणं शीतोष्णाद्यवान्तरवैविध्यप्रदर्शनार्थमित्येव वक्त्तव्ये वृत्तिविशेषा बहवो दर्शिताभवन्तीति । कथमुच्यते ? नहि स्पर्शादिशब्दा वृत्तिविशेषपराः, तथाहि सति अनुवृत्तमयनत्वं नाम तदुपादातृत्वमिति क्लेशो नाश्रयणीयस्यादिति चेत् सत्यम्; वृत्तिविशेषा बहवो दर्शिता भवन्तीत्येतस्य फलितार्थकथनरूपतया अदोषात् । सैन्घवस्विल्य इतिवाक्यस्यापीति - चतुर्थगतस्यापीत्यर्थः। तस्यैवेति- तादृशप्रेमास्पदस्येत्यथर्ः। उद्बुद्धस्येति - असङ्कुचितज्ञानस्येत्यर्थः। श्रुत्यन्तरार्थप्रत्यभिज्ञानादिति - “न संज्ञास्ति’ न स्मरन् इत्यनयोरैकार्थ्यादिति भावः। स्वाभाविकत्वं फलितमिति- उपाध्यनुक्त्तेरिति भावः। समित्येकीकार इति । संज्ञास्तीत्यत्रेत्यर्थः। ज्ञाननित्यत्ववचनाच्चेति - न विद्यते उचिछत्तिर्विनाशो यस्य तदनुच्छिति, ज्ञानमनुच्छित्तिधर्मो यस्य सोऽयमनुच्छित्तिधर्मा इति बहुव्रीहिगर्भबहुव्रीहिणेत्यर्थः। स्वनिष्ठभ्रमानुवाद इति- आत्मानं स्वनिष्ठं मन्वानः स्वनिष्ठत्वेनाभिमन्यमानेन करणेन स्वनिष्ठाभिमानविषयं विषयं पश्यतीत्यर्थः। कर्तृकरणकर्मसु स्वनिष्ठत्वभ्रमोऽनुवर्तत इत्यर्थः। स्वनिष्ठार्थान्तरदर्शनं स्यादिति । ब्रह्मस्वरूपानवभासे ब्रह्मात्मकत्वदर्शनासम्भवादब्रह्मात्मकार्थान्तरदर्शनं स्यादित्यर्थः। अत्र येवेदं विजानातीतिवाक्यस्य “ग्राह्यकादि जगत्सर्वं येन कूटस्थसाक्षिणा । लोकस्सर्वो विजानाति जानीयात्केन तं वद’ इति सुरेश्वरवार्त्तिकोक्तप्रकारेण येन वाक्षिरूपेण लोकस्सर्वो विजानाति तं केन विजानीयात् स केनापि दृश्यो न भवतीत्यर्थ इति परैव्यर्ाख्यातम् । तत्रानुपपत्तिमाह- अन्यथा आत्मा वा अरे द्रष्टव्य इत्यादि । अन्यथा केवलदुरवबोधत्वे कथित इत्यर्थः। प्रकारो व्युदस्यत इति - ब्रह्मणीतिशेषः। ग्रहणानर्ह इति । ततश्च न गृह्यत इत्यनेन न पौनरुक्त्यमिति भावः। नन्वचित्सङ्गे विद्यमाने कथमचित्सङ्गनिषेध इत्यत आह - न ह्यचित्सङ्गोऽस्येति । पूर्ववाक्येन पुनरुक्त्तीति- येनेदं विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयात्’ इत्यनयो पौनरुक्तयमिति भावः। उपयान्तरनिषेधपरमिदमिति- अत्र विजानीयादित्यनेन न मुक्त्तिकालीनब्रह्मानुभव उच्यते । ततश्चोपासनमन्तरा केनोपायेन विजानीयान्मुक्त्तिमनुभवेदित्यर्थः। एतावदित्यस्यार्थमाह- विजानीयादित्यनेनेति । विजानीयादित्यनेन ब्रह्मानुभवलक्षणप्राप्तेरुक्त्तत्वादेतावदित्यनेन तत्परामर्शो युक्त्त इति भावः। अनुपयोगाद्विरुद्धत्वाच्चेति- जीवोत्पत्तिप्रलयचिन्तनं प्रकृतस्यानुपयुक्त्तं, नह्येक एव भ्रान्तः पुरुषः स्वाभिमतविरुद्धमर्थं कदाचिदङ्गीकरोतीति चोत्तरत्र स्पष्टम् । द्वेधा व्याख्यातमिति - पतिजायापुत्रवित्तादिप्रियसंसूचितेन भोक्त्र्रत्मनोपक्रमरूपपूर्वपक्षबीजस्य परिहारपरतया त्रिसूत्र्या एका योजना, विज्ञानघन एवेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति’ इति द्रष्टव्यत्वेन प्रकृतस्य विज्ञानात्मभावेन समुत्थानविनाशरूपमध्यमवाक्यगतजीवलिङ्गस्यान्यथासिद्धिपरा द्वितीययोजनेतिव्याख्यातमित्यर्थः। इदं सर्वं यदयमात्मेति अभेदव्यपदेशस्येति- आत्मनः कामाय सर्वं प्रियं भवति आत्मा वा अरे द्रष्टव्यः’ इत्युपक्रमे अभेदव्यपदेशस्याभेदव्यपदेशपर्यवसितस्य भोक्त्रात्मनोपक्रमस्येत्यर्थः। “आत्मनि विज्ञातो सर्वमिदं विज्ञातं भवति’ “इदं सर्वं यदयमात्मा’ इति प्रज्ञाता भेदोपपादककार्यकारणाभावायत्तैक्यसूचकत्वं प्रथमसूत्रार्थ इति वर्णितमित्यर्थः। एवमेव पाठश्चेत्समीचीनः, इतरथा यथायमर्थस्सिध्यति तथाध्याहृत्य योजनीयम् । उत्क्रमिष्यतोर्ब्रह्मभावापत्तीति - अत्रापि भोक्त्रात्मनोपक्रमस्येति शेषः पूरणीयः । एवं ब्रह्मण एवाविकृतस्येत्यत्रापि द्रष्टव्यम् । एवं वदतोऽभिप्रायश्शोधनीय इति- यद्यपि शङ्करभाष्ये काशकृत्स्नस्याचार्यस्याविकृतः पर एवेश्वरो जीव इति मतम् , आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादन्वयत्वमभिप्रेतम् , तथापि कार्यकारणलक्षणभेदः कियानित्यभिप्रेत इति गम्यते, औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपिपादायिषितार्थानुसारात्तत्वमस्यादिश्रुतिभ्य इति ग्रन्थे तदाशयः स्पष्ट एव प्रतीयते, तथा भामत्यामपि वह्निस्फुलिङ्गयोरिव जीवपरयोरप्युपादानोपादेयभावकृतौ भेदाभेदावित्याश्मरथ्यमतम् । भविष्यन्तमभेदमादाय भेदकालेप्यभेदेन व्यपदेश इत्यौडुलोमिमतमिति प्रतिपादितम् । तथापि सम्भावनामात्रादेवमुक्त्तमिति द्रष्टव्यम् । पुनश्चैवं योजितमिति - इत्थं हि शाङ्करभाष्यम् “यदप्युक्त्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यस्समुत्थानं विज्ञानात्मभावेन दर्शयन् विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति । तत्रापीयमेव त्रिसूत्री योजयितव्या । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । इदमत्र प्रतिज्ञातम् आत्मनि विदिते सर्वं विदितं भवति इदं सर्वं यदायमात्मेति चोपपादितञ्च सर्वस्य नामरूपकर्मप्रपञ्चस्यैकक्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात् , तस्या एव प्रतिज्ञायास्सिद्धिं सूचयत्येतल्लिङ्गम् । “यन्महतो भूतस्य भूतेभ्यस्समुत्थानं विज्ञानात्मभावेन कथितमित्याश्मरथ्य आचार्यो मन्यते । अभेदे हि सति एक सिज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । उत्क्रमिष्यत एवम्भावादितित्यौडुलोमिः । उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्सम्प्रसन्नस्य परेणात्मना एैक्यसम्भवादिदमभेदोपादानमित्यौडुलोमिराचार्यो मन्यते । अवस्थितेरिति काशकृत्स्नः । अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते । नन्वात्मोच्छेदाभिधानमेतत् , “एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति’ इति कथमेतत्परस्परभेदाभिधानम् ? नैष दोषः। विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम् नात्मोच्छेदाभिप्रायमिति । ततश्च पुरोवादिशाङ्करभाष्यार्थोऽस्मद्वाक्याद्यथा सिध्यति तथाऽध्याहारव्युत्क्रमादिकमाश्रित्य योजनीयम् । प्रकरणस्य परमात्मपरत्वं न निवारयतीति- नन्वेवं वा “अरेयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्दस्समुत्थाये’त्यादिना प्रकृतस्य द्रष्टव्यात्मन एवायमिति परामृष्टस्य विज्ञानाभावेनोत्पत्तिविनाशवर्णनात्कथमुत्पत्तिविनाशाश्रवणं प्रकरणस्य परमात्मपरतां न निवारयेत् । द्रष्टव्यस्यात्मनो जीववाचिशब्दनिर्देशकृताया अपरमात्मत्वशङ्काया निरकारणीयत्वाच्चेति स्वयमेव वक्ष्यमाणत्वाच्चेति चेत् , सत्यम् ; अविकृतस्य ब्रह्मणो जीवभावेनावस्थानं न सम्भवतीत्यादिदूषणान्तरे तात्पर्यात् । अभेदव्यपदेशनिर्वाहस्त्वत्यन्तापेक्षित इति -एतेनेतरव्यपदेशाद्धिताकरणादिदोषप्रसक्त्तिरित्यधिकरणे एवं विलक्षणत्वे सिद्धे सामानाधिकरण्यनिर्वाहार्थम् “अवस्थितेरिति काशकृत्स्नः’ इति सूत्रमत्रैव सङ्गतम् । एवं सूत्रत्रयमेतदधिकरणशेष इत्यर्थमिति वक्ष्यमाणत्वात्कथमत्र सङ्गति- रितिशङ्का परास्ता । यादवप्रकाशैस्त्विति- प्रतिज्ञासिद्धेरिति सूत्रत्रयमपि सूत्रकाराभिमतनिर्वाहपरमेव व्याचक्षते, नतु पूर्वसूत्रद्वयार्थस्य दूष्यत्वं तृतीयसूत्रार्थस्य - सूत्रकाराभिमतनिर्वाहपरत्वमिति । विकल्पयोग्यत्वादिति -विकल्पेन दूषयितुमयुक्त्तत्वादित्यर्थः। इहाप्युपन्यस्तं स्यादिति -औडुलोमिमतप्रत्यभिज्ञानादिति भावः। पूर्णत्ववदिति -अंशान्तरसापेक्षत्ववदित्यर्थः। तत्तच्छब्दवाच्यत्वाभावादिति - तृणादिशब्दवात्यत्वाभावादिति भावः॥ इति वाक्यान्वयाधिकरणम् ॥