अत्रेयं विषयशुद्धिः , कौषीतकीब्राह्मणे अजातशत्रुर्नाम काशीराजः स्वसमीपमागत्य “जुह्म ते ब्रुवाणी ‘त्युक्त्तवन्तं बालाकिम् “सहस्रं दह्मः एतस्यां वाचि जनको जनक इति वै जना धावन्ती’ ति प्रशस्य बालाक्रिना “य एव आदित्ये पुरुषस्तमेवाहमुपासे ’ इत्यादिभिर्वाक्यैर्ब्रह्मत्वेन उपदिष्टानादित्यचन्द्रविद्युत्स्तनयिस्तु - आकाशवाय्वग्न्यादिगतानू पुरुषान् अब्रह्मत्वेन तत्तत्पुरुषोक्तयनन्तरमेव प्रत्याख्याय तत्र तूप्णींभूते बालाकौ किमेतावदेव तव परिज्ञानमिति पृष्ट्वा तेनैतावदेवेत्यभिहिते “मृषा किल वै मा सम्बादयिष्ठाः’ “ब्रह्म ते ब्रुवाणी ’ त्युक्तवा “यो वै बालक ’ इत्यादि पठ्यते । एवं हि श्रुतिक्रमः, “सहोवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्य इति तदुह बालाकः समित्पाणिः प्रतिचक्रमे । उपायानीति तं होवाचाजातशत्रुः प्रतिलोमरूपमेतत् स्यात् । यत् क्षत्रियो ब्राह्मणमुपनयेत् , एहि व्येव त्वाद्य ज्ञापयिष्यामीति तं ह पाणावभिपद्य प्रवब्राज । तौ ह सुप्तं पुरुषमीयतुः, तं हाजातशत्रुरामन्त्रयाञ्चके, बृहन् पाण्डरवासस्सोमराजन्निति सह तूष्णीमेव शिश्ये तत उ हैवैनं यष्टया विचिक्षेप, स तत एव समुत्तस्थौ तं होवाचाजातशत्रुः क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागादिति तदुह बालाकिर्न विजज्ञौ तं होवाचाजातशत्रुः यत्रैष एतद्बालाके पुरुषोऽयिष्ट यत्रैतदभूत यत एतदागात् । हिता नाम हृदयस्य नाड्यो हृदयात्पुरीततमभिप्रतिष्ठन्ति यथा सहस्रघा केशस्यापि पातस्तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य नीलस्य पीतस्य लोहितस्येति तासु तदा भवति यदा सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति तदैवैनं वाक् सर्वैर्नामभिस्सहाप्येति चक्षुः सर्वै रूपैस्सहाप्येति श्रोत्रं सर्वैश्शब्दैः सहाप्येति मनस्सर्वैर्ध्यानैः सहाप्येति स यदा प्रबुध्यते यथाग्नेर्विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादा बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’ इति । उपक्रमे वक्त्तव्यतया बालाकिनोपक्षिप्तं ब्रह्माजानते तस्मां एवाजातशत्रुणा “स वै वेदितव्यः’ इति ब्रह्मोपदिश्यते । “यस्य वैतत्कर्म’ इति कर्मसम्बन्धात्प्रकृत्यध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टं ब्रह्मेति निश्चीयते, नार्थान्तरम्, तस्य कर्मसम्बन्धानभ्युपगमात् । कर्म च पुण्यापुण्यलक्षणं क्षेत्रज्ञस्यैव सम्भवति । न च वाच्यम्; क्रियत इति कर्मेति व्युत्पत्त्या प्रत्यक्षादिप्रमाणोपस्थापितं जगदेतत्कर्मेति निर्द्दिश्यते, यस्यैतत्कृत्स्नं जगत्कर्म स वेदितव्य इति क्षेत्रज्ञादर्थान्तरमेव प्रतीयत इति; “यो वै बालाक एतेषां पुरुषाणां कर्त्ता यस्य वैतत्कर्म’ इति पृथङ्निर्देशवैयर्थ्यात्, कर्मशब्दस्य च लोकवेदयोः पुण्यपापरूप एव कर्मणि प्रसिद्धेः। तत्तद्भोक्तृकर्मनिमित्तत्वावाज्जगदुत्पत्तेरेतेषां पुरुषाणां कर्त्तेति च भोक्तुरेवोपपद्यते । तदयमर्थः- एतेषामादित्यमण्डलाद्यधिकरणानां क्षेत्रज्ञभोग्यभोगोपकरणभूतानां पुरुषाणां त्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो लोकाः तद्यथा क्षुरः क्षुरधानेव हितस्स्यात् विश्वम्भरो वा विश्वम्भरकुला ये एवमेवैष प्राज्ञ आत्मेदं शरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यस्तमेतमात्मानमेत आत्मनोऽन्ववस्यन्ति यथा श्रेष्ठिनं स्वाः तद्यथा श्रेष्ठी स्वैर्भुङ्कते, यथा वा इन्द्र एतमात्मानं न विजज्ञौ तावदेनमसुरा अभिबभूवः, स यदा विजज्ञौ अथ हत्वासुरान् विजित्य सर्वेषां देवानां श्रैष्ठयं स्वाराज्यमाधिपत्यं परियाय यो ह वैनं विद्वान् सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठयं स्वाराज्यमधिपत्यं पर्य्येति य एवं वेद य एवं वेद । स वै वेदितव्य इत्यनतं विषयवाक्यमिति । “स वै वेदितव्य इत्यधीयत’ इति पूर्वेणान्वय इति भावः । जीवस्य कर्मसम्बन्धपरत्वशङ्को निरस्तेति - “यो वै बालाके ’ इति वाक्ये जीवस्य कमर्सम्बन्धे बोधितेऽपि तदतिरिक्त्तस्य ब्रह्मणःप्रत्याख्यानाभावात् , नानेन सिद्धान्तिनः किञ्चिदनिष्टमापतितमिति शङ्का निरस्ता, ब्रह्मण एव कर्मसम्बन्धप्रतिपादनेन जीवातिरिक्त्तब्रह्मप्रत्याख्यानादिति भावः । इह निर्दिष्टानामिति । अस्मिन् प्रकरणे निर्दिष्टानामादिनांपुरुषाणामित्यर्थः । सुषुप्तिस्थानं नाड्य इति - पूर्वपक्षिणोऽयमभिप्रायः,क्वैष एतद्बालाके पुरुषोऽशथिष्टेति प्रश्न उत्थापि तस्य जीवस्य सुषुप्तिस्थानविषयः, क्व वा एतदभूदिति प्रश्नस्तदुत्थापनात्पूर्वमुपरतव्यापारस्य तदनन्तरं व्याप्रियमाणतयानुभूयमानस्य एतच्छब्दनिर्दिष्टस्य करणग्रामस्य सुषुप्तिकालिकस्थितिविषयः, “कुत एतदागा’ दिति प्रश्नस्तस्यैव करणग्रामस्योद्गमनापादानविषयः, एवञ्च तासु तदा भवति यदा सुप्त स्वप्नं न कथञ्चन पश्यतीति प्रथमप्रश्नस्य प्रतिवचनम् , अथास्मिन् प्राण एवेकधा भवतीति द्वितीयप्रश्नस्य प्रतिवचनम् , “तदेनं वाक्’ इत्यादि तु तस्यैव विवरणम् , यदा प्रतिबुध्यत’ इत्यारभ्य देवेभ्यो लोका’ इत्येतदन्तं तृतीयप्रश्नस्य प्रतिवचमिति । सिद्धान्तिनस्तु प्रथमप्रश्नो जीवस्य स्वप्नस्थानविषयः, द्वितीयस्तु जीवस्य सुषुप्तिस्थानविषयः, तृतीयस्तु गीवस्य प्रबोधकालोद्गनापादानविषयः, तासु तदा भवतीति प्रथमप्रश्नप्रतिवचननम् , “यदा सुप्त ’ इत्यारभ्य द्वितीयप्रश्नप्रतिवचनम् , “यदा बुध्यत’ इत्यारभ्य तृतीयप्रश्नस्य प्रतिवचनमित्यभिप्रायः । तदानीं तदाशब्द इति । नाडीनां सुषुप्तिस्थानत्वाभ्युपगमपक्ष इत्यर्थः । उक्त्तवानित्यन्वय इति । करणग्रामैकधाभावस्यैव सुषुप्तिरूपतया “प्राण एवैकधा भवति ’ इत्यनेन सुषुप्त्याधारतया उक्त्तवान्नित्यन्वय इत्यर्थः । भाष्ये स्वप्नसुषुप्तिजागरितावस्यास्विति । यद्यपि पूर्वपक्षे प्रश्नप्रतिवचनयोः स्वप्नसम्बन्धाभावात्स्वप्नावस्थायामनुवर्तमानत्वं न प्रतीयते, तथापि स्वप्नजागरणसुषुप्तीनां सामानाधिकरण्यमर्थसिद्धमिति भावः । यद्वा “यदा सुप्तः स्वप्नं न कथञ्चन पश्यति ’ इति वाकयादिति द्रष्टव्यम् । प्राधान्यं विवमिति चेदिति - यद्यपि “सङ्खयाया विधार्थे धा ’ इति सङ्खयायां विधीग्रमानो धाप्रत्ययः प्राधान्यवाचिन एकशब्दान्न सम्भवति, तथापि छारदतत्वात् तथा शङ्कितमिति द्रष्टव्यम् । भाष्ये - अस्मिन्नात्मनि वर्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इततिि । ननु मुख्यप्राणस्यैकीभूतकरणग्रामाश्रयत्वे सुषुप्त्याश्रयत्वप्रसङ्गेन मुख्यप्राण स्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवादिति पूर्वभाष्यविरोध इति चेत् न एकीभूतकरणग्रामाश्रयप्राणाश्रयत्वस्यैव सुषुप्तित्व विवक्षया एतत्पक्षोत्थितिसम्भवादिति द्रष्टव्यम् । प्राणनामभिरामन्त्रणाश्रवणादिनेति- इदमुत्तरत्र स्पष्टम् । पूर्वपक्षे कर्त्रादिशब्दानामिति - पूर्वपक्षिणः साङ्खयस्य मते कर्तृत्वादेरध्यस्तत्वेनास्वारस्यावशनयम्भावादिति भावः । स्वाक्यस्थपदान्तरान्वययोग्यत्वं विवक्षितमिति - यद्यपि “चमसवदविशेषा ‘दिति सूत्रे अर्थप्रकरणादिभिर्विनेति भाष्यव्याख्यानावसरेऽथर्ो वस्तुसामर्थ्यमित्युक्त्तम् । आलङ्कारिकैश्च अर्थः प्रयोजनं यथा “स्थाणुं भज भवभञ्जनाय’ इति भञ्जनरूपप्रयोजनवशात् हरदारुसाधारणस्थाणुशब्स्य हरे पर्य्यवसानम् । प्रकरणम् प्रस्तावः, यथा चक्रवत्तिसन्निधौ सर्वं जानानि देव इतिप्रत्युक्त्तस्य देव इतिपदस्येन्द्राद्यनेकार्थसाधारणस्य युष्मदथर्े पर्य्यवसानं प्रकरणात् , लिङ्गं वस्तु सामर्थ्यम् । यथा कुपितो मकरध्वज इत्यत्र समुद्रमन्मथसाधारणस्य मकरध्वजशब्दस्य कोपरूपलिङ्गवशान्मन्मथे पर्य्यवसानमित्युक्त्तम् , तथाप्यनतिविरोधादेवमुक्त्तमिति द्रष्टव्यम् । ननु एतच्छब्देन कर्मशब्दसमभिव्याहृतेन एतेषां पुरुषाणां कर्त्तेति पूर्वनिर्दिष्टपरामर्शित्वं किन्न स्यादित्यत आह- लिङ्गवचनविरोधादिति । नन्वेतेषां पुरुषाणां कर्त्तेत्यनेनोपस्थापितस्य पुरुषकर्मनिर्माणस्यैतच्छब्देन परामर्शोऽस्त्वित्यत आह - पुरुषनिर्माणरूपव्यापारमिति । प्रकरणतो वा प्रकृतार्थान्तरसम्बन्धित्वेन वेति - साक्षात् परम्परया वा शब्दोपस्तथापितत्वेनेत्यर्थः। प्रसिद्धो वेति -प्रत्यक्षादिमानान्तरतो वेत्यर्थः । प्रकरणादिना सङ्कोचानुपपत्तेरिति । नपुंसकैकवचनान्तनिर्देशार्हस्य प्रकृतस्या भावेनैतच्छब्दस्य सङ्कुचितवृत्तित्वकल्पकाभावादित्यर्थः । प्रकृतार्थान्तरसम्बन्धित्वेनापि केषाञ्चिद्बुद्धिस्थत्वं दर्शयति चिदचिन्मिश्रेतीति । हेत्वन्तरमाहेति - ननु पूर्वं बलीयस्त्वहेतोः कस्यापि अनुपन्यासात् कथं हेत्वन्तरोक्ति’ रिति चेत् न, अत्रान्तरशब्दो विशेषवचनः “अन्यदेवेदं परिभाषान्तर’मिति भाष्यं व्याचक्षाणेन कैय्यटेनान्तरशब्दो विशेषवचन इति व्याख्यातत्वात् । केचित्तु- कर्मशब्दस्यादृष्टवच्चलनेपि रूढतया रूढ्योः परस्परकलहायमानत्वेन रूढ्यन्मेषाभावरूपहेतोः न च पुण्यापुण्यालक्षणं कर्मेति पूर्वभाष्येऽभिप्रेतत्वात् ब्रह्म ते ब्रुवाणीत्युपक्रम्येत्यादेर्हेत्वन्तरत्वमुपपद्यत इति वदन्ति । युक्त्यन्ततरमाह - आदित्यमण्डलाद्यधिकरणानां पुरुषाणां कर्त्तेतिवाक्यस्येति । आदित्याद्यधिकरणानां पुरुषाणां कर्तेतिवाक्यस्येत्यर्थः। आत्मशब्दोपि प्रयुक्त्त इति - यदि हि “आत्मा वा अरे द्रष्टव्यः’ इतिवत् य आत्मा स वेदितव्यः’ इति निर्देशः स्यात् तदा साधारणस्यात्मशब्दस्य विवक्षितविशेषपर्यवसानं स्यात् ; न चात्र तथा निर्देशोऽस्तीति भावः । एतच्छब्दस्येति -केचित्तु कर्मसम्बन्धित्वस्यैवेतिभाष्यं यस्य वैतत्कर्मेतीत्युत्तरभाष्यैकवाक्यं मन्वाना एतच्छब्दस्योक्तर्थपरत्वाभावेऽनिष्टमाह, कर्मसम्बन्धित्वमात्रस्यैवेतीति पाठमाद्रियन्ते । ननु यस्य वैतत्कर्मेत्यनेनैव हिरण्यगर्भादिदेवताविशेषसमन्वितकृत्स्नजगत्कारणत्वं सिध्द्यतीत्येतेषां कर्तेत्यस्य वैयर्थ्यमाशङ्कयाह - जगत्कतृत्वस्येति । ततश्च परस्परसाहित्यादसङ्कोचसिद्धिरिति भावः । विनियोगादृष्टवत इति -भोजनादृष्टवत इत्यर्थः । कर्मवाचिपदलक्षणेति - कर्मसम्बन्धिवाचिपदलक्षणेत्यर्थः॥ननु नहि देवदत्तयज्ञदत्तपुत्र इत्युक्त्ते देवदत्तं प्रति पुत्रत्वेन यज्ञदत्तं प्रति जामातृत्वेन सम्बन्धः प्रतीयत इत्यस्वरसादाह - यद्वा लिङ्गं ज्ञापकमिति । सूत्रे मुख्यप्राणलिङ्ग मुपात्तमिति । ननु प्राणलिङ्गस्यापि जीवलिङ्गितया विवक्षितत्वे जीवलिङ्गादित्येव सूत्रणीयम् , नतु जीवमुख्यप्राणलिङ्गादिति चेन्न;गोबलीवर्दन्यायेन जीवलिङ्गत्वाविशेषेपि प्राणसङ्कीत्तर्नस्य जीवलिङ्गान्तरापेक्षया प्राधान्यं दर्शयितुं पृथगुक्तयुपपत्तेः । अयं वह्निमान् धूमज्ञापकादित्युक्त्ते धर्मज्ञापकस्यापि धूमद्वारा वह्निज्ञापकत्वेपि प्रापान्यविवक्षया पृथङ्िनर्देशदर्शनादिति भावः । ननु न प्राणसङ्कीर्त्तनमात्रं जीवलिङ्गम् , अपि तु प्राणोपकरणित्वेन सम्बन्धः । न चात्र प्रकरणे स श्रुतः । “अथास्मिन् प्राण एवैकधा भवति’ इति प्राणस्य करणग्रामैकधाभावाश्रयत्वस्यैव प्रतीत्या प्राणस्य जीवोपकरणत्वस्याप्रतीतेरिति चेन्न, अथास्मिन् प्राण इति व्यधिकरणे सप्तम्याविति पक्षे अस्मिन्निति सप्तम्या इदंशब्द निर्दिष्टस्य प्राणाश्रयत्वप्रतिपादनात् प्राणभृत्त्वेन जीवस्यैव प्रसिद्धत्वात्प्राणाधारत्वकीर्तनं लिङ्गं भवतीति नानुपपत्तिः, अत एव द्युभ्वाद्यधिकरणे प्राणाधारत्वं जीवलिङ्गतयोपवर्णितम् ननु “यथा श्रेष्ठी स्वैर्भुङ्क्ते’ इति प्रतिपादितभोक्तृत्वादिरूपजीवलिङ्गापेक्षया “अथास्मिन् प्राण’ इति प्रतिपाद्यस्य प्राणाधारत्वकीर्तनस्य किं प्राधान्यम् ? प्रत्युत द्युभ्याद्यधिकरणोक्तरीत्या अन्यथासिद्धं चेति चेत् , सत्यम्; स्थितस्य गतेर्वक्त्तव्यतया केनचिदाकारेण विशेषस्य समर्थनीयत्वात् जीवप्राणयोस्सम्बन्धस्यातिप्रसिद्धत्वाच्च । न तूपासनार्थत्वमप्यतिदेष्टव्यमिति भाव इति । तल्लिङ्गानन्यथासिद्धावेव तद्विशिष्टोपासनार्थत्वसम्भवादिति भावः । ननु प्राणशरीरब्रह्मोपासनार्थं प्राणसङ्कीर्तनं लिङ्गं युज्यत इति भाष्यमयुक्त्तम् अनन्यथासिद्धप्राणलिङ्गोपन्यासे हि एतादृशमुत्तरं वक्त्तुं युक्त्तम् प्राणलिङ्गासद्भावस्य प्रदर्शितत्वादित्याशङ्क्याह - प्राणलिङ्गस्य ब्रह्मपरत्वमुक्त्तमित्यर्थ इति । अनन्यथासिद्धब्रह्मलिङ्गानुरोधात्प्राणशब्दो ब्रह्मपरतया व्याख्यातव्य इति भाष्यार्थः । इतरत्वविवक्षितत्वमिति भावः । जीवलिङ्गनिर्वहणाकाङ्क्षामिति - प्राणशब्दरूपलिङ्गस्य पूर्वसूत्रनिव्यूढत्वात्तदतिरिक्त्तजीवलिङ्गनिर्वहणाकाङ्क्षमित्यर्थः । जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वमितिभाष्यस्याप्येवमेवार्थः । ननु तदुक्त्तमितिसूत्रखण्डेनैव प्राणसङ्कीर्तनरूपलिङ्गस्यैव लिङ्गान्तरस्यापि निर्वाहसम्भवाल्लिङ्गान्तरनिर्वाहाय सूत्रान्तरं किमर्थम् ? न च प्रकारान्तरेण निर्वाहार्थमन्यार्थमिति सूत्रम् , अत एव प्रकारान्तरेण निर्वाहप्रतिपादकमितिटीकाग्रन्थोयुक्त्त इति वाच्यम् , जीवप्राणलिङ्गयोर्द्वयोरपि निर्वाहमुक्तवेत्याद्युत्तरग्रन्थविरोधादिति चेन्मैवम् , उत्तरत्रानेन निर्वाहवैषम्यप्रदर्शनेनेत्यादिग्रन्थेनान्यार्थमिति सूत्रस्यातिदेशसूत्रानिवर्त्त्याधिकाशङ्कापरिहारार्थत्वमस्य वक्ष्यमाणत्वेनादोषात् ।प्राणस्य स्वापप्रबोधयोरसम्भवादाह - अनुपरतव्यापारप्राणवत इत्यर्थ इति । प्राणानामभिरामन्त्रणाश्रवणं न प्राणस्य भोक्तृत्वाभावकृतम् , अपितु प्राणव्यापारोपरतिकृतमिति शङ्कां व्युदसितुं प्राणव्यापारानुपरमकीर्तनमिति द्रष्टव्यम् । किञ्च सुषुप्तिदशायां शरीरेन्द्रियेभ्योन्यत्वं सुज्ञानमिति तदानीमप्यनुपरतव्यापारात्प्राणादन्यत्वं दुर्ज्ञानमिति तस्य ज्ञापनीयतां दर्शयितुं प्राणस्य व्यापारानुपर मोक्तिः । इति हि श्रुतिरिति- ततश्च “तौ ह सुप्तं पुरुषमाजग्मतु ’ इति क्वचिद्भाष्यकोशे पाठो दृश्यते, स तु लेखकानवधानकृत इति भावः । प्राणा जीवा इति- न च “स यदा प्रतिबुध्द्यते’ इत्येकवचनान्तनिर्दिष्टस्य जविस्य तस्मिन्नेव वाक्ये “एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते’ इति बहुवचनान्तप्राणशब्देन कथं निर्देश इति वाच्यम् ; “अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदुच नार्चिषमेवाभिसम्भवन्ति’ इत्यथास्मिन्नित्येकवचनान्तेन निर्दिष्टस्य अर्चिषमभिसम्भवन्तीति बहुवचनान्तेन निर्देशवत् “ते धूममभिसम्भवन्ति’ इतिबहुवचनान्तनिर्दिष्टस्य एष सोमराजा’ इत्येकवचनान्तं निर्देशवच्चेदृशवचनवैरूप्यस्य सोढव्यत्वादिति भावः। श्रुत्यन्तरेण तदुपपादयतीति - यद्यपि निष्क्रमणशपादानत्वे श्रुत्यन्तरं नोदाहृतम् । तथापि तदप्यभिप्रेतमिति भावः। उपक्रमोपसंहारमध्येष्विति - यद्यपि ब्रह्म ते ब्रुवाणीत्युपक्रमस्य ब्रह्मपरत्वं सिद्धम् । यस्य वैतत्कर्मेत्यस्य च ब्रह्मपरत्वं “जगद्वाचित्वा’दिति सूत्र एव साधितम् । सर्वान् पाप्मनोऽपहत्येति उपसंहारस्यापि ब्रह्मपरत्वं सिद्धमेव; अतश्चोपक्रमोपसंहारैकरूप्यं ब्रह्मपरत्व एव । न जीवपरत्वे । तथापि “एहि व्येव त्वा ज्ञापयिष्यामि तं पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमीयतु’रित्युपक्रमस्य यष्टिघातोत्थापनप्रतिपादकमध्यमस्य “इदं शरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यः “तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते’ इत्याद्युपसंहारस्य च जीवविषयत्वावगमात्प्रतर्दनविद्यायामिवोपसंहारे भूयसां लिङ्गानामश्रवणात्सर्वान् पाप्मानोऽपहत्येति उपसंहारस्य च स यदा विजज्ञौ अथ हत्वाऽसुरान्विजित्य सर्वेषां देवानां श्रैष्ठयं स्वाराज्यं परीयाय’ इति पूर्ववाक्यश्रुता सुरजयस्वाराज्यादिवदापेक्षिकसर्वपापहतिस्वाराज्यपरतयाप्युपपत्तेः स्वत्त्रेण जीवःप्रतिपाद्यत इत्यभ्यधिकोत्थानसमभवादिति भावः। वस्तुतस्तु वैयधिकरण्य निर्देशात्तन्नयायो नावतरतीति शङ्काभिप्रायः। अस्त्यवकाश इति- यद्यपि जीवप्रतिबोधनस्यान्यार्थत्वे प्रतर्दनविद्यान्यायोऽनपेक्षित एव, जीवलिङ्गस्य त्वाष्ट्रहनादिवज्जीवशरीरकपरमात्मनिष्ठतया योजनीयत्वात्, तथापि यथाकथचित् जीवलिङ्गान्यथासिद्धिरेव प्रतर्दनविद्यान्याय इत्यभिप्रेत्य तथोक्तमिति द्रष्टव्यम् । अवस्थान्तरत्वावगमादिति - अथ यदा सुप्तः स्वप्नं न कथञ्चन पश्यतीत्यन्वयः। ततश्चाथशब्दोपक्रमं वाक्यमथशब्दश्च पूर्वप्रकृतादर्थान्तरवाची सन् अर्थान्तरद्योतकस्तदाशब्दश्चाध्याहाय्यर् इति भावः। स्वप्नाभावावच्छिन्नकालादिति - सुषुप्त्यवच्छिन्नकालादित्यर्थः। अपृष्टः करणग्रामाप्ययः कथभच्यत इति - “तदैनं वाक् सर्वैर्नामभिस्सहाप्येति’ इत्यादिनेतिशेषः। क्व सुप्त इत्यर्थ इति - यत्र यदा जीव एष सुप्तस्तदा क्व सुप्त इति श्रुत्यर्थ इति भावः। उपरतव्यापारं मन इत्यर्थ इति - मनस आदानं नाम मनोव्यापारोपरमसम्पादनम् , अर्थान्तरस्यासम्भवादिति भावः। अनेनेति - आदानस्य व्यापारोपरमसम्पादनरूपतया इन्द्रियजन्यज्ञानानामप्यादानं तद्य्वापा रोपरक्त्तिरूपमित्यर्थः। तेषां मनस्सापेक्षत्वादिति- मनस आदाने मनोव्यापारोपरतिरूपे पर्यवसिते सति तत्साहित्येन निर्दिश्यमानानां वागिन्द्रियादिजन्यज्ञानानामप्यादानस्य तादृग्रूपस्यैव वक्त्तव्यत्वात् । इतरथा एकक्रियायां साहित्यभङ्गप्रसङ्गात् ततश्च मनोविषये यादृश आदानशब्दार्थस्तादृश एव प्राणविज्ञानेपीति भावः। यद्वा प्राणानां विज्ञानेनेति श्रुतेरयमर्थः। प्राणादीनां वागादिना यद्विज्ञानं स्वस्वविषयग्रहणसामर्थ्यापादनं मनोव्यापाररूपं सामर्थ्यम् । तेन सह मन आदाय निर्व्यापारं मनः कृत्वेत्यर्थः। एतत्परतया प्राणशब्दवाच्येत्यादिग्रन्थोपि योजनीयः । ज्ञानेन सह मन आदायेति वक्त्तव्ये मनसा सहत्युक्त्तिः फलितार्त्रकतनपरा, अतश्च श्रुत्या कण्ठोक्तेन्द्रियव्यापारोपरमे फलितत्वोक्तेर्न विरोध इति द्रष्टव्यम् । समानप्रकरणस्थप्राणात्मशब्देति- अथास्मिन्प्राण एवैकधा भवति एतस्मादात्मनः’ इति कौषीतकीवाक्यस्थप्राणात्मशब्देत्यर्थः। वैयधिकरण्यनिर्देशाच्चेति - तं मामायुरमृतमुपास्व’ इतिवत्सामानाधिकरण्यनिर्देशाभावादित्यर्थः। ननु “तदभावो नाडीषु तच्छ्रुतेः’ इत्यत्र “तद्यत्रैतत्समस्तस्संप्रसन्नः स्वप्नं न विजानाति आसु तदा नाडीषु सुप्तो भवति’ इति वाक्यवशान्नाडीनां सुषुप्तिस्थानत्ववर्णनात् “अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्य’ इत्यस्येहापि प्रत्यभिज्ञानान्नाडीनामपि सुषुप्त्याधारत्वमेव । ततश्च “क्वैष एतद्बालाके पुरुषोऽशयिष्टेति सुषुप्तिस्थानप्रश्नः “य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते’ इति वाजसनेयके सुषुप्तौ शयनशब्दप्रयोगात् क्व वा एतदभूदिति एकधाभावप्रश्नः, तत्र प्रथमप्रश्नस्यासु तदा भवति यदा सुप्तः स्वप्नं न कथञ्चन पश्यति’ इति यदातदाशब्दयोरन्वयस्य युक्त्तत्वात् द्वितीयप्रश्नस्य प्राण एवैकधा भवतीत्युत्तरमिति किं न स्यादिति चेत्; सत्यम् ; नाडीनां सुषुप्तिस्थानत्वं समर्थितम् , अथापि अत्र “हिता नाम नाड्यः’ इति श्रूयमाणा नाड्यस्ता इत्यत्र प्रमाणाभावात् , प्रत्युतास्मिन् प्रकरणे “अथ यदा सुषुप्तो भवति यदा न कस्य न वेद हिता नाम नाड्यो द्वासप्ततिस्सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । आभिः प्रत्यवसृप्य पूरीतती शेते ’ इति सुषुप्तिकाले पुरीततिशयनं तत्पूर्वकाल े हितनामकनाडीसञ्चरणमिति स्पष्टं प्रतिपादनात् हितनामकनाडीप्राप्तेस्सुषुप्तिसमये असम्भवात् स्वप्नप्रश्नोत्तरमेव नाडीप्वित्यस्येतिसिद्धम् । नन्वस्मिन्नधिकरणे पुरुषस्य वेदितव्यतयोपन्यासेन प्रधानपूवेपक्षस्यै वानुत्थानात्कथमुपसंहारे न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्येति भाष्यमित्याशङ्गयमाह- प्रधानोपादानमिति । इति जगद्वाचित्वाधिकरणम् ॥