31 कारणत्वाधिकरणम्

शब्दस्य वृत्तिद्वयविरोधप्रसङ्गादिति भावः - एकव्यापारेणेति । अन्नसम्बन्धित्वरूपैकव्यापारेणेत्यर्थः, प्रदर्शितानीत्यर्थ इति । निर्दिष्टशब्दस्य प्रदर्शितत्वमर्थः, ततश्च “पञ्च पञ्चजना ’ इत्येतत्सर्वेन्द्रियोपलक्षणमिति भावः- प्रयोजनं वदन्निति । सर्वथा साङ्खयमतप्रत्याशाभावरूपप्रयोजनं वदन्नित्यर्थः पञ्चधा भूतपञ्चतत्वसङ्घातानामिति - ज्ञानेन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, तन्मात्राणि पञ्च, भूतानि पञ्च, अवशिष्टानि पञ्च तेषामात्मेत्यर्थः स्यादिति भाघः । अद्वारकञ्चति- आनन्दमयशि अद्वारकम् , अन्यत्र सद्वारकमित्यर्थः॥ सङ्खयासम्भवे तथा वर्णनीयमिति - ब्रह्मात्मकत्वेन तथा वर्णनीयमित्यर्थः असम्भवे चेति अवतारसङ्खयानिवेशनिमित्तोपाध्याद्यसम्भवे चेत्यर्थः ॥अवर्जनीयाचिद्बोधेति -तत्राचित्प्रतिपत्तेरवर्जनीयत्वादेव व्याकुलत्वम् ,तादृशकारणवाक्यानि विषयः, सर्वाण्यपि कारणवाक्यानि विषय इत्यर्थः, एकस्मादित्यस्यैकरूपात्कारणादितिव्याख्यानं दृश्यते न तस्यं सामीचीन्यं पश्यामः, “सत्पूर्विकासृष्टिराम्नायत इति छान्दोग्ये इति शेषः “असत्पूर्विका चेति ’ तैत्तिरीयके इति शेषः “अन्यत्रेति ’ वृहदारण्यके इत्यर्थः, ब्रह्मकारणवाद इति निमित्तसप्तमी, ब्रह्मकारणवादौप्रयिकी सृष्टिकारणव्यवस्त्रितिः वेदान्तेषु नास्तीत्यर्थः - सृष्टिकारणव्यवस्थितितेरित्यर्थ इति । ततश्च सृष्टिशब्दस्य कारणमात्रासाधारणतयोपादानस्यापि सङ्ग्रहो भवतीति भावः, पूर्वापरपर्यालोचनाप्रयत्नाविति । “तपोऽतप्यत ’ इति पूर्वापरपर्यालोचना, “तप आलोचने इति हि धातुः, असृजतेति प्रयत्नश्चेति भावः चक्षुराद्युत्पादनौन्मुख्याभिप्रायमिति । चक्षुरादिशब्दप्रवृत्तिनिमित्तभूतदर्शनौन्मुख्याभिप्रायमित्यर्थः, ततश्च “पश्यत्यचक्षु ‘रित्यस्य वाक्यस्य दर्शनोत्पादनाभिमुखत्वात्कर्मनामभाग्भवतीत्यर्थः, तेन “स प्राणन्नेव प्राणो नाम भवति, वदन्वाक् , पश्यन् चक्षुः, श्रृश्वन् श्रोत्रम्मन्वानो मनस्तानयस्यैतानि कर्मनामान्येवे ‘ति श्र,तौ प्राणवाक्चक्षुः श्रोत्रमनश्शब्दा लावकपावकादिशब्दव त्प्राणनवदनदर्शनश्रवणमननक्रियायोगादात्मन एव क्रियानिमित्तनामानीत्येव प्रतीयते, नतु “चक्षुः पश्यन् ’ इति चक्षुः कर्म दर्शनम् चक्षुरुपादानौन्मुख्यलक्षणं प्रतीयते, परैरपि तथा व्याख्यातञ्चेति शङ्का पराकृता, ननु अव्याकृतशब्देन प्रथमत एवाचेतनप्रतिपत्तिरित्युक्त्तम् , अन्याकृतत्वस्य च चेतनैकान्तत्वाभावात् , अत एव तदुपजीवि तदुत्तरसन्दर्भः सर्वोऽपि न युक्त्त इत्यस्वरसादाह -यद्वा कारणगता इतीति । नन्वीक्षणस्य सर्वथा मुख्यत्वभङ्गापेक्षया अंशे मुख्यत्वभङ्ग एव स्वीकार्य्य इति वैपरीत्यमेव युक्त्तमित्याशङ्कय चिदंशकारणत्वस्यानन्यथासिद्धप्रमाणप्रतिपन्नतया सर्वत्र ईक्षक्षादिगौणत्वमेव युक्त्तमित्याह - तदतिरिक्त्ते वस्तुनीति । नेतिपदानुषङ्गफलितेति - “न सङ्खयोपसङ्ग्रहादपी ‘तिसूत्रस्थनञनुषङ्गफलित इत्यर्थः । ननु “कारणदवनेने ’ इत्यादिसूत्रे यथा व्यपदिष्टस्य सर्वज्ञत्वादिगुणकस्य असद्वा इदमग्र आसीत् ’ इत्यत्रापि जगत्कारणत्वेनोक्तेरिति हि वक्त्तव्यम् , तस्यैव पूर्वपक्षप्रत्यनीकत्वात् , नतु “आत्मन आकाशः सम्भूतः’ इत्यादिवाक्ये सर्वज्ञस्यैवाकाशादिकारणत्वेनोक्तेरिति प्रतिपायनं युक्त्तम् , किञ्च “तत्तोजोऽसृजत ’ इति सद्विद्यावाक्योपादानमप्ययुक्त्तम् , तत्राकाशादिकारणत्वाश्रवणादित्याशङ्कयाह - स्वतश्चेतनैकान्तेति । भूयसां बलीयस्त्वमेवेति -आकाशादिपदविहितब्रह्मकारणत्वप्रतिपादकबहुवाक्यानुसारेण ब्रह्मकारणवादविरोधी क्वादित्कोऽसदव्याकृतादिशब्दो यथा कथञ्चिन्नेतव्य इत्यस्य सूत्रस्यार्थः, पूर्वापरवाक्यपर्यालोचनयाऽपि असदादिशब्दस्य तथैव निर्वाह इति उत्तरसूत्रार्थ इति भावः विपश्चित्वप्रतिपादनादिति - इदमुपलक्षणम् , “सत्यम् ज्ञान ‘मिति ज्ञानत्वप्रतिपादनादित्यपि द्रष्टव्यम् , ननु सच्छब्दस्य चेतनपरत्वे जडवाचीदं शब्दसामानाधिकरण्यं कथमित्यत्राह -सच्छब्दस्येति । समर्थित इत्यभिप्राय इति- तात्पर्यत इतीति शेषः एको ह वै नारायण आसीदित्यारभ्येति - अत्र आरम्भसमानकर्तृकक्रियावाच्योचितपदाध्याहारेणान्वयो द्रष्टव्यः - उपक्रमस्थबहुश्रुतिविरोधादिति यद्यप्यव्याकृतब्राह्मणोपक्रमवाक्यमिदमेव, तथापि पूर्वब्राह्मणेषु “आत्मैवेदमग्र आसी ’ दित्यादिश्रवणादेवमुक्त्तमिति द्रष्टव्यम् ॥स इति पु†ल्लिङ्गशब्देनेति - उत्तरोत्तरवाक्यगतस्य तच्छब्दस्य स्वस्वपूर्ववाक्यप्रतिपन्नगुणविशिष्टसमाकर्षकत्वात् सोऽकामयत ’ इति वाक्यप्रतिपन्नगुणविशिष्टसमाकर्षक इति भावः, ज्ञानविपश्चिदादिबहुश्रुतिप्राबल्यसिद्धेरिति । ननु ज्ञानविपश्चिदादिशब्दैः ब्रह्मणः प्रकृतत्वेऽपि “असद्वा इदमग्र आसी ‘दित्यत्रासच्छब्दश्रुतिबलात्प्रकृतब्रह्मणोऽन्यदेव, प्रकरणात् श्रुतेर्बलत्वात् , ततश्च परस्परविरोधान्निर्णयासमर्थानां वेदान्तानां कापिलत्मृत्यनुसारेण निर्णयो वक्त्तव्य इति वदन्तं पूर्वपक्षिण प्रतिज्ञानविपश्चिदादिबहुश्रुतिप्राबल्यकीर्तनस्य व्यर्थत्वात् , पूर्वपक्षिणा हि ज्ञानविपश्चिदादिश्रुतिप्राबल्यमभ्युपेत्यैव तदबाधेनैव प्रकरणमात्रबाधस्यैवोपन्यस्तत्वादितिचेत् सत्यम् , श्रुत्या बलीयस्या प्रकरणमात्रबाधश्चेत् , सोऽभ्युपगन्तुं युक्त्तः , इह तु न तथा; अस्मदादिशब्दश्रुतेर्बलवत्त्वे ज्ञानविपश्चिदादिशब्दाथर्स्य जगत्कारणत्वप्रतिपादकश्रुतीनां सोऽकामयत तदप्येष श्लोको भवती ‘ति प्रकृताभिधायिसर्वनामश्रुतीनामपि बाधप्रसङ्ग इति भावः । ननु “असदेव ‘मिति बृहदारण्यकश्रुतावपि “तत्सदासी ‘दिति तत्सद्रूपदाविधायकोत्तरवाक्ये तत्पदेना सच्छब्दोक्तस्यैव समाकर्षात् अत्यन्तासतश्च सद्रूपतापत्त्ययोगादित्येव परमतवत् “असदेवेदमग्र आसी ‘दित्यत्रापि समाकर्षे प्रदर्शयितुं शक्ये, भाष्ये तदनादरः किमर्थ इत्याशङ्कयाह - तत्रासच्छब्दोक्तस्येति । तुच्छव्यावर्तक इति - परमतवत् अस्मन्मतपूर्वपक्षे तुच्छकारणत्वशङ्काया अप्यनुद्धाटनात् तुच्छव्यावर्तकसच्छब्दसमाकर्षो युक्त्त इति भावः । ननु तुच्छकारणत्शङ्काऽप्यस्मिन् पूर्वपक्षे उद्घाटयतामित्यत्राह - कारणावस्थायामिति । परमात्मस्वरूपे नामरूपव्याकृतत्वतदभावयोरभावात् सद्वारके व्याकृत्वाव्याकृतत्वे इत्यभिप्रेत्य व्याचष्टे, भाष्ये -अव्याकृतम् - अव्याकृतशरीरमिति । तदात्मानं स्वयमकुरुत इत्यनेनैकार्थ्यादिति भाव इति - व्याक्रियत इति कर्मकर्तरि लकार इति भावः । ननु “तद्धेदं तर्ह्यव्याकृतमासी ‘दित्यत्र कर्मणि तिष्ठान्ततया व्याक्रियतेत्यत्रापि तदवैरूप्याय कर्मण्येव लकारो वक्त्तव्यः, न कर्मकतर्रि नचाव्याकृतमित्यत्रापि कर्तय्यैव कर्मवद्भावात् क्त्तप्रत्ययोऽस्त्विति वाच्यम् , “लिङ्याशिप्यङ् ’ इत्यत्र द्विलकारकनिर्देशेन लान्तकार्यं प्रत्येव कर्मवद्भावविधानात् कर्मवद्भावेन कृत्यक्त्तादीनामससम्भवात् , ततश्च क्त्तप्रत्ययसारूप्याय लकारोऽपि कर्मण्येव युज्यते , “न कर्मकर्त्तरी ’ ति कथं नामरूपव्याकरणस्य स्वयं कर्तृकता सिध्द्येदिति चेत् न, छव्याकृतमित्यत्र कर्मणः कर्तृत्वविवक्षया धातोरकर्मकत्वात् “गत्यर्थाकर्मके’ ति कर्त्तरि क्त्तप्रत्ययसम्भवान्नानुपपविरिति भावः ॥