30 संख्योपसंग्रहाधिकरणम्

तन्देवा ज्योदिषां ज्योतिरायुर्होपासतेऽमृतम् ’ आत्मानं विद्वान् व्रक्षामृतोऽमृतम् ’ “प्राणस्य प्राणमुत चक्षुपश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनो विदुः ते निश्चिक्युर्ब्रह्म पुराणमग्रयम् ’ इति श्रुतिः । तान्यपि विषय इति - “स वा एष पुरुष पञ्चधा पञ्चात्मा ’ इत्यादिवाक्यमपि विषय इत्यर्थः पञ्चस्वन्यतमत्वाभावेनेति । यद्यपि “रथकारः पञ्चमाश्चत्वारो वर्णाः पञ्चजना’ इति कैय्यटोक्तेर्मनुष्यनाम्नः पञ्चजनशब्दस्यापि सप्तर्षीतुल्ययोगक्षेमत्वमेवेति वक्त्तुं शक्यम्, तथापि मनुष्यादिनाम्नः पञ्चजनशब्दस्य पञ्चभिर्भुतैर्जननमस्येति व्युत्पत्त्यभिप्रायेण तथोक्तमिति द्रष्टव्यम् । न च तथा व्युत्पत्त्याश्रयणेऽपि सङ्खयापूर्वकत्वं सिद्धमिति कथं सङ्खयापूर्वकसमासत्वाक्षेप इति वाच्यम् , समानाधिकरणसङ्खयापूर्वकसमासासम्भवादिति भावः - सङ्खयापूर्वकसमासत्वं युक्त्तमितभिप्रेत्येति । “तद्धितार्थोत्तरपदसमाहारे चे’तिसूत्रविहितसङ्खयापूर्वकसमासत्वं युक्त्तमित्यभिप्रेत्येत्यर्थः, नतु “दिक्सङ्खये संज्ञाया’मिति विहितसङ्खयापूर्वकसमासत्वमिति मन्तव्यम् , तथा सति “सप्त सप्तर्षयः’इत्यत्रौकोनपञ्चाशतत्वसङ्खयाप्रतीत्यभाववत् “पञ्च पञ्चजना’ इत्युक्त्ते पञ्जविंशतत्वप्रतीत्यभावप्रसङ्गादिति द्रष्टव्यम् -तदाहीति । पञ्चशब्दस्य समस्तत्व इत्यर्थः । दशत्वमापद्यत इति - यथा “पञ्च सप्त च वर्णानि नववर्षशतक्रतुः’ इत्यादौ द्वादशवर्षवृष्ट्य्भावप्रतीतिवदिति भावः - विशेषपय्यर्न्तशब्दोपस्थापितस्येति । ततश्च स्वतन्त्रोपस्थित्यभावेन नैराकाङ्क्षयादिति भावः- नच द्वे शतेति - “द्वे शते ब्रह्माणास्त्रीणि शतानि ब्रह्मणा’ इत्यत्र ब्राह्मणपदंसामानाधिकरण्यसिध्द्यर्थं शतशब्दस्य शतत्वसङ्खयावद्विशेष्यपर्यन्ततया विशेष्यपर्यन्तशब्दोपस्थापितस्यापि शतसङ्खयारूपविशेषणस्य सङ्खयान्तयान्वयदर्शनवदिहापि पञ्चत्वसङ्खयायाः पञ्चत्वसङ्खयान्वयोऽस्तीत्यर्थः। अवान्तरसङ्खयेति - यथा त्रयश्त्रिशह्वेवा इति महासङ्खयायाम् अष्टौ वसव एकादश रुद्राः द्वादश आदित्याः प्रजापतिरिन्द्रश्चे’ ति वाक्यप्रतिपन्नाष्टत्वैकादशत्वावान्तरसङ्खयानिवेशनिमित्तवसुत्वाद्युपाधिवदिह पञ्चत्वसङ्ख्यारूपावन्तारस्ङ्खयानिवेशनिमित्तभूतस्यैकस्योपाधेर्दशनादित्यर्थः । एकग्रामस्थित्याद्युपाधिना हीति । यद्यपि एकग्रामवाविषु सहस्रेषु पुरुषेषु सहस्रसङ्खयावान्तरसङ्खयारूपशतसङ्खयानिवेशनिमित्तभूताः परस्परव्यावृत्ता उपाधयो न दृश्यन्ते, “पञ्च सप्त च वर्णानि पञ्च पञ्चाशतस्त्रिवृत् सम्वत्सरा’ इत्यादिषु विनाप्येकैकमवच्छेदकं विवक्षितमहासङ्खयालाभोपायतामात्रेण यत्किञ्चदवान्तरसङ्खयानिवेशदर्शनात् , नहि द्वादशवार्षिक्यामनावृष्टौ पञ्चसु सप्तसु च वर्षेषु विश्वसृजामयने पञ्चाशनुत्तरद्विशतसङ्खयानां त्रिवृतां सम्वत्सराणां मध्ये पञ्चाशति पञ्चाशति सम्वत्सरेषु चैकैकधर्मोस्ति, तथापि सम्भवस्थलाभिप्रायेणदं द्रष्टव्यम् । शतसङ्खयापुरुषसमूहैक्यमिति - शतसङ्खयालक्षणधर्मैक्येन समूहैक्यमित्यर्थः । सङ्खयानिवेशनिमित्तोपाधौ सति सङ्खयानिवेशः, सङ्खयानिवेशे सति समूूहैक्यमिति द्रष्टव्यम् । न तन्त्रोक्ताथर्त्वनिश्चय इति - “देवाः पितरो गन्धर्वा दैत्या दानवा राक्षसा भूताःप्रेताः पिशाचाः चत्वारो वर्णाः षडनुलोमाः षट् प्रतिलोमाश्चे ‘त्येवमादिरूपेण पञ्चविंशतिजनसम्भवादिति भावः । ऐकपद्यदर्शनादिति -इदमुपलक्षणम्, पञ्चजनशब्दस्य भाषिकाख्यशतपथब्राह्मणस्वरविधायकग्रन्थविहितेनान्तोदात्तस्वरेणापि समासो विधीयत इति द्रष्टव्यम् । पञ्चशब्दसमभिव्याहारबलेनेति - पञ्च सप्तर्षयः सप्त सप्तर्षय इत्यादौ सङ्खयावाचिपदसमभिव्याहारेऽपि न सङ्खया परत्वम्, समाहारस्वीकारो वा, तथापि प्रस्यस्तसभतावयवार्थसञ्ज्ञा समासत्वाश्रयणापेक्षया समाहारसमासत्वाश्रयणमेव ज्यायः, किञ्च सञ्ज्ञासमासत्वाभ्युपगमेऽपि न पञ्चजनशब्देन मनुष्याणां ग्रहणं सम्भवति, अध्यात्मप्रकरणे पञ्चमनुष्यत्वकीर्तनस्यायुक्त्तत्वात् , इतरेषाञ्च पञ्चजनशब्दितानामप्रसिद्धैः समाहारसमासत्वाश्रयणमेव युक्त्तमिति माकः , पञ्चजनपञ्चशब्दस्येति - पञ्चजनशब्दान्तर्गतपञ्चशब्दस्येत्यर्थः । स्त्रीलिङ्गस्मृतेरिति । “अकारान्तोत्तरपदो द्विगु स्त्रियां भाष्यत ’ इति स्त्रीत्वस्य पात्रादिषु प्रतिषेधो वक्त्तव्य इति त्रिभुवनादिेषु अपवादवत् इह तदभावात् छान्दसत्वमिति भावः । एतच्चोपलक्षणम् , “उकालोऽज्खस्वदीर्घप्लुतः’ इत्यत्र छान्दसत्वेन “स नपुंसकम्’ इति नपुंसकलिङ्गाभाववदिहापि छान्दसत्वेन “सनपुंसकम् ’ इति नपुंसकलिङ्गाभावोऽपि द्रष्टव्यः । ननु “यस्मिन् पञ्च पञ्चजना’ इतिमन्त्रे आत्माकाशव्यतिरेकेणापि पञ्चविंशतिपदार्थप्रतीतेः, ताभ्यां च सह सप्तविंशतिसङ्खयासम्पत्तेः नैतत् साङ्खयदशर्नानुगुणमित्याशङ्खय प्रकृतिद्रव्यस्य द्रव्यत्रयात्मकत्वेन सप्तविंशतिसङ्खयाया अपि न तन्मते विरोध इति परिहरति, यस्मिन्निति निर्दिष्टेन आत्मना चेत्यादिना । आत्मनः स्वस्मिन्नवस्थितत्वादिति । स्वे महिम्नि प्रतिष्ठित इतिवदिति भावः, भाष्ये मूलप्रकृतिरविकृतिरिति, मूलप्रकृतिः न कस्यापि विकृतिः, महदहङ्कारतन्मात्राणि सप्तापि किञ्चिदपेक्षया विकृतयः, किञ्चिदपेक्षया प्रकृतयश्च, पञ्च भूतानि पञ्चज्ञानेन्द्रियाणि पञ्च कमर्ेन्द्रियाणि मनश्चेति षोडसापि तत्वानि विकृतिभूतान्येव, न प्रकृतिभूतानि, पुरुषस्तु न प्रकृतिर्नापि विकृतिश्चेति श्लोकार्थः । भाष्ये - तमिति परामर्शेनेति, “तमात्मानं ब्रह्मामृतम् एवमन्यो विद्वानमृतो भवती ‘ति तच्छब्दनिर्दिष्टस्य मन्त्रवर्णे ब्रह्मत्वाविष्करणादिति भावः, ननु विश्वसृजामयने पञ्चपञ्चाशतस्त्रिवृत्सम्वत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशा ’ इत्यादौ पञ्चाशति पञ्चाशत्यहस्सु अनुगतोपाध्यभावेऽपि तथा तथा निर्देशवत् इहापि पञ्चसु पञ्चसु अनुगतोपाध्यभावेऽपि लक्षणया पञ्चविंशतिसङ्खयाप्रतीतिः सम्भवतीति अस्वारस्यं हृदि निधायाह ,भूतसमूहासिद्धेरित्युपलक्षणमित्यादिना । तेष्वर्थवत्वमाहेति - समस्तपञ्चजनशब्देनैव पञ्चत्वसङ्खयायाः प्रतीतत्वात्पुनः पञ्चशब्देन विशेषणम् व्यर्थमितिशङ्कां व्युदसितुमर्थवत्वमाहेत्यर्थः, समाससामर्थ्याभावादिति - समासस्य सामर्थ्यं नाम समर्थपदाश्रितत्वम् , पदानां सामर्थ्यं नाम परस्परसंसृष्टार्थत्वम् , ततश्च पञ्चशब्दस्य निरर्थकत्वे परस्परसंसृष्टार्थपदाश्रितत्वलक्षणसामर्थ्यं अत्रायमभिसन्धिरित्यादेरयमर्थः, साधुत्वान्वाख्यानप्रवृत्ता वैयाकरणाः सन्तमसन्तं वा कञ्चिदर्थं परिकल्प्य व्युत्पादयन्ति, नच तावता तत्पदात्तदर्थप्रतीतिरस्ति, नहि गौरित्युक्त्ते गच्छतीति प्रतीतिरस्ति, ततश्च पञ्चजनशब्दस्य प्रत्यस्तमितावयवार्थकत्वत्पञ्चत्वसङ्खयया विशेषक्षमनुपपन्नम् ; किञ्च वासस्वी देवदत्तपदवाच्यः यः पञ्जरस्थः स सिंह इत्यादौ व्युत्पत्तिग्रहकाले वासः प्रभृतीनामुपलक्षणत्वेऽपि नाभिधानकाले प्रतीतिरिति वासस्वी देवदत्त इत्यादौ न पौनरुक्तयादिकम् तथेहापीति पञ्चशब्दविशेषणोपपत्तिः । किञ्च अभिधानदशायामवयवार्थप्रतिपत्तौ सत्यामपि यदा कदाचित् तदर्थसत्तामात्रं प्रतीयते, नतु प्रयोगकाले तत्सत्ताप्रतीतिरिति गौगर्च्छतीति प्रयोगसाफल्यम् , तद्वदिहापि तादाद्विकपञ्चत्वसङ्खयान्वयप्रतीतिसिध्द्यर्थं पञ्चेति विशेषणं सफलमेव, अत एव “पञ्चजनादुपसङ्खयान’मिति वार्तिके कथमत्रैकवचनमितयाक्षिप्य पूर्वेपुकामशम्यादिवत्समुदायवृत्तस्यावयवेऽपि वृत्त्यैकवचनम् यथा सप्तर्षिरिति, ततश्च “द्वौ पञ्चजनौ त्रयः पञ्चजनाः पञ्च पञ्च जनाः’ इत्यादिसङ्खयासामानाधिकरण्यं विरुद्धम् । यदा द्वौ सप्तर्षिः त्रयः सप्तर्षयः’ इति कैय्यटपदमञ्जर्यादौ अभिधानान्न व्याख्यानपौनरुक्तयादिकमिति द्रष्टव्यम् - यद्विग्रहवाक्येर्थाभिधानशक्त्तिरिति । ततश्च विग्रहवाक्याभिधाने स्वरूपयोग्त्वमस्ति, ततः समाससामर्थ्यमप्यस्तीति भावः। पञ्चविंशतितत्वाप्रतिपत्तिमभिप्रेत्येति - पञ्चविंशतितत्वाप्रतिपत्तिहेतौ समूहपञ्चकासम्भवे विपरिवतेमान ऐवेत्यर्थः ।सन्दिग्धे तु वाक्यशेषादिति । ननु पञ्चजनशब्दरूढ्या मनुष्याणामेव निश्चयसम्भान्न सन्देहोदय इति चेत् न, अध्यात्मप्रकरणे पञ्चमनुष्याः प्रतिष्ठिता इत्यर्थपरिग्रहे वाक्यस्य निस्तात्पर्यत्वप्रसङ्गात् पञ्चशब्दस्य वृत्तिसङ्ख्यापरत्वं विहाय ब्राह्मणत्वाद्यवान्तरोपाधीनादाय पञ्चविधा मनुष्या इति वाक्यार्थः समाश्रयणीयः, उत वाक्यशेषगताः प्राणादयो वेति सन्देहे सति “प्राणस्य प्राणमुत चक्षुपश्चक्षुरत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनो ये विदुः ते निश्चिक्युः ब्रह्म पुराणमग्रयम् ’ इति प्राणादीनां ब्रह्माधीनप्राणनादिव्यापारसामर्थ्यप्रतिपादकत्वाक्यशेषवशेन निर्णयसम्भवादिति भावः,- पञ्चसङ्खयानिवेशनिमित्तैकोपाध्यभावादिति । यद्यपि प्राणादीनामिन्द्रियत्वरूपैकोपाध्यभावेऽपि ब्रह्माधीनस्वव्यापारतया प्राणस्य प्राण ’ मितिवाक्यशेषप्रतिपाद्यत्वमेकोपाधिरिति शक्यते वक्त्तुम् , तथापि सति गत्यन्तरे प्रसिद्धोपाधेरेव स्वीकरणार्हत्वादिति भावः अन्तरादित्याद्यधिकरण इति । शरीरस्य त्रिगुणात्मकत्वप्रकृतिपरिणामित्वशङ्कापरिहारदर्शनाद् यथा पूर्वपक्षेऽपि तच्छङ्काया अभिप्रेतत्वावगम इति भावः ।ननु परमतवद्द्वितीयान्तज्योतिश्शब्दार्थपरामर्शित्वं किन्न स्यादित्याशङ्कयाह - श्रुतिवाक्यस्वारस्येति । अस्वारस्यं सोढव्यमिति - तच्चानुपदमेव स्फुटीभविष्यति - परैर्हीति । ननु परैः षष्ठयन्तज्योतिश्शब्दनिर्दिष्टेनादित्यादिज्योतिषा इव सङ्खयापूर्णमित्येवोक्तम् , असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसङ्खया पूर्येत, तेऽपि हि “यस्मिन् पञ्च पञ्चजना ’ इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते, “तं देवा ज्योतिषां ज्योतिः ’ इतीति भाष्यम् - व्याकुर्वता आनन्दगिरिणाऽस्मिन् मन्त्रे षष्ठयन्तज्योतिषा पञ्चपूर्णान्नत्वात्मज्योतिषा, तस्यैकस्य नाधाराधेयत्वादिति व्याख्यातत्वादिति चेन्न, यदि च द्वितीयान्तज्योतिश्शब्दार्थः तदाधाराधेयत्वाद्यनुपपत्तिरिति विकल्पमभिप्रेत्य दूषणमुक्त्तमिति द्रष्टव्यम्, परस्परसाकाङ्क्षेणेति - “पञ्च पञ्चजना ‘इति मन्त्रेणलभ्यते ’ नापि “तं देवा ’ इति पूर्वमन्त्रेण, अतस्तदर्थनिणर्ये परस्परसाकाङ्क्षेणेत्यर्थः, स्वरशब्देनैव व्याख्यातानीति चक्षुष इति चक्षुरिन्द्रियमित्येवं चक्षुरादिशब्दैरेव व्याख्यातानीत्यर्थः । अन्नशब्दं व्याचष्टे -अन्नस्येतीति । द्विः पठ्यते, न तस्य प्रयोजनं पश्यामः । लक्षणया बोधकत्वं दर्शयितुमिति -यौगिकार्थस्वीकारेऽन्न