29 चमसाधिकरणम्

कारणं प्रधानमेवेति -स्वतन्त्रप्रधानमेवोच्यत इत्यर्थः । तेजोबन्नपरत्वेन व्याख्यातमिति - ननु वाचस्पतिना किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेन प्रतिपाद्यताम् ,उत परमेश्वरी मायाशक्त्तिस्तेजोबन्नव्याक्रियाकारणमुच्यताम् ? इत्येवं सिद्धान्ते मूलप्रकृतिपरत्वमेव प्रदर्शितम् न तु तेजोबन्नात्मकावान्तरप्रकृतिपरत्वमिति चेत् सत्यमुक्त्तं वाचस्पतिना, तथापि वचनस्य ज्योतिरुपक्रमादिति सूत्रतद्भाष्याभ्यां तेजोवन्नानां जननश्रवणात् कथमजात्वमिति कल्पनोपदेशादिति सूत्रावतारिकाभाष्येण च विरुद्धत्वात्तदनादृतम् । यदि हि मूलप्रकृतिर्मन्त्रवर्णप्रतिपाद्यत्वेनाभिमता स्यात् तदा तस्य जन्मरहिततया कथमजात्वमित्याक्षेपस्य वा कल्पनोपदेशादितिछागत्वकल्पनेन परिहारस्य वा असम्भवादिति ध्येयम् । गौण्या वृत्त्या सत्त्वरजस्तमोमयीति - रक्त्तंकुसुम्भादि, रञ्जयतीति रक्त्तशब्देन रज उच्यते । एवमावारक मन्धकारं नीलं तमोगुणश्चावारक इति आवारकत्वसाधर्म्यात्तमोपि नीलादिशब्देनोच्यते इति भावः । परिणम्यमानमितिपाठः । “णिचि मितां ह्वस्व’ इति ह्रश्वविधानात्, यद्वा “मितां ह्वस्व’ इत्यत्र वेत्यनुवृत्तेर्वा परिणम्यमानमित्यस्य साधुत्वं द्रष्टव्यम् । प्रकृत्यादीनामिति व्याख्येयं पदम् । नन्वत्र प्रकृत्यादीनां स्वरूपमभिहितमिति कथमुचनयते, षड्विंशकमित्याहु’ रित्यादाविवाऽत्रापि - एषु वाक्येषु ईश्वरप्रतिपादनमिति । ततश्च प्रकृत्यादीनां स्वरूपमभिहितमिति भाष्यस्य ब्रह्मात्मकस्वरूपमभिहितमित्यर्थ इति भावः । तदन्तर्यामिभगवत्प्रतिपादकवाक्यमिति - “स्तूयते मन्त्रसंस्कृत्यैरथर्वविहितैर्दिभु’रित्युत्तरखण्डे विभुशब्देन व्यापकं नियन्तारं संस्तुत्य तं षड्िवंशकमित्यादि प्रतिपादनात् षड्विंशकस्या ऋषित्वकल्पना, इत्यर्थावगतिरिति भावः । भाष्ये साधनत्वमात्रं चमसशब्देन प्रतीयत इति इदमुपलक्षणम् अर्वाग्बिलोद्ध्वत्मत्वं सिद्धमिति भावः । " प्रकृति पुरुषं चैवे’त्यादि गीतायां त्रयोदशाध्याये “सत्त्वं रजस्तम’ इति चतुर्धाध्याये’ सर्वभूतानि कौन्तेये’त्यादि नवसे, भाष्ये सिद्धान्ते च, “चमसवदविशेषा’दितिसूत्रोपादानानन्तरं नात्र तन्त्रसिद्धा प्रकृतिरभिधीयत’ इति वाक्यं केषुचित्कोशेषु दृश्यते तददृष्टश्रुतप्रकाशिकैः पण्डितम्मन्यैः प्रक्षिप्तम् । उपक्रमस्थं प्रतिज्ञावाक्यमनुपज्यत इति मत्त्वेति टीकोक्तेरिति द्रष्टव्यम् ; वस्तुतस्तु, नात्र तन्त्रसिद्धा प्रकृतिरभिधीयत इत्येव प्रतिज्ञोचिता, न तु प्रकृतिर्निरस्यत इति प्रतिज्ञाया अयुक्त्तत्वान्नानुपङ्गोपेक्षितः, अतो यथा भाष्यमेव प्रतीमः, भाष्ये यथार्वाम्बिलश्चमस ऊद्र्ध्वबुध्न’ इति बृहदारण्यके चतुर्थपाठके शिशुब्रह्मणे - ऊद्र्ध्वबुध्नस्तस्मिन् यशो निहितं यशोरूपम् तस्यासत ॠषयः सप्त तीरे वागष्टमी ब्रह्मणा सविदानेति, अर्वाग्बिलश्चमस ऊर्ध्द्वबुध्न इतीदं तच्छिर एव ह्यर्वाग्बिलश्चमस ऊर्ध्द्वबध्नः तस्मिन् यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्ध्यष्टमी ब्रह्मणा सविता, इति श्रूयते, तत्र चमसमन्त्रपर्यालोचनायां न विशेषप्रतिपत्तिः, वाक्यशेषे तु कण्ठादुपरिभागे शिरसि चमसत्वकल्पना, तद्गतमुखविवरे विलत्वकल्पना, तदूर्ध्वभागे मूर्ध्नावयवे स्थालमूलभागरूपबुध्नत्वकल्पना, तस्मिन् विश्रमरतया स्थितेषु प्राणादिवायुषु यशत्वकल्पना, तस्मिन् परितः स्थितेषु श्रोत्रादिषु इन्द्रियेषु बुध्नशब्दाभ्यां अर्वाग्बिलोद्र्ध्वबुध्नत्वेऽपि प्रतीयत इत्यपि द्रष्टव्यम् । नचार्वाग्बिलोद्र्ध्वबुध्नत्वरूपविशेषणमहिमना विशेषप्रतीतिः, तयोर्गुहादिसाधारण्यात् साधर्म्यदृष्टान्ततया व्याख्यात इति । तत्र “यथेदं तच्छिर’ इत्यारभ्य वैधम्यर्दृष्टान्तमिति भाष्याभिमतमिति भावः । भाष्ये यौगिकशब्दानामिति चमसेषु समाख्यानादित्यधिकरणे यौगिकस्योक्तेरिति भावः । इदमुपलक्षणम् प्रकृते चमसशब्दस्य प्रयोगनैय्यत्येन पात्रविशेषरूढत्वेऽपि प्रसिद्धस्य चमसस्य ऊर्ध्वबिलत्वेन तिर्य्यक् बुध्नत्वेन च तद्विलक्षणत्वे अर्वाग्बिलत्वोद्र्ध्वबुधनत्वे कथिते कोशावीदृशश्चमस इति विशेषजिज्ञासायाः सत्वेन विशेषनिश्चयाभावात् , अत एव “तस्मिन् यथो निहितं विश्वरूपं तस्यासत ऋषयः सप्त तीरे इत्यादौ यश आदिशब्दानां रूढत्वेऽपि तादृग्भूतयशःपदार्थादिजिज्ञासाया दर्शनादिति द्रष्टव्यम् । बलभिदादीति - बलभेदकर्त्तृत्वस्य इन्द्रासाधारणत्वादिति भावः, यथेति नः श्रुतिपदमिति पाठः, स च श्रुतिभ्रान्तिनिवारणशर्थः, ततश्च यथात्रापीत्यत्र तथाशब्दप्रतिद्वन्द्वी यथा शब्दः । नचास्य यथाशब्दस्य तथात्रापीतिभाष्येणान्वय इति पूर्वमेवान्वयो दर्शित इति वाच्यम् ; यथाशब्दद्वयपरामृष्टस्य एकेन तथाशब्देन परामर्शसम्भवेनादोषात् , श्रुतौ यथाशब्दादर्शनाच्चेति द्रष्टव्यम् । स्वातन्त्र्यमेव प्रत्ययवाच्यमिति - कत्रर्थशानच्प्रत्ययेन स्वतन्त्रः कर्त्तेति स्वातन्त्र्यलक्षणकर्त्तृत्वमेव वाच्यमित्यर्थः, मात्रशब्दासभप्रेतनिश्चायकत्वाभावमेवाह - यदि ब्रह्मात्मकत्वमिति । तद्गततयेति - प्रकृतिशरीरकब्रह्मगततयेत्यर्थः ॥ 8 ॥सृष्टिप्रकरणत्वादिति - यद्यपि प्रयाजादीनामङ्गत्वे इतिकर्तव्यताकाङ्क्षालक्षणं प्रकरणं प्रमाणम् , इह सृज्यमानप्रायपाठात्मकवन्निधिलक्षणं प्रकरणं प्रमाणम् , तथाऽप्युभयोरपि प्रकरणशब्दव्यवहार्यत्वमस्तीति तथोक्तमिति द्रष्टव्यम् । पूर्वमेवविच्छेदादिति - “ब्रह्मा देवानां पदवीः कवीना’ मित्यत्र विच्छेदादिति भावः । न सृष्टिप्रकरणविच्छेद इति । यद्यपि सृजमानामिति प्रकृतिकर्त्तृकसृष्टेः प्रतिपादनेऽपि ईश्वरकर्त्तृकसृष्टिप्रकरणाविच्छेदेनैतत् प्रमाणम् , तथापि यथा कथञ्चित् सृष्टिप्रकरणमात्रानुवृत्तिप्रदशर्नार्थमिदमुक्त्तमिति द्रष्टव्यम् । प्रक्रियमाण इति ह्युक्त्तमिति - शानचा प्रकरणस्य वर्त्तमानत्वप्रतीतेरिति भावः। एतद्विशेषणत्वेनेति - प्रकृतिविशेषणत्वेनेत्यर्थः । तस्मिन् प्रकरणोनन्यविशेषणत्वेन प्रतिपाद्यस्य प्रायपाठादुत्यत्तिरभ्युपगन्तव्य इति भावः शाखान्तरे दर्शितमिति । ननु तैत्तिरीयकेऽपि सृज्यमानप्रकरणपाठमात्रेण कथं परमात्मकारणत्वम् , मुक्त्तस्यापि तथात्वप्रसङ्गात्; नच मुक्त्तोऽन्यार्थतया निर्दिष्ट इति वाच्यम् ,प्रथमनिर्दिष्टस्याऽन्यार्थतया निर्दशे प्रमाणाभावात् ; वैपरीत्यस्याऽपि सुवचत्वाच्च; किञ्च प्रायपाठभञ्जके जननप्रतिषेधकेऽजाशब्दे जाग्रति कथं तस्याः कार्यत्वसिद्धिरिति चेत् , अत्र केचित् उयक्रमशब्दो मुख्यवाची सन् लक्षणया नियन्तृत्वपरः , ततश्च ज्योतिरुपक्रमा ब्रह्मात्मिकेत्यर्थः, अत्र च हेतुः श्वेताश्वतरप्रकरणमेव, तत्र हि “ते ध्यानयोगानुगता अपश्यन्देवात्मशक्त्तिं स्वगुणैर्निगूढाम् , मायिनं तु महेश्रम् ’ अस्मान्मायी सृजते विश्वमेत’दित्यात्मशक्त्तितया तद्विशेषणतया च प्रतिपाद्यमानत्वात् ; अयञ्च हेतुरुत्सूत्र एव । श्वेताश्वतरे “आत्म शक्त्ति’ मितिश्रवणाद्ब्रह्मात्मकप्रकृतिप्रतिपादनेपि तैत्तिरीयके तथा प्रतिपादनादर्शनात्कथं तत्र ब्रह्मात्मकप्रकृतिप्रतिपादनमित्याशङ्कयाऽऽह “तथा ह्यधीयत एक इति ’ तत्रापि ब्रह्मात्मिकैव प्रकृतिः प्रतिपाद्यत इत्यर्थः । तथाहि “सप्त प्राणाः प्रभवन्ति ’ इत्यादिना कृत्स्नस्य जगतो ब्रह्मकार्यत्वेऽभिहिते कथं निर्विकारस्य ब्रह्मणो विकारोत्पादकत्वमिति शङ्काव्युदासाय प्रवृत्तोऽयमजामन्त्रवर्णः। यद्यं? ब्रह्मात्मिकामजान्न प्रतिपादयेत्तदा प्रागुपक्षिप्तब्रह्मोपादानत्वनिर्वाहको न स्यात् , अन्यदुपक्रान्तमन्यदापतितमिति न्यायप्रसङ्गात् , अतः सोऽपि मन्त्रो ब्रह्मात्मकप्रकृतिपर एवेति । ननु ज्योतिरुपक्रमाशब्दस्य परमात्मात्मकत्वमात्रप्रतिपादकत्वेऽजात्वज्योतिरूपक्रमात्वयोर्विरोधाभावात्तत्परिहारपरोत्तरसूत्रसङ्गतिः स्यादिति चेत् न, प्रकृते ब्रह्मात्मकत्वस्य तत्कार्यत्वेनैव निर्वोढव्यतया नित्यायाः प्रकृतेः तत्कार्यत्वाभावात् कथं ब्रह्मात्मकत्वमित्याक्षेपे “अस्मान्मायी सृजते विश्वमेत ’ दिति निर्विकारस्य परमात्मनः कारणत्वनिर्वाहकतया सृष्टयुपयुक्त्ततया च प्रतिपाद्यमानायाः प्रकृतेः सर्वदा अपृथक्सिद्धविशेषणत्वस्यावश्यम्भावेन तदात्मकत्वस्य नानुपपत्तिः, ततश्चाविभक्त्तनामरूपा च विभक्त्तनामरूपा च प्रकृतिः सर्वदा परमात्मशरीरभूतैव यथा विभक्त्तनामरूपोऽविभक्त्तनामरूपश्चादित्यः परमात्मशरीरभूत इति “कल्पनोपदेशा ’ दिति सूत्राभिप्राय इति वदन्ति; भाष्ये “देवात्मशक्त्तिं स्वगुणैर्निगूढा ‘मितीत्यस्यानन्तरं पठितेति शेषः । ततश्चारभ्येति क्रत्वाप्रत्ययस्योपपत्तिरिति द्रष्टव्यम् - जगद्योनिभूतां प्रकृतिमित्यर्थ इति । नच योनिशब्दस्य प्रकृतिपरत्वे प्रकृतेरेकत्वात्कथं वीप्सेति वाच्यम् , अन्यत्र योनिशब्दस्य प्रकृतिमहदादिसाधारण्यात् कल्पभेदोपाधिकभेदाश्रयणाद्वा वीप्सोपपत्तिरिति भावः ।वैदिकशब्दनिर्देशानुसारिणाविति । ततश्च स्वायत्ते शब्दप्रयोगे “किमित्यबोधकम्पदं प्रयोक्तव्यमिति’ न्यायेन ब्रह्मोपक्रमा तु तथा ह्यधीयत एक ’ सृष्ट्युपदेशाच्च मध्वादिवदविरोधः ’ इति कुतो न सूत्रितमिति शङ्का पराकृता, सेदिपदस्य प्रकृत्युपस्थापकस्य ब्रह्मपर्यन्तत्वे भाष्यं प्रमाणयति - कारणावस्थं ब्रह्मैवेति । एकस्येति व्याख्येयं पदम् , भाष्ये -वस्वादिभोग्यत्वाय मधु कल्पनमिति, वस्वादिदेवताभोगार्थकर्मनिष्पाद्यरसाश्रयतया मधुव्यपदेशो भोक्त इत्यर्थः । यथाऽऽदित्यस्य कार्यावस्थायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यरसाश्रयत्वमुदयास्तमयत्वञ्च तथेतिभाष्यस्य पर्यवसितोऽर्थः अजात्वैकत्वसिध्द्यर्थमिति - एकाजात्वसिध्द्यर्थमित्यर्थः । उत्तरत्र एकच्छागत्वसिध्द्यर्थमिति वक्ष्यमाणत्वात् - तेजोबन्नवाचिशब्देनेति । लोहितकृष्णशब्दैः तद्ूपवन्ति तेजोबन्नानि लक्षयित्वा तद्दवारा तत्कारणभूता मूलप्रकृतिर्लक्ष्यते किमित्यर्थः - समुदायत्रयमेवेत्यर्थ इति । त्रिवृत्कृता पृथिवी, त्रिवृत्कृता आपः, त्रिवृत्कृतं तेजश्चेतित्रयस्समुदाया इति भावः - अद्वारकत्वे लोहितशुक्लकृष्णत्वविरोध इति । इदमुपलक्षणम् , निर्विकारत्वश्रुतिविरोध इत्यपि द्रष्टव्यम् । विकल्पपरिहारयोरिति विकल्पदूषणयोरित्यर्थः । भाष्ये - तृतीयविकल्पेपीत्यादेरयमर्थः, तेजोबन्नकारणभूता लोहितकृष्णादिशब्दैः लक्षिता अजाशब्देन रूप्यत इति, तृतीय पक्षे लोहितादिशब्दैः तेजोबन्नानि लक्षयित्वा तद्द्वारा लक्षिता कारणावस्था अजाशब्देन गौण्या वृत्त्योपस्थापनीया, न जायत इत्यजेतियोगरूपमुख्यवृत्त्यैव लोहितशुक्लकृष्णाशब्दलक्षिततेजोबन्नकारणस्याऽभिधानसम्भवे छागत्वकल्पनेन गौणवृत्त्या त्प्रतिपादनाभ्युपगमस्यायुक्त्तत्वादिति; तेजोबन्नानामवाचकस्येति टीकायामप्ययमेवार्थः, तेजोबन्नकारणावाचकस्याऽजाशब्दस्य गौण्या वृत्त्या तादृशकारणप्रतिपादकत्वं परिकल्प्य तथाभ्युपगमाद्वरं योगवृत्त्याऽजाशब्दस्य मूलकारणपरत्वमिति, नत्वजाशब्दस्य तेजोबन्नलक्षणाद्वारा तत्कारणलक्षणकत्वमस्मिन् वाक्ये प्रतिक्षिप्यत इति मन्तव्यम् । परैः तथानुक्त्तैः, लोहितादिशब्दलक्षणा, अजाशब्दे गौणीवृत्तिरित्येवोक्तमिति मन्तव्यम् - रूढितोऽवयवशक्त्या वेति । ननु एवं “प्रेतुहोतुश्चमसः प्रोद्गातृणा’मितिमन्त्रे उद्गातृपदरूढ्यर्थबहुत्वानुपपत्तौ सत्यामवयवार्थमादाय न च सुब्रह्मण्यानां चतुर्णां ग्रहणम् - अपि तु रूढिपूर्वकलक्षणयाऽन्तरङ्गप्रत्यासत्त्या सदः प्रवेशवतामुद्रतृप्रस्तोतृप्रतिहर्त्तृणां त्रयाणां ग्रहणमिति सिद्धान्तकोपप्रसङ्ग इति चेन्न, प्रोद्गातृपदयौगिकार्थग्रहणेऽपि “प्रैतुहोतुश्चमस ’ इत्यत्र सदसि भक्षयितारः स्थिताः तत्र चमसस्य नयनं भक्षार्थं प्रष्यते ; न च सुब्रह्मण्यस्तत्र स्थितः अतस्तयाणामेव भक्षणं योगपक्षेपि सिद्धयतीति योगापलापेन रूढिपूर्वकलक्षणासमर्थनेन प्रयोजनं पश्यामः ; रूढिपूर्वकलक्षणापक्षे अपसुब्रह्मण्यानां ग्रहणम् , योगपक्षे चतुर्णामपीत्यस्यार्थस्य सम्प्रतिपन्नत्वात् , तस्मात् तदधिकरणरूढ्यर्थबहुत्वासम्भवे यौगिकोऽर्थस्सवीकर्तव्यः, नतु पाशवदत्यन्तागतिकत्वम् , पाशपदे योगार्थाप्रतीतेरित्येवं परम् , ततश्च प्रकृतेऽजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेर्न रूढिपूर्वकलक्षणाप्रसङ्गोऽवतरति , अत एव कुमुदं पङ्कजमित्युक्त्ते कङ्कजनिकर्त्तृत्वार्थ एव प्रतीयते, नतु तत्वादृश्यमिति भावः । भाष्ये स्वस्मिन्ननादिकालसम्बन्धानामिति , स्वरूपापेक्षया नपुंसकलिङ्गनिर्देशः, दृढभक्त्तिः शक्यञ्चानेन क्षुत्प्रतिहन्तुं “द्विगुरेकवचन’मितिवत् स्त्रीलिङ्गविवक्षाया वा , एवमनेन वा अन्येन वा, संयोगयोग्येत्यत्तरभाष्येऽपि लिङ्गनिर्देशो द्रष्टव्यः । भाष्येष्वपरित्यागाहेतुभूतेति , अपवर्गसाधन परिहारार्थम् , भूतादित्यस्य प्रतिद्वन्द्विगौणवृत्त्यनङ्गीकारेऽपि न वैयर्थ्यमिति । ननु अजामन्त्रे स्वरसत एतावानर्थः प्रतीयते, “काञ्चि च्छागीं त्रिवर्णां स्वरूपबहुवर्कराम् प्रजाकरामेकः छागः प्रीयमाणोऽनुवर्तते ’ अन्यस्तामुपयुक्त्तां त्यज्यत इति, अत्र लोके सम्भवन्नप्ययमर्थो वेदे तत्राप्यध्यात्मप्रकरणे न निर्बन्धमर्हतीति आध्यात्मिक एव पदार्थे योजनं कार्यमिति निश्चिते योग्यतावशात्तेजोबन्नमूलभूतप्रकृतावेवायं गौण्या वृत्त्या वर्तत इति प्रतीतिर्भवत्येव; यथा “द्वा सुपर्णा सयुजा सस्वायौ समानं वृक्षं परिषस्वजात ’ इतिमन्त्रे वृक्षत्वेन शरीरस्य जीवपरयोः पक्षित्वेन कर्मफलस्य वृक्षफलत्वेन परिकल्पनं तद्वत् , इतरथा तत्राप्यगतेः , तथा “गौरनाद्यन्तवती ’ अत्रापि गोशब्दस्य गौणत्वे इयमेव वृत्तिराश्रयणीया, इतरथाऽयं मन्त्रः काञ्चिद्वस्तुतो गोव्यक्त्तिमदानिं प्रतिपादयत्वित्युक्त्तावगतिरिति चेत् , सत्यम् ,ृअध्यात्मप्रकरणयोग्यस्य यौगिकार्थस्य ग्रहणसम्भवे गौणार्थस्वीकारस्यायुक्त्तत्वादिति भावः । रूप्यवाचिपदाश्रवणादिति - “आत्मानं रथिनं विद्धि ’ इत्यादाविव रूप्यवाचिपदाश्रवणेऽपीत्यर्थः, रूढिसिद्धाजाव्यावर्त्तकमिति - रूढ्यर्थनिर्णायकमित्यर्थः । अतः प्रयूक्त्तपदवैय्यर्थ्थेति " आत्मानं रथिनं विद्धि’ इत्यत्रप्रयुक्त्तरूप्यवाचिपदवैय्यर्थ्यपरिहारोऽस्ति, गौरनाद्यन्तवती’ इत्यत्र गौणार्थग्रहण एव अनाद्यन्तवती इत्यादिपदस्वारस्यमस्ति, सर्वकामदुघेत्युचितविशेषणश्रवणादर्थोचित्यवगम्यते अजामन्त्रे तु न तथा, रूप्यवाचिपदाश्रवणात् , गौणाथर्परिग्रहेऽपि पुंल्लिङ्गाजशब्दयोरपि स्वरसप्रसङ्गात्, अगौनाथर्परिग्रहेऽपि अगाशब्दस्य योगेनाऽर्थप्रतिपादकत्वसम्भवात् , बहुप्रजाजनकत्वादिविशेषणानाञ्च मुख्याजाव्यावत्तकत्वाभावेन गौणपक्ष एवार्थोचित्यमित्यस्यापि भावाच्चेत्यर्थः, रूढार्थसदृशपरत्वाभावाच्चेति । यद्यपि चमसशब्दः पात्रविशेषे रूढः, शिरसि तु तत्सादृश्यात्तत्कल्पनया गौण इत्येव परेषां मतम् , तथापि प्रोक्षणीन्यायेन यागेन वृत्त्युपपत्तौ चमसशब्दस्य रूढिकल्पनायां प्रमाणाभावात् , नच यथा प्रस्तोत्रादिषु अप्रयोगादुद्गातृशब्दस्य रूढिरङ्गीक्रियते, यथा वाधीयन्त इति धाय्या, इति धाय्याशब्दस्य यौगिकत्वे इतरत्रापि प्रयोगप्रसङ्गात् " पृथुवाजिवत्यौ - धाय्ये भवत ’ इति तयोरेव प्रयोगात् धाय्याशब्दस्य पाय्यसान्नाय्य निकाय्य धाय्यामानहविर्निवाससामिधेनिष्विति सामधेनिमात्रवचनत्वेन स्मृतत्वेऽपि रूढत्वमित्येवमादिषु रूढिरङ्गीक्रियते, तथा चमसशब्देऽप्यस्तु “चमसस्सामपात्रं स्यात् ’ इति निघण्टुपाठादिति वाच्यम् , चमसशब्दस्य पात्रविशेषादन्यत्राप्रयोगे प्रमाणाभावात्, यदि च रूढत्वं तथापि पूर्वोक्तदोषात् परोक्तयोजना न युक्त्तेति तात्पर्य्यम् । ॥ चमसाधिकरणम् समाप्तम् ॥ 10 ॥