28 आनुमानिकाधिकरणम्

द्वितीयपादारम्भे कथितायाः पादसङ्गतेस्त्रिपाद्या अन्ययोगव्यच्छादपरत्वस्य वा अत्र पुनः कीर्तनं किमर्थमित्याशङ्कायामाह - प्रथमपाद इति । धर्मिस्वरूपपामिति सर्वज्ञत्वादिगुणानां कल्याणत्वपरमित्यर्थः । सर्वभूतान्तरात्मत्वस्य अन्तर्यामि वैश्चानराधिकरणसिद्धत्वं कथम्? अन्तर्यामिब्राह्मणे वैश्वानरविद्यायां च सर्वभूतान्तरात्मेत्येवं आकारवाक्याश्रवणादित्याशङ्कयाह - एष सर्वभूतान्तररात्मेस्यादि । मुण्डकोपनिषद्वायस्य सपक्षत्वेनोपन्यासादिति - द्युभ्वाद्यधिकरण विषयवाक्यैकप्रकरणस्य पद्भयां पृथिवी ह्येष सर्वभूतान्तरत्मा’ इति मुण्डकोपनिषद्वाक्यस्य सपक्षत्वेनोपन्यादित्यर्थः । इदानीमितीति ग्रन्थस्यानन्तरं प्रधानपुरुषादिप्रतिपादनमुखेनेति न केवलं लिङ्गप्रतिपादकानि, किन्तु लिङ्गिनामेव प्रधानादीनां प्रतिपादनमुखेन प्रधानादिकारणत्वप्रतिपादनच्छायानुसारीणीतिपाठस्तु समीचीनः, कोशस्तु निरीक्ष्यः। प्रत्यगात्मनः परस्य निषेधादिति - “पुरुषान्नपरं किञ्चित् ’ इति प्रत्यगात्मव्यतिरिक्त्तस्य सांख्यमत इव निषेधादिति भावः । बद्धमुक्त्तोभयावस्थाद्विलक्षणमिति । ह्युक्त्तमिति - यद्यपीदं प्रथमपादार्थसूचकमिति व्याख्यातम् , अथायप्यव्यवहिताधिकरणार्थस्मारकत्वमपि सम्भवतीत्यभिप्रेत्य एवमुक्त्तमिति द्रष्टव्यम् । रूप्यतेऽनेनेति - रूपवत्तया क्रियते अनेनेत्यर्थः । रूपवच्छब्दात्तत्करोतीति णिचि णाविष्ठवद्भावात् “विमतोर्लुगि’ ति मतुपो लुकिटिलोपे च ण्यन्तात् रूपीत्येतस्मात्कर्मणि , रूप्यत इति प्रयोगः । ण्यन्तात् रूपीत्येतस्मात्कर्तरि ण्वलि णिलोपे च रूपवत्करोतीति रूपकमिति हि रूपकशब्दनिष्पत्तिः , एवमेव ह्यालङ्कारिकाणिमुक्त्तिः , ततश्चात्मा शारीरादीनुपमेयान् स्वेन रूपेण रूपवतः कुर्वन्तो रथिरथादयो रूपकाः , ततश्च रूपकरथात्मना विन्यस्तशरीरस्य गृहीतेरित्यथर्ः । प्राधान्येन विवक्षितमिति - विशेषेणविशेष्यभावे कामचारादिति भावः । पूर्वनिपात इत्यभिप्राय इति - नन्वेवं निर्देशे किं प्रयोजनमिति चेदुच्यते ; शरीरे अधिकरणे- रूपकात्मना विन्यस्ताश्शरीररूपकविन्यस्ता इन्द्रियादयः तेषां स्वस्ववाचकशब्देन गृहीतत्वात् पारिशेष्यादव्यक्त्तशब्देन गृह्यत इत्यत्र नियामकतया पारिशेष्यस्योपन्यसनीयतया तत्प्रदर्शकसमासान्तराश्रयणस्यापि सार्थक्यात् । भाष्ये - तद्विष्णोः परमं पदमित्यन्तेनेति । “इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्त्तं भोक्तेत्याहुमर्नीषिणः । यस्त्वविज्ञानवान् भवत्ययुक्त्तेव मनसा सह । तस्येन्द्रियाण्यवश्यानि दुष्टाश्च इव सेरथेः । यस्तु विज्ञानवान् भवति युक्त्तेन मनसा सह । तस्येन्द्रियाणि वश्यानि सदश्चा इव सारथेः । यस्त्वविज्ञानवान् भवत्यमनस्कस्सदाऽशुचिः । न स तत्पदमाप्नोति संस्सारञ्चधिगच्छति । यस्तु विज्ञानवान् भवति समनस्कस्सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते । विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः । महतः परमव्यक्त्तं अव्यक्त्तात्परुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते । दृश्यते त्वग्रयया बुध्द्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ञान आत्मनि । ज्ञानमात्मनि महति यच्छेत्तद्यच्छेच्छान्त आत्मनि । उत्तिष्ठ त जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति । अशब्दमस्पर्शमरूपमव्ययम् इति हि श्रुतिक्रमः । साध्यत्वलक्षणप्रकषर् इति - शेषित्वलक्षणप्रकर्ष इत्यर्थः । अध्यवसायाभिमानचिन्तावृत्ति भेदात् मन एव बुद्धयहङ्कारचित्तशब्देन व्यपदिश्यत - इति । पञ्चवृत्तिर्मनोवव्द्यपदिश्यत इति सूत्रभाष्यं हृदि निषाध बद्धिशब्दस्यान्तःकरणपरत्वेपि नानुपपत्तिरित्यभिप्रयननाह । यद्वा बुद्धिशब्दः अन्तःकरणपर इति कैश्चिदुक्त्तमिति - मृषावादिभिर्हि महच्छब्देन " मनो महान् मतिर्ब्रह्मा भूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिगृह्यते ’ इति स्मृतिवशात् प्रथमोत्पन्नहिरण्यगर्भबुद्धिरुच्यते , तस्याश्चाव्यक्त्तप्रभवत्वात् महतः परमव्यक्त्तम् ’ इत्युक्त्तिरुपपद्यते । यद्वा जीव एव महच्छब्देनाभिधीयते , आत्मशब्देन विशेषणात् तत्रापि पक्षे जीवभावस्याव्यक्त्ताधीनत्वेन महतः परत्वमुपपद्यते , पक्षद्वयेपि अन्यक्त्तशब्दिताविद्यानिष्टत्वं महत्परत्वं तत्कार्ये शरीरे उपचर्यत इत्युक्त्तमिति भावः । ननु कथं जीवपर्यन्तेत्युच्यते महतः परमव्यक्त्तमिति पूर्ववाक्ये अव्यक्त्तशब्दितशरीरस्यैव जीवादपि परत्वोपन्यासेनाव्यक्त्तपर्यन्तस्येपि हि निर्देशो युक्त्त इत्याशङ्कयाह - नास्मिन् वाक्य इति । यथोक्तस्यात्मपर्यन्तस्येति भाष्यवाक्य इत्यर्थः । पदस्यात्र च अकथनादिति - सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति पारत्वेन रूपितस्य विष्णोः परमपदस्य “इन्द्रियेभ्यः परा ह्यर्थाः ’ इत्यत्राकथनादित्यर्थः । क्वचिदस्तीति - “अजामाकाम् ’ इत्यादौ ताद्दशविचारस्य दर्शयिष्यमाणत्वादिति भावः । अहङ्काराद्वारा बुद्धेरिति - बुद्धिर्महत्तत्त्वम् । तन्त्रप्रक्रिया विरोधप्रतीतेरिति - तन्त्रे अहङ्कारस्य महत्तत्त्वजन्यत्वेन मनोजन्यत्वाभावादिति भावः । सूत्रखण्डोपादानामिति दर्शयति चेत्यादिग्रन्थस्सूत्रखण्डव्याख्यानरूप इत्यर्थः । ततश्च दर्शयति चत्यस्य सूत्रखण्डोपादनत्वे तदेवेतिमाप्यखणडस्य कुत्राप्यनन्वयप्रसङ्गादिति दूषणमलग्नकं वेदितव्यम् । ननु सुपां सुलुगितिसूत्रे सोः प्रथमनिर्दिष्टतया तदतिक्रमे कारणाभावेन द्वितीयायाः स्वादेशे हल्ङ्यादिलोपे च द्वितीयान्तत्वं कुतो न सिध्येदित्याशङ्कय प्रक्रियागौरवान्नायं पन्था इत्याह - ननु वाक्छब्दादित्यादिना - ननु भाष्ये मनसी इति कथं निर्देशः ? सर्वणदीर्घेण हि भाव्यमित्यत्राह - ईदूतौ च समप्तयर्थ इतीति प्रकृतिभावस्मरणनिबन्धनो मनसी इतीति निर्देश इति -ईदूतौ च सप्तम्यर्थे ’ इति सूत्रविहितप्रगृह्य संज्ञानिमित्तकप्रकृतिभावनिबन्धन इत्यर्थः । प्रकृतिवद्भावस्मरणेति क्वचित्पाठो दृश्यते , स तु लेस्वकस्खलनकृतः । उपसङ्खयानेन निर्वाहासम्भवादिति ब्रूम इति - “इयाडियाजीकाराणामुपसङ्ख्यान ‘मित्यस्यापि छन्दोविषयतया छान्दसत्वानाश्रयणेन निर्वाहस्यासम्भवादित्यर्थः । वाङ्मनसी इत्यस्य द्वितीयाद्विचनान्तत्वशङ्कां प्रतिक्षिपति - नहि वाङ्मनसी इत्यत्रेति । प्रकराणानुगुण्यमेकवचनोपपत्तिञ्च स्पष्टयति- यच्छेदित्युक्त्तस्येति केचिद्य्वाचक्षत इति - यादवप्रकाशीया इत्यर्थः । स्वग्रन्थमेव प्रदर्शयति - अथ बुद्धिशब्देन अहङ्कारं ब्रूयुरिति अन्तिमसूत्र व्याख्याने तैरेवोक्तमिति - “महद्वच्च ’ इति सूत्रव्याख्याने यादवप्रकाशीयैरेवोक्तमित्यर्थः । युक्त्यन्तरमप्याह - तन्निमित्तमिदं विषयसन्निधिपरिवर्जनमित्यादिना योगव्युत्थानकाल इति । योगराहित्यदशायामित्यर्थः । अत्यन्तनिषेधस्त्विति- ततश्च योगव्युत्थानकालकर्तव्यविषयसन्निधिपरिवर्जनादेरस्मिन्मन्त्रेऽनुक्त्तिर्न दोषायेति भावः । प्रकृतमुपसंहरति - अतोयोगकाल एवेति ।कार्यवाचिशरीरशब्दोपचारःकिं न स्यादिति - यद्यपीयं शङ्का उपक्रमाधिकरणन्यायादित्यादिना पूर्वं परिहृता , तथाप्यर्हत्वादितिसूत्रखण्डाभिप्रेतयुक्त्यन्तरोपन्यासायायं पुनरुपक्षेप इति द्रष्टव्यम् । ननु तदर्हत्वादित्यत्र तच्छब्देन विकारापन्ना व्याकृताचिद्वस्तुनः कथं परामर्शः ? सूक्ष्ममितिसौत्रपदेन सूक्ष्ममात्रस्य प्रकृततया विकारापन्नव्याकृतस्य प्रस्तुतत्वादित्याशङ्क्य शरीररूपकेदि पूर्वसूत्रे शरीरस्य श्रुतत्वादस्मिंश्च सूत्रे सूक्ष्ममिति निर्दिष्टत्वाच्च शरीरभावापन्नं सूक्ष्मं बुद्धिस्थम् , विशिष्टस्य प्राक् प्रस्तुततया तस्य तच्छब्देन परामर्शस्सम्भवतीत्याह - सूक्ष्मत्वं स्वशब्देनोपस्थापितमिति -सूक्ष्ममिति सौत्रपदेनोपस्थापितमित्यर्थः बुद्धिस्थमिति - पूर्वसूत्रे शरीररूपकेति बुद्धिस्थमित्यर्थः । अवस्थाद्वयानुगतवस्तुलक्षणानिमितित्तमाकारमाहेति - अवस्थान्तरविशिष्टवस्तुलक्षणाबीजभूतमुख्यार्थानूपपत्तिमाहेत्यर्थः । चिद्वस्तुपोप्यस्तीति- ज्ञानसङ्कोचविकासरूपविकारवतो रथवत्पुरुषार्थप्रवृत्त्यर्हत्वाभावादचिद्वस्तुन एव विकारापन्नस्य प्रवृत्त्यर्हत्वादिति वक्त्तव्यमिति भावः । पुरुषार्थसाधनप्रवृत्तिविशेषप्रतिपादनेनेति पुरुषार्थसाधनं वागादिः, प्रवृत्तिविशेषः नियमनम् , ततश्च पुरुषार्थसाधनानामेव रूपकवाक्ये परत्वावधिवाक्येपि ग्राह्यत्वात्सूक्ष्मस्य चातथात्वाच्छरीरस्यैव ग्रहणं युक्त्तमिति भावः ॥कालान्तराविच्छिन्नाकारविरह इति - कालान्तरव्यावृत्ताकारविरहः, कालान्तरव्यावृत्तिविरह इत्यर्थः , कालान्तरानुवृत्तिरितियावत् । तदुपयुक्त्तार्थतादधीन्यस्यापीति - तदव्यक्त्तम् उपयुक्त्तं यस्येति तदुपयुक्त्तार्थः , तत्साध्यार्थो महदादिरुच्यते , यदर्थोपयुक्त्तस्वरूपप्रवृत्तयो यदधीनास्तत्साध्यार्थस्यापि तदधीनत्वदर्शनादितिभावः । ननु महिमवादेषु शरीरत्वप्रतिपादनेन तदात्मकत्वसिद्धावपि प्रलयवादेषु कथं तत्सिद्धिः ? पृथिव्यादीनामवादिषु लयमात्रप्रतिपादनादित्याशङ्कयाह - प्रलयपरत्वश्रुतेरपीति । भाष्ये उत्पत्तिवाक्यानुपादाने हेतुमाह - अप्ययपूर्वकत्वादिति इतरैरिति - यादवादिभिरित्यर्थः । निरूह्यत इति पाठः । " वहेर्यकि सम्प्रसारणे अङ्गावयहलुत्तरत्वाभावेन तस्य दीर्घाप्रसक्त्तेः; " उूह वितर्के ’ इति धात्वाश्रयणेपि उपसर्गाद्रख “उूहते ’ रिति हस्वविधानाच्चेति द्रष्टव्यम् । केन यक्त्तिबलेनेति- अव्यक्त्तपरत्वस्येति शेषः । शङ्कते - प्रकरणपारिशेष्याभ्यामिति । रूपकविन्यस्तगृहीतेरित्याद्यसूत्रविवक्षिताभ्यामव्यक्त्तशब्दस्य शरीरविषयत्वनिश्चयाच्छरीरस्य चात्मापेक्षया मुख्यस्य परस्यासम्भवेनास्मिन् प्रकरणे सर्त्रत्र परत्वस्य यथाकथञ्चिनिर्वाह्यत्वं श्रुत्यभिप्रेतमवगम्यते , ततश्च अर्थादीनामपि परत्वं कथञ्चिदुपपद्यत इति सिद्धयतीति चेत् इत्यर्थः । तेनैवेति - युक्त्तिबलेनेतिशेषः ॥is not available.is not available.हेतुसमुच्चये इति - पूर्वसूत्रोक्तहेतुना एतत्सूत्रोक्तहेतुं समुच्चिनोतीत्यर्थः । लोकादिमग्निं तमुवाच इत्युपक्रम्येति । अत्रापेक्षितश्रुतिक्रमः अत्ता चराचरग्रहणा ’ दित्यत्र विलिखितः, व्याख्यातश्च; तत एवावगन्तव्यः । जहातीत्युपदिदेशेति । पूर्वेणान्वय इति शेषः । पुनः पप्रच्छेति पाठ इति । पुनः पुनः पप्रच्छेति पाठस्तु न युक्त्त इति भावः । भाष्ये - मत्वा धीरो हर्षशोकौ जहातीति निर्दिष्टस्य ब्रह्मोपासनस्येतिपाठः । धीरो न शोचतीतिपाठो लेखकदोषात् , तस्यापकृतत्वादिति द्रष्टव्यम् । ननु कृताकृताद्भूताद्भव्याच्चेतस्त्रितयस्यापि धर्माधर्मादस्मादितिनिर्दिष्टोपायोपेयोपेतृविशेषणत्वे अन्यत्र भूताद्भव्याच्चेत्यन्यत्रपदं व्यर्थं स्यादित्यस्वरसादाह- यद्वा धर्माधर्माच्चान्यत्रेति । परैस्तु धर्माधर्मशब्दाभ्यां तत्साध्यफलानि विवक्षितानि, कृताकृतादिति कार्यकारणप्रपञ्चो विवक्षितः। भूतादिति भूतकालमात्रपरिच्छिन्नं परामृश्यते, भव्यादिति भविष्यत्कालमात्रपरिच्छिन्नम् , ततश्च तत्सर्वव्यावृत्तमित्यर्थ इति व्याख्यातम् ; तदेतदाशङ्कते - ननु धर्माधर्मसाध्येति । प्रणवेन ब्रह्मप्रतिपादनं ह्युच्यत इति । ततश्च “तत्ते पदं सङ्ग्रहेण ब्रवीमि ’ इत्ययमंशः पदशब्दितब्रह्मप्रतिपादकतया प्रणवप्रशंसापर इति भावः । भाष्ये सामान्येन ख्यापयन्निति । ओमित्यनेनैव सामान्येन ख्यापयन्नित्यर्थः । प्रणवैकदेशवाच्यो हीति । तदेकदेशवाच्यस्य तद्वाच्यैकदेशत्वनियमादिति भावः । तच्छ “एतध्द्येवाक्षरं ब्रह्म एत् ब्दस्य प्रणववाच्यपरत्वं किष्टमित्यस्वरसादाह - यदा प्राप्ये इति । एतध्द्येवाक्षरमित्यादि । ध्द्येवाक्षरं परम् । एतध्द्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते इति वाक्यमभिप्रयन्नित्यर्थः - इदं मन्त्रद्वयमिति । “ति मन जायते मि्रयते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ’ मन्त्रद्वयमित्यर्थः । अर्थान्तरपरत्वस्य चेति - प्रधानपरत्वस्येत्यर्थः । हन्त त इदं प्रवक्ष्यामीति - यद्यपि “न जायते म्रियते वा विपश्चित् ’ इति परमा त्मविषयप्रतिवचनसन्दर्भानन्तरमेवेदं वाक्यम् , तथापि योग्यतावशात् जीवविषयप्रश्नस्येदं प्रतिवचनमिति न प्रश्नक्रमानुरोधि श्रुतौ प्रतिवचनक्रम इति द्रष्टव्यम् । नन्वन्यत्राधर्मादितिप्रश्नः किं येयं प्रेत इति प्रश्नसमानविषयकः , उत तदधिकविषयकः ? नाद्यः, तथासति अग्निजीवयोरेव प्रश्नदर्शनेन त्रयाणां प्रश्नाभावादग्निजीवपरमात्मनां त्रयाणामुपन्यासः प्रश्नश्चेति सूत्रविरोधात् । न द्वितीयः, परत्रयानन्तरभूतस्य प्रश्नानर्हत्वात् , इतरथा प्रधानस्याप्युपन्याससम्भवेन अधिकरणविरोधापत्तेरित्याशङ्कय वस्तुगत्या परमात्मनो जीवाभिन्नतया परत्रयान्तर्भावस्याप्यनुपपत्तेः जीवपरयोः औपाधिकभेदमादाय अग्निजीवपरमात्मनां त्रयाणामिति सूत्रनिर्देशस्याप्युपपत्तेरित्यभिप्रयन्नाह - न च जीवविषयफ्रश्नस्येति । परमात्मविषयतावैघट्यमिति - परमात्मविषयप्रतिवचनवैघट्यमिति पाठे तु येयं प्रेत इति जीवप्रश्नस्य तं दुर्दर्शमिति परमात्मविषयप्रतिवचनवैघट्यमित्यर्थः । अनतिविरोधेपीति - अग्निजीवपराणां त्रित्वोपन्यासेन जीवपरयोर्भेदस्यैव सौत्रत्वप्रतिपादनेन अस्मदनुकूलत्वादिति भावः । प्रतिपाद्यत्वाभावस्येति- प्रधानस्य त्रिगुणद्रवव्यस्येत्यर्थः । प्रश्नोपन्याससमुच्चयस्य प्रतिपाद्यत्वे हेतुत्वाभावमुपपनदयति - उपायो हीति । हृदयायतने उपास्यतया स्थितस्येति - ननु पूर्वत्र हृदयादित्यवर्तिनोरप्रकृतत्वात्कथमिदमुच्यत इति चेदुच्यते अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः । दिवे दिव ईढ्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निभि एतद्वै तत् ।’ इति मन्त्रेण हृदयायतनस्तस्य च “यतश्चोदेति सूर्योस्तं गच्छति यत्र च । तं देवास्सर्वे अर्पिता तदु नातयेति कश्चन । एतद्वै तत्’ इति तदनन्तरमन्त्रेणादित्यमण्डलस्थस्यापि पूर्वप्रकृतत्वात् । तथाहि ; अरणनयोर्निहितोऽग्निरिव गर्भिणीभिस्सुभृतः- अन्नपानादिभिः पोषितो गर्भ इव च, दिवे दिवे अहन्यहनि, जागृवद्भिः जागृद्भिरप्रमत्तैर्हविष्यमद्भिराराधनोपकरणवद्भिर्मनुष्यैरीड्यः स्तुत्यः ध्येयः, अग्निः- अग्रनयनादियोगात् । एतद्वै तत् - एवम्भूतो हृदयायतनस्थः, तदेव अन्यत्राधर्मादित्यादिना त्वया पृष्टमेवेत्यर्थः । अतोऽस्मिन्मन्त्रे हृदयायतने उपास्यः प्रस्तुतः । यतश्चोदेति सूर्यः- सूर्योत्पत्तिलयाधारभूतः । तं देवास्सर्वे अर्पिताः- सर्वे देवास्तदुपासिन इत्यर्थः । अतश्च सूर्यमण्डलाद्युपादानतया तदात्मकं तदन्तर्वर्तिदेवोपास्यं प्रस्तुत्य तस्याप्येतद्वैतदिति ब्रह्माभेदे बोधिते तदनन्तरं हृदयायतेन मनुष्यैरुपास्यस्यादित्यमण्डलान्तर्वर्तिदेवोपास्यस्य चायतनभेदेन भिन्नत्वात्कथमेतद्वैतदिति एकेन ब्रह्मण अभेदो बोध्यत इति शङ्का व्यावर्त्त्यते- तदेव हेत्यादिना । “यदमुत्र तदेवेह, मृत्योस्य मृत्युमाप्नोति य इह नानेव पश्यती’ त्यादिना अतो नाप्रसक्त्तनिषेधत्वशङ्कावकाश इति ध्येयम् । एतदपेक्षया दुबर्लमिति -ऋतं पिबन्ताविति भेदश्रुत्पेक्षया दुर्बलमित्यर्थः । तच्च दर्शितमिति - “अध्यात्मयोगाधिगमेन देवम्’ न जायते म्रियते वा विपश्चित् ’ इत्यादिकमित्यर्थः । प्रतिवचनाव्यवहिता इति- प्रतिवचनैरव्यवहिताः अनन्तरिता इत्यर्थः । एवं प्रश्नाव्यवहितानित्यत्रापि । नन्वस्मिन् प्रकरणे उपायोपेयोपेतृवतिरिक्त्ताग्नेरपि पृष्टतया त्रयाणामेवेत्वधारणं भवन्मतेप्ययुक्त्तम् , न चाग्निरप्युपायकोटिनिविष्ट इति वाच्यम् ज्ञानैकसाध्यत्त्वान्मुक्त्तेरित्याशङ्क्याह - अर्थत्रयस्य चेति ॥is not available.