आकाशोऽर्थान्तरत्वादि व्यपदेशात् । आकाशो हवै नामेत्यादीति । आकाशो ह वै नामरूपयोरित्यपि केचित् पठन्ति; आकाशो वै नामरूपयोरित्यपि पाठो दृश्यते । अतः पाठद्वयमपि प्रामाणिकमेवेति द्रष्टव्यम् । स्ववाक्ये परमात्मलिङ्गेति । ननु शाङ्करभाष्ये, द्रष्टृत्वादेः ब्रह्मलिङ्गस्याश्रवणादित्येवोच्यते; न स्ववाक्य इति, ततः कथमिदमुच्यते स्थवाक्य इतीति चेन्न- “ते यदन्तरा तद्ब्रह्म; तदमृतम्; स आत्मे’ति वाक्ये परमेव ब्रह्म प्रतिपाद्यते । आकाशो ह वै नामरूपयोर्निर्वहितेत्यंशे तु आकाशशब्दप्रसिद्धया अवकाशद्वारेण नामरूपयोः निर्वोढा भूताकाशो ब्रह्मप्रतिपत्त्युपायतया प्रतिपाद्यत इति वाचस्पत्यभिमतपूर्वपक्षं हृदि निधाय, तत्र च, आकाशो वै नामरूपयोः निर्वाहितेत्येतावदेव स्ववाक्यम्, तत्र च परमात्मलिङ्गं नास्तीति वक्त्तुं स्ववाक्य इत्युक्त्तमिति द्रष्टव्यम् । अन्योन्यनिर्वाह्यनामरूपस्येति । ननु मुक्त्तस्याप्यन्यनिर्वाह्यनामरूपत्वं समानम् । तदपि न साम्प्रतिकीमवस्थामादायोपपादयितुं शक्यते; अपि तु भूतपूर्वगत्या । ब्रह्मात्मशब्दयोश्च न स्वारस्यम् । ततश्चाकाशश्रुतिमूलस्य पराभिमतपूर्वपक्षस्य नामरूपनिवोढृत्वरूपलिङ्गबलात् अनुत्थितौ कथं प्रकरणमात्रशरणस्य मुक्त्तपूर्वपक्षस्योत्थिरिति चेत्- उच्यते । न प्रकृतत्वमात्रमवलम्ब्य मुक्त्तपूर्वपक्षमुत्थापयामः । “अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्यत स्वेन रूपेणाभिनिष्पद्यत’ इति वाक्यप्रतिपाद्ययोः कालभेदेन नामरूपभाक्तवतद्राहित्ययोः, “निर्वहिता ते यदन्तरे’ त्यत्र प्रत्यभिज्ञानात्, “नामरूपयोः निर्वहिता ते यदन्तरे’त्यत्र पूर्वं निरूढनामरूपस्य पश्चात्ततद्विमुक्त्तस्यैव मुक्त्तस्य प्रतीतेः, “य एषोक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतभयमेतद्ब्रह्मे’ति अव्यवहितप्रजापतिवाक्ये आत्मत्वब्रह्मत्वामृतत्वादीनामपि मुक्त्ते श्रवणेन तेषामेव शब्दानामिह प्रत्यभिज्ञायमानत्वात्, आकाशाधिकरणदहराधिकरणयोः आकाशशब्दस्य यौगिकत्वसमर्थनेनाकाशत्वस्याप्युपपत्तेः मुक्त्तपूर्वपक्षोत्थाने न दोष इति द्रष्टव्यम् । मुक्त्तात्मपरत्वं वदद्भिरेवेति । “ते यदन्तरा तद्ब्रह्मे’त्ययमंशो मुक्त्तात्मपरः । “आकाशो ह वै नामरूपयोर्निर्वहिते’त्यंशस्तु भूताकाशपर इति पूर्वपक्षितमित्यर्थः । अनेन वाचस्पतिपक्षापेक्षया वैषम्यमुक्त्तं भवति । श्रुत्यनुवाद इति । इतरथा निर्वोढेति रूपप्रसङ्गादितिभावः । एवमुत्तरत्र सर्वत्रापि द्रष्टव्यम् । बुद्धसौकर्यार्थमाह । राद्धान्त इति । प्रदर्श्यत इति । प्रतिज्ञामन्तरेणापि प्रदर्शनसंभवात् वक्ष्यमाणरीत्या एकवाक्यतायाञ्च संभवन्त्यां तत्परित्यागस्यानुचितत्वञ्च पक्षान्तरमाह यद्वा नामरूपयोः निर्वहितेति । व्यपदेश इत्यन्वय इति । यद्यप्यस्मिन् पक्षेपि अस्तिभवतिविद्यतीनामन्यतमाध्याहारोऽपेक्षितः, तथापि स न दोषायेति भावः । ननु नामरूपयोः निर्वोढृत्वव्यपदेशस्य कथमर्थान्तरत्वशब्दित व्यपदेशत्वमित्यत आह तदुपपादकधर्मं लक्षयतीति । अर्थान्तरत्वव्यपदेशादित्यस्य भेदकव्यपदेशादित्यर्थ इति भावः । कथं मुक्त्तस्यानन्तरमभिधानमिति । मुक्त्तस्यैवाभिधानमिति पूर्वपक्षिणोऽभिमानात् तथोक्तिरिति द्रष्टव्यम् । भाष्ये- सत्यसङ्कल्पत्वाच्च निर्वहितेत्यर्थ इति । ननु, ते यदन्तरेति नामरूपास्पृष्टत्वकथनेन तद्धेतुभूतपाप्नराहित्यस्याक्षेपसंभवेन अपहतपाप्मत्वस्योक्तिसंभवेऽपि सत्यसङ्कल्पत्वस्य प्रदर्शनाभावेन कथम्, ते यदन्तरेत्यनेन तदुपपादनमिति चेन्न- अपहतपाप्मत्वस्योक्तिसंभवेऽपि सत्यसङ्गल्पत्वस्य प्रदर्शनाभावेन कथम्, ते यदन्तरेत्यनेन तदुपपादनमिति चेन्न- अपहतपाप्मत्वे सत्यसङ्कल्पत्वस्याप्यवश्यम्भावेन तत्प्रदर्शनस्यापि संभवे, “ते यदन्तरे’त्यस्य नामरूपयोर्निर्वहितेत्येतदर्थोपपादकत्वमिति द्रष्टव्यम् । ज्ञानतो बृहत्त्वमिति । जीवबृहत्त्वे ज्ञानपरमात्मप्रसादानुपाधी इति भावः । ननु ब्रह्मणोऽभिसंभाव्यतया निर्देशः कथमप्रधानप्रकृतत्वसूचक इत्याशङ्कय यद्यपीत्याक्षेपभाष्यखण्डस्याभिप्रायमाह प्रथमानिर्दिष्टस्याभिसंभवितुरित्यादिना स्वारस्येपीत्यन्तेन । अवान्तरप्रकरणेनेत्यादि । धूत्वा शरीरमिति वाक्ये जीवपरौ प्रतिपाद्येते इति निर्विवादम् । तत्र प्रजापतिवाक्यरूपावान्तरप्रकरणबलात् तस्य जीवपरत्वे, अन्यार्थश्च परामर्श इतिन्यायेन तत्र ब्रह्मपरामर्शः, प्रजापतिवाक्यान्तर्गते, “एष संप्रसादोऽस्माच्छरीरा’दिति वाक्ये इव जीवप्राप्यप्रतिपादनतया जीवाथर्ः स्यात् । महाप्रकरणबलात् परब्रह्ममहिमप्रतिपादकत्वे दहरविद्यान्तर्गते, “एषसंप्रसाद’ इति वाक्ये जीवपरामर्शस्य ब्रह्ममाहात्म्यप्रतिपादनशेषत्ववत्, धूत्वाशरीर’मिति वाक्येऽपि जीवपरामर्शः परब्रह्ममहिमप्रतिपादनार्थः स्यादिति भावः । भाष्ये प्राप्यतयोपसंह्रियत इति । ननु, “इति ह प्रजापतिरुवाचे’ति पूर्वमेव द्विरुक्तया प्रकरणसमाप्तेर्दर्शितत्वात् कथं “ब्रह्मलोकमभिसंभवामी’त्युपसंहार इति चेत्- जीवावान्तरप्रकरणस्य समापितत्वेऽपि दहराकाशमहाप्रकरणस्यासमापितत्वेनास्य मन्त्रस्य तच्छेषत्वादिति भावः । सूत्रकारैरितःपूर्वमकृतत्वादिति । “अनुकृतेस्तस्य च’, “अपि स्मर्यत’ इति सूत्रयोरपि मुक्त्तभेदे सावकसद्भावमात्रप्रदर्शनपन्त्वेन ऐक्योपदेशादिपरिहारस्य तत्राकृतत्वादिति भावः । यद्यपीहापि साधकप्रमाणमेवोपन्यस्यते तत्राप्यस्य सूत्रद्वयस्य साधक-प्रमाणादार्ढ्यापादन्मुखेन ऐक्योपदेश-भेदनिषेधश्रुत्यन्यथाकरणपर्यन्तत्वमस्तीति भावः । वस्तुतस्तु पूवर्तन्त्रे प्रथमपादे सिद्धस्यैव चोदन्यप्रामाण्यस्य, “श्रुतिलक्षणमानुपूर्व्यम्’ इति पुनः कथनवत् पूर्वसिद्धमुक्त्तभेददार्ढ्याय पुनः प्रतिपादनोपपत्तिः । मुक्त्तप्राप्ततयोक्तस्येति । “अश्व इव रोमाणी’ति पूर्ववाक्य इति शेषः । परस्परसापेक्षयोरेव ऐक्योपदेशभेदनिषेधयोः साध्यसाधकत्वं मन्वान आह इतरेतरयोगे वेति । स्वग्रन्थे निर्दिष्टमिति । ततश्च यत्र यत्र निर्वहितेति श्रूयते, तस्य सर्वस्यापि श्रुत्यानुवादरूपत्वेन स्वग्रन्थत्वाभावात् नासाधुत्वमिति भावः ।is not available.पत्यादिशब्देभ्यः । ननु, “सर्वस्य वशी सर्वभ्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कर्मणा कनीयान्, एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाये’ति हि श्रुतिक्रमः । ततश्च कुतः तत्परित्यागेन भाष्ये व्युत्क्रमेण श्रुत्युपन्यास इ या(त्यत्रा?) ह सूत्र पत्यादिशब्देभ्य इतीति । वाक्यस्य पूर्वमितीति । “तस्य परमाम्राडितम्’ इति निर्देशेन अवयववाचिपूर्वादिशब्दयोगे षष्ठी भवतीति ज्ञापितत्वात् षष्ठयाः साधुत्वं द्रष्टव्यम् । न च, “स न साधुना भूयान्’ इत्यादिवाक्यस्य सर्वस्याधिपतिरिति वाक्यं नावयवः; येन पूर्वशब्दस्यावयववाचित्वं स्यादिति शङ्क्यम् स न साधुना कर्मणा भूयानित्यादिवाक्यस्येति टीकागतस्य शब्दस्य प्रकरणगतवाक्यमात्रपरत्वादिति द्रष्टव्यम् । पश्चात् एष भूताधिपतिरिति वाक्यमिति । श्रुतौ पठितमिति शेषः । तन्त्रेण क्रोडीकारार्थमिति । बहुव्रीहितत्पुरुषाभ्यां पतिशब्दद्वयमध्यवर्तिनाम्, “स न साधुते’त्यादि वाक्यानामेत्यादरेण क्रोडाकरणार्थमित्यर्थः । ननु वश्यादिशब्देभ्य इत्युक्त्तावपि पूर्वोत्तरवाक्यानां क्रोडीकारमात्रं सिध्यतीत्यस्वरसादाह अभ्यासरूपेति । प्रथमश्रुतवश्यादिशब्दं परित्यज्य मध्यश्रुतपतिशब्दमुपादाय, “पत्यादिशब्देभ्य’ इति सूत्रणात् पातशब्दगतोऽभ्यासः सूच्यत इति भावः । पत्यादिशब्दैः सहेति । वशी ईशानः भूतपाल इत्यादीनां प्रथमान्तानामेव पत्यादात्यादिशब्देन ग्रहणमुचितमित्यभिप्रेत्येदमुक्त्तमिति द्रष्टव्यम् । एत चेत्यादिभाष्यस्वारस्यानुरोधेन, सुषुप्त्युत्क्रान्त्योर्भेदेने’ति सूत्रे बद्धजीवातिरेकम्बरस्यानुरोधेन च सूत्रद्वयस्य क्रमेण बद्धमुक्त्तातिरेकप्रतिपादनपरत्वं भाष्यकारस्य निमतमित्यभिप्रायेणाह किं जीवमात्रादथर्ान्तरत्वे विप्रतिपत्तिरित्यादिना । पूर्वसूत्रोक्तपरिष्वङ्गान्वारोहयोरपि मुक्त्तव्यावर्तनक्षमत्वात् सूत्रद्वयेनापि मुक्त्तव्यावृत्तिः प्रतिपाद्यत इत्यभिप्रायेणाह यद्वा सूत्रद्वयेक्त्तैरिति । वर्णनीयाविति शङ्काबीजामति । वर्णनीयाविति समर्थनेन ऐक्यभेदानषेधश्रुतिलक्षणशङ्काबीजं परिहृतं भवतीत्यर्थः । एतावदेवेति । अतो नारम्भणाद्यधिकरणैः पुनरुक्त्तेति भावः । जगत्कारणत्वनिर्वाहकन्यादिति । विशेष्यमात्रस्य ब्रह्मणः प्रपञ्चोपादनत्वाभावेन सूक्ष्मचिदचिद्विशिष्टस्य स्थूलचिदद्विशिष्टं प्रति हेतुत्वस्य वक्त्तव्यत्वादिति भावः । मुख्यत्वनिर्वाहस्य वक्ष्यमाणत्वं दर्शयति तत्रारम्भणाधिकरण इत्यादिना । बुद्धान्तादीति । जाग्रदादीत्यर्थः । धर्मिवाचिपदाश्रवणं न दोष इति । “जगद्वाचित्वात्’, “वाक्यान्वया’दित्यादिष्विति भावः । तस्येति । चतुथर्पादस्येत्यर्थः । ननु जगद्वाचित्यादित्यादौ व्युदसनप्रतिज्ञाऽपि न श्रूयत इत्याशङ्कयाह नेति पदस्येति । अनुषङ्गेपि न दोष इति । अध्याहारापेक्षया अनुषङ्गस्य ज्यायस्त्वात्; तव त्विहानुषङ्गस्याप्यसंभवादिति भावः । किंच शेषभूतप्रतिज्ञायामनुषङ्गो न दोषायेति युक्तयन्तरमाह प्रधानादिपरत्वव्युदासस्येति । ननु “कारणत्वेनाकाशादिषु’ इत्यस्य नेतिपदानुषङ्गो न युज्यते । “परब्रह्मणो जगदुत्वद्यत इति निर्णेतुं शक्य’मिति तत्र प्रतिज्ञा भाष्योक्तेत्याशङ्कयाह क्वचिदध्याहारदर्शनेपीति । परमात्मपरत्वेऽपि न सन्देह इति । यद्यपि, सर्वस्य वशीत्यादयः शब्दा अपि जीव एव यथाकथञ्चिद्योजनीयाः । नास्मिन् सन्दर्भे कस्यचिदपि वाक्यस्य परमात्मपतिपादकत्वमस्तीत्येव पूर्वपक्षो वाचस्पतिना दर्शितः, तथापि सर्वस्य वशी सर्वस्येशान इत्यादीनां जीवप्रतिपादकत्ववादस्यातिसाहसत्वादसंशय इति द्रष्टव्यम् । किञ्चेश्वरस्येति । ईश्वराध्यस्तजीवभ्रमनिवृत्त्यर्थं खलु जीवस्याधिष्ठानभूतेश्वरतादात्म्यमुपदिश्यते । तत्रेश्वरे जीवभ्रमः किमीश्वरस्य, उत जीवस्य ? न प्रथमः, सर्वस्य भ्रमासंभवात् । न द्वितीयः, अधिष्ठानभूतेश्वरज्ञानशून्यस्य तत्र जीवस्य भ्रमानुदयादित्यर्थः । तात्पर्यलिङ्गदशर्नाच्चेति । अभ्यासापूर्वत्वरूपतात्पर्यलिङ्गदर्शनाच्चेत्यर्थः । शाखान्तरे चेति । कौपीतकीश्वेताश्वतगदावित्यर्थः । “सता सोम्य तदा सम्पन्नो भवती’ति सद्विद्यायां श्रवणाच्चेत्यर्थः । शाब्दस्य हेतोर्विरुद्धत्वादिति । सुषुप्त्युत्क्रान्त्योर्भेदस्य जीवत्वपूर्वपक्षासाधकत्वादिति भावः । यस्तु पूर्वपक्षहेतुः पूर्वमुक्त्तः; स न शाब्द इत्याह भोक्तुः प्रकृततयेति । ननु उत्सूत्र एव पूर्वपक्षः; आद्यसूत्रमपि सिद्धान्तसाधकमेवास्त्वित्याशङ्कयाह तच्छाङ्काव्युदसनेति । निरुपाधिकैश्वर्यवत्त्वं चेति । ततश्च चिदचिद्वैलक्षण्यसाधने संवादनिरपेक्षप्राज्ञत्वादेरेव हेतूकरणसंभवेन तत्र शाखान्तरसंवादस्य हेतूकरणासंभवादिति भावः ॥ इति अर्थान्तरत्वव्यपदेशाधिकरणम् ॥ इति चतुष्षष्टिप्रबन्धनिर्माणालङ्कर्मीण दशोपनिषद्भाष्यकार श्रीमद्रङ्गरामानुजमुनिविरचितायां श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां प्रथमस्याध्यायस्य तृतीयः पादः ॥