शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । सङ्गतिरित्याहेति । सङ्गतिरित्यभिप्रयन्नाहेत्यर्थः । तदुपसंहारेति । उपसंहारः- अनुष्ठानम् । नैरपेक्ष्योत्तम्भकतयेति । ननु शूद्रस्यामन्त्रणपूर्वकमितिहासपुराणश्रवणादर्शनेन कथं तस्य नैरपेक्ष्योत्तम्भकत्वम् । अतः शूद्रेत्यामन्त्र्य ब्रह्मविद्योपदेशात्, शूद्रेत्यामन्त्रणं शूद्रस्य ब्रह्मविद्याधिकारे साक्षादेव लिङ्गमित्येव सुवचमिति चेत्- सत्यम् । मार्गान्तरस्य मार्गान्तरादूषकत्वात् तथोक्तमिति द्रष्टव्यम् । वेदादेव ब्रह्मावगतिरिति । ब्रह्मविद्यानुष्ठानोपयुक्त्तब्रह्मावगतिरित्यर्थः; एवमुत्तरत्रापि; इतिहासपुराणादिना ब्रह्मावगतिमात्रस्य सिद्धान्तिनाऽपि प्रत्याख्यातुमशक्यत्वादिति द्रष्टव्यम् । विद्याशब्दं व्याचष्टे विद्या- वेदविद्येति । अत्राध्ययनमिति क्वचित्पाठो दृश्यते । स तु लेखकस्खलनकृतः । अध्ययनजन्यस्य कर्मानुष्ठानौपयिकाङ्गकलापादिज्ञानस्य वा वेदस्य वा विद्याशब्देनग्रहणर्हतया अध्ययनस्य विद्याशब्देन ग्रहणानर्हत्वादिति द्रष्टव्यम् । यद्वा विद्याभावादित्यस्य अध्ययनसंस्कृतविद्याराहित्य(परत्व?)द्योतनाय अध्ययनपदमुपात्तम् । अग्निशब्दं व्याचष्टे अग्निः आहित इति । आधानसंस्कृताहवनीयादिरित्यर्थः । अत्र क्रमस्याविवक्षितत्वात् अग्निविद्याशब्दयोः व्युत्क्रमेण व्याख्यानं न दोष इति द्रष्टव्यम् । ननु तस्मात् शूद्र इति । ननु कथमस्याः शङ्कायाः उत्थानम्; प्रागेव साक्षात् परंपरया वा ब्रह्मोपासने अग्निविद्यासाध्यत्वस्य निरस्तत्वादिति चेत्- अत्र केचित्, “तस्मात् शूद्रो यज्ञेऽनवक२प्त इति वाक्यस्य शूद्रे अग्निविद्यासाध्ययज्ञमात्रानधिकारप्रदशर्कत्वे तस्यापशूद्राधिकरणन्यायसिद्धत्वेन वाक्यवैघल्यप्रसङ्गात्, यज्ञेऽनक२प्त’ इति वाक्यं कर्मविद्यासाधारण्येन वैदिककमर्मात्रे शूद्रस्याधिकारनिषेधपरं किं न स्यात् इत्याशङ्कय प्राप्तार्थप्रतिपादकस्य वाक्यस्य वैफल्यप्रसङ्गेन (तस्य) लक्षणया अप्राप्तार्थप्रतिपादकत्वे अभ्युपगम्यमाने अनुवादमात्रोच्छेदप्रसङ्गात्, “ये पुरोदञ्चो दर्भा’ इति वाक्यस्य, “अग्रवन्त्युदगग्राणी’ति स्मृतिप्राप्तानुवादित्ववत् शूद्रोयज्ञेऽनक२प्त’ इति वाक्यस्यापि अपशूद्राधिकरणन्यायप्राप्तार्थानुवादित्वमेव वक्त्तव्यमित्यभिप्रयन्नाह तस्मात् शूद्रो यज्ञेऽनवक२प्त इत्यपीत्येवं भाष्यग्रन्थावतारिकामाहुः । यावद्वचनता स्यादिति । श्रुत्यैकसमधिगम्यो ह्यर्थो यथाश्रुतिप्रतिपत्तव्यः । अयं तु न्यायसिद्धोर्थः । ततश्च मूलभूतन्यायस्य यावद्विषयकत्वम्, तावद्विषयकत्वं मूलिनोपि वाक्यस्य वक्त्तव्यमिति भावः । परिसङ्खया वेति । यज्ञ एवानक२प्त इत्येवं परि सङ्खया वा नेत्यर्थः । उपासनाधिकारोनुमतो भवतीति । अप्रतिषिद्धमनुमतमिति न्यायादिति भावः । ननु “श्रावये’दिति ब्राह्मणस्य श्रावणानुज्ञायां सत्यामपि शूद्रस्य श्रवणानुज्ञाया अदर्शनात् कथमेतदित्यत आह प्रयोज्या भाव इति । प्रयोज्योपादानमर्थसिद्धमिति । श्रावणविधिना, सर्वेऽपि वर्णाःृणुयुरिति श्रवणविधिराक्षिप्यत इति भावः । प्रयोज्यव्यापारविधिरिति । यथा अन्नाद्यकामं याजयेदित्यत्र याजनं न विधीयते; रागप्राप्तत्वात्; किन्तु यजनमेव । एवं श्रावयेदित्यत्राऽपि श्रावणस्य रागप्राप्तत्वात् श्रवण एव विधिः । अतो न श्रवणस्यार्थसिद्धत्वमिति शङ्कार्थः । अधिकारिविशेषणाश्रवणादिति । यद्यपि चतुरो वर्णानितिवर्णरूपाधिकारिविशेषणश्रवणमस्तितथाऽपि अन्नाद्यकामं याजयेदित्यत्र याजनस्य रागप्राप्ततया विधानासंभवेन यजनविधिपरत्वेन(त्वेऽपि?) श्रावणस्य, “न चास्योपदिशेद्धर्म’मित्यादिना प्रतिषिद्धस्य, “श्रावयेच्चतुरो वर्णा’नित्यस्य प्रतिप्रसवरूपत्वसंभवे तत्परित्यागेन श्रवणविधिमात्रपरत्वस्यान्याय्यत्वादिति भावः । एतदभिप्रायेणेति । श्रावणविध्याक्षिप्तश्रवणविधिविषयत्वाभिप्रायेणेत्यर्थः । नन्वस्तु श्रवणम्; अथाप्युपासनोपयुक्त्तनिश्चयरूपज्ञानस्य विचारमन्तरेणेतिहासपुराणश्रवणमात्रेणासिद्धेः शूद्रस्य विचारप्रयोजकाभावात् कथं सामर्थ्यमित्याशङ्कय इतिहासपुराणश्रवणस्य दृष्टार्थत्वेनानुष्ठानौपयिकज्ञानार्थतया तस्य तद्विचारमन्तरेणासिद्धेः त्रैवर्णिकानां वेदान्तविचारवत् शूद्रस्येतिहासविचारः सिद्धयतीत्यभिप्रयन्नाह यदाचैवमिति । शङ्कते यदिब्रूयादिति । (यदि ब्रूयात्) तदा किमुत्तरमिति चेदित्यध्याहृत्य योजना द्रष्टव्या । श्रवणफलनिर्देशादिति । अविहितस्य श्रवणस्य फलश्रवणासंभवात्, श्रवणे विधिरभ्युपगम्य इति भावः । तर्हि शूद्रस्य कीर्तनमपि स्यादिति शङ्कां वारयतिं श्रवणकीर्तने हीति । ननु फलनिर्देशान्यथानुपपत्त्या अस्तु श्रवणस्य विधेयत्वम्; नैतावताऽर्थज्ञानफलकत्वसिद्धिः; नामसहस्रमात्रश्रवणफलनिर्देशतयाप्युपपत्तेरिति चेन्न- श्रवणस्य फलनिर्देशान्यथानुपपत्त्या विधेयत्वसिद्धौ श्रवणस्य ज्ञानरूपदृष्टा-र्थत्वे संभवति पापक्षयरूपादृष्टार्थत्वकल्पनाया अन्याय्यत्वात् अर्थज्ञानपर्यन्तत्वमिति भावः । अनधिकारो निर्णीतश्चेदिति । अध्ययनगृहीतवेदजन्यज्ञानस्यैव वैदिककर्मानुष्ठानोपयुक्त्तत्वम्; नेतरस्येति पूर्वतन्त्रापशूद्राधिकरण एव निर्णीतत्वादित्यर्थः । अपशूद्राधिकरणन्यायाप्रवृत्ताविति । युक्त्तिमाहेत्यन्वयः । तत्रापरिहृतामिति । पूर्वतन्त्रापशूद्राधिकरणे अपरिहृतामित्यर्थः । निर्वाह एव सौत्र इत्यस्यानन्तरं तस्मादिति शेषः पूरणीयः । अलौकिकसामर्थ्याभावादिति । अध्ययनगृहीतस्वाध्यायजन्यज्ञानरूपशास्त्रीयहेत्वभावादित्यर्थः । भाष्ये, यथैव हि वर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभेनेति । ननु स्वाध्यायाध्ययनविधौ त्रैवर्णिकोऽधिकारी न श्रूयत इति चेत्- सत्यमध्ययनविधौ त्रैवर्णिकोऽधिकारी न निर्दिष्टः- तथाप्युपनयनविधौ, “वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम्’ इति त्रैवर्णिकाधिकारित्वश्रवणात् त्रयाणामेव वर्णानामुपनयनमिति सिद्धम् । ततश्च स्वाध्यायविधिरनिर्दिष्टकर्तृकः कतर्ारमपेक्षमाणः प्रकृतोपनयनसंसकृतान्, “किमर्थं वयमाचार्यसमीपं नीताः’ इति प्रयोजनमपेक्षमाणान् ब्राह्मणादीनेव कर्तृत्वेन स्वीकुर्वन् तेषामेवाध्ययनं विधत्ते, न शूद्रस्येति अध्ययनविधेरपि त्रैवर्णिकविषयत्वं युज्यत इति द्रष्टव्यम् । अत्र विधिसिद्धत्वं स्वाध्यायस्य विशेषणम्; न तु तत्सम्पाद्यज्ञानस्य; सिद्धान्ते अध्ययनविधेरक्षराशिग्रहणमात्रविश्रान्तत्वेन अर्थज्ञानफलकत्वाभावात् । नन्वध्ययनविधेरर्थज्ञानपर्यन्तत्वे हि वर्णविशेषादिग्रहणमन्तरेणाविशेषप्रवृत्ता अपि वैदिककर्मविधयः कर्मानुष्ठानार्थमनुष्ठेयार्थज्ञानं नाक्षिपन्ति । यथा क्रतुविधयो याजकान् अपेक्षमाणाः स्ववर्णोचिदद्रव्यार्जनोपाय इति याजने स्वत एव प्रवृत्तान् ब्राह्मणा न आसाद्य निर्वृण्वन्ति, न त्वध्ययनवत्त्वेपि क्षत्रियवैश्ययोर्याजकत्वमाक्षिपन्ति; ततश्च “याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमार्जये’दिति द्रव्यार्जनोपायनियमविधिबलात् ब्राह्मणानामेवार्त्विज्यमिति नियमः । तथा अध्ययनविधिबलादध्ययनलब्धानुष्ठेयार्थज्ञानवतामेव वैदिककर्मानुष्ठानमिति नियमलाभ इति शक्यते वक्त्तुम् । अध्ययनविधेरक्षरराशिग्रहणमात्रविश्रान्तत्वे कस्यापि विधिलब्धज्ञानस्याभावात् ज्ञानाक्षेपस्य च सर्वत्र संभवात् कथमपशूद्रमधिकारः स्यादिति चेत्- सत्यमस्मन्मते ज्ञानं न विधिसिद्धमिति । अथापि हेतुसाकाङ्क्षं कर्मानुष्ठानौपयिकं ज्ञानं प्रयोजनान्तरासंयुक्त्तं, प्रयोजनसाकाङ्क्षम्, अध्ययनसंस्कृतं स्वाध्यायमेव हेतुतया स्वीकरोति; न तद्वयतिरिक्त्तं ज्ञानोपायान्तरम् । ततश्चाध्ययनजन्यज्ञानमेव क्रत्वङ्गमिति पर्यवस्यति । यथा विहाराधिकरणे (12-2-1)असंयुक्त्तोत्पन्नानामाधाननिष्पाद्याहवनीयादीनां प्रयोजनसाकाङ्क्षाणां लौकिकेष्वपि पचनप्रकाशनेषु विनियोगोऽभ्युपगन्तव्य इति पूर्वपक्षः प्रवर्तितः, तेन न्यायेनाध्ययनसंस्कृतस्वाध्यायस्य प्रयोजनसाकाङ्क्षस्य हेतुसाकाङ्क्षे कर्मौपयिकज्ञाने विनियोग इति सिध्यति । ततश्चाधीतवेदानामेव त्रैवर्णिकानां कमर्स्वधिकार इति सिद्धौ न सिद्धान्तेऽनुपपत्तिः । अध्ययनव्रतोपनयनादय उच्यन्त इति । अध्ययनाङ्गं व्रतं अध्ययनव्रतम्; अध्ययनस्य उपायशब्देनोपात्तत्वादिति द्रष्टव्यम् । यद्वा उपायशब्दो वेदपरः, आदिशब्देन अध्ययनं गृह्यत इत्यभिप्रेत्यैतदुक्त्तमिति द्रष्टव्यम् । अत्र चोपनयनपदं लेखकप्रमादादागतम् । ब्राह्मणादिवर्णमात्रविषयतयोत्पन्नस्योपनयनस्य शूद्रो आक्षोपाप्रसक्त्तेः । अपशूद्राधिकरणे हि द्वेधा पूर्वपक्षो वर्णितः- अनारभ्याधीतमप्यध्ययनं क्रत्वनुष्ठानौपयिकज्ञानोपयोगित्वात् क्रत्वङ्गम्, क्रतवश्चाविशेषेण चातुर्वर्ण्यमधिकुर्वाणाः चतुर्णामध्ययनं प्रयुञ्जते । तत्र च त्रयाणामुपनयनसंस्कारोऽध्यनाङ्गतया विधीयते । चतुर्थस्तु संस्कारविध्यभावात् अनुपनीत एव स्वयमेवोपगम्याधीत्य विद्यां लभताम् । अतवा, अनारभ्याधीतमध्ययनं पुरुषार्थमेव; न क्रत्वङ्गम् । अतः तदभावेऽपि क्रतोर्वैगुण्याभावादनधीतवेद एव शूद्रः पुस्तकनिरीक्षणादिनाविद्यां लब्ध्वाऽधिक्रियतामिति । ततश्च पक्षद्वयेऽपि शूद्रे ब्राह्मणादिसंयुक्त्तोपनयनाक्षेपाप्रसक्त्तेरिति ध्येयम् । नापेक्षन्त इत्यर्थ इति । शूद्रे ज्ञाने तदुपायादीश्च नाक्षिपन्तीत्यर्थ इत्यर्थः । अध्ययनस्यापि प्रयोजकतयेति । कर्मविधीनामेव शूद्रगताध्ययनप्रयोजकत्वकल्पनायां गौरवमित्यर्थः । सौधन्वत्वमनुकूललिङ्गमिति । “ऋभवो नेमिं नमन्ती’त्यादिमन्त्रलिङ्गात् नेमिनिर्माणचतुरस्य ऋभुशब्दवाच्यत्वावगमात् “सौधन्वना ऋभव’ इति मन्त्रे तत्समानाधिकरणतया सौधन्वशब्दस्य श्रवणात् पल्यां तु जातो वैश्यानां(यां?) सुधन्वाचार्य एव चेत्याचायऋभुशब्दापरपर्यायसौधन्वब्दितजातिविशेषस्य ग्रहणमिति भावः । नन्वस्यार्थस्य, “शुगस्ये’ति सूत्राभिप्रेतत्वे तद्वयाख्यानसमय एव वाच्य इत्याशङ्कयाह इह प्रतिपत्तीति । न हि व्याख्येयानधिकारिण इति । नन्वितिहासपुराणादिकं वेदवाक्यप्रतीकग्रहणपूर्वकम्, अस्य पदस्यायमर्थ इत्येवंरूपं व्याख्यानं न भवति, येन वेदसापेक्षता स्यात् । अतोऽनधीतवेदस्यापीतिहासपुराणादिना स्पष्टार्थावगतौ नानुपपत्तिः । अत एवाङ्गतय विहितस्य स्वतन्त्रतयेत्याद्युत्तरयुक्त्तिरप्यनुपपन्ना; शूद्रश्रावणविध्यनुरोधेन स्वतन्त्रतयोपादानस्याप्यङ्गीकर्तव्यत्वात् । शूद्रश्रावणस्य दृष्टार्थत्वसंभवे सति अदृष्टार्थत्वकल्पनाया अन्याय्यतया अनुष्ठेयोपासनानुष्ठानाद्यर्थत्वस्यैव युक्त्तत्वादिति चेत्- सत्यम्; “नाशुभं प्राप्नयात्किश्चित् सोऽमुत्रेह च मानवः’ इत्यादिषु पाप क्षयफलकत्वस्यैव स्पष्टमाम्नानेन तस्यैव फलत्वात् । अत एवोक्तम्, पुण्यकथावगतिद्वारेण पापक्षयफलार्थमितीति द्रष्टव्यम् । तदविरोधस्येति । वेदार्थविशदीकरणहेतुतयैव तदधिगमविधायकशास्त्राविरोधस्येत्यर्थः । श्रवणविध्यवैयथ्यर्ाच्चेति । शूद्राणामितिहासपुराणश्रवणस्य निष्फलत्वे श्रवणबिधेर्वैयर्थ्यप्रसङ्गादित्यर्थः । शौनकवचनविरोधादिति । ननु वचनविरोधाद्विदुरादीनां तथास्तु नाम, तथा पूर्वजन्मानुष्ठितकर्मभिर्विशुद्धचित्तानामुत्पन्नब्रह्मविविदिषाणां प्रारब्धवशात् शूद्रजन्म प्राप्तामितिहासपुराणावगतब्रह्मस्वरूपतदुपासनप्रकाराणां कुतो न ब्रह्मविद्यायामनधिकारः ? न चोक्तरीत्या यज्ञादिकर्मण्यप्यधिकारः स्यादिति शङ्कयम्- “तस्माच्छूद्रो यज्ञेऽनवक२प्त’ इति यज्ञादौ विशेषनिषेधदर्शनात् उपासने तादृशनिषेधादर्शनात्, नारदस्य प्राचीनजन्मनि यतिभिरुपदिष्टाच्युदोपासनायाम्, शूद्रोचितसंस्कारपूर्वकं शैवपाशुपतपाञ्चरात्राद्युपदिष्टासु प्रणवरहिताष्टाक्षरपञ्चाक्षरमन्त्रकरणकविष्णुशिवोपासनासु अधिकारो न निवायर्ः । न चैतदधिकरणविरोधः; शूद्रस्येतिहासादिमूलाधिकारसत्त्वेऽपि वेदमूलसंवर्गविद्याद्यधिकारनिवारणार्थत्वादस्याधिकरणस्य । अत एव वेदश्रवणादिप्रतिषेधः सूत्रकृताप्युपन्यस्त इति चेत् उच्यते- विशिष्य विहितेषु शैवाद्यागमनिर्दिष्टेषूपासनेषुन शूद्राद्यधिकारं प्रतिक्षिपामः; अपि तु सामान्यतः श्रुतेषु ब्रह्मोपासनेषु यज्ञादिष्विव नाधिकार इत्येव(हि)साधयामः । न च, “तस्मात् शूद्रो यज्ञेनवक२प्त’ इति वचनात् यज्ञानधिकारेऽपि उपासने कुतो नाधिकार इति शङ्क्यम् तस्य वचनम्यापशुद्राधिकरणन्यायसिद्धार्थानुवादित्वात्; न्यायस्य च कर्मब्रह्मोपासनसाधारण्यात् । किञ्च, “नास्याधिकारो धर्मेऽस्ति नाधर्मात् प्रतिषेधनम्’ इति विशिष्य विहितेतरेषु धर्मेषु शूद्रस्यानधिकार इति मनुस्मरणादिति द्रष्टव्यम् । अतः शूद्रस्य न ब्रह्मविद्याधिकारः । शोककारणं शोककायर्ं च हेतुत्वेनाहेति । कार्यकारणयोर्द्वयोरपि लिङ्गविधया ज्ञापकत्वसंभवेन हेतुत्वसंभवात् सूत्रे ज्ञापकहेतौ पञ्चमी । ततश्चानादरश्रवणाद्रवणरूपलिङ्गाभ्यां कारणकार्यरूपाभ्यां ज्ञाप्यमानेत्यर्थः । अनादरश्रवणजन्या आद्रवणहेतुभूता शुक् शूद्रेत्यामन्त्रणेन सूच्यत इति सूत्रार्थ इति भावः । भाष्ये शुचेर्दश्चेतीति । अस्य सूत्रस्य धातुवृत्तौ शूद्रशब्दव्युत्पादनावसरे उदाहृतत्वात् प्रक्षिप्तत्वं वदन्तो निराकृता इति वेदितव्यम् । अेद्रवणमप्यन्तर्भाव्येति । शुचा द्रवतीति शूद्रशब्दव्युत्पत्तिः परैरादृतेति भावः । ननु हंसोक्तानादरश्रवणं जानश्रुतेः कथं शोकहेतुः, महात्मनां हि येन केनापि कृता निन्दा शोकाय नावकल्पते; प्रत्युत तेषायैव । स्मरन्ति च मन्वादयः, “अवमानात् तपोवृद्धिः संमानाञ्च तपःक्षयः । अमृतस्येव काङ्क्षेत अवमानस्य सर्वतः’ इत्यादि । प्रत्युत हंसे हितप्रवर्तकत्वं जानतः तोष एव युक्त्त इति चेत्- सत्यम् । अथाप्येतावन्तं कालमीदृशीं विद्यां नाध्यगमम् । अत एव पितृस्थानीयेन हंसेन निन्दितोऽस्मीति शोको भवत्येव । अतस्तेनाद्रवणमप्युपपद्यत एव । इतरथा पित्रादिकृतनिन्दायाः शोकाहेतुत्वे तन्निन्दाया अकार्यकरत्वं स्यादित्यपि द्रष्टव्यम् । वैशद्यार्थमुपन्यस्यतीति । एवं हि श्रुतिः, “जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथान् मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति । अथ ह हंसा निशायामतिपेतुः । तद्धैवं हंसो हंसमभ्युवादभोभो अयि भल्लाक्ष ! भल्लाक्ष ! जानुश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततम् । तन्मा प्रसाङ्क्षीः । तत् त्वा मा प्रधाक्षीदिति । तमु ह परः प्रत्युवाच, कम्वर एवमेतत् सन्तं सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति । यथा कृतायविजितायाधरेऽयाः संयन्ति; एवमेनं सर्वं तदभिसमेति, यत्किञ्च प्रजाः साधु कुर्वन्ति । यस्तद्वेद यत्सवेद स मयैतदुक्त्त इति । तदु ह जानश्रुतिः पौत्रायण उपाशुश्राव । स ह सञ्जिहान एव क्षत्तारमुवाच- अङ्गारे सयुग्वानमिव रैक्वमात्थेति । यो नु कथं संयुग्वा रैक्व इति- स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय । तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छे(मर्च्छे)ति । सोधस्तात् शकटस्य पामानं कषमाणमुपोपविवेश । तं हाभ्युवादत्वं नु भगवः सयुग्वा रैक्व इति । अहं ह्यारा इति ह प्रतिजज्ञे । स ह क्षत्ता अविदमिति प्रत्येयाय । तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे । तं हाभ्युवादरैक्वे ! इमानि षट्शतानि गवामयं निष्कोऽयमश्वतीरथः । अनु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति । तमु ह परः प्रत्युवाच अह हारेत्वा शूद्र ! तवैव सह गोभिरस्त्विति । तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवामयं निष्कोऽयमश्वतरीरथः, इयं जाया, अयं ग्रामः, यस्मिन्नास्से । अन्वेव मा भगवः शाधीति । तस्याह मुखमुपोद्गृह्णन्नुवाच आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति । ते हैंते रैक्वपर्णा नाम महावृषेषु, यत्रास्मा उवास । तस्मै होवाच-’ जनश्रुतस्यापत्यं जानश्रुतिः । पुत्रस्य पुत्रः पौत्रः । तस्यापत्यं पौत्रायणः । श्रद्धादेयःश्रद्धापुरस्सरं देयमस्य श्रद्धादेयः । बह्वस्य गेहेऽन्नं पक्त्तव्यमस्ती बहुपाक्यः । सर्वतः- सर्वासु दिक्षु अन्नपानादिपूर्णानि अतिथ्यभ्यागतानां वासस्थानानि निर्मितवान्, सर्वत एत्यातिथयः मेऽन्नं भोक्ष्यन्त इत्यभिप्रायेणेत्यर्थः । भल्लाक्ष भल्लाक्षेत्यनेन विपरीतलक्षणया मन्दलोचनेति संभ्रमेण द्विवारं संबोधनम् । यथा कृताय- विजितायेति । कृतनामधेयोऽयः द्यूतशास्त्र(समय)प्रसिद्धः चतुरङ्कः । तत्र विजिताय जितवते अधरे अयाः त्रिद्वयेकाङ्काः, त्रेता-द्वापर-कलिनामानः यथा संयन्ति अन्तर्भवन्ति, चतुरङ्के कृतनामके अये त्रिद्येकाङ्कानां तत्र सत्त्वेनान्तर्भावादित्यर्थः । यस्तद्वेद यत्स वेदेति । सः रैक्वः यद्वेद्यं वेद, तदन्योऽपि यो वेद, तमप्यभिसमेतीत्यनुषङ्गेण योजना । स ह सञ्जिहान एव तल्पंत्यजन्नेवेत्यर्थः । यत्रारे ब्राह्मणस्यान्वेषणेति । अरे ! ब्राह्मणस्य- ब्रह्मविदः यत्रारण्ये नदीपुलिनादौ विविक्त्ते अन्वेषणा- मार्गणं भवति । तत्रैनं रैक्वमृच्छमृगयस्वेत्यर्थः । पामानं कषमाणमिति । पामानं कण्डूयमानमित्यर्थः । निष्कहारम् । अश्वतरीरथम्- अन्वतरीभ्यां युक्त्तं रथम् । तदा- तस्मिन् काले गृहीत्वा रैक्वसमीपं गतवानित्यर्थः । अह हारेत्वा शूद्रेति । अहेति निपातः, हारसहित इत्वा रथः हारेत्वा । गोभिः सह तवैवास्तु, किमनेन मम सन्तोषः? कलत्रहीनस्य मम एतद्धनरक्षणे वा का शक्त्तिः? किं तव वाऽल्पधनदानेन विद्या प्रतिष्ठिता भवेदिति भावः । तस्या ह मुखमुपोद्गृह्णन् उवाचेति । तस्याः जायार्थमानीतायाः राज्ञो दहितुः मुखं द्वारतां विद्याया दाने तीर्थं जानन्नुक्त्तवानित्यर्थः । “ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः । विद्यायै वाऽपि यः प्राह तीर्थानि षण्मम’ इति विद्याया वचनात् । आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथा इति । इमाः दक्षिणाः आजहर्थ । अनेनैव मुखेन विद्याग्रहणोपायेन वाचयिष्यसीत्यर्थः । ते हैते रैक्वपर्णा नाम महावृषे(क्षे)षु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तान् ग्रामान् तस्मै रैक्वाय ददौ । तदनन्तरं तस्मै विद्यामुपदिदेशेत्यर्थः ॥क्षत्रियत्वगतेश्च - ननु महाभारते सूतात्मजमात्मानं मन्यमानस्य कर्णस्य दानपतित्वराज्याधिपतित्वादीनां श्रवणात्, अवेष्टिनये वात्तिर्के, “राज्यमविशेषेण चत्वारो वर्णाः कुर्वाणा दृश्यन्त’ इत्युक्त्तेः दानपतित्वं शूद्रस्यापि संभवति । न च, “शक्त्तेनापि च शूद्रेण न कार्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते’ इति निर्धनत्वश्रवणात् कथमस्य दानपतित्वमिति वाच्यम्- व्यासस्मृतौ शूद्रप्रकरणे, “राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः । पापीयान् हि धनं लब्ध्वा वशे कुर्यात् गरीयसः’ इति धार्मिकशूद्रस्य धर्मार्थं धर्मार्जनस्य अनुज्ञातत्वादिति चेन्न, बहुदायित्वादीनां कदाचित् शूद्रे संभवेऽपि क्षत्तृप्रेषणस्य, रैक्वाध्युषितग्रामाणां तस्मै दानस्य च क्षत्रियधर्मराज्याधिपत्यसाध्यस्य तत्रासंभवात् । राज्यपालनं हि क्षत्रियस्य वृत्तिः, आपद्वृत्तित्वेनापि ब्राह्मणस्यैव संभवात् । “अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः । यो मोहादधमो भूत्वा जीवेदुत्कृष्टकर्मणा । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत्’ इत्यादिस्मरणात् राज्याधिपत्यस्याशास्त्रीयत्वात् । इतिहासपुराणादिषु दर्शितस्याक्षत्रियाणामपि राज्यपरिपालनस्याशास्त्रीयतयाप्युपपत्तेः प्रकृते शास्त्रानिषिद्धराज्याधिपत्यग्रहणसंभवे निषिद्धग्रहणस्यान्याय्यत्वात् । जानश्रुत्यधिष्ठितराज्ये रैक्वस्य वासप्रतिपादनाच्च तस्यक्षत्रियत्वमभ्युपगन्तव्यम् । “न शूद्रराज्ये निवसेत् न पाषण्डचनैर्वृते’ इति शूद्रराज्यस्य निषिद्धत्वादित्यपि द्रष्टव्यम् ॥उत्तरत्र चैत्ररथेन लिङ्गात् । त्रैवर्णिकत्वलिङ्गमित्यर्थसिद्धमिति । “सार्ववणिर्कमैक्षचरणमभिशस्तपतितवर्जम्’ इति गौतमस्मरणस्य त्रैवर्णिकालाभविषयतया व्याख्यातत्वात् नानुपपत्तिरिति द्रष्टव्यम् । जातिद्वयसंबन्धितयावगतायामिति । विद्यायामिति शेषः कापेयसहपाठादित्यर्थ इति । सहपाठावगतपरस्परसाहचर्यादित्यर्थः । तत्पुरोहितकस्य चैत्ररथत्वं सिद्धमिति । ननु, “एतेन वै चित्ररथं कापेया अयाजयन्, तमेकाकिनमन्नाद्यस्याध्यक्षमकुर्वन् । तस्मात् चैत्ररथिर्नामैकः क्षत्रपतिजर्ायत’ इति द्विरात्रप्रकरणगतार्थवादे कापेययाज्यस्य चित्ररत्वावगमात् अभिप्रतारिणोऽपि चित्ररथत्वमेव स्यात्, न चैत्ररथत्वमिति चेन्न- अभिप्रतारिलक्षणसंज्ञान्तरावरुद्धस्य चित्ररथलक्षरसंज्ञान्तरावरोधासंभवात् समानान्वयानां समानान्वययाज्यत्वस्याचिततया कापेययाज्यस्य चित्ररथवंश्यत्वे नानुपपत्तिः । नन्वभिप्रतारिणः कापेययज्यत्वे सिद्धे तस्य चित्ररथवंश्यत्वसिद्धिः; चित्ररथवंश्यत्वे च क्षत्रियत्वनिर्धारणम्; क्षत्रियत्वे च निर्धारिते साहचर्यात् जानश्रुतेरपि क्षत्रियत्वनिश्चय इति प्रणाडी न संभवति, अभिप्रतारिणः कापेयसाहचर्यमात्रेण कापेययाज्यत्वस्यैवासिद्धेः । न हि कापेयाभिप्रतारिणोरेक िभोजनं याज्ययाजकभावाधीनम्; नानादेशागतानां परस्परसंबन्धशून्यानामेकत्र भोजनदर्शनात् । यौनमौखसंबन्धान्तरसद्भावाच्च । अस्तु वा अभिप्रतारिणः कापेययाज्यत्वम् । नैतावता तस्य चैत्ररथत्वसिद्धिः, कापेयानां चैत्ररथयाजकत्ववत् पुरुषान्तरयाजकत्वस्यापि संभवात् । अस्तु वाऽभिप्रतारिणः क्षत्रियत्वम्; तथापि तत्समभिव्याहारमात्रेण शूद्रेत्यामन्त्र्यमाणस्य जानश्रुतेः क्षत्रियत्वे प्रमाणाभावादिति चेत्- अविदितपूर्वस्य हस्तिनो निकटे पुरुषे दृश्यमाने, तस्मिंश्च राज्ञो हस्तिपकोयमिति प्रत्यभिज्ञायमाने सति अयमस्य अस्तिपकस्य शिक्षणीयो हस्ती, राजकीयश्चेति बुद्धिरौत्सर्गिकी जायते । एवमिहापि अभिप्रतारिसन्निधौ कापेये श्रूयमाणे, तस्मिंश्च श्रुत्यन्तरबलात् चित्ररथयाजकत्वेन प्रत्यभिज्ञायमाने, कापेययाज्योऽयमभिप्रतारी चित्ररथवंश्यश्चेति बुद्धिर्जायमाना न निवारयितुं शक्यते । सा च बाधकाभावात् प्रमाणमवतिष्ठते इत्यौत्सर्गिकन्यायमवलम्ब्योच्यते । एवं च ब्राह्मणद्वितीयस्याभिप्रतारिणः चैत्ररथत्वेन क्षत्रियत्वनिश्चये तत्समभिव्याहारात् ब्राह्मणस्य रैक्वस्य द्वितीयो जानश्रुतिरपि क्षत्रिय इति निधर्ारणं युक्त्तमेव; अन्यथासिद्धक्षत्तृप्रेरणादिलिङ्गसाहचर्यादिति द्रष्टव्यम् ॥संस्कारपरामर्शात्तदभावाभिलापाच्च । भाष्ये न च संस्कारमर्हतीति । ननु तत्रैव मानवे धर्मशास्त्रे, धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तिमनुव्रताः । मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च’ ॥ इति तदनन्तरश्लोके धामिर्कशूद्राणां मन्त्रवर्जसंस्काराणामभ्यनुज्ञानं कृतम् । न चामन्त्रकसंस्कारो न विद्योपयोगीति वाच्यम्- स्त्रीणामपि मैत्रेयीप्रभृतीनां तदभावप्रसङ्गादिति चेन्न- संस्कारान्तरसत्त्वेऽपि, “शूद्रश्चतुर्थो वर्ण एकजातिः’ इत्युपनयनसंस्कारस्य निषेधात् उपनयनसत्त्वे जन्मद्वयप्रसङ्गेन द्विजत्वप्रसङ्गात् । नन्वध्यनाङ्गमुपनयनं प्रस्तुत्यैव, “तद्वितीयं जन्मे’त्युच्यते; न तु ब्रह्मविद्याङ्गं प्रस्तुत्येति चेन्न- “त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसी’ ति वैदिकलिङ्गेन ब्रह्मविद्याङ्गोपनयनस्यापि जन्मान्तरत्वात् । नन्वेवं द्विजातीनां ब्रह्मविद्याङ्गोपनयनेन जन्मान्तरोपपत्तौ त्रिजन्मत्वप्रसङ्ग इति चेन्न- इष्टापत्तेः । मातर्यग्रेऽथ जननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितम्’ ॥ इति मनुना यज्ञदीक्षाया अपि जन्मान्तरत्वाभिधानात् । “अनृतात् सत्यमुपैमि’, “मानुषाद्दैवमुपैमि’, “दक्षिणं पूर्वमाङ्क्ते । सव्यं हि पूर्वं मनुष्या आञ्जत’ इति मन्त्रार्थवादलिङ्गैराधानपूर्वकयज्ञदीक्षायां मनुष्यतोत्तीर्णदेवजन्मत्वसूचनाच्च । ननु केकयराजाजातशत्रुप्रभृतेरुपनयनाभावेपि विद्योपदेष्टृत्वं दृश्यते । यथा “ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच । बालाकिस्समित्पाणिः प्रतिचक्राम, “उप त्वा यानी’ति; तं होवाचाजातशत्रुः, प्रतिलोमरूपमेव स्यात्, यत् क्षत्रियो ब्राह्मणमुपनयेत् । व्येवत्वा ज्ञापयिष्यामीति । ततश्च उपनयनाभावेऽप्युपदेशदर्शनात् शुर्द्रेऽपि तथात्वमस्त्विति चेन्न- तत्राब्रह्मणानां ब्राह्मणोपनयनस्यायुक्त्ततया बाधकबलात् तथाभावेऽपि अन्यत्रउपनयनस्याऽऽवश्यकत्वादिति भावः ।तदभावनिर्धारणे च प्रवृत्तेः । भाष्ये शूद्रत्वाभावनिर्धारण इति । ननु, “नैतदब्राह्मणो विवक्त्तुमर्हति समिधं सोम्याहर । उप त्वा नेष्य’ इति अब्राह्मणत्वभावनिर्धारणस्यैव दर्शनेन शूद्रत्वाभावानिर्धारणात् अयुक्त्तमिदम् । किञ्च एतल्लिङ्गवशात् अब्राह्मणानां क्षत्रियादीनामप्यधिकारो न स्यात् । किञ्चेदमुपनयनं न ब्रह्माविद्याङ्गम्; अपि त्वध्ययनाङ्गम् । सत्यकामस्य पूर्वमकृताध्ययनत्वात् । एवमुपाख्यायते- सत्यकामो ह जाबालो जबालां मारमामन्त्रयाञ्चक्रे, ब्रह्मचर्यं भवति ! विवत्सामि किंगीत्रोन्वहमस्मीति । सा हेनमुवाच, नाहमेतद्वेद तात ! यद्गोत्रस्त्वमसीति । बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे । साऽहमेतन्न वेद, यद्गोत्रस्त्वमसि । जबाला तु नामाहमस्मि । सत्यकामो नाम त्वमसि । सत्यकाम एव जाबालो ब्रवीथाः’ इति । स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भवति विवत्सामि, उपेयां भवन्तमिति । तं होवाच किंगोत्रो नु सोग्यासीति । स होवाच नाहमेतत् वेद भो यद्गोत्रोहमस्मीति । अपृच्छं मातरम् । सा मा प्रत्यब्रवीत्, “बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे, साहमेतन्न वेद यद्गोत्रस्त्वमसि; जबाला तु नामाहमस्मि । सत्यकामो नाम त्वमसीति । सोऽहं सत्यकामो जाबालोऽस्मि भो इति । तं होवाच नैतदब्राह्मणो विवक्त्तुमर्हति समिधं सोम्याहर । उप त्वा नेष्ये । न सत्यादगाः इति । तमुपनीये’त्यादि । ततश्चास्यामाख्यायिकायामुक्त्तं गोत्रापरिज्ञानमकृताध्ययनाङ्गोपनयनस्य बालस्य संभवति; न तु उपनीतस्याधीतसाङ्गस्वाध्यायस्य ब्रह्मविद्याधिजिगिमिषया गुरुमुपसीदतः । ततश्च कथमेतदुच्यत इति चेत्- उच्यते । नैतद्ब्राह्मणो विवक्त्तुमर्हतीत्यत्राब्राह्मणपदस्य शूद्रपरत्वमेव वक्त्तव्यम् । सत्यवचनं हि शूद्रे असंभावितम् । “अनृतञ्चातिवादश्च पैशुन्यमतिलोभता । विकृतिश्चाभिमानश्च जन्मतः शूद्रमाविशत्’ इति स्मृतिवशात् शूद्रे ईदृशसत्यवचनमसंभावितमितिहि गौतमस्याभिसन्धिर्युज्यते । नान्यथा । किञ्च त्रैवर्णिकानामुपनयनस्य श्रुतिसिद्धतया क्षत्रियत्वाद्यभावनिर्धारणस्योपनयनाप्रयोजकत्वात् साधारणोप्यब्राह्मणशब्दः शूद्रमात्रपर एव प्रकृते उचितः । यच्चोक्तमध्ययनाङ्गमेवेदमुपनयनमिति- तन्न । उत्तरत्र षोडशकलब्रह्मविद्योपदेशस्यापि दर्शनादुभयार्थमेवेदमुपनयनम् । तादृशे चोपनयने प्रवर्तमानो गौतमः शूद्रत्वाभावं निश्चित्यैव प्रववृत इति दर्शनात् उभयविधेप्युपनयने शूद्रत्वाभावोपेक्षित इत्येवावसीयते । यदि ब्रह्मविद्याङ्गोपनयने शूद्रत्वाभावो नापेक्षितः; अपित्वध्ययनाङ्गोपनयन एवेत्युच्येत- तर्हि ब्रह्मविद्याङ्गमुपनयनं सत्यकामस्य जातिमपरीक्ष्यैव कुर्यात्, अतोऽवसीयते, द्विविधेत्युपनयने शूद्रत्वाभावोऽपेक्षित इति ।is not available.स्मृतेश्च । स्मृतिशब्दविवक्षितमिति । श्रवणाध्ययनार्थप्रतिषेधस्मृतित्वेन विवक्षितमित्यर्थः । ततश्च श्रवणाध्ययनप्रायश्चित्तस्मृतिवचनस्य कथं निषेधस्मृतिवचनत्वमिति न शङ्कनीयमिति भावः । भाष्ये विपरीतवासनायां निवृत्तायां ज्ञानमुत्पत्स्यत इति । ननु मनुष्याणां बहूनि ब्रह्मविद्योत्पत्तिप्रतिबन्धकानि दुरितानि । तत्र यानि ऊविविदिषोत्पत्तिप्रतिबन्धकानि, तानि च वेदानुवचनयज्ञदानाद्यपूर्वनिवर्तनीयानि; यानि चोत्पन्नविविदिषस्यापि श्रवणादिसाधनसंपत्तिविघटकानि, तानि च सन्यासापूर्वनिवर्तनीयानि; यानि च संपन्नश्रवणस्यापि असंभावनाविपरीतभावनाबाहुल्यापादनमुखेन अविद्यानिवर्तकब्रह्मसाक्षात्कारोत्पत्तिप्रतिबन्धकानि, तानि च वेदान्तश्रवणादिनियमसंपाद्यादृष्टनिवर्त्यानि । ततश्च कथं शूद्रादीनां श्रवणनियमसंपाद्यादृष्टविधुराणामधिकार इति चेन्न- नियमादृष्टवैगुण्यमात्रेण दृष्टफलानिष्पत्तेः क्वाप्यदर्शनात् । उपनयनाङ्गकाध्ययननियमादृष्टवैगुण्येऽपि दृष्टफलस्याक्षरराशिग्रहणस्य अर्थज्ञानस्य वा अनुत्पत्तेरदर्शनात् । इयांस्तु विशेषः- नियमस्य क्रत्वर्त्थत्वे नियमादृष्टवैगुण्ये क्रतोर्वैगुण्यं पुरुषः प्रत्यवैति । यथा द्रव्यार्जनोपायनियमवैगुण्ये । ततश्च श्रवणनियमस्य च क्रत्वर्थत्वाप्रसक्त्तेः तद्वैगुण्ये पुरुषः प्रत्यवैतीत्येतावद्वक्त्तव्यम् । ततश्च यस्तूत्पन्नब्रह्मविविदिषः शूद्रो वाऽन्यो वा प्रत्यवायमप्युभ्युपेत्य उत्पन्नमपि प्रत्यवायं ब्रह्मज्ञानेन निर्धक्ष्यामीति बुद्धया लौकिकभाषाप्रबन्धादिषु प्रवृत्तः तस्य नियमादृष्टमन्तरेणापि ज्ञानोत्पत्तेः दुर्निवारत्वात्, उत्पन्ने च ज्ञाने अविद्यानिवृत्तेः दुनिर्वारत्वाच्च परेषां मतमसमञ्जसमिति पश्यामः । भाष्ये- प्रत्यक्षानुमानवृत्तेति । वृत्तं बोधनमित्यर्थः । साङ्कयहैरण्यगर्भेति । साङ्ख्यादिभिर्नैसर्गिकव्यवहारविरुद्धकर्तृत्वादिविरुद्धात्मस्वरूपप्रत्यायने सति साधकबाधकप्रमाणस्वरूपशोधनेच्छया प्रत्यक्षानुमानप्रकारबुभुत्सा भवत्येवेति न प्रसञ्जनार्थं वेदान्तापेक्षेति भावः । परमकारणत्वोपयोगीति । “समाननामरूपत्वाच्चावृत्तावप्यविरोधः’ इतिसूत्रे चतुर्मुखाद्युपादकत्वेन परमात्मनः परमकारणत्वस्याऽऽविष्करणादिति भावः । मधुविद्यायामुक्त्तमिति । “अथ तत ऊर्ध्व उदेत्य, नैवोदेता नास्तमेते’त्यादिभागस्य कारणा वस्थजीवान्रर्यामिपरत्वस्य तत्र प्रतिपादनादिति भावः । परमात्मविषयत्वं ज्ञापितमिति । यद्यपि “वायुर्वाव संवर्गः । यदा वा अग्निरुद्वायति वायुमेवाप्येती’त्यादिना अग्न्याद्यप्ययाधारत्वस्य परमात्मलिङ्गत्वात् संवर्गविद्यायाः परमात्मपरत्वं सिद्धवत्कृत्यैव पूर्वोत्तरपक्षयोः प्रवृत्तिर्दृष्टा; न तु तदधिकरणे तद्विद्यायाः परमात्मपरत्वसमर्थनं दृष्टम्, तथाऽपि यथाकथंचित् तस्मिन्नप्यधिकरणे कारणत्वानुबन्धिविचाररूपत्वमस्तीति सङ्गत्यतिशयोऽस्तीति भावः । अत्रापीति । समन्वयाध्यायेऽपीत्यर्थः ॥