असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमयूपो मरीचयः पुत्राः । तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ऋच एव मधुकृतः ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः । एतमृग्वेदमभ्यतपन् तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोजायत तद्य्वक्षरत्तदादित्यमभितोश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितं रूपम् । अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यः यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं ता एता अमृता आपः । तानि वा एतानि यजूँषि एतं यजुर्वेदमभ्यतपन् तस्याभितप्तस्य यशस्तेज इद्रियं वीर्यमन्नाद्यं रसोजायत । तद्य्वक्षरत्तदादित्यमभितोश्रयत्तद्वा एतद्यदेवतादित्यस्य शुक्लं रूपम् । अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यस्सामान्येन मधुकृतस्सामवेद एव पुष्पं ता अमृता आपः । तानि वा एतानि सामानि एतं सामवेदमभ्यतपन् तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोजायत । तद्य्वक्षरत्तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य कृष्णं रूपम् । अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्यः अथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः । ते वा एते अथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपन् तसाभितप्तस्य यशस्तेज+तद्वा एतदादित्यस्य परः कृष्णं रूपम् । अथ येऽस्यार्ध्वा रश्मतस्या एवास्योर्ध्वा मधुनाड्यः गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपस्ता एव एते गुह्या आदेशा एतद्ब्रह्माभ्यतपन् तस्याभितप्तस्य यशस्तेज+तद्वा एतद्यदेवतादित्यस्य मध्ये क्षोभत इव ते वा एते रसानां रसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि । तद्यत् प्रथममृतं तद्वसव उपजीवन्ति अग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति । त एतदेव रूपमभिसंविशन्ति एतस्माद्रूपादुद्यन्ति । स य एतदेवममृतंवेद वसूनामेवैको भूत्वा अघ्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति । स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता । अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्ति इन्द्रेण मुखेन न वै देवा +रुद्राणमेवैको भूत्वा इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति + एतस्माद्रूपादुदेति+स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेता उत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेता आदित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता । अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन वै देवा+मरुतामेवैको भूत्वा सोमेनैव मुखेन+ स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पयेता । अथ यत्पञ्चममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा+साध्यानामेवैको भूत्वा ब्रह्मणा मुखेन एतदेवामृतं दृष्ट्वा स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्व उदेता अर्वाङस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं पयर्ेता । अथ तत ऊर्ध्व उदेत्यने नैवोदेता नास्तमेता एकल एव मध्ये स्थाता तदेषः श्लोको न वै तत्र न निम्रोचनोदियाय कदाचन । देवास्तेनाहँ सत्येन मा विराधिषि ब्रह्मणेति । न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति । य एतामेवं ब्रह्मोपनिषदं वेद तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः । तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच इदं वा व तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वाऽन्तेवासिने नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतं धनस्य पूर्णां दद्यात् । एतदेव ततो भूय इत्येतदेव ततो भूय इति । अस्यार्थः- देवमधु देवानां मोदनात् मध्विव मधु । नन्वादित्यस्य कथं मधुत्वमित्यत आह - द्यौरेवेति । तस्य मधुनो द्यौरेव द्युलोक एव तिरश्चीनवंशः अन्तरिक्षं मध्यपूपम्, मध्वाश्रयापूपो हि तिरश्चीनवंशलग्नस्सन् लम्बते, एवमन्तरिक्षमपि द्युलोकलग्नं लम्बत इव भातीत्यतो मध्यपूपत्वम् । मरीचयः पुत्राः मरीचिशब्देन मरीचिस्थास्सवित्राकृष्टा मौम्य आप उच्यन्ते, ताः पुत्रा इव पुत्राः भ्रमरबीजभूताः मध्वपूपच्छिद्रस्थास्सूक्ष्मकीटा इत्यर्थः । तस्य ये प्राञ्च इति । तस्यादित्यस्य ये प्राञ्चो रश्मयस्ता एव मधुनाड्यः मधुच्छिद्राणि । ऋच एव मधुकृतः- ऋङ्मन्त्रा एव भ्रमराः । ऋग्वेद एव पुष्पम्- ऋग्विहितं कर्म पुष्पस्थानीयम् । ता अमृता आपः- ताः कर्मणि प्रयुक्त्ताः सोमज्यपयोरूपाः अग्नौ प्रक्षिप्ताः पाकाभिनिर्वृत्ता अमृता अत्यन्तरसवत्य आपो भवन्ति । ता वा एता ऋचः- पुष्पेभ्यो रसमाददाना भ्रमरा इव एतादृग्वेदविहितं कर्म पुष्पस्थानीयमभ्यतपन् अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्त्ता ऋग्भिर्मन्त्रैश्शस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकरसं मुञ्चति । पुष्पमिव भ्रमरैराचूष्यमाणं यशस्तेज इन्द्रियं वीर्यमित्यादीनि फलान्युत्पन्नानि । तद्व्यक्षरत् विशेषेणागात् गत्वा चादित्यमभितस्सवितुः पूर्वभागमाश्रितवदित्यर्थः । अयमिह निर्गलितार्थः । रोहितं शुक्लं परं कृष्णं मध्ये क्षोभत इवेत्युक्त्तानि पञ्च रोहितादीनि अमृतानि प्रामाद्यूर्ध्वान्तदेशस्थितरश्मिनाडीतस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्यमण्डलान सोमाज्यतपः प्रभृति द्रव्यनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियमित्येवमात्मकानि आदित्यमधुसम्बन्धानि वस्वाद्युपजीव्यानि चिन्तयतां फलं वस्वादिप्राप्तिरित्युच्यते । अथ येऽस्य दक्षिणा रश्मयः इत्यादि स्पष्टम् । परः कृष्णम्- अतिशयेन कृष्णमित्यर्थः । गुह्या एवादेशारहस्यादेशा कर्माङ्गविषयोपासनानि च । ब्रह्मैव पुष्पम्- प्रणव एव पुष्पम् । मध्ये क्षोभत इव चलतीव समाहितदृष्टेर्दृश्यते । वसव उपजीवन्ति अग्निनैव मुखेन- अग्निप्रधानास्सन्त उपजीवन्तीत्यर्थः । स्वाराज्यं पर्येतावसूनामेव तावदाधिपत्यं स्वाराज्यं च पर्येता अनुभवति । द्विस्तावत्- द्विगुणं कालम् । दक्षिणत उदेता, एवमुत्तरत्रापि । एकलः- एकस्वभाव इत्यर्थः । न निम्रोचतिनास्तमेतीत्यर्थः । ननु प्रतिपाद्यविशेषे निरूपिते इन्द्रस्याधिकारोऽपि सिद्ध इत्यधिकारनिरूपणार्थं नेदमधिकरणमारम्भणीयमित्यस्वरसादाह - किञ्च तत्रोपक्रममात्र इति । उपक्रमोपसंहारयोस्सर्वात्मना विरोधं मन्वानश्चोदयति - कथं तर्हीति । अर्थित्वाद्यसम्भवब्रह्मोपनिषत्त्वेति यद्युपक्रमोपसंहारयोर्निपुणनिरूपणेन विरोधः, तथाप्युपसंहारपर्यालोचनदशोत्पन्नप्रक्रमगतादित्यवस्वादिशब्दजन्यापातप्रीतितिमवलम्ब्य पूर्वमक्षप्रतिभोद्गम इति भावः । भाष्ये- आदित्यस्यांशानां वस्वादिभिर्भुज्यमानानामिति । नन्वादित्यांशानां वस्वादिपञ्चदेवगणोपजीव्यानां मधुविद्यायामुपास्यत्वं चेत् वस्वादीनां तदधिकारो काऽनुपपत्तिः ? नहि स्वोपजीव्यत्वेनान्यस्योपासनं विरुद्धम्, तथासत्युपासनमात्रोच्छेदप्रसङ्गात् सवेष्वप्युपासनेषु स्वापेक्षयोत्कृष्टत्वस्वोपजीव्यत्वादीनामवश्यानुसन्धेयत्वाच्च किञ्च उपजीवकपञ्चदेवगणान्तःपातीनां वस्वादीनां पञ्चगणोपजीव्यपञ्चामृतोपासनास्वनधिकारे सर्वेश्वरत्वप्रकारकोपासनायां कस्यापि जन्तोरधिकारो न स्यात् सर्वमध्ये स्वस्याप्यनुप्रविष्टत्वात् तत्कथमयं पूर्वपक्षः, कथं वा एतत्पूर्वपक्षाभ्युपगमेनैव वस्वादित्याद्यावस्थब्रह्मोपास्यमिति सिद्धान्त इति चेदुच्यते; “तं देवा ज्योतिषां ज्योतिरायुर्होपासते अमृतम्’ इतिश्रुतिबलाद्रोहितादिपञ्चामृतोपासकत्वमपि न सम्भतीत्यत्र तात्पर्यमिति । उभयविषयपरविद्यास्विति - जीवविशिष्टपरविषयविद्यास्वित्यर्थः । ननु प्राणविद्यायामप्यवस्थाभेदेन विरोधसमाधानस्य प्रागनुपपादितत्वात्, तस्या अप्येतदधिकरणविषयत्वं युक्त्तमित्यभिप्रयन् शक्त्तत्वाशक्त्तत्वप्रीणनीयत्वप्रीणयितृत्वफलप्रदत्वाथिर्त्वादिमुखेन कर्मकर्तृविरोधान्तरं दर्शयन् पक्षान्तरमाह - यद्वा स्वयमेवाभीष्टसम्पादनाशक्त्तेरित्यादिना । ननु कथं प्राणविद्यायामपि वक्ष्यमाणन्यायोपजीवनेन परिहारः ? मधुविद्यायां ब्रह्मविद्यात्मकत्वेनोपासनं विवक्षितमिति हि वक्ष्यमाणन्यायः प्राणविद्यायामनपेक्षितः, तत्र हि शरीरभूते जीवे उपासिते परमात्मा प्रक्षणाति फलञ्च प्रयच्छतीति सम्भवान्न प्रीणनीयत्वप्रीणयितृत्वविरोधः, प्रीणनीयत्वस्य परात्मगतत्वादिति समाधानस्य तत्र संभवादित्याशङ्कयविरोधान्तरसमाधानस्य तथा संभवेऽपि प्रकर्षाप्रकर्षगर्मविरोधस्यावस्थाभेदेनैव परिहरणीयत्वादित्यभिप्रेत्याह - प्राणविद्यायां ब्रह्मात्मकत्वेनेति । प्रकर्षाप्रकर्षेति । प्रकृष्टस्योपासनकर्मत्वमप्रकृष्टस्योपासनकर्तृत्वमिति विरोध इत्यर्थः । ब्रह्मात्मकतया परिहारस्त्विति । अवस्थाभेदेन परिहार इत्यर्थः । प्राणविद्यायां ब्रह्मात्मकत्वस्योपास्यकोटिनिवेशासंभवेन बद्धमुक्त्तावस्थाभेदेन परिहारः, मध्वादिविद्यायां तु ब्रह्मात्मकत्वावस्थातद्राहित्याभ्यामुपास्योपासकभेद इति भावः ॥भाष्ये स्वावस्थब्रह्मोपासनेति? । स्वोपजीव्यरोहितादिपदञ्चामृतावच्छिन्नब्रह्मोपासनसंभव इत्यर्थः; न तु “वसव उपजीवन्ती’ त्यत्र वसुशब्दस्यैव वस्ववस्थब्रह्मपरत्वमिति मन्तव्यम्; तथार्थकल्पने प्रमाणाभावात् । अप्राप्तार्थप्राप्त्यर्थं किञ्चिदाश्रयणरूपस्योपजीवनस्य वस्ववस्थब्रह्मण्यसंभवाच्च । “वसूनामेवैको भूत्वे’त्यत्र एकस्मिन् ब्रह्मणि बहुत्वसापेक्षनिर्धारणस्य वा, उपासितुः ब्रह्मभावापत्तेर्वा असंभवाच्च । अत एव चोत्तरत्र, “वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासन’मिति भाष्यमिति द्रष्टव्यम् । अब्रह्मोपासनपरत्वेन यैर्व्याख्यातमिति । “न ह वा अस्मा उदेति, न निम्रोवती’ति ब्रह्मप्राप्तिकथनं वस्वादिभावद्वारा क्रममुक्त्तिपरम्; ब्रह्मोपनिषच्छब्दोऽपि वेदोपनिषत्पर इति व्याख्यानं क्लिष्टार्थकत्वादनादरणीयमित्यर्थः । उपास्यत्वं च वस्वादिभोग्यादित्यांशमात्रस्येति । न च वसुसमुदायस्योपास्यत्वमिति पूर्वग्रन्थविरोध इति वाच्यम्; भोक्तृत्वेन वस्वादिसमुदायस्योपास्यत्वम्; भोग्यत्वेनादित्यांशस्योपास्यत्वमिति विरोधाभावात् । तथानुसंधानमेव प्रयोजनमितीति । ननु यद्विद्याप्रकरणे देवोपास्यत्वदेवफलप्रदत्वादिकं न श्रुतम्, न तत्र तस्यानुसन्धेयत्वम् । यत्र तु श्रुतम्, तत्र देवताविग्रहादिप्रसाधनाभावेऽपि देवतोपास्यत्वं संभवत्येवेति देवोपास्यत्वानुसन्धाने इदमधिकरणद्वयं कथमुपयुज्यतामिति चेत्- सत्यम् । अनारोपितदेवोपास्यत्वानुसन्धानार्थमिदं निरूपणमिति द्रष्टव्यम् । इदमप्युपलक्षणम्- देवतानामसिद्धौ मधुविद्यादीनां तत्तद्देवतापदप्राप्तिः फलं न भवेत् । वरुणग्रहनिर्मोकादिवत् बाधितस्य श्रुतत्वेऽपि विधेयक्रियाफलत्वायोगात् । किं त्वन्यदेव फलं कल्प्यं स्यात् । अन्तरादित्यविद्यादिषु आदित्यादिदेवताद्यन्तर्वर्तित्वेन ब्रह्मोपासनं न सिध्येत् । ज्योतिर्मण्डलाद्यन्तर्वर्तित्वेनैव तदुपासनं सिध्येत् । उपकोसलविद्यायां पञ्चाग्निविद्यायां च अर्चिराद्यभिमानिदेवताविशेषाः मार्गार्वत्वेन न चिन्तनीयाः स्युः । अर्चिरादीन्यचेतनान्येव तथा चिन्तनीयानि स्युः । तथा, “तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेति भक्षयन्ति, एवमेनांस्तत्र भक्षयन्ति’, यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युः, एवमेकैकः पुरुषो देवान् भुनक्त्ति । एकस्मिन्नेव पशावादीयमाने अपि्रयं भवति, किमु बहुषु । तस्मादेषां तन्न प्रियम्, यदेतन्मनुष्या विद्युः’ इत्यादिश्रुतिषु कर्मदेवभावं प्राप्तानां तमप्राप्तानां च मनुष्याणां यावज्जीवमाजानदेवभृत्यभावोक्त्या वैराग्यं न सिद्धयेत् । एतादृशस्याभिमतस्य सिद्धिः प्रयोजनं देवतासद्भावप्रसाधनस्य । “तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’, जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्, तेनासौ लोको न संपूर्यते तस्मात् जुगुप्सेत’ इत्यादिमन्त्रार्थवादैः वैराग्यसिद्धिश्च फलमित्यपि द्रष्टव्यम् ॥ ॥ इति मध्वधिकरणम् ॥