24 देवताधिकरणम्

प्रसङ्गात्सङ्गतिमाहेति - प्रसङ्गादागतां सङ्गतिमाहेत्यर्थः । अर्थित्वाभावस्याप्युपलक्षणमिति - यद्यप्यत एव तासामर्थित्वमपि न सम्भवतीति भाष्य एवोत्तरत्र स्पष्टत्वान्नेह वक्त्तव्यम्, तथापि बुद्धिसौकर्यायात्र प्रदर्शितमिति ध्येयम् । प्रकाशनस्तुत्योरन्यपरत्वादिति - प्रकाशनस्तुतिपरत्वादित्यर्थः । देवतैश्वर्यस्यापेक्षित्वादिति - विग्रहहविस्स्वीकरणभुक्त्तितृप्तिफलप्रदत्वलक्षणैश्वर्यस्यापेक्षितत्वादित्यर्थः । तत्रैव कल्प इति - यस्मिन् कल्पे यानि कर्माण्यनुष्ठितानि तेषां तत्रैव कल्पे फलभोग इति नियमाभावादित्यर्थः । ननु सृष्टिप्रकरणस्य सर्वस्यापि कारणं तु ध्येयः’ इतिवाक्यप्रतिपन्नध्येयोपलक्षणकारणत्वप्रपञ्चनात्मकत्वनोपासनविधिशेषतया न स्वार्थे तात्पर्यमित्याशङ्कमानं प्रत्युपासनविधिशेषत्वमङ्युपेत्याप्याह - उपासनदशायामिति । देवादिचतुर्विधभूतग्रामलक्षणजगत्कारणत्वविशिष्टस्योपास्यतया प्राप्यतया चोपास्यविशेषणतया प्राप्यविशेषणतया च देवताविग्रहादिकं सिध्द्यतीत्यर्थः । ननु विध्यपेक्षिततया सिद्धवस्तुनि तात्पर्यसम्भवस्य त्रिष्वधिकरणेषु प्रतिपादनात्पौनरुक्तयमाशङ्कय विध्यपेक्षिततया सिद्धिप्रकारभेदं दर्शयति - तत्र प्रथमसूत्र इत्यादिना । स्तावकत्वप्रकाशकत्वहेतुतयेति - स्तुत्यनुष्ठेयार्थस्मृतिहेतुतया विग्रहादिसिद्धिप्रकारश्चोत्तरत्र स्पष्टः । भाष्ये- स्तुत्याद्युपयोगित्वादित्यनेनान्वयमुक्त्वा व्यतिरेकमाह- तेन विना स्तुत्याद्यनुपपत्तेरिति । व्यतिरेकेणोपपादयतीति - इदञ्च गुणानामभावे स्तुतित्वमेव हीयेतेति भाष्यस्य गुणकथनाभावे स्तुतित्वमेव हीयेतेत्यर्थ इति मत्वोक्तमिति द्रष्टव्यम् । शेषभूतस्येति - अर्थवादस्य विधिशेषभूतस्य विध्यपेक्षितप्ररोचनाजनकत्वाभावे शेषत्वमेव हीयेतेत्यर्थः । द्रव्यदेवते हि कर्मनिरूपिकेति । अतश्च “यजामह इन्द्रं वज्रदक्षिणम्’ इत्यादिमन्त्रसाध्यदेवताविग्रहप्रकाशनस्य अनेन मन्त्रेण यागं कुर्यादित्येवंरूपेण यागशेषत्वबोधकविधिनापेक्षितत्वाद्धयानविधिनापेक्षितत्वात्तत्र तात्पर्यमस्तीति भाष्याभिप्राय इति भावः । शङ्कते - प्रतीतेरिति । स्वरूपातिरिक्त्तेति - शब्दस्वरूपातिरिक्त्तेत्यर्थः । “दध्नष्ठत्’ उदश्चिनोऽन्यतरस्याम्’ अग्नेर्ढक्’ इत्यादौ शब्दस्वरूपस्यैव ग्रहणेन व्यभिचारस्यात्, तद्वारणायाह - अपारिभाषिकत्वे सतीति । “स्वं रूपं शब्दस्याशब्दसंज्ञा’ इति स्वरूपग्रहणस्य व्याकरणे परिभाषितत्वादिति भावः । एवमनुमानत्रयेण शब्दस्वरूपातिरिक्त्तं देवतास्वरूपं साधितम् अथ देवताविग्रहादेः प्रामाणिकत्वं साधयति - विमता मन्त्रार्तवादा इत्यादिना । आपो वै शान्ता इति - तेजोगतक्रौर्याभावरूपं शान्तत्वमपां प्रमाणान्तरसिद्धमिति साधकमानगोचरत्वान्न स्वार्थे तात्पर्यमिति भावः । अर्थवादानामविरुद्धस्थलेपि लाक्षणिकत्वं परोक्तं दूषयितुमाह - विमतानीत्यादिना । वाक्यत्वसिद्धमिति - तथाचासिद्धो हेतुरिति भावः । न च प्रवर्तकत्वस्योपाधित्वेन विवक्षितत्वादिति भावः । साधिकारेति - फलसम्बन्धबोधकेत्यर्थः । तस्यापीति - प्रवर्तकवाक्यस्यापीत्यर्थः । वाशब्दनिबन्धनां प्ररोचनप्रकाशनयोरेककर्तृकत्वप्रतिभां व्युदस्यति - प्ररोचयन्तीत्यादिना । गुणान् लक्षयित्वा कुर्वन्तीत्येतद्य्वाचष्टे - प्ररोचन- प्रकाशने कुर्वन्तीत्यर्थ इति । ननु प्ररोचनायाः विध्यपेक्षितत्वात्तस्याश्च गुणसत्तामन्तरेणासम्भवात्, तत्रापि तात्पर्यं सिद्धमेवेति प्रागेवोक्तम् । अतश्च ननु विध्यपेक्षितार्थे हीत्यादिशङ्काया एवानवकाशग्रस्ततया कमर्विधेश्चेत्यादिभाष्यग्रन्थो मुधेत्याशङ्कयप्रकारान्तरेण प्रयोजनमाह- फलमत उपपत्तेरित्यधिकरणार्थ इति । रक्त्तः पटोभवतीतिवदिति - यद्यपि देवतैश्चर्यस्यापेक्षितत्वादुत्थिताकाङ्क्षत्वमेव गामनयेत्यादिवद्वक्त्तुं शक्यम् तथापि उत्थिताकाङ्क्षाया वा उत्थापिताकाङ्क्षाया वा एकवाक्यतयान्वयोऽर्थवादानामिति तात्पर्यम् । अस्य स्मरणस्य तन्मूलत्वोपपत्तेरिति - ननु मन्त्रार्थवादविधुरे कर्मणि मन्त्रार्थवादानां देवताप्रीतिद्वारत्वावगमकत्वाभावात् यागमात्रस्य देवताप्रीतिद्वारत्वावगमिकायां शाब्दिकस्मृतौ कथं यागविशेषे देवताप्रीतिद्वारत्वावगमकमन्त्रार्थवादमूलकत्वम् ननु क्वचित्कर्मणि मन्त्रार्तवादबलाद्देवताप्रीतिद्वारकत्वेऽवगते न्यायतौल्यादन्यत्रापीति तथेति शाब्दिकस्मृतेर्मन्त्रार्थवादमूलकत्वमिति चेत् हन्तैवं सति भाष्ये स एव न्याय उपन्यस्ताम् किमनेन तन्न्यायोपजीविशाब्दिकस्मृत्युपन्यासेनेति चेत् इतिहासपुराणमन्वादिस्मृतिवत्पाणिनिस्मृतेरपि तत्समानार्थश्रुतिमूलत्वसम्भवादिति भावः । कल्प्यापूर्वपक्षं वाच्यापूर्वपक्षञ्च प्रतिक्षिपति - विमतो विधिप्रत्यय इति । कृतिसाध्येति - कृतिसाध्यां चेतनप्रीतिमवगमयद्यद्वाक्यं तत्स्थविधिप्रत्ययत्वादित्यर्थः। यजिधातोश्चेतनप्रीतिसाधनत्वान्न हेत्वसिद्धिः । ननु “यजि देवपूजायाम्’ इतिवद्धोमे तादृशस्मृत्यभावात् जुहुयादित्यादौ भागासिद्धिरित्याशङ्कय तस्य पक्षत्वमेव नेत्याह - विमतशब्देनेति । यद्यपि साध्यविमतिस्तत्रापि समाना, यागहोमयोरविशेषात्; तथापि यागगतविमतिविशेषः पक्षतावच्छेदकः, तथापि न हेत्वसिद्धिरिति भावः । ननु तर्हि होमादिष्वपूर्वनैरपेक्ष्यं केन सिध्द्येदित्यत्राह - जुहुयादित्यादिष्विति । विध्युद्देशग्रहणमिति - विधिवाक्यग्रहणमित्यर्थः । प्रसङ्गादनुप्रविष्टानामिति - तस्यापि “वध्यं प्रपन्नं प्रति प्रयच्छन्ति धन्वन्निव प्रपा असि’ इत्यादीनामित्यर्थः । सङ्कीणर्शब्देनेति - भाष्यस्थसङ्कीर्णशब्दस्य विप्रकीर्णत्वमर्थ इति भावः । उच्चारणेन विनेति - घट इत्यत्र घटस्योच्चारणानन्तरोच्चारणविषयत्वमेवानुपूर्वीति भावः । उच्चारणयोग्यतास्तीति चेदित्येतद्ग्रन्थात्पूर्वं कदाप्यनुच्चार्यमाणानां मूलत्वासम्भवादिति ग्रन्थोऽपेक्षितः, इतरथा किं वर्णमात्रगता उतानुपूर्वी विशेष विशिष्टवर्णगतेत्याद्युत्तरविकल्पग्रन्थस्यास्य च न सामञ्जस्य पश्यामः । उच्चारणयोग्यताऽस्तीति चेदिति - ततश्च आनुपूर्वी विनापि उच्चारणयोगतासत्त्वान्मूलत्वं सम्भवेदिति भावः । वर्णानामनादीतीति - ततश्चानाद्यानुपूवर्ीविशेषोच्चारणयोग्यताकत्वमेव वेदत्वमिति भावः । तच्चैत्यवन्दनेति - योग्यताया अनादित्वादिति भावः । कर्तृसामान्याभावादिति - वैदिकत्वेन प्रसिद्धैरग्निहोत्रादिभिस्समानकर्तृकव्यताबोधकस्मृतिसमानकर्तृकत्वाभावादिति यावत् । स्वावगतार्थेति - स्वशब्देन स्मृतिरुच्यते । अर्थविशेषेणाविच्छिन्नेति । अग्निहोत्रादिसमानकर्तृकमन्वादिस्मृत्यवगतार्थप्रतिपादनानुगुणानुपूर्वीविशेषविशिष्टानामेव वेदत्वमिति चेदित्यर्थः । मन्वादिवाक्यस्यापीति - स्मृतिः स्मृत्यर्थानुभवजनकवेदमूलेतिसाधने मन्वादिवाक्यस्य वृद्धमनुवाक्यमूलकत्वेनापि साध्यसिद्धेरर्थान्तरम्, त्वदुक्त्तरीत्या वृद्धमनुवाक्यस्यापि वेदत्वसम्भवात् अन्ततो गत्वा स्मृतिमात्रस्य वेदत्वेन मूलभूतवेदानुमानासम्भवाच्चेति भावः । प्राचीन एव पक्ष इति - कतिपयदेशेष्वध्येतृत्वविरह इति पक्ष इत्यर्थः । सङ्कीणर्वेदमूलकत्वं युक्त्तमिति - विप्रकीर्णवेदमूलकत्वं युकक्त्तमित्यर्थः । इदमर्थसिद्धमिति - “तदस्मै देवा राधन्ताम्’ इत्यादिष्वित्यत्र वाक्यादेव विध्यपेक्षितं सर्वमित्यत्र च सिद्धवन्निर्देशानुपपत्तिकल्पितविग्रहादिप्रतिपादकश्रुतिवाक्यस्य विप्रकीणर्त्वं प्रक्षान्तरे दोषजातं च विवक्षितमिति भावः । यद्वा इदमिति वक्ष्यमाणं यदपीत्यादिकं गृह्यत इति द्रष्टव्यम् । न ह्यत्रैवर्णिकानामिति - वैदिककर्ममात्रे “वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्’ इति त्रैवर्णिकमात्राधिकारितया विहितोपनयनाङ्गकाध्ययनगृहीतस्वाध्यायजन्यज्ञानस्यैवाङ्गत्वात् ब्रह्मविद्यायाश्च वैदिकत्वात्तदभावे ब्रह्मविद्या न सम्भवतीति भावः । अग्निनिष्पत्त्यनुपपत्तेरिति - इदमुपलक्षणम्, अध्ययनगृहीतस्वाध्यायजन्यज्ञानाभावादित्यपि द्रष्टव्यम् । अग्निनिष्पत्तिमेवोपपादयति - वसन्ते ब्राह्मण इत्यादिना । अनधिकारोऽधिकरणसिद्ध इति - पूर्वतन्त्रे षष्ठे- “अत्र्यार्षेयस्य हानं स्यात्’ इत्यधिकरणे दर्शपूर्णमासयोः श्रूयते - “आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते न पञ्चातिवृणीते’ इति । तत्रार्षेयो नाम स्वकीय ऋषिः, ततश्च यजमानस्य यो गोत्रस्थ ऋषिः तद्विशिष्टतया यो निर्देशः अत्रिवत् अर्चनानसवत् श्यावाश्ववत् भरद्वाजवत् बृहस्पतिवत् अङ्गिरोवदयं यजमानो यजते इत्येवंरूपनिर्देशः स आर्षेयवरणशब्दार्थः । तत्र एकमृषिं वृणीते द्वावृषी वृणीते त्रीनृषीन्वृणीत इति वाक्यत्रयेण त्रीणि वरणानि विहितानि, ततश्च वरणत्रयस्याप्यङ्गतया एकार्षेयद्य्वाषर्ेययोस्त्र्ार्षेयवरणाभावेपि एकद्य्वार्षेयवरणसम्भवादधिकार इति पूर्वपक्षं कृत्वा अस्मिन् वाक्ये विधित्रयाभ्युपगमे वाक्यभेदप्रसङ्गात् त्रीन्वृणीत इत्येव विधिः,त्रिषु च एकस्य द्वयोरप्यन्तर्भावात् एकं वृणीते द्वौ वृणीते इत्यनुवादः, ततश्च त्र्यार्षेयवरणमेवाङ्गम् तद्रहितानामार्षेयवरणवत्सु कर्मसु नाधिकार इति स्थितमित्यर्थः । ननु उपनयनाङ्गकाध्ययनजन्यज्ञानाभावेपि देवादीनामधिकारे शूद्रस्याप्यधिकारस्यादित्याशयमुद्धाट्य निराकरोति - न चोपानयनविरहादिति । सामर्थ्याभावानुगृहीतेति - अयं भावः, त्रैवर्णिकाधिकारिकोपनयनाङ्गकाध्ययनलब्धविद्यालक्षणसामर्थ्याभावादनधिकार इति पूर्वमीमांसकैरपशूद्राधिकरणे यदुपन्यस्तं तदभ्युच्चयमात्रम्; प्रधानयुक्त्तिस्तु तस्माच्छूद्रो यज्ञेऽनवक२प्त इत्याहत्य यज्ञादिप्रतिषेध एव । तथा हि; वर्णविशेषादिग्रहणमन्तरेणाविशेषप्रवृत्ता वैदिककर्मविधयः, कर्मानुष्ठानाथर्मनुष्ठेयार्थज्ञानसम्पन्नानधिकारिणोपेक्षमाणास्स्वत एवाध्ययनविधिलब्धानुष्ठेयार्थज्ञानान् द्विजातानासाद्य निवृण्वन्ति, नतु फलकामत्वाविशेषेपि शूद्रस्याधिकारित्वेन सङ्ग्रहार्थमनुष्ठेयार्थज्ञानमाक्षिपतीति हि शूद्रस्यानधिकारे युक्त्तिर्वक्त्तव्या । न सा युज्यते; अध्ययनविधेरर्थज्ञानपर्यन्तत्वे हि विध्यन्तरलब्धार्थज्ञानं त्रैवर्णिकेषु सिद्धमिति युज्यते वक्त्तुम्, न चैतदस्ति; अध्ययनविधेरक्षरग्रहणमात्रविश्रान्ततया त्रैवर्णिकेष्वर्थज्ञानस्य विध्यन्तरसिद्धत्वाभावेनाक्षेप्यत्वाविशेषाच्छूद्रेष्वपि तदाक्षेपस्सम्भवत्येव अस्तु वायमध्ययनविधिरथर्ज्ञानभाव्यः, तथापि शूद्रस्यानिवार्योऽधिकारः । क्रतुविद्याविधिर्हि त्रैवर्णिकानां स्वशाखेतरशाखाविहिताङ्गगुणोपसंहाराय तत्तच्छाखाध्यायिभ्यस्तत्तदङ्गगुणज्ञानस्येव शूद्रस्यापि विद्याविधिभिस्तज्ज्ञानसेव शूद्रस्यापि विद्याविधिभिस्तज्ज्ञानस्याक्षेप्तुं शक्यत्वात् । अध्ययनविधिना ह्येकस्या एव शाखाया अध्ययनं विधीयते प्रतिव्यक्त्ति घटत्वस्येव प्रतिशाखं स्वाध्यायत्वस्यापि परिसमाप्तत्वात् । ननु शूद्रस्य कर्मोपासनानुष्ठानापेक्षितं ज्ञानं कार्त्स्न्ेनापेक्षिणीयतम् । त्रैवर्णिकानां स्वशास्वेतरशास्वाविहितगुणविषयस्तदेकदेश इति आक्षेपलाघवात् । क्रतुविद्याविधयस्त्रैवर्णिकानेवाधिकुर्युः, न शूद्रमिति चेत् एवं तर्हि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां विधानं भूयस्त्वेनोभयश्रुतीतिन्यायेन प्रधानस्यापि विधानम्, शाखान्तरे तु किञ्चिदङ्गविधानम्, तत्र कर्मणि तच्छास्वाध्यायिनामेवाधिकारस्यात्, ज्ञानाक्षेपकलाघवात्, न तु शाखान्तराध्यायिनाम् । किञ्च यस्य कर्मणस्तदङ्गस्य वा कस्यचिदस्यां शाखायां विधानं नास्ति, किन्तु शाखान्तर एव साङ्गस्य तस्य विधानम्; तत्र कर्मणि तच्छाखाध्यायिनामधिकारो न स्यात् शूद्रवत्तेषां तदनुष्ठानोपयोगिज्ञानस्य कार्त्स्न्ेनापेक्षणीयत्वात् । सम्भवन्ति हि गुणफलविधिरूपाणि क्षुद्रकर्माणि शाकाविशेषेषु सर्वथैवानिरूपितानि । तस्मात्र्त्ैवर्णिकानामपि ज्ञानाक्षेपस्य सम्प्रतिपन्नत्वाच्छूद्रस्याप्यनुष्ठानोपयोगिज्ञानाक्षेपसम्भवाद्वेदविद्य्भो विज्ञाय विद्यानुष्ठानमुपपद्यते, अन्यथाऽध्ययनाभावेन शूद्रस्य विद्याप्रत्याघ्याने मैत्रेयीप्रभृतीनां स्त्रीणां ब्रह्मविद्यावाप्तौ का गतिः ? नहि संवर्गविद्यागतशूद्रशब्दस्य क्षत्रिय इव मैत्रेयीशब्दानां पुरुषेषु वृत्तिस्सिद्धान्तिनोपि कल्पयितुं शक्या । “अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः, मैत्रेयी कात्यायनी च’ इत्यादिवाक्यान्तरविरोधात्; तस्मात्प्रतिषेधमलादेव शूद्रस्यानधिकार इति । वस्तुतस्तु देवादीनामपि जन्मान्तरीयोपनयनाङ्गकाध्ययनमूलज्ञानलक्षणं सामर्थ्यमप्यस्त्येवेत्याह - प्राक्त्तनज्ञानाप्रमोषादिति । मनुष्यकर्तृकाधानस्यैवेति - यद्यपि आधाने त्र्यार्षेयवरणं नास्त्येव नचाधानेन साक्षात् त्र्यार्षेयवरणाभावेपि तदङ्गभूतेषु पवमानहविष्षु आतिदेशिकत्र्यार्षेयवरणमस्तीति वाच्यम्; गुणानां च परार्थवादित्यत्र पवमानहविषामाधानार्थत्वाभावस्य साधितत्वात्, तथाप्यत्राधानशब्दोऽग्निसिध्द्यर्थकर्मपरः, ततश्च पवमानहविषामपि सङ्ग्रहात्तेषु च त्रयार्षेयवरणसत्त्वान्न दोष इति द्रष्टव्यम् । देवानां दत्तमिति - स्पष्टतरमिति । नन्वेतादृशानितिहासपुराणदृष्टानर्थवादानालम्ब्य पूर्वमन्यथा प्रवृत्तो धर्मः इदानीमन्यथा प्रवर्तत इति धर्ममर्यादाविप्लवाङ्गीकारो न युक्त्तः । अन्यथा ह्येवमधर्ममर्यादापि विप्लुताङ्गीक्रियेत दृश्यते हि भारत एव पूर्वमनावृतानां स्त्रीणां श्वेतकेतुशापप्रभृति एकपत्नीत्वाचरणं प्रवृत्तमित्यादिरधर्मविप्लवार्थवादः- अनावृता हि वर्णानां सर्वेषामङ्गना भुवि । यथा गावस्थितास्तात स्वे स्वे वर्णे तथा प्रजाः । व्युच्चरन्त्याः पतिर्नार्या अद्यप्रभृति पातकम् । भ्रूणहत्या कृतं पापं भविष्यत्यसुखावहम्’ इति । ननु श्वेतकेतूपाख्याने स्त्रीणां पूर्वमनावृतत्वे निर्धनेनोत्सवार्थं क्रियामाणायामाभरणप्रार्थनायामिवापत्नीकेन ब्राह्मणेनापत्यार्थं क्रियमाणायामुद्दालकपत्नीप्रार्थनायां तत्पुत्रस्य श्वेतकेतोः कोपो न स्यात् कोपश्च तत्रैव वर्णितः । “मातरं तां तदा दृष्ट्वा नीयमानां बलादिव । तपसा दीप्तवार्यो हि श्वेतकेतुर्न चक्षमे । सङ्गृह्य मातरं हस्ते श्वेतकेतुरभाषत । दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम्’ इति । ततः स्त्रीणामेकपत्नीत्वव्रतनियमस्यातादित्वावगमान्नारीणां प्रागनावृतत्ववचनं तदाप्रभृत्येकपत्नीत्वव्यवस्थापकवचनं च कुन्तीमपत्यार्थं पुरुषान्तरे प्रवर्तयितुकामस्य पाण्डोस्खकल्पितार्थविषयं प्ररोचनामात्रपरमित्यवसीयत इति चेत्, यज्ञाग्रहारोपाख्यानवचनजातमप्येवमित्यवधार्यताम्, अन्यथा हि तत्र बह्वसमञ्चसमापद्येत तथा हि तस्मिन् सत्रे दीक्षणीयायाम् अेग्नावैष्णवः पुराडाशो अग्निनानुष्ठितश्चेदग्नेर्भागो न स्यात्, अनुष्ठितश्चेत् विष्णोरिदानीं भागानुवृत्तिर्न स्यात्, उपसत्सु वैष्णवो यागः केनापि देवेनानुष्ठितश्चेत्तदीय एवेदानीं स्यात्, न तु वैष्णवः । नानुष्ठितश्चेत् क्रतुर्विकलस्स्यात्, उदवस्सानीयावसानाः सर्वेपि पदार्थास्सर्वैरपि देवर्षिभिरनुष्ठिताश्चेत् सर्वेषु हविष्षु सर्वेपि भागिनस्स्युः । कैश्चित्केचित्कृताश्चेत्सर्वेषामपि स क्रतुविर्कल इति ततो विष्णोः प्रीतिः ततो देवानां वरलाभश्च न स्यात् । किञ्च पूर्वं वैष्णवः क्रतुः कलाविशेषे नानादैवत्यो जात इत्यभ्युपगमे तस्मिन्नुपदेशातिदेशाभ्यां प्रवृत्तेषु विधिषु श्रुतानां देवतासमर्पकपदानां पूर्वं विष्णुवाचित्वमिदानीं नानादेवतावाचित्वमिति क्वाप्यदृष्टचरं द्विविधार्थवत्त्वं प्रसज्येत एतेनेन्द्रादयो देवा विष्णुं यजन्तीति न यष्ट्टयष्टव्यभावाविरोधः । मनुजास्तु इन्द्रादीन् यजन्तीति, नेन्द्रादीनां यष्टव्यत्वप्रसिद्धिविरोधश्चेत्यपास्तम् । तथा हि; विधिषु देवतावाचकपदानां नित्यमेव वैयर्थ्यं प्रसज्येत, एवं यज्ञाग्रहारोपाख्यानवदेव देवानां क्रत्वनुष्ठानवादा अप्यविवक्षितार्था एव, अन्यथा हि तत्राप्यसाङ्गत्यमापद्येत तथाहि; “देवा वै यशस्कामास्सत्रमासत अग्निरिन्द्रो वायुर्मुखः’ इति चतुर्णां देवानां सत्रानुष्ठानमुक्त्तम् अत्र कथं चत्वार एव ब्राह्मण्यरहितास्सत्रमातिष्ठेयुः ? सप्तदशावराणां ब्राह्मणानामेव हि सत्रानुष्ठानम् “ब्रह्म वै देवानां बृहस्पतिः, “क्षत्रमिन्द्रः’ इत्यादिश्रवणाद्देवादिष्वपि ब्राह्मणादिविभागोऽस्तीति चेत् अस्तु नाम, तथापि बृहस्पतेरेव देवेषु ब्राह्मणत्वेन निर्धारितस्य सत्राधिकारस्यात् न त्वग्न्यादीनामिन्द्रादीनां च सर्वथैव सत्राधिकारः । तथा सर्पाणामयने “चर्कपिशङ्गाद्युन्नेतारा’विति चर्कपिशङ्गयोर्द्वयोरुन्नेतृकर्म श्रूयते । कथमेककर्तृकमुन्नेतृकर्म द्वौ कुर्याताम् ? तस्मादविवक्षितार्थ एव देवादीनां क्रत्वनुष्ठानार्थवादा इति चेत् उच्यते; वैष्णवे हि सत्रे अङ्गप्रधानयागेषु सर्वत्र विष्णुरेव देवता, तादृशं च सत्रं ये देवाः पुरोडाशदध्याज्यप्रभृतिषु यादृशहविर्विभागित्वं कामयमाना आरेभिरे तेषां तेन वैष्णवसत्रानुष्ठानेन तत्सिद्धम् । इदानीं च तत्सत्रमनुष्ठात्रभावात् खिलीभूतमित्युक्त्तौ विरोधाभावान्महाभारतप्रतिपन्नोपाख्यायिकायां किञ्चिद्विरोधामासमालम्ब्य प्रत्यवस्थाने सर्वत्राप्यनान्वासप्रसङ्गेनेतिहासपुराणादिकं सर्वं निरर्थकमेव स्यादित्यलमतिक्षोदेन ॥भाष्ये- सन्निधानानुपपत्तेरिति । ननु विग्रहराहित्यपक्षेपि देवतायास्सर्वत्र सन्निधानाभावेनाङ्गत्वविरोधस्तदवस्थ एवेति असारोऽयमाक्षेप इति चेत् सत्यम्; देवताविग्रहद्वेषिपूर्वमीमांसोक्तानुवादरूपत्वेन सूत्रस्यादोषात्, योग्यानुपलब्धिस्त्विति पाठो दृश्यते । तत्र योग्यपदं सम्पातायातमिव भाति, प्रत्युतोपलम्भायोग्यत्वस्यैव प्रदर्शनीयत्वात् । अवाढ्ढव्याणिहव्यानि वोढवानसीत्यर्थः । अक्षन्निति - भक्षितवन्त इत्यर्थः । प्रामीयन्तमृता इत्यर्थः । परिणाम्यमानस्येति - “णिचि मितां ह्वस्वः’ इति ह्वस्वः । इन्द्रेति - इन्द्र आगच्छ हरिव आगच्छ मेघातिथे मेषेत्यन्तमिन्द्रस्य सम्बोधनम् हरिव इति पूर्वपक्षापरपक्षौ इन्द्रस्य हरितत्वात् हरिवान् ततस्सम्बुद्धौ मतुवसोरुस्सम्बुद्धौ छन्दसि’ इति रुत्वे हरिव आगच्छेतिरूपसिद्धिः । मेधातिथिं किल काण्वायनिं मेषो भूत्वेन्द्रो जहारेति सुब्रह्मण्यार्थवादे श्रूयते । सम्मर्शनमात्रतृप्तिश्रवणादिति प्रतिपत्तिर्युगपदङ्गभावावगमनम् तस्य दर्शनात् यथा एकं ब्राह्मणमुद्दिश्य नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य बहुभिर्यजमानैर्नानादेशस्थितैयर्ुगपद्धविस्त्यज्यते, तस्याश्च सन्निहिताया अप्यङ्गभावो भवति, अस्ति हि तस्या विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्युक्त्तत्वात्, तत्र विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्येतदनेकप्रतिपत्तेर्दर्शनादित्यस्य व्याख्यान्तरमपि भवितुमर्हतीत्यभिप्रेत्यैवं वर्णितमिति द्रष्टव्यम् । अथवा व्याख्यात्रन्तरशब्देन यादवादेर्ग्रहणमिति न काप्यनुपपत्तिः । अग्निहोत्रहवण्या हस्तेन सम्मर्शनमात्रतृप्तिश्रवणादित्यर्थः । इतरैस्त्विति - कति देवा इति । याज्ञवल्क्यं प्रति शाकल्यप्रश्ने त्रयश्च त्रीच शताः त्रयश्च त्रीच सहस्रा इति’ निरुच्य तेषां त्रयस्त्रिंशत्येवान्तर्भावं प्रदर्श्य “कतमे ते’ इति सङ्खयेयप्रश्ने “अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिरिन्द्रश्चेति त्रयस्त्रिंशत्’ इत्युक्तवा अत्रैवेतेषामन्तार्भावं प्रदर्श्य पुनश्च “त्रयस्त्रिंशदपि देवाः अग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां षण्णां देवानां महिमान’ इति षट्स्वन्तर्भावं प्रदर्श्य “षडपि ते त्रयाणां लोकानां महिमान’ इति त्रिष्वन्तर्भावं प्रदर्श्य “तेपि द्वयोरन्नप्राणयोर्महिमान’ इत्युक्तवा तौ चैकस्य प्राणस्य महिमा’ इतिपरिशेषितत्वादेकस्यानेकविग्रहयोगः परैरुपपादित इत्यर्थः । नन्वनेकप्रतिपत्तेरितिसूत्रखण्डस्य शङ्करादिभिः कृता द्वितीया व्याख्या किमिति भाष्यकृतोपेक्षितेत्यत्राह - व्याख्यात्रन्तरैरित्यादिना - अनेकार्थोपलम्भेति । यद्यपि शाङ्करभाष्यवाचस्पत्यानन्दगिरीयेषु एकस्यवस्तुनोऽनेकत्र कर्मणि अङ्गभावप्रतिपत्तेर्दर्शनादित्येव व्याख्यातम्; तथापि वाचस्पत्वे अनेकत्र कर्मण्यङ्गत्व ?विग्रहादिमदिति - विग्रहयुक्त्तेत्यर्थः । सरूपसृष्टिनियमानुपपत्तेरिति - अत्र सरूपसृष्टिनियमानुपपत्तेर्वैरूप्यसम्भवात् । द्वितीये तु या व्यक्त्तिरिति पाठस्समीचीनः । मध्ये ततश्चेत्यादिग्रन्थस्य द्वितीयपक्षान्वितत्वादधिक इव प्रतिभाति, कोशाश्च निरीक्षणीयाः । या व्यक्त्तिरिति - यावती व्यक्त्तिरित्यर्थः । शब्दसङ्केतगोचरस्येति - गोचरत्वेनाभिमतस्य सर्वस्येत्यर्थः । दूषणान्तरमाह - देवदत्तादिशब्दानामिवेति । दूषणदानाय परिशिनष्टि - यदि प्रधानेति । ननु प्रत्यक्षग्राह्यत्वं घटादिष्वतिप्रसक्त्तमित्यत आह - प्रत्यक्षग्राह्यो वेद इति । ततश्च प्रत्यक्षग्राह्यवेदत्वमत्र प्रत्यक्षशब्दार्थ इति नातिप्रसङ्ग इति भावः । तद्गतजात्या सम्बन्धग्रहणादिकमिति - गत्वाद्यात्मनैव गकारादीनामर्थसम्बन्धो न व्यक्त्तिरूपेण, यथा घटादीनां न व्यक्त्तिरूपेण वाच्यत्वम्, अपितु जात्यात्मना, तद्वितिभावः । ननु वाचस्पत्ये वाचकशब्दप्रभवत्वं हि देवानामभ्युपेत्यम् वाचकत्वं च न तावद्वर्णानां सम्भवति, प्रत्येकं वाचकत्वे वर्णान्तरवैयर्थ्यात्, क्षणिकेषु च क्रमिकेषु समुदायाभावात् नच स्फोटस्य वाचकत्वं सम्भवतीत्येवं प्रकारान्तरेण स्फोटविचारसङ्गतेस्सम्पादित्वान्नासङ्गताभिधानम्, भूतभाविसर्वकारणस्य नित्यत्वावश्यम्भावेन तत्समथर्नमपि सङ्गतमित्यस्वरसादाह - किञ्च नित्यानामपीति । क्षणभङ्गुरत्वादिति । ततश्च नित्यत्वं तद्विशिष्टस्य कथमपि साधयितुं न शक्यमित्यर्थः । ननु न विशिष्टस्य नित्यत्वं प्रसाध्यते, किन्तु केवलवर्णानामेवेत्याशङ्कयाह - अर्थावबोधं प्रयोजनमिति । आनुपूर्वीविशिष्टरूपेण वाचकत्वदानुपूर्व्याश्च नित्यत्वादित्यस्य दृष्टान्तमाह - पृथिव्या घटरूपेणेति । विरोधाच्च - ब्रह्मणः सर्वविधकारणत्ववादविरोधादित्यर्थः । सौत्रं पदमन्यथा व्याख्यातमिति एवमपि व्याख्यातमित्यर्थः । शाङ्करभाष्ये प्रत्यक्षं हि श्रुतिः प्रामाण्यं प्रत्यनपेक्षत्वात् अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वादित्यपि प्रतिपादितत्वादित्यपि द्रष्टव्यम् । यदि तु क्वचिदेवमपीति - अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामित्यादाविति भावः । ननु शब्दविरोधपरिहारार्थमिन्द्रादिशब्दानामिन्द्रत्वादिजातिवाचित्वे हेतुकर्तव्ये किमर्थं सूत्रकृता देवानां शब्दप्रभवत्वं वर्णितमिति चेत् उच्यते जातिवाचित्वं तावत् पूर्वोत्तरेन्द्रादिगतजातिसिद्धिसापेक्षमिति तासामेव जातीनां सिद्धये देवादीनां वेदोपवर्णिततत्तन्नामरूपानुसन्धानपूर्वकं प्रजापतिना स्रष्टृत्वं सूत्रे वर्णितम् तेन हि पूर्वोत्तरेन्द्रादिषु घटादिष्विव नाम्नामाकृतीनां च समानत्वं सिध्द्यतीति तेषां नाम्नां साक्षादिन्द्रादिषु प्रवृत्तिनिमित्तभूतास्समानजात्यभिव्यङ्गयाः इन्द्रादिगता जातयस्सिध्यन्ति साक्षाज्जातिवाचित्वस्य हेतूकरणे तु इन्द्रत्वादिजातीनां पूर्वपक्ष्यसम्मतत्वेनासिद्धिशङ्का स्यात् यद्यपि तासां जातीनां साक्षात्साधकं समाननामरूपत्वं सूत्रयितुं शक्यम्, तस्योदाहरिष्यमाणश्रुतिसिद्धत्वात्; तथापि तद्धेतुदाढ्यार्थं तस्याप्युपपादकं देवानां शब्दप्रभवत्वं सूत्रितम् । सोपि हेतुस्समाननामरूपत्वादित्यत्र दर्शयिष्यते किञ्च “अत एव च नित्यत्वम्’ इत्युत्तरसूत्रे अतश्शब्देन शब्दप्रभवत्वस्य परामर्शार्थं च एष निर्देशः ।भाष्ये- यत एव चेन्द्रवसिष्ठादिशब्दानां देवर्षिवाचिनां तत्तदाकारवाचित्वमिति । यद्यपीन्द्रवसिष्ठादिशब्दानामाकृतिवाचित्वमर्थानित्यत्वशङ्काव्युदास एवोपयुज्यते, नतु शब्दानित्यत्वशङ्काव्युदास इति नास्मिन् सूत्रे इन्द्रवसिष्ठादिशब्दानामाकृतिवाचित्वमुपन्यसनीयम्, तथापीन्द्रादिशब्दानामाकृतिवाचित्वात् यथार्थानित्यत्वशङ्काया नावकाशः, तथा मन्त्रकृत्वे न त्वदभिमतानामपि वसिष्ठेन्द्रादीनां वेदशब्दप्रभवत्वस्य प्रमाणसम्प्रतिपन्नतया मन्त्रकृत्त्वं मन्त्रद्रष्टृत्वमेव, अतो नानित्यत्वशङ्केत्येवमिन्द्रवसिष्ठादीनामाकृतिवाचिकथनस्य दृष्टान्तार्थत्वमेवेत्यत्र तात्पर्यम् । श्रुतिरपि ऋषिज्ञानपूर्वकमेवेति - ऋषिर्द्रष्टा यदि हि कर्ता स्यात्तर्हि कर्तृज्ञानपूर्वकमेवानुष्ठेयं दर्शयेदिति भावः । “यो ह वा अविदितार्षेयच्छन्दोदैवब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयतीति पाठः । दाशत्रय्य इति - ऋग्वेदगता ऋच इत्यर्थः । पुरावृत्तानीति - आख्यायिका इत्यर्थः । शर्वर्यन्त इति - प्रलयान्त इत्यर्थः । तान्येवैभ्य इति - एभ्यो वेदेभ्य एव हेतुभ्य इत्यर्थः । ईश्वरप्रणीतत्वाविरोधादिति - यद्यपीश्वरप्रणीतेष्वप्यादौ प्रवक्त्तृत्वं कठादेस्सम्भवति । तथापि प्रोक्तमित्यस्योक्तमित्यर्थ इत्यभिप्रेत्यैतदुक्त्तं द्रष्टव्यः । दृष्टवेदभागत्वे प्रमाणमिति - यद्यपि काठकशब्दस्य कठेन प्रोक्तं छन्द इत्यर्थे “कलापि वैशम्पायनान्तेवासिभ्यश्च’ इति वैशम्पायनान्तेवासित्वाण्णिनिप्रत्ययेतदन्तस्य “छन्दो ब्राह्मणानि च तद्विषयाणि’ इति सूत्रेणाध्येतृवेदितृविषयत्वनियमेन तदधीते “तद्वेदे’त्यर्थविहितस्य प्राग्व्यतीय्यप्रत्ययस्य “प्रोक्ताल्लुक्’ इति लुकि णिनिप्रत्ययस्य च कठचरकाल्लुक्’ इति लुकि कठाः ततस्तेषामाम्नाय इत्यर्थे विवक्षिते शैषिकेष्वर्थेषु प्राप्तस्य “चरणाद्धर्माम्नाययो’रिति वार्तिकेनानयोरर्थयोरेव भवतीति नियमात्तयोरथर्योर्व्युञि काठकमिति भवतीत्येव शाब्दिकैर्व्युत्पत्तिर्दशिर्ता, तथापि “लुब्योगाप्रख्यानात्’ इतिसूत्रोक्तन्यायेनैतादृशयौगिकार्थाप्रतीतेरुपपत्तिसहत्वाभावाच्च शाब्दिकोक्तमनादरणीयमिति भावः । तत्तदर्थस्मृतिपूर्वकमिति - अनेन “शब्द इति चेन्नातः प्रभवात्’ इति सूत्रोक्तमर्थनित्यत्वमाक्षिप्यते, शब्दस्य चाभावादित्येन “अत एव च नित्यत्वम्’ इति सूत्रोक्तं शब्दनित्यत्वमाक्षिप्यते, ततश्च शब्दार्थानित्यत्वाक्षेपपरिहारपरमिदं सूत्रमिति भावः । प्रपञ्चप्रवाहानादित्वमाश्रयणीयमिति - न तु मध्ये प्राकृतप्रलयोभ्युपगन्तव्य इति भावः । ननु समाननामरूपत्वस्य पूर्वसूत्रे कण्ठोक्त्यभावात्कथं पूर्वोक्तादितिभाष्यमित्याशङ्क्याह - पूर्वसूत्रद्वयोक्तयेति ।श्वेताश्वतरवाक्यं स्मारितमिति । ततश्च “यो ब्रह्माणं विदधाति पूर्वम्’ इत्युदाहरिष्यमाणं श्वेताश्वतरं न देवतान्तरपरमिति भ्रमितव्यमिति भावः । तत्कृतवेदनित्यत्वेति - वेदस्यापि कल्पान्तरीयऋग्वेदादिवेदसमाननामरूपत्वात्कल्पान्तरीयानुपूर्वीलक्षणरूपसमानरूपत्वाञ्च नियतानुपूर्वीकत्व-लक्षणं शब्दनित्यत्वमुपपद्यते इन्द्राद्यर्थानामपि सामाननामरूपतया समाननामरूपाभिव्यङ्गयजातिवाचितया नित्यत्वमिति द्वयमप्युपपन्नमित्यर्थः । युगपत्सर्गप्रलयमिति - न कदाचिदनीदृशं जगदिति प्राकृतप्रलयानभ्युपगन्तृमीमांसकैरित्यर्थः । अपूर्वक्रमेति पूर्वानुपूर्वीविसदृशक्रमेत्यर्थः । इयांस्त्वितीति । ततश्च तदस्मास्वितिभाष्ये तच्छब्देन तेनैव क्रमेणोच्चार्यमाणत्वस्यैवांशस्य परामर्श इति भावः । संस्कारानपेक्षमित्यत्र स्वोच्चारणजन्यसंस्कारमात्रपरत्वेन सङ्कोचो निष्प्रमाणक इत्यस्वरसादाह - यद्वा संस्कारानपेक्षमिति । ननु सर्वपदार्थानामपि सर्वदा परमात्मबुद्धिस्थतया नित्यानित्यपदार्थविवेक एव न स्यादित्यपि वक्त्तुं शक्यतया केयमाशङ्का, नहि बुद्धिस्थमात्रेण सत्त्वमप्यस्तीत्याशयवानाह - सर्वदा पूर्वपूर्वेति । पौरुषापौरुषेयत्ववैषम्यमिति । अत एव वेदावेदवैषम्यं चेति भावः । सम्प्रदायप्रवर्तकसद्भावमात्र इति - परमात्मनः प्रवर्तकस्य सद्भाव इत्यर्थः । उदाहृतवचनजातस्य समाननामरूपत्वे प्रमाणत्वाभावादाह - उदाहृतवचनजातं प्रदर्शनार्थमिति । हिंस्राहिंस्रे इति - पूर्वं हिंस्रस्तद्वासनावासितस्सन् हिंस्र तामापद्यते, एवमहिंस्रादयोपीत्यर्थः । सिषाधयिषितरूपेणेति - कल्पान्तरे लिप्सितेन्द्रादिभावः । पुरुषस्तत्कल्पवर्तिनमिन्द्रमाराध्य कल्पान्तरे इन्द्रत्वं प्राप्नोतीत्यर्थः । पूवर्पूर्वाग्नीन्द्रादिस्वरूपतयेति - तत्प्रतुन्यायादिति भावः । यौगपद्येन प्रवाहतश्चेति । एकसमयोत्पन्नान्यपि बहून्यण्डानि सम्भवन्ति, केषुचिदण्डेष्विदानीमुत्पद्यमानेषु पूर्वकालोत्पन्नान्यप्यण्डानि सम्भवन्ति ततश्च कल्पादौ एकस्य चतुर्मुखस्य भानसमये तादात्विकाण्डान्तरगतचतुर्मुखस्यापि भानादेकक्षेत्रज्ञप्रतिपन्नत्वं नास्ति पूर्वोत्पन्नाण्डगतचतुर्मुखसृष्टमहर्षीणां भानाच्च नैकक्षेत्रज्ञमात्रप्रतिपन्नत्वमस्तीति भावः । सैव श्रुतिरिति - तत्सजातीया “वाचा विरूपनित्यये’ त्यादिश्रुतिरेवेत्यर्थः । प्रथमविकल्पे द्वितीयं शिरश्शङ्कते - एकस्य प्रतिभातवाक्यत्वमिति । ईश्वराप्त्यवगमानुगुणेति - चतुर्मुखानां सर्वेषामीश्वराप्तत्वनिश्चयशालितया ईश्वरोपदिष्टवेदनित्यत्वेन शङ्कोन्मिषतीतिभावः । इदमुपलक्षणम् । इतरेषामपि वैदिकानां शङ्कोन्मिषतीति द्रष्टव्यम् । बाह्यहेतूत्थेति - अर्थवादानां हेतुसमर्पकतयैवान्वयस्य वक्त्तव्यत्वेन तत्सापेक्षतया प्रामाण्यमित्यादिरूपेत्यर्थः । सन्देहलक्षणाप्रामाण्य इति - प्रक्रमस्थविध्युद्देशगतसामान्यवाच्यक्त्तपदानुरोधादौपसंहारिकाथर्वादगतधृतपदं द्रवद्रव्यमात्रलक्षकं वा स्यात्, उत विध्यविरोध्यर्थवादगतविध्यपेक्षितविशेषोपपादनायकघृतमुख्यत्वानुरोधादक्त्तपदं घृतमात्रपदं वा स्यादित्यनध्यवसायादप्रमाण्यमिति पूर्वपक्षे उपक्रमगतविध्युद्देशगतस्यापि अक्त्तपदस्यौपसंहारिकार्थवादादेरपि बाधाभावाद्वाक्यशेषवशेन घृतेनाक्त्ता इत्यध्यवसायात्प्रामाण्यमिति गुरुमते निर्णीतमिति भावः । अभिधानशक्त्तिरिति - शब्दशक्त्तिरित्यर्थः । तदस्मत्पक्षे समानमिति । सिद्धेपि वेदप्रामाण्ये नित्यत्वे च सिद्धे प्राकृतप्रलये सम्प्रदायप्रवर्तकाभावेन शब्दार्थयोरनित्यत्वशङ्कायां प्राप्तायां महाप्रलयेपि सम्प्रदायप्रवर्तकपरमात्मसद्भावो वाक्यान्तरादवसीयत इति समानमितिभावः । इयमेव प्रतिबन्दीति - वक्ष्यमाणेत्यर्थः । सन्देहलक्षणाप्रामाण्यनिवृत्तिरिति - चक्रकमिति शेषः । परिहारस्तुल्य इत्यर्थः । ॥ इति देवताधिकरणम् ॥