भगवत इत्युक्त्तमिति - भगवतोपि सम्भवतीत्यर्थः । भगवत्यल्पत्वसम्भवमात्रपरत्वात्तस्येति द्रष्टव्यम् । परमात्मव्यतिरिक्त्तस्य दृश्यत इतीति - जीवस्यैव दृश्यत इत्यर्थः । ततश्चाङ्गुष्ठमात्रत्वरूपपरिमाणविशेषस्य दहरत्ववत्परमात्मन्यसम्भवादङ्गुष्ठप्रमितो जीवो भवत्विति शङ्कया सङ्गतिरिति भावः । भाष्येन ततो विजुगुप्सत इति । भूतभव्येशानत्वादेव ईशितव्यविषये हेयेपि जुगुप्सा नास्तीत्यर्थः । स एवाद्य स उ श्वः- सार्वकालिक इत्यर्थः । प्रवृहेदिति पृथक्कुर्यादित्यर्थः । शरीरभूतात्स्वस्माद्विविक्त्तं जानीयादित्यर्थः । शुक्रम्- भारूपमित्यर्थः । न तु स्थानविशेष इति - स्थानविशेषरूपोपाधिश्रवणे हि महत्यपि परमात्मन्यल्पपरिमाणोक्तिर्युज्यते, स्थानविशेषरूपोपाधिश्रवणाभावेनौपाधिकपरिच्छेदोक्तिरिति वक्त्तुमशक्यत्वाज्जीव एवेत्युक्त्तमित्यर्थः । युक्त्तं परमात्मनः पूर्वाधिकरणोक्तं हृत्पुण्डरीकस्थानत्वम्, परमात्मस्थानभेदनिर्देशात्; तद्धि तस्योपलब्धिस्थानम्, सालग्राम इव कमलनाभस्य भगवतः । न चेह तथाङ्गुष्ठमात्राश्रुतौ स्थानभेदो निर्दिष्टः, परिमाणमात्रनिर्देशात् । न च मध्य आत्मनीत्यत्रापि स्थानभेदोऽवगम्यते, आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात् तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य प्रभवितुरनिर्देशात् । न ज्ञायते कस्य मध्यमिति न जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः, स्पष्टस्तु परिमाणनिर्देशः, परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्र इति वाचस्पत्युक्त्तेरिति भावः । न चोपासनमिति । ननु परसिद्धान्ते अस्य वाक्यस्य जीवस्य परमात्मत्वोपदेशपरत्वेनोपासनविध्यनभ्युपगमेपि पूवर्पक्षे उपासनविधिर्न प्रत्याख्यातः, अत एव पूर्वपक्षोपसंहारे जीवात्मैवोपास्य इति वाचस्पतिनोक्तम्, ईशानोऽस्मीति ध्यानं फलतीत्यानन्दगिरिणाप्युक्त्तमिति चेत् अत्र केचित्- न चोपासनमितिग्रन्थः पूर्वपक्षमित्यनन्तरं केचिदाहुरित्यस्मात्पूर्वं निवेशनीयः, ततश्च जीवत्वं शङ्कयत इति पूर्वपक्षं सिद्धान्ते उपासनं नास्तीति चाहुरित्यर्थ इति वदन्ति । भूतभव्यस्येशान इतिवाक्यमिति - वाक्यार्थीभूतं लिङ्गमित्यर्थः । ततश्चोपसंहारस्थमीशानत्वमुपक्रमस्थमितत्वलिङ्गादुर्बलमित्यर्थः । “त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छं यावध्द्यस्मिंश्छरीरे प्राणो वसतीत्यादौ वाक्यप्रतिपाद्यजीवमुख्यप्राणलिङ्गवद्भूतभव्येशितृत्वस्यापि लिङ्गत्वादिति द्रष्टव्यम् । नन्वीशानश्रुतिर्न ब्रह्मणोऽभिधानश्रुतिः, भूतभव्यस्येत्यैश्वर्यप्रतिसम्बन्ध्युपादानेन तस्य भूतभव्येशितृत्वरूपकेवलयौगिकार्थपरत्वात् योगरूढिमतां शब्दानां यौगिकार्थप्रतिसम्बन्ध्युपादाने रूढ्यनुन्मेषात्, अत एव “पद्मानि यस्याग्र सरोरुहाणि प्रबोधयत्यूध्वर्मुखैर्मयूखैः’ इतिश्लोके सरःप्रतिसम्बन्ध्यग्रोपादानवति सरोरुहशब्दे स्थितेपि पद्मशब्दप्रयोगः, इतरथा पौनरुक्तयप्रसङ्गात्, यौगिकार्थप्रतिसम्बन्ध्युपादानेपि रूढ्यन्मेषाङ्गीकारे अमृतत्वस्येशानः’ इत्यादावपि रूढ्या देवतान्तरप्रसङ्गाच्चेत्याद्यस्वरसादाह - यद्वा पूर्वपक्षीति । ततश्च सम्भवदन्यथासिद्धिकाङ्गुष्ठमात्रलिङ्गादनन्यथासिद्धं चरमश्रुतमसङ्कुचितसर्वेशानत्वलिङ्गमेव बलीय इति सिद्धान्तो युक्त्त इत्यर्थः । ननु वर्तमानत्वादिति पञ्चम्यन्तपदाध्याहारेन तस्या पेक्षयेत्यन्वयसिध्द्यर्थं षष्ठयन्ततच्छब्दोप्यध्याहार्यः, नचैतद्युक्त्तमनध्याहारेणोपपत्तेरित्यस्वरसादाह - यद्वेति ।को भेदः परमात्मपरिग्रह इति - अत्र केचित्, शब्दादेवेति परमात्मत्वसाधकयुक्त्तेः ग्रन्थकृतैवोपन्यस्तत्वात्को भेद इति वक्त्तुमयुक्त्तम् । किञ्चाङ्गुष्ठमात्रत्वस्वारस्यस्य परमात्मत्वसाधकतया प्रागुपन्यस्तत्वात्, वस्तुतस्तस्य परमात्मत्वासाधकतया साधकत्वसम्भावनाया अप्यसम्भवाच्च अङ्गुष्ठमात्रत्वस्वारस्याभावे को भेद इति निदेशोऽप्ययुक्त्तः, अतः पर्वपक्षयुक्त्तेरन्यथासिद्धिमाहेत्येवावतारिका जीवस्यापीतिभाष्यस्य देयेति वदन्ति । भाष्ये- हृदयान्तर्वर्तित्वात्तदपेक्षमेवेति । ननु महतः परमात्मना अल्पपरिमाणोपाधिम्बन्धेन घटाकाशस्येवाल्पपरिमाणत्वनिर्देशोपपत्तावपि अतिसूक्ष्मस्य जीवस्याधिकपरिमाणहृदयसम्बन्धेन कथमङ्गुष्ठमात्रत्वव्यवहारः ? नहि घटान्तस्थस्य वदरफलस्य घटपरिमाणत्वव्यवहारोस्ति, नवा घटान्तरस्थस्य परमाणोराकाशस्येव घटपरिमाणत्वव्यवहारोस्ति, अत एव न पूर्वपक्षहेतुमपि पश्याम इति चेन्न; अत्र मात्रशब्देन “प्रमाणे द्वयस’दित्यादिना मात्रच्प्रत्ययः । अपि तु क्षीरमात्रं पिबेत्यादाविवोत्तरपदत्वनियतं प्रातिपदिकमितरव्यवच्छेदकार्थम्, ततश्चाङ्गुष्ठपरिमाणाधिकपरिमाणव्यवच्छेदे आराग्रमात्रे जीवे सम्भवति, न परमात्मनीति पूर्वपक्षः हृदयगुहावच्छिन्ने परमात्मन्यपि सम्भवतीति सिद्धान्त इति भाष्याभिप्रायः । वस्तुमात्रैक्यपरत्व इति - असङ्कुचितसकलभूतभविष्यद्वर्तमानवस्तुनियन्तृत्वप्राप्तसकलान्तरवस्थानलम्धव्यापकभावब्रह्मस्वरूपमात्रपरत्व इत्यथर्ः ॥कम्पनात् । परमात्मपरत्वेनोपपादितेति । ननु, “यदिदं किञ्चे’ति वाक्ये परमात्मपरत्वस्य निश्चितपरमात्मप्रतिपादकभावाङ्गुष्ठवाक्यद्वयमध्यगतत्वोपपाद्यत्वे, सिद्धान्ते कम्पनस्याङ्गुष्ठवाक्यपरमात्मपरत्वोत्तम्भकत्वं न स्यात्; तन्निर्वाह्यस्य तन्निर्वाहकत्वायोगादिति चेन्न- पृथगधिकरणवादिपररीत्या दूषणदाने दोषायोगात् (भावात्) । यद्वा एतदस्वरसादाह अस्मिन्नेव मन्त्र इति । पूर्वपक्षानुदय इति भाव इति । इदमप्यत्रानुसन्धेयम्- कम्पनादित्यस्य, शब्दादेव प्रमित इत्यधिकरणशेषतया तदुत्तम्भकहेतूपन्यासरूपत्वे, “नित्यो नित्यानां चेतनश्चेतनानाम्’, “तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते’ इत्यादिसंप्रतिपन्नपरमात्मपरभाववाक्यार्थस्यैवोत्तम्भकतया सूत्रणसंभवे किमनेन विप्रतिपत्तिशङ्कास्पदप्राणवज्रश्रुतिघटितवाक्यार्थभूतकम्पनोपन्यासेनेति न वाच्यम्- सर्वथा पूर्वपक्षानुत्थित्या पृथगधिकरणत्वशङ्काया असंभवेन, शब्दादेव प्रमित इत्यधिकरणशेषत्वस्यैव वक्त्तव्यतया कम्पनशब्दस्य विनिगमनाविरहेण (नाभावेन) ज्योतिर्दर्शनव्यतिरिक्त्तप्राकरणिकधर्मोपलक्षकत्वसंभवेन कम्पनादिति सूत्रे अनुपपत्त्यभावादिति । “प्राणः कम्पनादित्यश्रवणादिति । एतेन कम्पनादित्यस्य व्यवहितप्रमिताधिकरणशेषत्वे, “आकाशोऽर्थान्तरत्वादिव्यपदेशा’दित्यस्यापि उक्त्तरीत्या दहराधिकरणशेषत्वं किं न स्यादिति वाचाटवचसोऽपि नावकाश इति द्रष्टव्यम् । वायुनिमित्तमेवेति । वायोरेवाशनिरूपेण परिणामेन तस्यैव महाभयहेतूद्यतवज्ररूपत्वसंभवादित्यर्थः । वज्रशब्देन न पञ्चवृत्तिप्राणशङ्का भवतीति । यद्यपि प्राणश्रुतिबलादाध्यात्मिकः पञ्चवृत्तिर्वायुरभिधीयते; वज्रश्रुतिबलाच्चाशन्याकारेण परिणतो बाह्यवायुरभिधीयते । प्राणमात्रस्य वज्रोद्यमन हेतुत्वासंभवात् । अत उभयोश्चिन्तनं संवर्गविद्यावत् क्रियत इत्येव तेषां पूर्वपक्षः । तथैव स्पष्टं कल्पतरावभिधानात् । वाचस्पतिनाऽपि प्राणवज्रश्रुतिबलात् वाक्यं प्रकरणं च भङ्क्तवा आध्यात्मिकप्राणो बाह्यवायुश्चात्र प्रतिपाद्यते इत्यभिधानाच्च । तथाऽपि तद्भाष्ये पुर्वपक्षे वायुरेव प्रतिपत्तव्य इत्युपसंहारदर्शनात् एवविषयत्वप्रतीतेः तथाभिप्रायसंभवमभिप्रेत्य तथोक्तमिति द्रष्टव्यम् । लक्षणाप्रसङ्गादिति भाव इति । न च बिभेत्यस्मादितिव्युत्पत्तिसंभवात् न लक्षणेति वाच्यम् । भयशब्देन भयहेतुप्रतीतेः असति बाधकेऽनुदयेन तत्प्रतीतेर्लक्षणैकशरणत्वादिति भावः । अध्याहारादपीति । इवशब्दस्याध्याहारादपीत्यर्थः । अत एव पूर्वतन्त्रे प्रयुक्त्तिलक्षणे (4-2-2.) प्राचीमाहरतीत्यत्र प्राचीशब्दस्य दिग्वचनत्वा मुख्यत्वसत्त्वेऽपि आहर्तव्यत्वासंभवेन प्रतिशब्दाध्याहारबलात् प्राचीशब्दः प्रागग्रशाखरलक्षक इत्याश्रितमिति भावः । कथं हेतुत्वावगम इति । भयमितिश्रूयमाणे भयादित्यर्थः कथं लभ्यत इत्यर्थः । पूर्वमवतारितस्य भाष्यस्य भयादस्यादिभाष्यद्वयस्याभिप्रेतामाशङ्कान्तरनिवृत्तिमप्याह एवंतर्हीति । अथवाऽत्र यद्वेत्यध्याहारः । प्रथमान्तपदसामानाधिकरण्यस्वारस्यभङ्ग इति । प्रथमान्तपदत्वभङ्गः भयशब्दस्य वज्रपदसामानाधिकरण्यस्वारस्यभङ्गश्चेत्यर्थः । इवशब्दाध्याहारश्च स्यादिति । लक्षणा च स्यादित्यर्थः । अध्याहारस्य पूर्वमेव निरस्तत्वात् । यद्यपि वज्रशब्दस्य लक्षणा सर्वपक्षसाधारणी, तथापि पूर्वदूषणे तात्पर्यम् । प्रथमाया विहितत्वादिति । यद्यपि सुपांसुलुगिति सूत्रे स्वादेश एव विहितः, तथापि प्रथमैकदेशवचनस्य प्रत्यभिज्ञायमानतया तस्यैव विधानमभिप्रेत्य प्रथमाया विहितत्वोक्तिः । यद्वा सुपां सुपो भवन्तीति तत्सूत्रवार्तिकेन सर्वासामपि विभक्त्तीनां स्थाने सर्वासामपि विभक्त्तीनां विधानात् प्रथमाया अपि सर्वविभक्त्तिस्थाने विहितत्वमभिप्रेत्यैतदुक्त्तमिति द्रष्टव्यम् । सुपां सुपो भवन्तीत्यादीनाम्, व्यत्ययो बहुल’मिति सूत्रविहितविभक्त्तिव्यत्ययो वेत्यर्थः । सक्त्तून् जुहोतीत्यादौ विभक्त्तिव्यत्ययदर्शनात् दर्शनं न दोष इति भावः ।ज्योतिर्दर्शनात् । एतत्प्रकरणहेतुत्वमेवेति । अङ्गुष्ठप्रमितवाक्यद्वयमध्यगतस्यास्य मन्त्रस्य तत्प्रकरणभङ्गेन प्राकृततेजोधातुपरत्वशङ्का न युक्त्तेति दशर्यतीत्यर्थः । ज्योतिष्मद्भ्राजमानं महस्वदिति । न चात्रापि ज्योतिश्शब्दस्य तेजःपरत्वसम्भवात् दीप्तिपरत्वं (न?) संप्रतिपन्नमिति वाच्यम् । महस्वदित्यनेन पुनरुक्त्तिप्रसङ्गादिति भावः । आप्यायनं च दृष्टमिति । अनुग्रहश्च दृष्ट इत्यर्थः । ननु प्राकृततेजसोऽनुग्राहकत्वातिरेकेण निमित्तत्वस्याभावात् निमित्तत्वानुग्राहकत्वे तृतीयतुरीयपादप्रतिपाद्ये इत्युक्त्तिः कथमित्याशङ्क्य सत्यमनुग्राहकत्वपर्यवसितं निमित्तत्वम्, तथापि तेजउत्पत्तौ तत्कारणानुग्राहकत्वलक्षणनिमित्तत्वं तृतीयपरदरर्थः, उत्पन्नस्य तेचसः स्वकार्यारम्भसामर्थ्यापादकत्वलक्षणमनुग्राहकत्वं तुरीयपादार्थ इत्यभिप्रयन्नाह निमित्तकारणत्वञ्चेत्यादि । तस्मिन् भासमान इति । अनन्तगुणविशिष्टपरमपुरुषे भासमान एव प्रपञ्चाध्यास इत्यस्याभावेन तत्स्फुरणानुरोधि अध्यस्तप्रपञ्चस्फुरणमित्यस्यानुपपत्तेरित्यर्थः । न हि तन्मतेपि विशिष्टभानानुविधानभानं प्रपञ्चस्याभ्युपगतम्; अपितु शुद्धस्यैवाधिष्ठानतया तद्भानानुविधानमेवाभ्युपेतमिति भावः । व्यवच्छेद्यतेजोन्तरासंभवादिति । अन्यं भान्तं नानुभातीत्येवं व्यवच्छेद्यानुभानयोग्य तेजोन्तरापसक्त्तेरित्यर्थः । प्रकरणस्य रुक्मवर्णश्रुतीति । मुण्डके, “न तत्र सूर्यो भाती’ति प्रकरणगतया, “यदा पश्यः पश्यते रुक्मवर्णम्’ इति रुक्मवर्णश्रुत्या, कठवल्याम्, “न तत्र सूयर्ो भाती’ति प्रकरणगतेन, अङ्गुष्ठमात्रः पुरुष इत्यादिपुरुषशब्देन प्रत्यभिज्ञाप्यमानया, “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्’ इत्यादित्यवर्णश्रुत्या च सिद्धा या दिव्यविग्रहद्वारकनिरतिशयदीप्तिः, तद्विशिष्ट इत्यर्थः । उत्थानश्रुतिरिति । ब्रह्मणः सर्वगतत्वेन तत्प्राप्तौ शरीरादुत्क्रमणस्यानपेक्षितत्वात् ब्रह्मसाक्षात्कारानन्तरभाविन्यां ब्रह्मप्राप्तौ उपसंपद्येति क्तवाप्रत्ययेन तत्पूर्वभावित्व निर्देशस्यानुपपन्नत्वाच्च, “शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमेण भवन्ती’त्युपासकानां मूर्धन्यनाड्या शरीरात् समुत्थानस्य, “यावत् क्षिपेन्मनः,तावदादित्यं गच्छे’दिति तदनन्तरमेव आदित्यप्राप्तेश्च वर्णितत्वात् इहापि “शरीरात् समुत्थाय,’ “परं ज्योतिरुपसंपद्ये’ति शब्दाभ्यां तदर्थप्रत्यभिज्ञानात्, आदित्यज्योतिषश्च मार्गे प्रथमपवर्भूतार्चिर्ज्योतिरपेक्षया परत्वेन कथञ्चित् परत्वोपपत्तेः, आदित्यं प्राप्तस्य च ब्रह्मलोकप्राप्त्यनन्तरभाविक्रममुक्तयभिप्रायेण, “स्वेन रूपेणाभिनिष्पद्यत’ इत्यस्याप्युपपत्तेश्च अर्चिरादिभार्गपर्वभूतादित्यप्राप्तिरेव, परंज्योतिरुपसंपद्ये’ति वाक्यार्थ इति पूर्वपक्षहेतुरुपन्यस्त इति चेदित्यर्थः । वक्ष्यमाणत्वादिति । चतुर्थाध्याय इति शेषः । हेतुप्रयोगानन्तरमेवेति । “उवराच्चेदाविर्भूतस्वरूपस्तु’ इति सूत्रे आविर्भूतस्वरूप आत्मा प्रजापतिवाक्ये अपहतपाप्मत्वादिगुणकतया प्रतिपाद्यते; न तु कर्तृत्वाद्यनर्थाश्रयो जीव इत्युक्त्ते न प्रजापतिवाक्ये आविर्भूतस्वरूपस्य प्रतिपाद्यता; किन्तु परंज्योतिरुपसंपद्येत्यादित्यं प्राप्तस्य बद्धस्यैवेति हेत्वसिद्धौ शङ्कितायां तत्परिहारपरस्य ज्योतिर्दर्शनादिति सूत्रस्य तत्रैव निवेशो युक्त्त इत्यर्थः । अपरे त्वाहुरिति । तुशब्दोऽप्यर्थः । अपरेप्येवमेवाहुरित्यर्थः । ततश्च पूर्वोक्तपक्षादस्य पक्षस्य किं वैषम्यमिति शङ्का निरस्ता ॥ ॥ इति प्रमिताधिकरणशेषः ॥