अथ यदिदमस्मिन् ब्रह्मपुत्रे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यमिति । तं चेद्ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः किं तदत्र विद्यते, यदन्वेष्टव्यम् यद्वा व विजिज्ञासितव्यमिति स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सवर्ाणि च भूतानि सर्वे च कामाः यदेनज्जरावाप्नोति प्रध्वंसते वा किं ततोऽस्तिशिप्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते । एत्सत्यं ब्रह्मपुरमस्मिन् कामास्समाहिताः । एष आत्मा अपहतपाप्मा विरजो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्ककल्पो यथा ह्येव प्रजा अन्वाविशन्ति । यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति एवमेवामुत्र पुण्यचितो लोकः क्षीयते । तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेष्वकामचारो भवति । अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति’ । उदाहृतनुतिवाक्येषु तत्र तत्रास्पष्टार्थः पररीत्या विविच्यते । सिद्धान्ताभिमतार्थस्तु उत्तरत्र स्पष्टः । तं चेद्ब्रूयुः तं चेदेवमुक्त्तवन्तमाचार्यम् । यदि ब्रूयुः- अन्तेवासिनश्चोदयेयुः, कथं यदिदमस्मिन् ब्रह्मपुरे परिच्छिन्ने अन्तः दहरमल्पं पुण्डरीकं वेश्म ततोप्याकाशस्तत्र किं विद्यते, न किंचिदपीत्यर्थः । यदि नाम बदरमात्रं किञ्चिद्विद्येत किं तस्यान्वेषणेन ? विजिज्ञासनेन वा प्रयोजनमिति, इत्थमुक्त्त आचार्यो ब्रूयात्, यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश इति वैपुल्यप्रतिपादनेनाक्षेपबीजभूतमल्पत्वं व्यावर्त्त्यते । किं तत्र विद्यते इत्याक्षेपस्योत्तरमुच्यते उभे अस्मिन्नित्यादिना । तदन्तर्वर्तिमध्येऽन्वेष्टव्यमुपदिश्यते- यच्चास्येहास्तीत्यादिना । अस्यायमर्थः, यदस्य देहिन इह लोके विद्यते, यच्चेह लोके इदानीं न विद्यते, नष्टं भविष्यच्च तत्सवमस्मिन् दहराकाशे समाहितमिति । तच्चात्र दहरोपासनया ब्रह्मलोकं प्राप्तस्य अग्रे स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्तीत्यादिना वर्णयिष्यमाणं स्वसङ्कल्पसमुत्थितप्राचीनानन्तजन्मसम्बन्धिदिदृक्षितपितृमातृभ्रातृ पुत्रकलत्रगीतवादित्रादिभोग्यवस्तुजातमेव । तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानीत्यादेरयमर्थः, कुसूलादौ जीर्णे भारधारणाक्षमे सति तदन्तर्निहितं व्रीह्यादिकं किमपि यथा नावतिष्ठते, एवमाधारभूते ब्रह्मपुरशब्दिते शरीरे जरादिस्पृष्टे तदन्तर्वर्तिद्यावापृथिव्यादिकं नावशिष्यत इत्याक्षेपाभिप्रायः, शरीरे नष्टे दहाराकाशान्तर्वर्तिद्यावापृथिव्यादिकं नश्येदित्यस्य कोवाऽभिप्रायः । शरीरे नष्टे तदाधारकदहराकाशस्यापि नाशावश्यम्भावात् तदाधारकद्यावापृथिव्यादिनाशस्यादिति वा, आहोस्वित् विद्यमानस्यापि दहराकाशस्य कुसूलाकाशवत् भारधारणाप्रयोजकतया कुसूलस्थानीयस्य शरीरस्यैव धारकत्वेन तस्मिन्नष्टे द्यावापृथिव्यादिनाशस्यादिति वेति विकल्पं हृदि निधाय प्रथमं प्रत्याचष्टे- नास्य जरयेति । द्वितीयं दूषयति- एतत्सत्यं ब्रह्मपुरमस्मिन् कामास्समाहिता इति । ततश्च कुसूलाकाशविलक्षणस्य ब्रह्मरूपस्य दहराकाशस्यैव सर्वकामसमाधानाधारत्वात् शरीरस्याप्रयोजकत्वेन तन्नाशेपि द्यावापृथिव्यादि नाशप्रसङ्ग इति हि तस्याभिप्रायः । सत्यकामस्सत्यसङ्कल्पः- अवितथकामोऽवितथसङ्कल्प इत्यर्थः । कामसङ्कल्पयोश्च हेतुहेतुमद्भावान्न पौनरुक्तयम् । यथा ह्येवेह प्रजा अन्वाविशन्तीत्यादेरयमर्थः- यथा इह लोके प्रजा अन्यं स्वामिनं मन्यमानास्तस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति अनुवर्तन्ते स्वाभिमतार्थांश्च लभन्ते । एवं पुण्यकृतोपि परशासनानुवर्तनेन तत्फलभाजो भवन्तीत्यभिप्रेतार्थः । राजसेवार्जितफलस्यैव पुण्यार्जितफलस्यापि क्षयित्वमाह तद्यथेहेत्यादिना । शिष्टं स्पष्टम् । पुरिशयस्येति - यद्यपि छान्दोग्ये अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुणडरीकं वेश्म’ इति ब्रह्मपुरे विद्यमानत्वमात्रं श्रूयते, न शयनम्, तथापि समानप्रकरणे वाजसनेयके “य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते’ इति शयनश्रवणादत्रापि पुरिशयत्वं फलितमिति द्रष्टव्यम् । आकाशशब्दवाच्यस्यापरमात्मत्वं निरस्यत इति । पुरिशयस्याकाशशब्दवाच्यत्वपरमात्मत्वं निरस्यत इत्यर्थः । ब्रह्मलोकब्रह्मपुरशब्दयोरिति - एतं ब्रह्मलोकं न विन्दन्ति’ एतत्सत्यं ब्रह्मपुरम्’ इति शब्दयोरित्यर्थः । प्रसिद्धान्तरिक्षेति - परमात्मस्थानायस्तनलोकपरत्वसमर्थनादिति भावः । तर्ह्यक्षरमिति - अप्रसिद्धार्थकल्पकत्व रूपप्रत्यासक्त्तेस्त्रयाणां तुल्यत्वेपि अन्तरिक्षशब्दाप्रसिद्धार्थकल्पेक्षतिकर्भाधिकरणापेक्षया आकाशब्दाप्रसिद्धार्थप्रकल्पकत्वेनाक्षरदहराधिकरणयोः प्रत्यासत्त्यतिशयादित्यर्थः । सङ्गत्यतिशयादिति । ननु आकाशवाचिशब्दस्य प्रसिद्धार्थातिरिक्त्तार्थकत्वसमर्थनपरत्वं त्रयाणां साधारणधर्मः । अक्षरेक्षतिकर्माधिकरणयोराकाशशब्दवाच्यस्य प्रसिद्धार्थातिरिक्त्तार्थकत्वसमर्थनमुखेन विप्रतिपन्नस्य परमात्मत्वसमर्थकत्वं साधारणो धर्मः । अन्तरिक्षशब्दस्यापि आकाशवाचिशब्दत्वात् तथा च किमत्र विनिगमकमिति चेत् यदि न वैषम्यमित्यभिमानः तदा अक्षराधिकरणे “अदृष्टं द्रष्टृ’ इत्यदृष्टत्वश्रवणात् ईक्षतिकर्मत्वं न सम्भवतीत्याक्षेपसङ्गतेरप्यधिकायास्सत्त्वादीक्षतिकर्माधिकरणस्याक्षरादिकरणानन्तर्यं युज्यत इति सन्तोष्टव्यमायुष्मता । क्वचित्परमात्मपरत्वमिति - “आकाशादेव समुत्पद्यन्ते’ इत्यादावित्यर्थः । वाक्यद्वारकमिति - उत्तरेभ्य इत्यस्य उत्तरवाक्यगतेभ्य इत्यर्थ इति भावः । पचमीस्फुटीकरणायेति । ततश्च हेतुभ्य इत्येतत्पदं उत्तरेभ्य इत्यत्र विभक्तयर्थस्फोरकमिति भावः । षष्ठी हेतुप्रयोगनियम इति - “षष्ठी हेतुप्रयोगे’ “सर्वनाम्नस्तृतीया च’ इत्युत्तरशब्दस्य सर्वनामत्वात् षष्ठी वा तृतीया वा स्यात्, नतु पञ्चमीत्याक्षेपाभिप्रायः । इदं च “निमित्तकारणहेत्वर्थेषु सर्वासां प्रायदर्शनम्’ इति वार्तिकानादरेणोक्तमिति द्रष्टव्यम् । प्रयोजनतयेति - ननु वृत्त्यादिग्रन्थेष्वेवमव्याख्यातत्वात् । विद्यायाहेतोर्यश इत्यादौ विद्यायशःप्रयोजकत्वाभावेन षष्ठयनुपपत्तिप्रसङ्गाच्च नेदं समञ्जसमिति चेन्न; शाब्दिकग्रन्थेषु अन्नस्य हेतोर्वसतीत्यादेरेवोदाहृतत्वात् विद्याया हेतोर्यश इत्यादिप्रयोगस्यासम्प्रतिपन्नत्वात् षष्ठीहेतुप्रयोक इत्यस्य प्रयोजनतया हेतुत्वविषयत्वाभावे हेतावितिसूत्रस्य निर्विषयत्वप्रसङ्गाच्च । नच हेतुशब्दप्रयोगविषयं षष्ठीहेतुप्रयोग इति सूत्रमिति वाच्यम्; हेतुशब्दप्रयोगे “हेतौ द्योत्ये वा’ सति कौपुद्यामुक्त्तत्वात् । तस्याश्च सम्प्रतिपन्नत्वान्न काचिदनुपपत्तिरिति केचिद्वदन्ति । ननु जीवव्यावृत्तेः प्रस्तोष्यमाणत्वेन भूताकाशव्यावृत्तेरेव प्रस्तुतत्वादात्मत्वमात्रेण च भूताकाशव्यावृत्तिसिद्धेर्निरुपाधिकत्वकीर्तनं मुधेत्यस्वरसादाह - यद्वा आकाशस्यापीति । स्वतश्शरीरप्रतिसम्बन्धीति - स्वत इत्यस्य प्रयोग इत्यनेनान्वयः । स्वतःप्रयोगो मुख्यप्रयोग इत्यर्थः । भाष्ये- अथ य इहात्मानमित्यादि । अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते, एवमेव मातृलोकभ्रातृलोकस्वसृलोकसखिलोकगन्धमालनयलोकान्नपाललोकगीतवादित्रादिलोकस्त्रीलोकपर्याया द्रष्टव्याः । अनन्तरं “यं यमन्तमभिकामो भवति’ यं यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते’ इति श्रूयते, इत्येवं श्रुतिक्रमो द्रष्टव्यः । एकस्यैवेति - अत एव “श्येनेनाभिचरन् यजेत’ इत्यत्र गुणविधिपक्षे “यथा वै श्येनो निपत्त्यादत्त’ इति वाक्यशेषे निबध्यमानं श्येनस्य श्येनसादृश्यं नान्वेतीति नामत्वमाश्रितमिति भावः । हृदयावच्छेदेति - उपमानोपमेययोरभेदेपि उपमानतावच्छेदकोपमेयतावच्छेदकभेदसत्त्वे उपमा सम्भवत्येव, अत एव “उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुगूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे’ इत्यत्रैकस्यैव हरस्योत्तमाङ्गपतद्गङ्गाप्रवाहत्वच्छत्रदुकूलसन्निकृष्टमौलित्वरूपोपमानोपमेयतावच्छेदकभेदसत्त्वेनालङ्कारिकैरुपमाप्रभेदत्वमङ्गीकृतमिति भावः । उपमानशून्यतेति - “रामरावणयोर्युद्धम्’ इत्यादौ उपमानोपमेयभेदसापेक्षसादृश्यस्य वास्तवौपाधिकभेदद्वयाभाववत्यसम्भवादनन्वयालङ्कारः । तत्र चानन्वितं स्वस्मिंन्निबध्यमानं स्वसादृश्यमनुपमत्त्वद्योतनफलकमेव । यथा स्वमहिमप्रतिष्ठितत्वमनन्याधारत्वद्योतनफलकं तद्वदिति भावः । यावच्छब्देति - यत्रोपमानतावच्छेदकोपमेयतावच्छेदकयोरुपमानोपमेययोश्चैक्यम् तत्रैवानन्वयः । प्रकृते च यावत्त्वान्तर्हृदयावस्थितत्वरूपावच्छेदकद्वयभेदसत्त्वात् अवान्तरवाद्याकाशांशानां परस्परभिन्नत्वेनोपमानोपमेयभेदसत्त्वाच्च नानन्वय इति भावः । मध्यगतवाक्येति - “तस्मिन् यदन्तस्तदन्वेष्टव्यम्’ एष आत्मा’ इति वाक्यद्वयमध्यगतेत्यर्थः । ननु प्रथमानिर्दिष्टत्वेन एष आत्मेत्यनेन विभक्तयैकरूप्यं तदन्वेष्टव्यमित्यत्रापि अस्तीत्यत्राह - आसन्नत्वाच्चेति । यद्यपि ब्रह्मपुरमित्यत्र ब्रह्मशब्देन तदाधेयब्रह्मणोप्यासन्नत्वमस्तीति दहराकाशातिरिक्त्तब्रह्मवादिनोऽप्यासन्नत्वं सुवचम्, तथापि ब्रह्मशब्दस्य षष्ठयन्ततया विभक्तयैकरूप्यस्याभावात् ब्रह्मपुरशब्दनिर्दिष्टस्याकाशस्य ततोऽपि सन्निहितत्वाच्चाकाशस्यैव एष इति परामर्श उचित इति यद्यपीत्याक्षेपाभिप्रायः । अन्वेष्टव्यस्यात्मनः परामर्श इति - ततश्च “एष आत्मापहतपाप्मा’ इतिवाक्ये एष आत्मेत्येतावानंशोऽनुवाद इति भावः । अत आत्माधिकरणतयेति - अपहतपाप्मत्वादिलिङ्गानां तदन्तर्वतिर्गतत्वेनोपक्रमावगतदहराकाशाब्रह्मत्वस्य साधकाभावादिति भावः । ननु प्रक्रम एव दहराकाशात्तर्वर्तिनः आत्मत्वनिश्चये तदत्र विद्यत इति प्रश्नस्य वा तदुत्तरसन्दर्भस्य वा कथमुपपत्तिरिति चेदुच्यते, दहराकाशान्तर्वर्तिब्रह्मवादिनो ह्ययमभिप्रायः- तस्मिन् यदन्तस्तदन्वेष्टव्यमित्यत्रैव दहराकाशातिरिक्त्तमन्वेष्टव्यम् तच्च श्रुत्यन्तरपर्यालोचनया आत्मरूपमित्यवगमात् । तथापि किं तदत्र विद्यते इति तदात्मवत्सु किंप्रकारकमिति प्रश्नः यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश इति । अस्य चायमर्थः, यावानयमाकाशोऽतिविपुलो वर्तते एष आकाशस्सर्वोप्यन्तर्हृदये, हृदयशब्दः परमात्मपरः । “स वा एष आत्मा हृदि तद्यैतदेवनिरुक्त्तं हृद्यमिति तस्माद्धृदय’मित्यत्रैव श्रवणात् । ततश्च हृदये ब्रह्मणि अन्तस्सर्वोप्याकाशो वर्तते, द्यावापृथिव्यादिकं चेत्यर्थः । एतत्सत्यं ब्रह्मपुरमिति पूर्ववाक्ये अन्तर्वर्तिब्रह्मैव प्राधान्येन प्रथमानिर्दिष्टत्वात्सन्निहितत्वाच्च । एष आत्मेत्यत्रैतच्छब्देन तस्यैव परामर्शसम्भवात्, यद्यपि “यावान्वा अयमाकाशः’ इतिवाक्येत्यादिचोद्यस्यापि नावकाश इति द्रष्टव्यम् । भाष्ये- स्यादेतदेवं यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभाङ्क्षीत् व्यभाङ्क्षी त्तु सा इति पाठः । विभजनस्यैव प्रकृते विवक्षितत्वात् । ननु स्यादेतदेवमित्यत्रापि लिङ्िनमित्ते लृङ्क्रियातिपत्ताविति अभविष्यदेतदेवम् यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभाङ्क्षीत् इत्येव स्यादिति चेन्न; विभाषा या तौ सम्भावनवचने यदीत्यादिलिङ्निमित्तान्तरस्य सम्भवान्नोभयत्रापि लृङ्प्रसङ्ग इति द्रष्टव्यम् । असाधारणेन व्यपदेशस्येति - क्षितिसलिलपवनादिसमवधानजन्मनोप्यङ्कुरस्य शाल्यङ्कुर इति असाधारणशालिबीजनैव व्यवहारदर्शनादित्यर्थः । तद्विधेयपुराधिपतिरिति - तत्स्वामिकपुरवासी जीव इत्यर्थः । उपक्रम एव “अथ यदिदमस्मिन् ब्रह्मपुरे’ इति जीवस्वामिकपुरप्रतीतेः, तत्स्वामिके पुरे तदवस्थानस्यैवोचितत्वादिति भावः । तद्विधेयपुरवासी जीव इति पाठस्तु सुगम एव, उक्त्तं च शाङ्करभाष्ये ‘तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टं यथा राज्ञः’ इति । भामत्यां च स्यादेतत् जीवस्य पुरं भवतु शरीरम्, पुण्डरीकदहरगोचरता तु अन्यस्य भविष्यति, वत्सराजस्य पुर इव उज्जयिन्यां मैत्रेयस्य सद्मेति मैवं वेश्मस्वल्वधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात् तेनैवाधेयेन सम्बन्धं सन्नाधेयान्तरसम्बन्धं कल्पयतीत्युक्त्तम् । मुख्यार्थस्येति - ब्रह्मपुर इत्यत्र षष्ठयपेक्षया प्रतिपदिकस्य मुख्यतया षष्ठयर्थीभूतस्वस्वामि भावलक्षणसम्बन्धस्वारस्यापेक्षया ब्रह्मशब्दप्रातिपदिकार्थस्वारस्यमेवादर्तव्यम् ततश्च ब्रह्मशब्देन परमात्मन एव ग्रहणमुचितम् षष्ठयर्थसम्बन्धस्तु साधारणोऽसाधारणो वा यः कश्चिद्भविष्यतीति भावः । ननु सत्यकामस्सत्यसङ्कल्प इति गुणद्वयस्यैवाभिधानाद्गुणजातमिति गुणबहुत्वाभिधानमसङ्गतमित्यत आह - सत्यकामत्वसत्यसङ्कल्पत्वेति । तेन विनागुणध्यानायोगादिति । ननु यदि गुणध्यानमन्तरेण गुणिध्यानायोगाद्गुणध्यानस्यावश्यकत्वम्, तर्ह्याक्षेभादेव तदुपासनस्यापि सिद्धतया नात्रानुपपत्तिरिति चेन्न; आक्षेपतः प्राप्तादाभिधानिकस्य ग्राह्यत्वमितिन्यायेन गुणिनोपि ध्येयत्वस्याभिधानिकत्वसम्भवे तत्परित्यागायोगात् “य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामा’निति फलनिर्देशवाक्ये गुणांशे आभिधानतः प्राप्तानुवादो गुण्यंशे आक्षेपतः प्राप्तानुवाद इति वैरूप्याश्रयणस्यापन्याय्यत्वाच्च । अर्थसिद्धं स्यादिति - गुणानां गुण्यन्तर्भूतत्वेन गुणिध्याने विहिते गुणध्यानं विहितं स्यादित्यर्थः । न त्वाक्षेपलभ्यं स्यादित्यर्थ इति न भ्रमितव्यम् । तथात्वे गुणानां ध्येयत्वे कथितेपि गुणिध्यानस्याक्षेपलभ्यत्वसम्भवेन, नतु गुणानां ध्येयत्वे कथित इत्युत्तरवाक्यासामञ्जस्यप्रसङ्गात् । गुणध्याने विहिते गुणिध्यानाक्षेपस्य तेन विना गुणध्यानायोगादिति पूवर्ग्रन्थे अङ्गीकृतत्वाच्चेति द्रष्टव्यम् । अन्वेष्टव्यमितिपदं गुणिपरमिति - दहराकाशान्तर्वर्तिगुणिपरमित्यर्थः । तच्च दहराकाशो भूताकाश एव, नतु परमात्मेति भावः । अनूद्यत्यन्तेनेति - ननु दहरं पुण्डरीकं वेश्मेति एतावता पुण्डरीकवेश्मनो ब्रह्मपुराख्यशरीराधारकत्वे प्रतिपादितेपि आकाशस्य हृदयपुण्डरीकाधारकत्वस्याप्रतिपादनात् कथं वेश्मेत्यनूद्येत्यन्तेन परमतनिरासः । नच दहरोस्मिन्नन्तर आकाशः’ इत्येतावत्पर्यन्तो ग्रन्थसन्दर्भोपि तत्र विवक्षितः । ततश्चाकाशे पुण्डरीकाधारकत्वस्यापि प्रतिपादितत्वादनूदितस्य तस्मिन् यदन्तरित्यनुवादो व्यर्थ इति परमतदूषणसूचकत्वमुपपद्यत सति वाच्यम्; तथासति “यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ इत्यनूद्येतिभाष्यस्य दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश इत्येतावत्पर्यन्तग्रन्थसन्दर्भकथनपरत्वाश्रयणे तस्मिन् दहरपुण्डरीकवेश्मनीत्युत्तरभाष्यस्य दहरोऽस्मिन्नन्तर आकाश इति वाक्यार्थकथनपरत्वं न स्यात् पूर्वमेव तद्वाक्यार्थस्याप्युपन्यस्तत्वात् ततश्च तस्मिन् यदन्तरिति तच्छब्दस्य परमतवद्य्ववहितपुण्डरीकपरत्वाभावात् । दहरोस्मिन्नितिवाक्यं व्याचष्ट इत्युत्तरत्र ग्रन्थकृतैव वक्ष्यमाणत्वाच्चेति चेत् सत्यम्; अथापि अनूद्येत्येतदनूदितस्यार्थस्य पुनरनुवादे प्रयोजनं नास्तीत्यर्थसूचकमित्यत्र तात्पर्यम् । अनूद्येत्यादिनेतिपाठस्तु सुगम एव । वैयर्थ्यं स्यादिति - न च तस्मिन् यदन्तरित्यनुवादस्य तन्तर्वर्तिकामविशिष्टतय्रान्वेष्ठव्यत्वसिद्धिः प्रयोजनमिति वाच्यम्; पुनरनुवादेन तादृशप्रयोजनसिद्धौ प्रमाणाभावात् । व्यवहितेति - सर्वनाम्नामव्यवहितपरत्वसम्भवे व्यवहितपर त्वकल्पनाया अन्याय्यत्वात्, अत एव साकमेथे “एतद्ब्राह्मण एककपालः’ इत्यत्रैतत्पदमव्यवहितवारुणप्रधादिकैककपालपरामर्शी, नतु व्यवहितवैश्वदेविकैककपालपरामर्शीति सप्तमे स्थितम् गौश्चाश्वरतश्च गर्दभाश्चाजाश्चावयश्च तिलाश्च माषाश्च तस्य द्वादश शतं दक्षिणेत्यत्र तु माषद्वादशशतमात्रस्यानतिकरत्वासम्भवात् बहुवचनान्तानां माषाणां तस्येत्येकवचनेन परामर्शस्यायुक्त्तत्वाच्चाव्यवहितमाषाणां परामर्शेऽनुपपत्तिसत्त्वात् व्यवहितगोपरामर्शित्वम्, न चेह तथा बाधकमस्तीति भावः । परमात्मन इति - परमात्मनोऽन्तर्वर्ति तत्कारणं सूक्ष्मं किमपि न सम्भवतीति किं तत्र विद्यत इति वाक्येनाक्षिप्य द्यावापृथिव्यादिकार्यस्य तदन्तर्वर्तितया समाधानमिति हि परैवर्ण्यत इति पाठो बहुषु कोशेषूपलभ्यते, अस्य ग्रन्थस्य च सर्वकाणणान्तर्वर्ति कारणं न सम्भवतीत्याक्षेपाभिप्रायः । सकलकारणभूते परमात्मनि कारणान्तरस्यासम्भवेपि द्यावापृथिव्यादिकार्यसम्भवान्न दोष इति समाधानाभिप्राय इति परैर्वर्ण्यत इत्यर्थो खटिति प्रतीयते, परैश्च नैवमाक्षेपसमाधानप्रकरणौ वर्णितौ, अपि तु दहरपुण्डरीकमेव तावत्सूक्ष्मतरम्, तदवरुद्धमाकाशं ततोपि सूक्ष्मतमम् तस्मिंश्च सूक्षमतमे आकाशे किमपि मातुं न शक्त्तोतीति किमन्वेष्टव्यं स्यादित्याक्षेपाभिप्रायः, दहराकाशस्य ब्रह्मयाकाशवद्विपुलत्वेन सूक्ष्मतमत्वनिबन्धनानुपपत्त्याभावात् तत्र द्यावापृथिव्यादिसर्वविधभोग्यजातसमवधानं तदन्वेष्टव्यत्वं च सम्भवतीति समाधानाभिप्राय इत्येवोक्तम्, नतूक्त्तप्रकारेण; तस्मात्पुरोवादिवाक्यानुसारेणानुवादिवाक्यार्थस्य वर्णनीयत्वात् अस्यापि ग्रन्थस्य स एवार्थः । परमात्मनोऽन्तर्वर्तिनः कस्याप्यभावादित्युपरितनानुवादस्याप्ययमेवार्थः । पुंल्लिङ्गयच्छब्दाध्याहारेणेति तस्मिन् यदन्तरिति वाक्य इति शेषः, नतु दहरोऽस्मिन्नितिवाक्ये तस्मिन् वाक्ये यच्छब्दाध्यारे दहरोऽस्मिन्नित्यादेरेकवाक्यत्वप्रसङ्गात् यत्पदघटितवाक्यस्य तत्पदघटितवाक्येनैकवाक्यतावश्यम्भावात् न चेष्टापत्तिः, उत्तरपक्ष एव एकवाक्यत्वाश्रयणस्य वक्ष्यमाणत्वादिति द्रष्टव्यम् । केचित्तु “दहरोऽस्मिन्नन्तर आकाशः’ इत्यत्रैव यच्छब्दाध्याहारः, दहरोऽस्मिन्नित्यादेरेकवाक्यता च पक्षद्वयेप्यवशिष्टैव पुल्लिङ्गयच्छब्दाध्याहारानध्याहाराभ्यामेव वैषम्यमित्यप्याहुः । अत्र पक्षद्वयेऽपि चशब्दाध्याहारस्समानो द्रष्टव्यः । भाष्ये- यच्च तदन्तर्वर्तिगुणजातम् इत्यत्रान्तर्वर्तीत्येतछ्रुतिगतान्तश्शब्दव्याख्यानमिति दर्शयति - श्रुतिवाक्य इति । नन्वाकाशतदन्तर्वर्तिनोर्द्वयोः कथमेकेन शब्देन परामर्शसम्भव इत्यत आह - त्यदादीनि सर्वैरिति । ननु त्यदादीनीत्येकशेषे सति कथमेकवचनम् ? नच “एकवच्चान्यतरस्याम्’ इत्येकवचनमिति वाच्यम् । “नपुंसकमनपुंसकेन’ इतिसूत्रखण्डकृतैकशेषस्यैवास्येति सौत्रपदेन परामृष्टतया सूत्रान्तरकृतैक शेषस्यातथात्वादिति चेत् “व्यत्ययो बहुलम्’ इति वा “सुपां सुलुक्’ इति वा यदिति रूपसम्भवात् । यद्वा “कर्मणो रोमन्धतपोभ्याम्’ इतिवत्प्रत्येकमेकत्वाभिप्रायेणैकवद्भावस्य द्विगुरेकवचनमितिसल्लिङ्गसामान्यविवक्षया नपुंसकत्वस्याप्युपपत्तेः । अत्रैव “गतिशब्दाभ्यां तथा हि दृष्टम्’ इति सूत्रे पुल्लिङ्गद्विवचनान्तगतिशब्दविशेषणस्य नपुंसकलिङ्गैकवचनान्तस्य दृष्टमित्यस्योक्तेनैव प्रकारेण निर्वाह्यत्वाच्च । एवमाद्यनेकस्वारस्यं यच्छब्दविषयेत्यादिनिवर्तकसूत्रस्याप्रवृत्तिं च हृदि निधाय पक्षान्तरमाह - नपुंसकमनपुंसकेनेति । अत्र च वाशब्दोऽपेक्षितोऽध्याहर्तव्यः । सर्वान्तरस्य परमात्मन इति - सूक्ष्मपुण्डरीकवर्तिनि सूक्ष्मे आकाशे किं विद्येतेत्यनुपपत्तिरित्यर्थः । अत्र परमात्मन इत्येतद्वस्तुतस्सिद्धान्तन्यायेन तस्य परमात्मत्वमस्तीत्यभिप्रायेणोक्तम्, नतु परमात्मत्वमाक्षेपबीजम् । “यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः’ इत्येतावन्मात्रं श्रुतवतां शिष्याणां परमात्मत्वविरोधिन्याकाशशब्दे जागरूके दहरत्वान्वेष्टव्यत्वान्तराधारत्वादिविरोधिलिङ्गे च जाग्रति ब्रह्मलिङ्गेषु चानुपन्यस्तेषु परमात्मत्वविश्चयस्य वा तदुपजीव्याक्षेपप्रवृत्तेर्वा असम्भवादिति द्रष्टव्यम् । आकाशतदन्तर्वर्तिनोरिति - निर्द्धारणे षष्ठी, आकाशस्य ज्ञातत्वादित्यर्थः । प्राधान्यज्ञापनार्थं चेति - भाष्यकृतेतिशेषः, नतु श्रुत्येति । ततश्च प्राकरणिकानामिदमेतच्छब्दानामाकाशपरामर्शित्वप्रभृतेस्सर्व स्यापि “उभे अस्मिन्नाकाशे द्यावापृथिवी अन्तरेव समाहिते’ इत्येकाकाशपदप्रक्षेपेणैव सिद्धिसम्भवात् “यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इत्येतावतस्सन्दर्भस्य वैयर्थ्यमिति दूषणं नावकाशं लभत इति द्रष्टव्यम् । आकाशशब्दव्यवहितत्वादिति - यावान्वा अयमाकाश इत्याकाशशब्दस्य व्यवहितत्यादित्यर्थः । अस्तित्वनास्तित्वयोस्सप्रतियोगित्वावगमादिति । कस्यास्तित्वं कस्य नास्तित्वमित्यपेक्षायामित्यर्थः । किमस्ति किं नास्तीत्यपेक्षायां चोदयितुरनुभाषणवाक्ये सर्वेपि कामा इत्यनुभाषणात् यच्छब्दो भोग्यजातपर इति निर्णीयत इति भावः । चोदयितुरिति - यद्यपि तं चेद्ब्रूयुरिति चोदयितॄणां बहुत्वमवगम्यते तथापि तदविवक्षयैवैकवचनं प्रयुक्त्तमिति द्रष्टव्यम् । अनुभाषणवाक्यं इति - “अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे कामाः’ इत्यनुभाषणवाक्य इत्यर्थः । निरतिशयभोग्यतापरत्वं युक्त्तमिति - ननु “ये चास्येह जीवा ये च प्रेताः यच्चान्यदिच्छन् न लभते सर्वं तदत्र गत्वा विन्दते, अत्र ह्यस्यैते सत्याः कामास्स यदि पितृलोककामो भवति’ इत्याद्युत्तरसन्दर्भप्रतिपाद्यस्वसङ्कल्पमात्रसमुत्थितप्राचीनानन्तजन्मसम्बन्धिदिदृक्षितपितृमातृभ्रातृस्वसृसस्विगन्ध- माल्यान्नापाननृत्तगीतादिसम्पत्तेस्तात्त्विकत्वाभ्युपगमात् “सभ्काल्पादेव तच्छ्रुतेः’ इत्यत्र तस्य तात्त्विकत्वमभ्युपगम्य सङ्कल्पमात्रसमुत्थितत्वप्रतिपादनाच्च यथाश्रुतार्थं विहाय निरतिशयभोग्यतामात्रे तात्पर्यमिति कुतोऽङ्गीकार्यमिति चेत् सत्यम्; भोग्याधारत्वमेव प्रतिपाद्यते, अथापि उपपिपादयिषिते ब्रह्मणोऽन्वेष्टव्यत्वे तदाश्रितपित्रादीनां भोग्यत्वप्रतिपादनस्यात्यन्तानुपयुक्त्तत्वात् । यच्चास्येहास्तीत्यादिवाक्यमपि पित्रादिसर्वभोग्याधारत्वप्रतिपादनमुखेन ब्रह्मणो निरतिशयभोग्यत्वप्रतिपादनपरमिति पित्रादिभोग्याधारत्वे तात्पर्यसत्त्वेपि ब्रह्मणो निरतिशयभोग्यत्वे परमतात्पर्यमिति भाष्याभिप्राय इत्यत्रैवाचार्याणां संरम्भ इति न काचिदनुपपत्तिः । निरतिशयभोग्यत्वं न पृथग्वाच्यमिति । न चानन्दत्वमात्रस्य स्वरूपनिरूपकत्वेपि निरतिशयानन्दत्वं न स्वरूपनिरूपकमिति वाच्यम्; निरुपाधिकत्वादेव निरतिशयभोग्यत्वस्यापि सिद्धेरित्यत्र तात्पर्यात् । अथ तं चेद्ब्रूयुरित्यादि चोद्यपरिहारवाक्यानामिति - अत्राथेत्येतन्न श्रुतिवाक्यम्, अपि तु ग्रन्थकारवाक्यमिति द्रष्टव्यम् । ननु किं तदत्र विद्यत इति प्रश्नप्रतिवचनसमाप्तेः प्रागेव कथमस्य चोद्यस्यावकाश इत्यत आह - किं तदत्र विद्यत इति प्रश्नस्य प्रतिवचनमित्यादिना । द्यावापृथिव्याद्यवस्थानादिति पूर्वेणान्वयः । ततश्च दहराकाशनाशेपि अवतिष्ठमानानां द्यावापृथिव्यादीनां दहराकाशाश्रयत्वं न सम्भवतीति भावः । व्यवहितमपि ब्रह्मपुराख्यमिति - नन्वस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः यदेनज्जरावाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यते’ इति हि श्रुतिवाक्यम् नात्र वाक्ये दहराकाशनिर्देशोऽस्ति, अतः कथं दहराकाशापेक्षया ब्रह्मपुरशब्दितशरीरस्य व्यवहितत्वमभ्युपगम्याक्षेपसमाधानयोः प्रवृत्तिरितिचेत् अस्मिंश्चेदिदं समाहितमिति सर्वशब्देन दहराकाशस्यापि क्रोडीकारसम्भवात् । नच दहराकाशस्यापि सर्वशब्देन परामर्शे सर्वशब्देन भोग्यभोगोपकरणादि प्रतिपाद्यत इत्युत्तरग्रन्थविरोधः । तस्य दहराकाशोपलक्षणत्वेनादोषात्; अत आकाशशब्दस्य ब्रह्मपुरापेक्षया अव्यवहितत्वमस्तीति ग्रन्थकृदाशयः । यद्वा “अस्मिंश्चेदिदं ब्रह्मपुरे’ इति सन्निहितब्रह्मपुरशब्दस्य तत्स्थदहराकाशलक्षकत्वमभिप्रत्यैतदुक्त्तमिति द्रष्टव्यम् । नचास्मिन् पक्षे अव्यवहितब्रह्मपुरशब्देन शरीरस्याप्रकृततया न प्रकृतं शरीरमित्यभिप्रायः इत्युत्तरग्रन्थविरोध इति वाच्यम्; लक्ष्योपस्थितिद्वारतया मुख्यार्थस्यापि प्रकृतत्वादिति भावः । सत्यत्वस्य वक्ष्यमाणत्वादिति । यद्यपि सत्यत्वस्य वक्ष्यमाणत्वं न प्राक्त्तनमाक्षेपं प्रतिबध्नाति, तथाप्यभ्युच्चयोक्तितयोपन्यस्तमिति द्रष्टव्यम् । ननु सर्वशब्दसङ्कोचेनेति - “यथा सर्वेभ्यः कामेभ्यो ज्योतिष्टोमस्सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ’ इत्यत्र सर्वत्वमाधिकारिकमिति र्थवादाधिकरणसूत्रोक्तन्यायेन सर्वेभ्यः कामेभ्य इत्यस्य वेदप्रतिपाद्यप्रकृतपशुपुत्रवृष्टयन्नपानादिपरत्वमेव, न त्वप्रकृताकाशगाम्यमरकन्यालाभादिपरत्वमपि सर्वनाम्ना प्रकृतिपरामर्शित्वस्वारस्यात्; तथात्रापि सर्वकामशब्दस्य स यदि पितृलोककामो भवती’त्यादिना वर्णयिष्यमाणपितृमातृगन्धमाल्यनृत्तगीतवनितादिपरामर्शित्वमेवोचितम्, नतु सर्वविधभोग्यतापरत्वम्, कामशब्दस्य भोग्यतापरत्वे अस्वारस्यादिति शङ्काभिप्रायः । प्रथमश्रुतेति । नच प्रथमश्रुतस्य सङ्कोचप्रसङ्गेन चरमश्रुतकामशब्दस्यामुख्यार्थपरिग्रहे सर्वे ब्राह्मणास्समागता इत्यत्र प्रथमश्रुतसर्वशब्दासङ्कोचाय ब्राह्मणशब्दस्य शूद्रपरत्वमपि स्यादिति वाच्यम्; ब्राह्मणशब्दवत्कामशब्दस्य जीवभोग्यगन्धमाल्यादिमात्रे रूढत्वाभावात् इयांस्तु विशेषः, यज्जीवभोग्यगन्धमाल्यादिषु कामशब्दस्यात्यन्तप्रसिद्धिः भोग्यतां तु प्रसिद्धिमात्रं नात्यन्तप्रसिद्धिरिति; अतो न कश्चिद्दोषः । वक्ष्यमाणत्वानुगुणत्वाच्चेति । सर्वेषु लोकेषु कामचारोभवतीत्युपासनफलस्य यन्निरतिशयत्वं वक्ष्यति तस्यानुगुणत्वाच्चेत्यर्थः । अर्थसिद्धमाकारमाहेति । ननु “एतत्सत्यं ब्रह्मपुर’मितिवाक्यश्रवणात्प्रागेव नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’ इत्येतावन्मात्रश्रवणात्परमकारणतयातिसूक्ष्मत्वं कथमर्थसिद्धं स्यादिति चेत् अत्र केचित्- भाष्ये एतत्सत्यं ब्रह्मेत्यन्तस्य श्रुतिवाक्यस्य निर्विकारत्वमुक्तवेत्यन्तेन भाष्येण व्याख्यानम्, तत एवेत्युत्तरसन्दर्भेण तु श्रुतिवाक्यस्थपुरशब्दस्यैव व्याख्यानम्, एवञ्च ब्रह्मशब्देन तल्लक्षणीभूतजगज्जन्मादिहेतुत्वस्य सूचनसम्भवात्, सत्यशब्देन निर्विकारत्वस्य कण्ठोक्तत्वाच्च नानुपपत्तिः । इतरथा “नास्य जरयैतज्जीर्यति न वदेनास्य हन्यते’ इत्यनेनैव निर्विकारत्वसिद्धौ पुनरप्येतत्सत्यमिति सत्यशब्देन निर्विकारत्वप्रतिपादनं विफलमेव स्यात् । किच अत एवेतिभाष्ये निर्विकारत्वस्यैव सत्यशब्दार्थीभूतान्निर्विकारहेतुत्वेन परामर्शात्साध्याविशेषश्च दुर्वारः । न च सत्यशब्दस्य निर्विकारत्वबलप्राप्तसततैकरूपत्वमर्थः, अतो न सत्यशब्दवैफल्यम् नवा साध्याविशेष इति शङ्कयम् श्रुतिवाक्यस्थसत्यशब्दस्य निर्विकारत्वमर्थ इति भाव इत्युत्तरग्रन्थविरोधात्; तस्मादुक्त्तैव सरणिरनुसरणीयेति वदन्ति । सत्यशब्दसामानाधिकरण्यादिति । ततश्च यदिदं ब्रह्मपुरमित्याद्यभ्यतब्रह्मपुरशब्दार्थवैरूप्यमपि सोढव्यमिति भावः । अस्मिन् कामा इति तु प्रथमचोद्यप्रतिवचनमिति । अत्र केचित् - “यच्चास्येहास्ति यच्च नास्ति’ इत्येव किं तदत्र विद्यत इति प्रश्नस्य प्रतिवचनम् तदेवास्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि भूतानि सर्वे च कामा इत्यनुभाषणवाक्ये कामशब्देनानूद्यते, तदेव च “एतत्सत्यं ब्रह्मपुरम् अस्मिन् कामास्समाहिताः य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्, त इमे सत्याः कामाः’ इति कामशब्देनापि परामृश्यते, कामशब्दानां प्रत्यभिज्ञायमानत्वाच्च अपहतपाप्मत्वादीनामन्यविशेषणतया प्रतीयमानानामेतांश्च सत्यान् कामानित्येतच्छब्देन परामर्शस्य क्लिष्टत्वाच्चेति तदयुक्त्तम्; कामशब्दप्रत्यभिज्ञामात्रेणैक्याभ्युपगमे ब्रह्मपूरशब्दप्रत्यभिज्ञाबलेन अथ यदिदमस्मिन् ब्रह्मपुरे एतत्सत्यं ब्रह्मपुरमित्यनयोरप्यैक्यापत्त्या सारूप्यमात्रस्याप्रयोजकत्वात् अन्यविशेषणतया प्रतीतानामपहतपाप्मत्वादीनामेतांश्च सत्यान् कामानिति एतच्छब्देन परामर्शो न सम्भवतीत्यप्ययुक्त्तम् अस्मिन् कामास्समाहिता इति प्राधान्येन निर्दिष्टानामेव एतांश्च सत्यान् कामानिति परामर्शसम्भवात् नच अस्मिन् कामास्समाहिता इत्यत्रापि सर्वे च कामा इत्यनुभाषणवाक्यप्रत्यभिज्ञानात् द्यावापृथिव्यादय एवोच्यन्ते, न त्वपहतपाप्मत्वादय इति शङ्कयम् तथात्वे अपहतपाप्मेत्यादिसन्दर्भस्य वैयर्थ्यप्रसङ्गात्, तत्र हि अपहतपाप्मत्वादिमत्त्वात् कामसमाधानाधारत्वं सम्भवतीत्युक्त्तिभङ्गया अपहतपाप्मत्वादिषु कामशब्दार्थसमर्पणपरत्व एव सार्थक्यम् इतरथा स्वरूपनिर्देशमात्रस्यानतिप्रयोजनत्वादिति न कश्चिद्दोषः । अव्यवयहितैतत्सत्यमिति । अत्र एतत्सत्यं ब्रह्मपुरमित्येतावतोऽप्यनुकरणशब्दतया सुब्लोपाभावः । अवयवशक्तयेत्यर्थ इतिभाष्ये अवयवशक्तया निर्दिश्येत्येवं शेषः पूरणीय इति भावः । सत्यसभ्कल्पशब्देन्यपि सिद्धत्वादिति । न च कामस्सङ्कल्पो विचिकित्सा इत्यादाविव कामसङ्कल्पयोर्भेद निर्देशस्य सार्थक्यमिति वाच्यम्; तथापि फलत एकत्वेनानतिप्रयोजनत्वात् । कतिपयगुणान्तराणां पृथगुक्त्तत्वादिति । यद्यपि पृथगुक्त्तेष्वेव गणेषु निर्विशेष ब्रह्मवादनिराकरणाय सत्यत्वं प्रतिपाद्यत इति वैयर्थ्यम् अथापि मार्गान्तरस्य मार्गानतरादूषकत्वादित्यत्र तात्पर्यम् । नित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थ इति - सत्यशब्दस्य नित्यत्वमित्यर्थः, कामशब्दस्य कामनाविषयीभूतभोग्यभोगोपकरणादिकमर्थ इति भावः । ननु प्रजापतिवाक्यगतसत्यकामशब्दस्यापि नित्यविभूतिमत्त्वमथर्स्यादिति चेत् इष्टापत्तेः, मुक्त्तस्याप्यप्राकृतविग्रहादिमत्त्वेन तत्स्वामित्वसम्भवात् प्रथमस्य यथाशब्दस्येति - अयमिहान्वयक्रमः, इह प्रजा यं यमन्तं जनपदं क्षेत्रभागमभिकामा भवन्ति तं तं यथा राजशासनं राजशासनानुसारेण, यथान्वाविशन्ति लभन्ते, तथा तं तमेवोपजीवन्ति भुञ्जत इति, यथा राजसेवाफलस्य राजशासनानुर्वर्त्तित्वम् एवं तत्फलभोमस्यापीत्युक्त्तं भवति । राजशासनं यथेति - यद्यपि यथानुशासनमित्यत्र यथाशब्दस्य पदार्थानतिवृत्त्यर्थकतया तस्य च नित्यसमासत्वेन स्वपदविग्रहो न भवति । तथाशब्दप्रतिनिर्देशापेक्षापि नास्ति, नहि यथाविधि करोतीत्यादौ तथाशब्दाकाङ्क्षास्ति, अथापि सादृश्यार्थकयथाशब्दमादाय फलतस्समासार्थकथनम् अत एव तथाशब्दप्रयोगोपपत्तिश्चेति द्रष्टव्यम् । श्रुतिगतत्वभ्रान्तिं व्युदस्यति - भाष्य इति । नतु सत्यकामपदोक्तकामपर इति । नित्यविभूतिपरो न भवतीत्यर्थः । प्रकृतगुणविषयतयेति - अस्मिन् कामास्समाहिता इति प्रकृतसर्वगुणविषयतयेत्यर्थः । शङ्कते - सत्यशब्दविशेषितत्वमिति । ततः पूर्वमिति - सत्यशब्दात्पूर्वमित्यर्थः । सत्यशब्दविशेषितत्वाच्चेति - नचैवमक्षिपतस्तदपि विप्रतिपन्नमिति वाच्यम्; अपहतपाप्मत्वादीनामपि अनृतापिधानत्वप्रतिपादनस्यावश्यकतया तन्मात्रसङ्कोचे प्रमाणाभावादिति भावः । एकरूपतया अवश्याभ्युपगन्तव्यत्वादिति । ततश्च क्लिष्टनिर्वाह आनयणीय इति भावः । तस्मिन् यदन्तरितिवाक्ये क्लिष्टनिर्वाहमनभ्युपगच्छतः कोऽभिप्रायः ? किं य इहात्मानमित्युपसंहारवाक्ये गुणगुण्युपासनयोर्द्वयोरप्यनुवादः, उत विशिष्टविधानमाश्रित्य द्वयोरपि विधानम्, उत गुण्यंशे फलसम्बन्धविशिष्टोपासनविधिः, गुणांशे तु फलसम्बन्धमात्र विधिः ? इति त्रेधा विकल्पं हृदि निधाय क्रमेण दूषयति - न ह्यप्राप्तं गुण्युपासनमित्यादिना ।भाष्ये- स त आगम्येति श्रुत्युपन्यासात्सौत्रगतिशब्देन निर्गमनमपि विवक्षितमिति भाष्यकृतोऽभिसन्धिरिति मत्वा निर्गमनशब्दार्थमाह - निर्गमनं पृथक्स्थित्यर्हतापत्तिरिति । शब्दस्यान्यत्र प्रसिद्धिमिति - गतिशब्दाभ्यामित्यत्र गतेरन्यत्र प्रसिद्धिमुपपाद्य शब्दस्य प्रसिद्धिमुपपादयतीत्यर्थः । निधिदृष्टान्तसचिवमिति भाव इति । ततश्च हृदयपुण्डरीकावच्छिन्नभूताकाशे सुषुप्तौ अहरहगर्मनसम्भवात्, हाहरहर्गमनं परमात्मत्वसाधकमिति न शङ्कयम् निध्युपमालब्धपरमपुरुषार्थत्वविशिष्टगन्तव्यत्वस्य हृदयपुण्डरीकावच्छिन्नभूताकाशे अभावादिति भावः । स्थपतिर्निषादस्यात् शब्दसामर्थ्यादिति सूत्रपाठः । सम्बन्धविशिष्टोऽभिधेय इति । प्रतिपिपादयिषित इत्यर्थः । तत्र षष्ठ्या अश्रवणादिति । तत्र षष्ठीसमासपक्ष इत्यर्थः । तदनादृत्यैवं व्याख्यातमिति । न च चतुर्मुखलोकपरतया प्रसिद्धे ब्रह्मलोकशब्दे नरपतिराजकुमारादिशब्देष्विव निषादस्थपतिन्यायानवतारात् तद्य्वावृत्तिसिध्द्यर्थं पररीतिरेवाश्रयणीयेतिवाच्यम्; “एष ब्रह्मलोकस्सम्राट्’ इतिब्रह्मलोकशब्दस्य ब्रह्मण्यपि प्रसिद्धतया तन्न्यायानवतारशङ्कानुदयात् । दृष्टान्त एवोपरिशब्दान्वय इति । सुषुप्तिविषयमनं हि पृथक्प्रतिपत्तिव्यवहाराननुगुणतयाऽवस्थितिर्भेदप्रहाणरूपा, अतस्तत्र दार्ष्टान्तिके अहरहरुपरि गच्छन्त्य इत्युपरिशब्दानन्वय इति भावः । नन्वन्तर्यामिरूपब्रह्मण्येवास्थितिः, न दहराकाशरूपब्रह्मणि ततश्च कथं दहराकाशस्य उपरीति भाष्यमित्यत आह - धर्म्यैक्याभिप्रायेणैवमुक्त्तमिति । सत्यशब्दनिर्वचनावगतमिति । तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति । तानि हवा एतानि त्रीण्यक्षराणि सत्यमिति । अथ यत् सत् तदमृतम् अथ यत्ति तन्मर्त्त्यम् अथ यद्यं तेनोभे यच्छति’ इति निर्वचनावगतमित्यर्थः ॥भूताकाशान्यत्वे तात्पर्यमिति - जीवपूवर्पक्षस्याप्यद्याप्यनिरस्तत्वादिति भावः ॥पूर्वोक्तहेतूनामिति - बाह्याकाशोपमानोपमेयभावादीनां च चतुस्सूत्रीप्रतिपादितानामित्यर्थः । उपक्रमत इत्यनेनेति - दहराकाशस्य प्रत्यगात्मतत्त्वमाशङ्क्य निराकर्तुमुपक्रमत इति दहराविच्छेदप्रतीतेर्नाधिकरणान्तरमिति सूचितमिति भावः, नतूपक्रमत इत्येतावतैव तत्सूचनं तावन्मात्रेण तथा अप्रतीतेरिति द्रष्टव्यम् ।is not available.यद्यपि विरोचनोपीति - इत्थं हि समाम्नायते- “य आत्मा अपहतपाप्मा विरजो विमृत्युविर्शोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः सर्वान् लोकानाप्नोति स सर्वांश्च कामान् यस्तमात्मानमनुविद्या विजानातीति ह प्रजापतिरुवाच । तद्धोभये देवा अनुबुबुधिरे कर्णाकर्णिकया श्रुतवन्त इत्यथर्ः । “ते होचुः । हन्त तमात्मानमन्विच्छामो यमात्मानमन्विप्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिति । इन्द्रो ह वै देवानामभि प्रववाज विरोचनोऽसुराणाम् । तौ हासंविदामावेव’ असंविदानौपरस्परेर्ष्यया स्वाभिप्रायमप्रकाशयन्तावित्यर्थः । समित्पाणी प्रजापतिसकाशमाजग्मतुः । तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः । तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति’ अवास्तम्- उषितवन्तावित्यर्थः । “तौ हो चतुर्य आत्माऽपहतपाप्मा विरजो विमृत्युर्विोको विजिघत्सोऽपिपासम्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यस्सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वाचो वेदयन्ते तमिच्छन्ताववास्तमिति । तौ ह प्रजापतिरुवाच । य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्मेति’ एवं प्रत्यगात्मनि प्रजापतिना उपदिष्टे छायापुरुष आत्मेत्युपदिष्ट इति भ्रान्त्वा स्वगृहीतच्छायापुरुषात्मत्वद्रढीकरणाय जलादर्शादिप्रतिबिम्बोपि अक्षिप्रतिबिम्बाभिन्न आत्मैव, उत तद्भिन्नोऽनात्मेत्यभिप्रायेण “अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्थे कतव एष इति पप्रच्छतुः । एवं ताभ्यां पृष्टस्तयोर्भ्रान्तिमनिराकुर्वन्नेव “एष उ एव सर्वेष्वन्तेषु परिख्यायत इति होवाच । यश्चक्षुषि दृश्यत्वेन मयोक्तस्स सर्वान्तरो जलादिष्वपि न भिद्यत इत्युत्तरं ददावित्यर्थः । शिष्यभ्रान्तिमनिराकृत्य तद्भ्रान्तिद्रढीकरणायेत्थमुत्तरं ददत आचार्यस्यायमभिप्रायः, सुरासुरेन्द्राविरोचनौ स्वात्मन्यध्यारोपितपाण्डित्यमहत्त्वातिशयौ तथैव जगति प्रसिद्धौ च, तद्यदि युवां भ्रान्ताविति ब्रूयात् तदा चित्तावसादात्पुनः प्रश्नग्रहणधारणेषु भग्नोत्साहौ स्याताम् अतो यथाश्रुतप्रश्नमात्रस्योत्तरमिदानीं वक्त्तव्यम् । अनेन चोत्तरेण पूर्वोत्पन्नः प्रतिबिम्बात्मभ्रमो द्रढीभवति चेत् भवतु, द्रढीभूतोपि केनचिदुपायेनापनेष्यत इति । प्रथमः खण्डः । अत एव तद्भ्रमापनयनार्थमाह- “उदशरावे आत्मानमवेक्षाञ्जक्राते, तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुस्सर्वमेवेदभावां भगव आत्मानं पश्यावः, आलोगभ्य आनखेभ्यः प्रतिरूपमिति । एवं द्वात्रिंशद्वर्षब्रह्मचर्यदीर्घीभूतनखलामादियुक्त्तच्छायापुरुषदर्शनानन्तरं तौ ह प्रजापतिरुवाच । साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुर्यथैवेदमानां भगवस्साद्वलङ्कृतौ सुवसनौ परिष्कृतौ स्थ एवमेवेमौ भगवस्साध्वलङ्कृतौ सुवसनौ परिष्कृताविति । अत्रैवं नियुञ्जानस्य प्रजापतेरयमभिसन्धिः, आगमापायिकेशनस्वालङ्करादिदोषगुणयुक्त्ताव्यवस्थितदेहानुकारिदोषगुणवत्त्वात् देहवत्तत्प्रतिबिम्बोऽप्यनात्मेति जानीतामिति । एवं सत्यपि तावनिसृत्तभ्रमौ किं पश्यथ इति प्रजापतिना पृष्टावपि यथादृष्टं कथयित्वा तूष्णीं बभूवतुः, ततः प्रजापतिर्भ्रान्तिनिवारणार्थं मया कृतस्य द्विविधप्रतिबिम्बदर्शनस्याभिप्रायमिमावप्रक्षीणकल्मषत्वान्नावगच्छतः, प्रत्यक्षञ्च युवां भ्रान्ताविति वक्त्तुमर्हौ न भवतः, तदिदानीमेतदीयहृदयानुरोधेन प्रतिबिम्बमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसि निधाय एष आत्मेत्युपदेशेनैतयोराकाङ्क्षां निवर्तयिष्यामि, कालेन कल्मषे प्रक्षीणे मद्वचनसन्दर्भस्य सर्वस्याप्यभिप्रायं स्वयमेवावगमिष्यतः । विचिकित्समानौ वा मत्समीपमागमिष्यत इति मत्वा एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रमेति । तौ ह शान्तहृदयौनिवृत्ताकाङ्क्षावित्यर्थः । तौ हान्वीक्ष्य प्रजापतिरुवाच एवं प्रतिनिवृत्तयोः प्रजापतिर्भ्रान्तिगृहीतार्थश्रद्धया इमौ विनष्टौ माभूताम् इदमपि मम वचनं य आत्मेतिवचनवत्कर्णाकर्णिकया ृणुतामित्यभिप्रेत्योवाचेत्यर्थः । अनुपक्षभ्यात्मानमननुविद्य व्रजतः यतर एतदुपनिषदो भविष्यन्ति । यतरेय इत्यर्थः । देवा वा असुरा वा ते पराभविष्यन्तीति, स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाच । विरोचनः प्राजापत्यस्य द्विविधदेहच्छायादर्शननियोगस्य देहानुकारित्वाच्छायाया देह आत्मेति सूचने तात्पर्यम् अलङ्कृतदेहच्छायां निर्दिश्य एष आत्मेत्युपदेशस्य नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमितिवचनस्य छायानिमित्ते बिम्बे वाससीव अलङ्कृते देहे तात्पर्यमिति मन्वानो दहे एवात्मालङ्कारादिभिः परिचरणीय इति निश्चित्य राज्यं प्राप्यासुरेभ्यस्तथैवोपदेष्टुमुपचक्रम इत्यर्थः । आत्मैवेह महीयः, पूज्य इत्यर्थः । आत्मा परिचर्यः, आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं च तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरसुरोबतेति । यागदानादिकर्मशून्यमद्यापि शिष्ठा असुर इति प्राहुरित्यर्थः । असुराणां ह्येषोपनिषत् प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेण संस्कुर्वन्ति । भिक्षयाभिक्षित्वापीत्यर्थः । एतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते । एतेन- शरीरालङ्कारेणेत्यर्थः । अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श । यथैव खल्वयमस्मिन् शरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृतः एवमेवायमन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः, यस्य चक्षुर्नासिका वा सदा स्रवति स स्रामः । छिन्नाङ्गः परिवृक्णः । अस्यैव शरीरस्य नाशमन्येष नश्यति नाहमत्र भोग्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् शान्तहृदयः प्राव्राजीस्सार्धं विरोचनेन किमिच्छन् पुनरागम इति । आगतवानसीत्यर्थः । यथैव खल्वयं भगवो अस्मिंच्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृतः एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव नाशमन्यैष नश्यति नाहमत्र भोग्यं पश्यामीति एवमेवैष भगवन्निति होवाच । एतत्त्वेव ते भूयाऽनु व्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणि स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच य एष स्वप्ने महीयानन्तश्चरति एष आत्मेति होवाचैतदमृतमेतदभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हा प्राप्यैव देवानेतद्भयं ददर्श, तद्यद्यपीदं शरीरमन्धं भवति अनन्धस्य भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दूष्यति न वधेनास्य हन्यते नास्य स्रामेण स्रामो नन्ति त्वेवैनं विच्छादयन्ति वा अप्रियवेत्तेव भवित्यपि रोदितीव नाहमत्र भोग्यं पश्यामिति स समित्पाणिः पुनरेयाय, तं ह प्रजापतिरुवाच भगवन् शान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति स होवाच तद्यद्यपीदं भगवन् शरीरमन्धं भवतीत्यनन्धस्स भवति अपि रोदितीव नाहमत्र भोग्यं पश्यामीति एवमैवैष मधवन्निति होवाच एतं त्वेव ते भूयोऽनु व्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच । तद्यत्रैतत्सुप्तस्समस्तसम्प्रसन्नस्स्वप्नं विजानाति एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज सहाप्राप्यैव देवानेतद्भयं ददर्श, नाहं खल्वयं भगवस्सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानिभूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति स होवाच नाहं खल्वयं भगवस्सम्प्रत्यात्मानं जानामि नाहमत्र भोग्यं पश्यामीति एवमेवैष मघवन्निति होवाच एतं त्वेव ते भूयो नु व्याख्यास्यामि नो एवान्यत्रेतस्माद्वसात्रापराणि पञ्चवर्षाणीति स हापराणि पञ्चवर्षाण्युवास तान्येकशतं सम्पेतुरेतत्तद्यदाहुरेकशतं वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच पुनरपि द्वात्रिंशतं वषर्ाण्युषितवते मघवते स्थूलशरीरदोषाननुविधायिनं स्वपनावस्थं जीवात्मानमुपदिदेश । इन्द्रस्तत्रापि हन्यमानत्वद्राव्यमाणत्वबन्धुजननमरणाद्यप्रियद्रष्टृत्वरोदितृत्वादिप्रतिभासेन दोषं पश्यन्नुक्त्तार्थानुपपत्तिमनुसन्दधानः प्रजापतिं पुनरुपससाद । प्रजापत्तिः पूर्ववदुक्तवा तथैव द्वात्रिंशतं वर्षाणि उषितवते तस्मै स्वाप्नवधादिप्रतिभासप्रयुक्त्तभयशोकादिरहितं सुषुप्तावस्थं जीवात्मानमुपदिदेश । इन्द्रस्तस्मिन् विशेषविज्ञानरहिते विनष्टप्रायत्वेनापुरुषार्थतां मन्यमानः प्रागुक्त्तानुपपत्त्यनुसन्धानेन पुनरपि प्रजापतिमुपससाद । प्रजापतिरेतं त्वेव ते भूयो नु व्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्चवर्षाणीत्युक्तवा तावत्कालमुषितब्रते एकशतवर्षप्रह्मचर्यवासेन सम्यक्प्रक्षीणकल्मषायेन्द्रायोपदेष्टुमुपचक्रम इत्यर्थः । “मघवन्मर्त्त्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा ब सन्तं न प्रियाप्रियो स्पृशतः अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुश्शरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति स उत्तमः पुरुषस्स तत्र पर्येति जक्षन् क्रीडन् रममाणः, स्त्रीभिर्वा यानैवर्ा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त्त एवमेवमेवायमस्मिञ्छरीरे प्राणो युक्त्तः । अथ यत्रैतदाकाशमनुविषण्णं चक्षुस्स चाक्षुषः पुरुषो दर्शनाय चक्षुः । अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् । अथ यो वेदेदमभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् अथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दिव्यं चक्षुस्स वा एष एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके । तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आत्तास्सर्वे च कामास्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच’ । छायापुरुष उपदिष्ट इति मत्वा पुनःपप्रच्छतुः । योयं भगव इत्यादिनेतिपाठः । यो यं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येतावतः प्रश्नत्वादिति द्रष्टव्यम् । सर्वेष्वन्तेषु नेत्रादिस्थानेषु परिख्यायते इति होवाचेत्यस्य प्रतिवचनरूपत्वात् । केचित्तु योयं भगवोऽप्सु परिख्यायते एष उ एष एवेत्यर्थ इति पाठः । एष उ एव सर्वेन्वन्तेषु परिख्यायते यश्चायमादर्शे कतम एष इति एष उ एव सर्वेष्वन्तेषु परिख्यायत इत्येतावान् प्रश्नः इति होवाचेत्येतदुत्तरस्योदशरावब्राह्मणस्य शेषभूतः । तत्र च योयं भगवोप्षु परिख्यायते यश्चायमादर्शे य एष उ एव सर्वेष्वन्तेषु नेत्रादिस्थानेषु परिख्यायते कतम एष इति प्रश्नः । प्रश्नमध्यगत इतिशब्दः प्रन्नान्ते निवेशनीय इत्यादि वदन्ति । चाक्षुषदेहस्येति - चक्षुषि दृश्यमानस्य छायापुरुषस्येत्यर्थः । तत्क्रमस्यैव दृढावस्थितत्वेन तस्यैवापनेयत्वादिति द्रष्टव्यम् । अनात्मत्वमिति - इदमुपलक्षणम् । अमृताभयशब्दाद्युक्त्तभोग्यत्वाद्यभावोपि द्रष्टव्यः, अत एव ह्युत्तरत्र नाहमत्र भोग्यं पश्यामीत्युक्त्तिरिति द्रष्टव्यम् । अन्वयव्यतिरेकाभ्याञ्चेति - देहगुणदोषान्वयव्यतिरेकानुविधानादित्यर्थः । यथा वसनाभरणादिरिति - वसनाभरणादिर्हि उपादानद्रव्यगुणदोषानुविधायी नात्मा, तथा देहगुणदोषान्वयव्यतिरेकानुविधायिगुणदोषतया छायापुरुषो नात्मेत्यर्थः । देहो नात्मेत्यत्र देहशब्दः छायापुरुषपरः, एवमुत्तरत्रापि देहस्यामृतत्वाभयेत्यत्रापि देहशब्दश्छायापुरुषपरो द्रष्टव्यः । व्यतिरेको दुर्दश इति - एतच्छ रीरगुणदोषान्वयव्यतिरेकानुविधायित्वव्यतिरेको दुर्दर्शन इत्यर्थः । स्वप्नावस्थे तु तद्य्वतिरेकस्सुदर्शनः, अत एव यद्यपीदं शरीरमन्धं भवति अनन्धस्य भवतीति स्वप्नावस्थमधिकृत्येन्द्रवाक्यमिति ध्येयम् । तदभिप्रायानभिज्ञ इति - परिशुद्धात्मस्वरूपविषयपरमतात्पर्यानभिज्ञ इत्यर्थः । एवमित्यादिकमुपाददानस्येति - “एष सम्प्रसादः’ इत्येतावन्मात्रमनुपादाय एवमेवैष सम्प्रसाद इति सादृश्यवाच्येवंशब्दोपक्रमं वाक्यमुपाददानस्येत्यर्थः । दार्ष्टिकान्तिकेति - “अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथेतान्यमुष्मादाकाशत्समुत्थाय परञ्ज्योति रुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति दृष्टान्तवाक्यम् । “एवमेवैष सम्प्रसाद’ इति दार्ष्टान्तिकवाक्यम् । मुखं व्यादाय स्वपितीति । यथा व्यादानस्य स्वापानन्तरभावित्वेपि मुखं व्यादाय स्वपितीति निर्देशः तथा पञ्च्योतिर्भावरूपोपसम्पत्तेः प्रपञ्चप्रविलापकवृत्तिरूपसाक्षात्काररूपाभिनिष्पत्त्यनन्तरभावित्येपि परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति निर्देश उपपन्न इति भावः । विवेकः किं शरीरकर्मकः, उत आत्मकर्मकः ? इति विकल्प्य दूषयति - शरीरविषय इत्यादिना । सिद्धान्तिनं भ्रान्तस्तटस्थश्चोदयति - शरीरादात्मन उत्थानं विवक्षितं चेदित्यादिना । न तु परेषां चोद्यमिति भ्रमितव्यम् । यदा च विवेकसाक्षात्कारश्शरीरात्समुत्थानम्; नतु शरीरापादानकं गमनं तदा तत्सशरीरस्यापि सम्भवतीति वाचस्पतिना शरीरापादानकगमनं सशरीरस्य न सम्भवति, शरीरविवेकरूपं समुत्थानं तु शरीरे वसतोपि सम्भवतीति प्रतिपादनादिति द्रष्टव्यम् । सशरीरस्य तत्सम्भवादिति - सूक्ष्मशरीरयुक्त्तस्यैव तत्सम्भवादित्यर्थः । मोक्षविषयत्वं न स्यादिति । शरीरात्समुत्थायेत्यंशोपि मुक्त्तिकालविषय इति भ्रान्तस्येयं शङ्केति द्रष्टव्यम् । ल्यबन्तपदस्येति मुखं व्यादाय स्वपितीत्यादौ व्यादानानन्तरभाविस्वापमभिप्रेत्य व्यादाय स्वपितीत्युक्त्तिरुपपद्यते, प्रकृते तु ब्रह्मभावानन्तरं वृत्तिरूपसाक्षात्कारानवकाशात् त्वाप्रत्ययस्सर्वथानुपपन्न इति भावः । परज्योतिर्भावेति - करं कार्यत्वादिति निर्देशवत्साधुत्वं द्रष्टव्यम् । परञ्ज्योतिर्भावे तु न दोष इति बोध्यम् । निर्देशवैयर्थ्यं चेति -अभिनिष्पद्यत इत्यनेनैव भेदप्रविलापस्याप्यनुक्त्तिसिद्दत्वादिति भावः । इदञ्च भेदप्रविलापकत्वमप्यसभनिष्पद्यत इति शब्दार्थान्तर्गकमिति पक्षे दूषणम् । सद्वितीयत्वव्युदास इति - अभिनिष्पद्यत इत्येतावन्मात्रे कथिते निवर्तकज्ञानं द्वितीयमस्तीति शङ्का स्यात् सा मा विज्ञायीति निवर्तकज्ञानकृतसद्वितीयत्वमपि परञ्ज्योतिरुपसम्पद्येत्यनेन निरस्यत इत्यर्थः । सकर्मकत्वप्रतीतिस्वारस्येति । परं ज्योतिरुपसम्पद्येति उपसम्पत्तिशब्दस्याकर्मकभवत्यर्थपरत्वमयुक्त्तमित्यर्थः । कर्मकृतेति - अचेतनानां वाय्वादीनां कर्माभावादिति भावः । स्वकार्यकरणायेति - प्रावृट्काले वर्षायोच्छूनानि भूत्वेत्यर्थः । “अन्यार्थश्च परामर्श’ इति सूत्रे एष सम्प्रसाद इत्यादिकं सुषुप्त्यवस्थात्मविषयतया परैर्व्याख्यातम् । तदपि निराकरोति - अस्य वाक्यस्येति । जीवस्वरूपवैलक्षण्याभिप्राय इति - सूत्रकारेण भेदनिर्देश इति योजना । संसारिणो जीवद्भेदोक्तया यावदीश्वरस्यासंसारित्वं नोच्यते तावदभेदव्यपदेशेपि जीवस्यासंसारित्वं न सिध्येदित्यापतितं भेदं सूत्रकारो न वदतीत्यानन्दगिरिणोक्तमाह - यावद्भेदव्यपदेशेनेत्यादिना । अविद्यानिवृत्ताविति - जीव वैलक्षण्यप्रतिपत्तिमूलपुरुषार्थत्वप्रतिपत्त्या अपुरुषार्थत्वकल्पकाविद्यानिवृत्तावपुरुषार्थत्वमपि निवर्तते, अतो भेदनिर्देशस्य सार्थकत्वमिति भावः । प्राप्यतया पुरुषोत्तमप्रसङ्ग इति - जीवप्रकरणे पुरुषोत्तमप्रतिपादनं प्रासङ्गिकमिति भावः । प्रथमानिर्दिष्टेति । प्रथमानिर्दिष्टपरामर्शे विभक्तयैकरूप्यसद्भावात्, अत एव “प्रजापतिर्वरुणायाश्वमनयत्स स्वां देवतामार्च्छत्’ इत्यत्र प्रथमान्ततच्छब्दस्य विभक्तयैकरूप्येण प्रजापतिपरामर्शित्वमिति भावः । ब्रह्मात्मकत्वपरं स्यादिति । स इत्यस्य तच्छरीरकपरमात्मपरत्वमस्त्वित्यर्थः । प्रकृताप्रहाणादिति - प्रथमानिर्दिष्टसम्प्रसादप्रहाणादित्यर्थः । वैयधिकरण्येनेति - उत्तमपुरुषपर्यन्तत्वमन्तरेण जीवमात्रपरामर्श इत्यर्थः । समानाधिकरणमस्त्विति चेदिति । स तत्र पर्येतीत्यत्रापि प्रथमान्ततच्छब्दस्योत्तमपुरुषपर्यन्तत्वमेव, एवञ्च न रीतिभेद इति भावः । नोपजनं स्मरन्नित्यस्येति - स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्यपुरुषार्थत्वस्यैवोपजनशब्दार्थत्वादिति भावः । ननु स्मरणे को दोष इत्यत आह - अनुभूतस्य हीति । आकाशशब्दं प्रकाशकालोकादिपरतया व्याख्याय प्रकाशमान- रूपपरतया व्याचष्टे - प्रकाशमानं रूपं वेति । पक्षद्वयेपि प्रकाशयतीतिपदमध्याहरन् योजयति - प्रकाशयतीति । ततश्च यत्रोपकरणत्वेनानुविषण्णं चक्षुराकाशस्यालोकं रूपं वा प्रकाशयति, स चाक्षुषः चक्षुरुपकरणकः पुरुष आत्मा, चक्षुरुपकरणकमुद्दिश्यात्मत्वं विधेयम्, स आत्मा गन्धाय घ्राणमित्याद्युत्तरवाक्यसारूप्यात्, इयं च भङ्गी सम्प्रतिपन्नसर्वप्रकाशकभावालोकप्रकाशकचक्षुरुपकरणत्वमेवात्मातिशयद्योतनार्था । भाष्ये- ज्ञानिनो जानन्तीत्यभिधायेति । अत्र “तं वा एतं देवा आत्मानमुपासत इति देवशब्दार्थमभिप्रेत्य इत्युक्त्तम् ।अनुपास्यजीवविज्ञानेति - परमात्मन एव मोक्षधर्मोपासनकर्मतया जीवोपासनस्य क्वोपयोग इति भावः । एवमुत्तरत्रापि ज्ञानपदमुपासनपरं द्रष्टव्यम् । ननु तर्हीति - विशेषणतया जीवोपासनविधानादेव जीवस्योपास्यत्वे वक्त्तव्ये प्राप्यान्तर्भावरूपयुक्त्तिबलादुपास्यत्वकथनं किमर्थमित्यर्थः । उच्यत इति - सूत्रकृता तथा प्रतिपादितत्वात् सैव रीतिर्भाष्यकृतानुसृतेति भावः । “आत्मेति तूपगच्छन्तिग्राहयन्ति च’ इतिसूत्रस्यायमर्थः, परमात्मनमुपास्यमात्मत्वेनोपगच्छन्ति पूर्वे उपासितारः शास्त्राणि च तथैव ग्राहयन्तीति । व्यतिरेकस्तद्भावभावित्वादिति - तत्र ह्यात्मेति तूपगच्छन्तीत्यधिकरणसिद्धं जीवोपास्यत्वमङ्गीकृत्य किं कर्तृत्वादिविशिष्टं सांसारिकं स्वरूपमुपास्यम्, उत तद्य्वतिरेको वा ? इति विशये कर्तृत्वादिविशिष्टमेव रूपमनुसन्धेयम्, शरीरे वर्तमानस्योपासितुरात्मनस्तथाभावादित्येके मन्यन्ते इति । “एक आत्मनश्शरीरे भावात्’ इति सूत्रेण पूवर्पक्षं कृत्वा सांसारिकरूपव्यतिरेक एवानुसन्धेयः, तथासत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपरूपफलप्राप्तेर्भावित्वादि व्यतिरेकस्तद्भावभावित्वात्’ इतिसूत्रेण सिद्धान्तितमित्यर्थः । अङ्गिनः फलमेवेति - ननु प्रजापतिविद्यास्तदङ्गत्वे दहरब्रह्मविद्याधिकृतायैवोपदेष्टव्या स्यात् उपकोसलविद्याङ्गभूताग्निविद्यावत् प्रकृते च दहरब्रह्मविद्याविधुरायेन्द्रायोपदिश्यमानेयं विद्या न ब्रह्मविद्याङ्गं भवितुमर्हतीति चेन्न, प्रजापतिवाक्यस्य “एष सम्प्रसादः’ इति दहरविद्यावाक्यान्तगर्तसम्प्रसदशब्दार्थशोधनार्थं प्रवृत्ततया तदेकवाक्यत्वेन तादर्थ्ये सिद्धे इन्द्रस्यापि दहरविद्या पश्चादुपदिष्टेत्येवावगम्यत इति न कश्चिद्दोषः ।दहर उत्तरेभ्य इति सूत्रार्थमभिप्रयन्नाह - आकाशोपमानत्वेत्यादिनागुणाष्टकेत्यन्तेन । गतिशब्दाभ्यामितिसूत्रार्थमभिप्रयन्नाह - गतिशब्देति । धृतेश्चेतिसूत्रार्थमभिप्रयन्नाह - विधरणत्वेति । अन्यार्थश्च परामर्श इतिसूत्रार्थमभिप्रयन्नाह - फलविशेषेति । आकाशोपमानादिः फलविशेषान्तो द्वन्द्वः, एतावदर्थपरं यन्महावाक्यं तत्स्वारस्यदर्शनादित्यर्थः । ननु माभूदर्भकौकस्त्वादित्यतो गतार्थत्वम्, अथाप्युपक्रममात्रस्य महावाक्यस्वारस्यबाध्यत्वं प्राणस्तथानुगमादित्यत्रैव सिद्धमिति तेन गतार्थता स्यादेवेत्याशङ्कयाह - उपसंहारे जीवपरामर्शादिति । ननु यद्युपसंहारे जीवपरामर्शे सत्यपि प्रक्रमस्थस्य महावाक्यस्वारस्येन बाधः, तर्हि प्राणस्तथानुगमादित्यधिकरणपूर्वपक्षो दण्डापूपन्यायहतः स्यादिति चेन्न; प्रक्रमश्रुतजीवमुख्यप्राणलिङ्गानां दहरत्वादिवदनन्यथासिद्धतया अनेनापि तस्य गतार्थत्वाभावादिति भावः । अर्भकौकस्त्वादित्यपेक्षया प्रकारान्तरेणाधिकाशङ्कापरिहारौ सिंहावलोकितकेन दर्शयति - यद्वा इह वाक्यशेषेति । अधिक्यमेव दर्शयति - नहि शाण्डिल्यविद्यायामिति ।अतथाभूतस्येति - नटस्य राकाद्यनुकारित्ववन्न भवतीत्यर्थः । ननु दहराकाशो जीव इति वदन्तं प्रति दहराकाशो न जीवः, जीवस्य दहराकाशानुकर्तृत्वादित्युक्त्तिर्न सम्भवति, जीवस्य दहराकर्तृत्वे प्रमाणाभावात् । नच यदा पश्य इति वाक्यात्तदनुकारसिद्धिः, तावता जीवस्य परमात्मानुकर्तृत्वेपि दहराकर्तृत्वसिद्धेः । नहि दहरस्य परमात्मत्वमद्यापि सम्प्रतिपन्नम्; तथात्वे विवादपर्यवसानादिति चेद्भ्रान्तोसि, नह्यन्यस्मिन् सूत्रे जीवस्य दहरानुकर्तृत्वं हेतूक्रियते, येन तदसिद्धिमाशङ्कयेत; अपितु “यदा पश्यः पश्यते रुक्मवर्णम्’ इति श्रुतौ जीवस्य परमात्मोपासनायत्ततदनुकारश्रवणान्न नित्याविर्भूतगुणकत्वम्, परस्य तु नित्याविर्भूतगुणकत्वमिति, स एव दहरवाक्ये परामर्शार्ह इति । “उत्तराच्चेदाविर्भूतस्वरूपस्तु’ इतिसूत्रार्थ एव स्थिरीक्रियते, अत एव श्रुतप्रकाशिकायाम् “एवमुपक्रमोपसंहारनिर्वाहः प्रमाणान्तरेण परमात्मत्मनोरपहतपाप्मत्वादीनां स्वाभाविकत्वास्वाभाविकत्वे सिद्धे ह्युपपद्यते । अन्यथा “अनुक्त्तमन्यतो’ ग्राह्यम् इति न्यायाद्दहरवाक्येपि मुक्त्तावस्थस्य गुणाष्टकान्वयो विवक्षितस्यादितिशङ्कायामाहेति’ इदं सूत्रमवतारितम् ॥परैः कृतमधिकरणभेदमिति - “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति मुण्डकवाक्यप्रतिपाद्यो न परमात्मा, सूर्याद्यभिभावकत्वदर्शनात्, सूर्यादितेजसां तदनुभानश्रवणाच्च तेजोविशेष एव, तेज एव हि तेजोन्तरमभिभवतीति दृष्टम् । तथानुभानं च सजातीयस्यैवोपपद्यते; अत एव हि “वराहं गावोऽनुधावन्ति’ इत्यत्र गवां स्वसदृशसूकरानुधावनं युज्यते, न तु वायसानुधावनमित्युक्त्तमिति पूर्वपक्षं कृत्वा तमेव भान्तमित्यत्र किमलौकिकं तेजः कल्पयित्वा तदनुभानं सूर्यादीनां परिकल्प्यम्, उत भारूपसत्यसङ्कल्प इति प्रसिद्धब्रह्मणो भानेन सूर्यादीनामनुभानं कल्प्यम् ? इति विशये श्रुतिप्रसिद्धग्रहणसम्भवे अप्रसिद्धतेजोन्तरकल्पनाया अयुक्त्तत्वात् ब्रह्मैव प्रतिपाद्यते, अनुकृतिरनुभानम् श्रुतिप्रतीकोपादनरूपस्सौत्रषष्ठयन्ततच्छब्दश्च “तस्य भासा सर्वमिदं विभाति’ इति श्लोकचतुर्थपादं सूचयति । ततश्च सौत्रतच्छब्दसूचितश्लोकचतुर्थपादप्रतिपाद्य सर्वप्रपञ्चभासकत्वं चैतन्यप्रभया स्वाध्यस्तसमस्तप्रपञ्चभासके परमात्मन्येवोपपद्यत इति स एव प्रतिपाद्यः । “न तत्र सूर्यो भाती’त्यस्य च “न तद्भासयते सूयर्श्शशाङ्को नापि पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ । इति स्मृत्यनुसारात् न तद्भासयतीत्यर्थ इति परैव्यर्ाख्यातमिति भावः । अनुशब्दस्य करणमिति - तमेव भान्तमनुभातीति श्रुतावनुशब्दस्योच्चारणादित्यर्थः । अन्यत्सर्वं परमतवदेव बोध्यम् “स्वं रूपं शब्दस्याशब्दसंज्ञा’ इति सूत्रस्यायमर्थः- इह शास्त्रे शब्दस्य स्वमेव रूपं ग्राह्यम्, शब्दसंज्ञां विना । ततश्च “अग्नेर्ढगि’ति विधीयमानो ढक्प्रत्ययोऽग्निशब्दादेव भवति, न पावकशब्दात् शब्दसंज्ञायान्तु संज्ञिनोऽथर्स्य ग्रहणम् न स्वरूपस्य यथासिद्धिवृद्धिरित्यादौ न वृद्धिशब्दस्य ग्रहणम् किन्तु संज्ञिन एवेति । दूषणद्वयं सर्वसाधारणमिति - अधिकरणभेदवादिकुदृष्टित्रयसाधारणमित्यर्थः । यद्यपि मृषावादिमते चशब्दस्य षष्ठयन्ततच्छब्दसूचितहेत्वन्तरसमुच्चयपरत्वं शक्यते वक्त्तुम्, तथापि तन्मते सौत्रतच्छब्दस्यान्वयो दुर्घटः । तथा न तत्र सूर्यो भातीत्यत्र नतद्भासयत इत्यर्थपरत्वं च क्लिष्टम् । किञ्च तन्मते देवदत्तं गच्छन्तं यज्ञदत्तोऽनुगच्छतीत्यत्र तु गमनद्वयवदिह चैतन्यभानव्यतिरेकेण प्रपञ्चस्य भानाभावेनानुभातीति श्रुत्यर्थोप्ययुक्त्तः । तथा तस्य भासेति षष्ठयर्थव्यतिरेकोपि दुर्घटः, तद्य्वतिरेकेण भासोऽभावात् । किञ्च तद्भानसाध्यभानान्तराभावेन तस्य भासा भातीति निर्देशश्चानुपपन्न इत्यादिदूषणं स्पष्टम् । सिद्धान्तितमिति - यादवप्रकाशीयैरिति शेषः शङ्कते । परमाकाश एवेति । दूषयति - एवञ्च सतीति । किन्तु बुद्धिस्थविषयमिति - तेन रक्त्तं रागात् तस्यापत्यं तद्वति तत्प्रकारत्वमित्यादिवदिति भावः । ॥ इति दहराधिकरणम् ॥