प्रश्नोपनिषदि - “अथ हैनं शैव्यस्सत्यकामः पप्रच्छ । स यो हवै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतेति ॥ 1 ॥ तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेतीति ॥ 2 ॥ स यद्येकमात्रमभिध्यायीत स तेनैव सवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ 3 ॥ अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं युजुर्भिरुन्नीयते स सामेलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥ 4 ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स प्राप्मना विनिर्मुक्त्तस्ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ 5 ॥ तिस्रो यात्रा मृत्युमर्त्त्यप्रयुक्त्ताः अन्योन्यसक्त्ता अनभिप्रयुक्त्ताः । क्रियासु बाह्यान्तरमध्यमासु सम्यक्प्रयुक्त्तासु न कम्पते ज्ञः ॥ 6 ॥ ऋृग्भिरेतं यजुर्भिरन्तरिक्षं ससामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ 7 ॥ असंवेदितः- अनुगृहीतः, मनसि सम्पद्यतेमनसा ध्यायतीत्यर्थः । मृत्युमर्त्त्यप्रयुक्त्ताः- मृत्युभीतमर्त्त्यप्रयुक्त्ताः । अन्योन्यसक्त्ताश्चेदनभिप्रयुक्त्तास्युः । सम्यक्प्रयुक्त्तासु मात्रासु सतीषु न कम्पते ज्ञ इत्यर्थः । अदृष्टो द्रष्टेति परमात्मनो दृष्टत्वमुक्त्तमितिपाठो लेखकस्खलनदोषायत्तः । अक्षरब्रह्मणो अदृष्टं द्रष्ट्रिति नपुंसकपाठस्यैव सत्त्वादिति द्रष्टव्यम् । विषयवाक्यस्थब्रह्मलोकशब्दस्यैवान्यथा निर्वाहो दुर्वच इति वक्त्तुं शक्ये अन्तरिक्षशब्दस्य दुर्निर्वहत्वोक्तिरयुक्त्तेत्यस्वरसादाह - यद्वा आकाशशब्दस्येति । ससामभिरुन्नीयते - इदमेकं पदम् तच्छब्दान्तरश्रवणादित्यभिप्रेत्य व्याचष्टे - सामगानसहितैरित्यर्थ इति । आतिवाहिकानां मुक्त्तानाम् एतत्समाकायन्’ इत्यस्यासम्भवादाह - सान्त्ववादयुक्त्तैरिति । नच तमृचो मनुष्यलोकमुपनयन्ते यजुर्भिरुन्नीयते सोमलोकमिति ऋग्यजुःप्रायपाठात् सामपदस्य वेदपरत्वमेवाश्रयितुं युक्त्तमिति वाच्यम्; ऋगादिस्थलेपि वेदस्य नेतृत्वासम्भवात्, तत्रापि लक्षणादिक्लेशस्याश्रयणीयत्वेन प्रायपाठो नास्तीति भावः । परमात्मत्वं व्यवस्थाप्येति - यद्यपि नच तत्त्वविषयमेव सर्वं दर्शनम्; अतत्त्वविषयस्यापि दर्शनादिति वाचस्पत्ये ईक्षणमपि परमात्मविषयमिति पूर्वपक्षस्य दशर्नादीक्षतिकर्मणः परमात्मत्वनियमः पूर्वपक्षिणा नाभ्युपगतः । तथापीक्षतिकर्मणः परमात्मत्वमङ्गीकृत्य ध्यायतेस्ततो भिन्नविषयत्वमिति पूर्वपक्षस्यापि प्रवर्तनात् तदभिप्रेत्यैतदुक्त्तमिति द्रष्टव्यम् । तत्प्राप्नोतीति - पञ्चम्यन्तपदं प्राप्नोतीत्यर्थः । देवतिर्यग्भावापेक्षयेति - द्रष्टव्यमितिशेषः । ननूपक्रम एव परं चापरं च ब्रह्मेति द्वेधा विभज्य परं पुरुषमभिध्यायीत, परात्परं पुरिशयं पुरुषमीक्षते’ इति परत्वेन विशेषणाच्च परमेव ब्रह्मेत्यस्य सिद्धत्वात्परत्वविशेषितपुरुषशब्दस्यासाधारणत्वाच्छान्तत्वाजरत्वादीनां श्रवणाच्च, अनेकब्रह्मलिङ्गविरोधे मनुष्यादिलोकप्रायपाठमात्रेण लिङ्गबाधायोगात्कथं पूर्वपक्षं इति चेदुच्यते; प्रायपाठावगतचतुर्मुखलोकगतपुरुषनिरीक्षमाणत्वस्य लिङ्गस्यानन्यथासिद्धत्वादिति पूर्वपक्ष्यभिमानात् । नपुंसकान्तशब्दनिर्दिष्टमिति - एतच्छब्देन नपुंसक पदनिर्दिष्टत्वं परामृश्यत इति भावः । भाष्ये- कर्मनिमित्तं देहित्वमिति । “मूर्तौ घनः’ इति मूर्तौ घनशब्दो निपातितः । मूर्तिः काठिन्यमिति व्याख्यातम् । जीवस्य काठिन्यं देहद्वारकं देहित्वादेव कर्मकृतत्वमपि सिध्यतीति भावः । सशरीरत्वादेव हीति - आत्मनश्चतुर्णां मुखानां सम्भवादित्यर्थः । भाष्येन क्षयिष्णुश्चतुर्मुखलोक इति । ननु ब्रह्मलोकशब्देन परब्रह्मलोकपरामर्शे चतुर्मुखस्य प्रागनिर्दिष्टत्वादेतस्माज्जीवघनादित्येतच्छब्दस्य प्रकृतपरामर्शित्वं न स्यात् । अतश्शाङ्करादिरीत्या ब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वमेवाभ्युपगम्य एतस्मादित्येतच्छब्देन च ब्रह्मलोकशब्दान्तर्गतब्रह्मशब्दनिर्दिष्टचतुर्मुखपरामर्शो वक्त्तव्य इत्येवाभ्युपेत्यमिति चेन्न; ब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वेपि चतुर्मुखस्य समासे न्यग्भूतस्य परामर्शासम्भवात् नच प्राधान्येन निर्दिष्टस्य चतुर्मुखलोकस्यैव परामर्शस्यादिति वाच्यम्; तत्र जीवघनशब्दस्याप्रवृत्तेः । कथञ्चिद्वृत्तावाश्रितायामपि चेतनस्याचेतनात् चतुर्मुखलोकादुत्कर्षप्रतिपादनस्यायुक्त्तत्वाच्च तस्मादेतच्छब्दस्य अथैव ज्योतिरित्यादिवत्प्रस्तोष्यमाणः जीवघनपरामर्शित्वं युक्त्तमिति द्रष्टव्यम् । आदिशब्देनेत्यादि - यद्यप्यादि शब्दार्थतया प्रदर्शितेषु वाक्येषु सूरिदृश्यत्वं न प्रतीयते, अपितु सूर्याधारत्वमेव । “तद्विप्रासो विपन्यवः’ इत्यत्रापि, विपन्यवः स्तुतिशीलाः, जागृवांसः- अस्खलितज्ञानाः । “तद्विष्णोः परमं पदं सदा स्तुबन्तस्समिन्धत’ इति वेदाथर्सङ्ग्रहे व्याख्यातत्वात्, तथापि सूरिस्थानभूतस्य सूरिदृश्यत्वमप्यर्थसिद्धमित्यभिप्रेत्योक्तमिति द्रष्टव्यम् । यदपरं कार्यंब्रह्मेति भाष्ये कार्यब्रह्मशब्देन चतुर्मुखलोकस्यापरब्रह्मपदवाच्यत्वमेव युक्त्तम्, नतु परब्रह्मलोकत्वमितिदर्शितमिति योजना । उपलक्षणतयेति - अन्तरिक्षशब्दमुख्यार्थस्वीकारे पक्षद्वयेपि व्यवधानविशिष्टम् यदि च व्यवधानपरिहारायान्तरिक्षशब्दस्य चतुर्मुखलोकाधस्तनलोकमात्रोपलक्षकत्वमाश्रित्य व्यवधानपरिहारः तर्हि अन्तरिक्षशब्दस्यामुष्मिकमात्रोपलक्षकत्वमाश्रित्य व्यवधानपरिहारस्समान इति भावः । सङ्ग्राहकलाभ इति - भूलोकब्रह्मलोकमध्यवर्तित्वरूपं सङ्ग्राहकं सुवचम् तथापि तस्य सङ्ग्राहकस्य गुरुत्वेन न सुलभप्रतिपत्तिकत्वमिति भावः । फलवचनविरोधः- फलवाक्यपुरुषशब्दविरोध इत्यर्थः ॥ ईक्षतिकर्माधिकरणं समाप्तम् ॥