20 अक्षराधिकरणम्

गार्गिब्राह्मणम्- “अथ हैनं गार्गी वाचकवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतञ्च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतीन्द्रलोकेषु गार्गीति कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्द्धा व्यपप्तत् अनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि मातिप्राक्षीरिति ततोह गार्गी वाचकव्युपरराम । वाचक्त्तवीवाचक्तया दुहितेत्यथर्ः । अनतिप्रश्न्याम् विजिगीषु कथायां प्रश्नायोग्यामित्यर्थः । तदनन्तरमुद्दालकप्रश्नः । “अथ ह वाचक्त्तव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमौ द्वौ प्रश्नौ पक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेनेति पृच्छ गार्गीति । सा होवाच अहं वै याज्ञ्यवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वा उपतिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति पृच्छ गार्गीति । सा होवाच यदूर्ध्वं याज्ञ्यवल्क्य दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते । आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । स होवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्नस्वमदीर्घमलोहितमस्नेहमच्छायमतमो अवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनो अतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति किञ्चन । एतस्य वा अक्षरस्य प्रशासने गागिर् सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्रा अर्घमासा मासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यस्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दवरी पितरोऽन्वायत्ताः । यो वा एतदक्षरं गार्ग्य विदित्वा अस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणोथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः । तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्त्तव्युपरराम । न वै जात्वित्यादि । युष्माकं मध्ये कश्चिदपीमं याज्ञवल्क्यं ब्रह्मोद्यं ब्रह्मवादं प्रति जेता नेत्यर्थः । काश्यो वैदेहः - काशीराजो विदेहराजः । उज्ज्यम्- अवरोपितज्यमित्यर्थः । अपरस्मै धारयस्वेति- द्वितीयप्रश्नाय सन्नद्धो भवेत्यर्थः । श्वेतेभ्यः पर्वतेभ्यः हिमवदादिभ्यः । बहुमन्येध्वं किं तत् ? यदस्माद्यावल्क्यान्नमस्कारं कृत्वा निर्गमनम्, जयस्त्वस्य मनसापि नाशङ्कनीय इति भावः । तत्तु परमात्मव्यतिरिक्त्तस्येति - इह हि द्वेधा पूर्वपक्षिणो गतिः । “यदूध्वर्ं गार्गि दिबो यदर्वाक्’ इतिवाक्ये आकाशशब्देन भूताकाश एवोच्यते, तदाधारतया अक्षरमव्याकृतमाकाशमुच्यत इति, अथवा आकाशशब्देनाव्याकृताकाश एवोच्यते तदाधारतया निर्दिश्य मानमपि तदेव, स्वे महिम्नि प्रतिष्ठित इतिवदिति भावः । नान्तरिक्ष इति - “न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि तस्माद्धिरण्यं निधाय चेतव्यम्’ इति विधिशेषः । परस्मिन्नक्षरशब्दो दृश्यत इतिवाक्यस्वारस्यपर्यालोचनायां प्रधानपूवर्पक्षोपमर्दमात्रकृतसंरम्भस्य वाक्यमिवाभातीत्यस्वरसादाह - अथवा पार्श्वस्थचोद्यमिति । अन्तशब्दोऽवधिवचन इत्यादि - इदमुपलक्षणम् अन्तो हि लयः, स च कारणावस्थाप्राप्तिवचनेनान्तशब्देन कारणं लक्ष्यत इत्यपि द्रष्टव्यम् । कृत्स्नविकारजातस्याधारो भवितुमर्हतीति । ननु वायुमदाकाशस्यावकाशप्रदानद्वारा सङ्कुचितसकलविकाराश्रयत्वमाकाशस्य सम्भवति । असङ्कुचितसकलविकाराश्रयत्वं तु प्रधानस्यापि न सम्भवति, तस्य जीवगतविकारानाश्रयत्वात्; अतो व्यर्थ आकाशब्दस्य रूढित्याग इति चेन्न; “यदन्तरा द्यावापृथिव्योरिमे’ इति द्यावापृथिव्योरन्तरालवर्तिनः कायर्जातस्य निर्देशात्, तत्र च वायुमदाकाशस्य सङ्गूहावश्यम्भावात्, तदाधारत्वं भूताकाशस्य न सम्भवतीति भावः । ननु “यदूर्ध्वं याज्ञ्यवल्क्य दिवो यदर्वाक् पृथिव्याः’ इति प्रश्नस्य तत्प्रतवचनस्य कथं प्रधानविषयत्वम् ? पूर्वसन्दभर्विरोधात् एवं ह्युपाख्यायते बृहदारण्यके- जनकयज्ञे कुरुपाञ्चालणीयत्वात् अक्षरशब्दस्याधुना यौगिकत्वप्रतिपादनं मिथ्ये यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं च’ इत्युक्त्ते त्रैकाल्यवर्त्तिनो विकारजातस्याधारतया निर्दिष्ट आकाशो न वायुमदाकाशो भवितुमर्हति, तस्यापि विकारान्तर्गतत्वात्, अतोऽत्राकाशशब्दनिर्द्दिष्टं भतसूक्ष्मतिमि प्रतीयते । ततस्तस्यापि भूतसूक्ष्मस्याधारभूतं किमिति पृच्छ्यते “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ इति । अतस्तदाधारतया निर्दिश्यमानमक्षरं न प्रधानं भवितुमर्हति । यत्तु श्रुतिप्रसिद्धात् प्रमाणान्तरप्रसिद्धं प्रथमं प्रतीयत इति तन्न, अक्षरशब्दस्यावयवशक्तया स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात् सम्बन्धग्रहणदशायामर्थस्वरूपं येन प्रमाणेनावगम्यते, न तत्प्रतिपादनदशायामपेक्षणीयम् । त्याशङ्क्य वस्तुस्थितिमनुसरता भगवता भाष्यकृता अक्षरशब्दस्योभयत्र यौगिकत्वमुपन्यस्तम्, न तु प्रकृतोपयोगित्वेनेत्याह - रूढिशक्त्या वा अवयवशक्त्या वेत्यादिना । विशेषपर्यवसाने सति हीति - यदि व्युत्पत्तिग्राहकप्रमाणमनपेक्ष्यैव शब्दस्य विशेषपर्यवसानं स्यात् तदैव न तत्प्रतिपादनदशायामपेक्षितमिति भाष्योक्तं वाक्यार्थप्रतिपादनस्य निराकाङ्क्षत्वं युज्यते, अतस्तस्य भाष्यस्य विशेषपर्यवसानेपि निराकाङ्क्षत्वमभिप्रेतमिति भावः । ननु किमत्र ब्रह्मणि विशेषपर्यवसाने प्राकरणिकं लिङ्गमित्यत आह - अत्र परमात्मलिङ्गं दर्शितमिति । धर्माधर्मेति - धर्मशब्देन लौकिकशौक्लयलौहित्यादिलक्षणघटादिधर्मापेक्षया अलौकिकस्यादृष्टरूपस्यधर्मस्य प्रतिपन्नैश्शैघ्य्रदर्शनात्, एवमधर्मशब्देनापि घटत्वादिधर्मभिन्नघटादिस्वरूपलौकिकार्थापेक्षया अलौकिकस्यादृष्टरूपस्याधर्मस्य प्रतिपन्नैश्शैघ्य्रदर्शनात् । ईश्वरशब्देनापि लौकिकपार्थिवापेक्षया अलौकिकेऽर्थे प्रतीतिशैघ्य्रदर्शनादित्यर्थः । स्वाभ्यस्तायामेव गवीति - चिरमरिचितगोव्यक्त्तेरेव प्रथमप्रतीतिरिति भावः । प्रामाण्यं सम्भवतीति वक्ष्यत इति - रचनानुपपत्तेतरित्यधिकरण इति शेषः । अक्षरशब्दो जीवपर इति । अत्र न्यायसिद्धाञ्जने वेदान्ताचार्यैः सा च समत्रैगुण्या मूलप्रकृतिः तस्यामपि मात्रया भेदमालम्ब्य अव्यक्त्तसहपठितस्याक्षरशब्दस्य चेतनविषयतया बहुश उपादानम् तत्परव्याख्यानप्रकारमनुरुध्द्य वा स्वरूपतो निर्विकारोऽपि जीवे सृज्यत्ववचनात् । चिद्रूपविकारवत्त्वेपि यथाक्षरशब्दप्रवृत्तिः तथा परब्रह्मेतरविषयस्याक्षरशब्दस्याचिदवस्थाविशेषेपि शक्त्तिकल्पनोपपद्यत इति प्रतिपादयितुं ब्रा क्वचित्क्वचित् क्षरे प्रकृतिविशेषे अक्षरशब्दस्य मुख्यत्वायोगात् परब्रह्मरूपाक्षरसम्बन्धेन लक्षणायां प्रयोजनाभावात्, जीवसम्बन्धेन त्वजहल्लक्षणया लयविशेषादिप्रतिपादनौचित्यात् “उभावेतौ लीयेते परमात्मनी’ति द्वयोरपि लयाद्यभिधानाच्च । अत्राजहल्लक्षणैव युक्त्तेत्यभिप्रायाद्वेति न कश्चिद्विरोध इत्युक्त्तम् तदत्रानुसन्धेयम् । ननु नात्र “अम्बरान्तधृतेः परमात्मप्रशासनाधीनत्व’ मिति परमात्मशब्दोऽक्षरपरः । “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिश्रवणेपि अम्बरान्तशब्दस्यात्राश्रवणादिति भावः ।?विषयप्रकर्षात् विषयासङ्कोचादित्यर्थः । श्रुत्यन्तरेष्विति - ननु श्रुत्यन्तरे शासनाधीनसर्वाधारकत्वस्य परमात्मधर्मत्वेन श्रुतत्वेपि अक्षरब्राह्मणे तादृशपरमात्मासाधारणधर्मश्रवणं नेति चेदुच्यते, “एतस्य वा अक्षरस्य प्रशासने गार्गि’ इत्यत्र वैशब्दस्य प्रमाणान्तरप्रसिद्धिद्योतकतया प्रापकमानान्तरप्रदर्शनस्यापेक्षितत्वात् अनुवादवाक्यस्य प्रापकवाक्यानुसारेणार्थस्य वर्णनीयत्वात्पुरोवादवाक्ये असङ्कोचेन सर्वप्रशासनश्रवणादनुवादकमपि वाक्यं तदर्थकमित्यभिप्रायेण तदुदाहृतमिति द्रष्टव्यम् । ननु द्यावापृथिव्यादीनां तन्नियोज्यत्वाभावप्रसङ्गे इष्टापत्तावापादितायां प्रमाणान्तरस्यैव शरणीकरणीयतया तदेवोपन्यस्यतां किं तदपेक्षेणानेनेत्यस्वरसादाह - किञ्च यस्येत्यादिना । अव्याकृतस्य धारणं श्रूयत इति - ततश्चाव्याकृतस्य धारणं प्रतिपाद्य कथं तस्याव्याकृतस्य धारणमित्याकाङ्क्षायां शासनाधीनं धारणमिति प्रतिपादनाय “एतस्य वा अक्षरस्य प्रशासने’त्यादि सन्दर्भः प्रवृत्तः, तस्य ह्ययमभिप्रायः, सूर्याचन्द्रमःप्रभृति सर्वपदार्थजातं शासनेन धारयतोऽक्षरस्य परब्रह्मणः प्रशासनेन धारणे को भार इति । “ततश्च एतस्य वा अक्षरस्य प्रशासने’ इति सन्दर्भस्याम्बरान्तधृतिप्रकारोपपादनार्थत्वात् अम्बरान्तधारणमपि शासनाधीनां सिध्यतीति भावः । ननु द्रष्टृत्वं चक्षुर्जन्यज्ञानवत्त्वम्, श्रोतृत्वं श्रोत्रजन्यज्ञानवत्त्वम् नचैतत् परमात्मनि करणशून्ये सम्भवतीत्यत आह - द्रष्ट्रादिशब्दा इति । रूपसाक्षात्कर्ता द्रष्टा, शब्दसाक्षात्कर्ता श्रोता, मन्तव्यसाक्षात्कर्ता मन्ता, अध्यवसेयसाक्षात्कर्ता विज्ञातेत्यर्थः । द्रष्ट्रादिपदैः रूपादिसाक्षात्कर्तृत्वार्थकथनस्य प्रकृतशासनोपयोगं दर्शयति - शासनस्येति । तेषामयोग्यत्वादिति - चक्षुश्श्रोत्रमनआदिजन्यज्ञानरूपाणां दशर्नश्रवणमननादीनामयोग्यत्वादित्यर्थः । ननु परमात्मनोऽपि योगिभिर्नित्यमुक्त्तैस्स्वेनापि दृष्टत्वादाह - सर्वैः योगिभिरिति । सर्वशब्दस्यैकैकवर्गकार्त्स्न्यपरत्वे हेतुमाह - अस्यासङ्कुचितवृत्तितयेति । अदृष्टत्वादिविशेषितं द्रष्टृत्वादिकं प्रत्यगात्मव्यावर्तकमित्यर्थ इति । अयोगिभिरदृष्टत्वादिविशेषितमित्यर्थः । प्रत्यगात्मन इति । ननु परमात्मापि स्वाहंप्रत्ययवेद्य एव दृष्ट इति न विशेष इति चेन्न अयोगिभिरदृष्ट इत्यत्र तात्पर्यात् । स्वस्वरूपवदिति - प्रत्यगात्मस्वरूपवदित्यर्थः । नन्वदृष्ट इत्यादौ अदृष्टत्वद्रष्टृत्वादीनामेव प्रत्येकं धर्मतया श्रवणात् कथमदृष्टत्वविशेषितद्रष्टृत्वेन प्रत्यगात्मव्यावृत्तिलाभ इत्याशङ्कयादृष्टं सत् द्रष्टृ इति श्रुत्यर्थलाभाद्विवक्षितसिद्धिरित्यभिप्रयन्नाह - निष्ठान्तैः पदैरिति । ननु विशेषितस्यैव धर्मत्वे द्रष्टृत्वं प्रधानव्यावर्तकमदृष्टत्वविशेषितं प्रत्यगात्मव्यावर्तकमिति विभज्योक्तिरयुक्त्ता, विशेषितस्यैव धर्मत्वात् किञ्चायोगिभिरिति सङ्कोचोऽपि व्यर्थः । इतरादृश्यत्वविशेषितद्रष्टृत्वस्यैव तथात्वादित्यस्वरसादाह - यद्वा रूपशब्दाद्यर्थवेदिभिरिति । अस्यां योजनायामिति - द्वितीययोजनायां तु “नान्यदतः’ इत्यादिवाक्यस्यैव विषयत्वमिति भावः । कण्ठोक्ता स्यादिति - द्वितीययोजनायामर्थसिद्धत्वमुत्तरत्र स्पष्टम् चशब्द उक्त्तहेतुसमुच्चय इति योजनान्तर त्वनुक्त्तहेतुसमुच्चयपरत्वमुत्तरत्र स्पष्टम् । प्रस्तुततुल्यपुरुषान्तरेति - “इषुर्विष्टुतिस्सप्ताहं भवति समानमितरच्छयेनेन’ इत्यत्रेतरशब्दस्य पूर्वानिर्दिष्टसदृशश्येनवैशेषिकाङ्गपरत्वमिति सप्तमे स्थापितत्वादिति भावः । एतस्याधारभूतमितिभाष्ये एतच्छब्दस्याक्षरपरामर्शित्वमपि सम्भवेत् जगत्परामर्शित्वमपि सम्भवेत्, उभयोरपि प्राक् प्रस्तुतत्वात् “तथा चाक्षरपरामर्शित्वे अक्षरस्य धारकं किमपि नास्तीत्युक्तवा अधिकनिषेधः कृतः स्यात् पक्षान्तरे तु समनिषेध इत्यभिप्रेत्य व्याचष्टे - एतस्याक्षरस्येत्यादिना । “यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्स्र मृत्युमाप्नोति य इह नानेव पश्यति । एकधैवानु द्रष्टव्यम्, “नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’ इति कठवल्लीबृहदारण्यकादाविव भेदनिषेधसम्भवे ब्रह्मणस्समाभ्यधिकनिषेधपरत्वाश्रयणे को हेतुरिति शङ्कते - ननु नान्यदित्यादिना । यदि क्वचिदिति - “यत्र हि द्वैतमिव भवति’ इत्यादाविति भावः । यत्र यदि सम्भवतीत्यनेन तत्रापि सुदूरं गत्वा ऐक्यविधिशेषत्वमेवेति भावः । अत इदं वाक्यं प्रकृततुल्यद्रष्ट्रन्तरनिषेधपरमिति - नास्मिन्नपि पक्षे पूर्वोक्तदोषतादवस्थ्य द्रष्टुरेव श्रोतृताया नान्यदतोऽस्ति द्रष्ट्रित्यनेनैव सिद्धतया प्रत्येकनिषेधवैयर्थ्यादिति वाच्यम्; द्रष्टृत्वश्रोतृत्वादीनामनतिरिक्त्तवृत्तित्वेऽपि तुल्यो द्रष्टा नास्तीत्युक्त्ते द्रष्टृत्वांशे साम्यं नास्तीति प्रतीतावपि श्रोतृत्वांशे अस्तीति शङ्कायाः सम्भवात् साफल्यमिति भावः । प्रशासने ददतः, प्रशासन इति निमित्तसप्तमी तदाज्ञया ददतो जनान् मनुष्याः प्रशंसन्ति, तदाज्ञया यागं कुर्वन्तं देवाः प्रशं सन्ति, तदाज्ञया प्रवृत्तं दर्वीहोमं पितरः प्रशंसन्तीत्यथर्ः । अनुवशा इत्यर्थ इति । अनुवशाः- उपजीविन इत्यर्थः । देवपित्रादय ईश्वरास्सन्तोऽन्यथापि जीवितुमुत्सहन्तः कृपणां वृत्तिं यत्प्रशासनादास्थिता इत्यर्थः । तस्मिन् परिजिहीर्षत इति - यदि ब्रह्मणो मिथ्यात्वं परिजिहीर्षितम् तदा ब्रह्मणो द्रष्टृभेदस्यैवाभ्युपगन्तव्यतया अदृष्टं द्रष्ट्रितिवाक्यप्रतिपाद्यत्वं ब्रह्मणो न स्यादित्यर्थः । प्रधानस्येश्वरत्वेति - प्रशासितृत्वस्येश्वरत्वपर्यवसन्नत्वात् द्रष्टृत्वस्य क्षेत्रज्ञत्वे पयर्वसन्नत्वादिति भावः ॥ इत्यक्षराधिकरणम् ॥