19 भूमाधिकरणम्

छान्दोग्ये सप्तमप्रपाठके- “अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तं होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊद्र्ध्वं वक्ष्यामीति’ इति एतावज्जान इत्युक्तवा मदुपासनं कुर्वित्यर्थः । “स होवाच ऋग्वेदं भगवोऽध्येमि यजुवर्ेदं सोहं भगवो मन्त्रविदेवास्मि नात्मवित् । श्रुतं ह्येवमेव भगवद्दृशेभ्यस्तरति शोकमातविदिति । सोहं भगवश्शोचामि । तन्मा भगवान् शोकस्य पारं तारयत्विति । तं होवाच नामोपास्वेति स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य कामचारो भवति । यो नाम ब्रह्मेत्युपास्ते अस्ति भगवो नाम्नो भूय इति नाम्नो वा व भूयोस्तीति तन्मे भगवान् ब्रवीत्विति, वाग्वा व नाम्नो भूयसी वाचमुपास्वेति । अस्ति भगवो वाचो भूय इति । वाचो वा व भूयोस्तीति तन्मे भगवान् ब्रवीत्विति । मनो वाव वाचो भूयः । अस्ति भगवो मनसो भूय इति मनसो वा व भूयोस्तीति तन्मे भगवान् ब्रवीत्विति सङ्कल्पो वा व मनसो भूयान् अस्ति भगवस्सङ्कल्पाद्भूय इति सङ्कल्पाद्वा व भूयोस्तीति तन्मे भगवान् ब्रवीत्विति चित्तं वा व सङ्कल्पाद्भूयः अस्ति भगवश्चित्ताद्भूय इति चित्तांद्वाव भूयोस्तीति तन्मे भगवान् ब्रवीत्विति ध्यानं वाव चित्ताद्भूयः । विज्ञानं वाव ध्यानाद्भूयः अन्नं वाव बलाद्भूयः आपो वा वान्नाद्भूयस्तेजो वावाद्य्भो भूयः आकाशो वाव तेजसो भूयान् स्मरो वावाकाशाद्भूयान्, आशा वा व स्मराद्भूयसी’ इत्यादिप्रश्नप्रतिवचनानन्तरं प्राणो वाशाया भूयान्, यथा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम् प्राणः प्राणेन याति प्राणः प्राणं ददाति, प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः, प्राणो ब्राह्मणः, स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिह प्रत्याह, धिक् त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमसि आचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति । अथ यद्यप्येनानुत्प्रान्तप्राणान् शूलेन समासंव्यतिषं दहेत्, नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति । प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन् एवंविदेवंमन्वान एवं विजानततिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीति अतिवाद्यस्मीति ब्रूयान्नापहनुवीत । एष तु वा अतिवदति यस्सत्येनातिवदति सोऽहं भगवस्सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति । यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति यदा वै मनुते अथविजानात्यथ मनुते मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति । यदा वह श्रद्दधाति अथ मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति । यदा निस्तिष्ठत्यथ श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति । यदा वै करोत्यथ निस्तिष्ठति । यदा वै सुखं लभते अथ करोति सुखं भगवो विजिज्ञास इति यो वै भूमा तत्सुखं भूमानं भगवो विजिज्ञास इति यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ यत्रान्यत्पश्यत्यच्छृणोति अन्यद्विजानाति तदल्पम् यो वै भूमा तदमृतम् अथ यदल्पं तन्मर्त्यं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नीति । यदि वा न महिम्नीति, गो अश्वमिह महिमेत्याचक्षते, हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति, नाहमेवं ब्रवीमीति होवाच । अन्यो ेह्यन्यस्मिन् प्रतिष्ठित इति । स एवाधस्तात्स उपरिष्टात्सपश्चात्स पुरस्तात्स दक्षिणतस्य उत्तरतस्स एवेदं सर्वमित्यथातोऽहङ्कारादेश एव अहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणत अहमुत्तरत अहमेवेदं सर्वमिति । अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति, स एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्मभिधुन आत्मानन्दस्स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति, अथ येऽन्यथातो विदुरन्यराजानस्तेऽक्षय्यलोका भवन्ति तेषां सर्वेषु लोकेषु कामचारो भवति । तस्य हवा एतस्यैवं पश्यत एवंमन्वानस्यैवं विजानत आत्मतः पाण आत्मत आशा आत्मतः कर्माणि आत्मत एवेदं सर्वमिति । तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोतदुःखतां सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः’ इति । हिंसायोग्यत्वश्रवणाज्जीवत्वमित्यस्यानन्तरं सिद्धवत्कृत्य पर्वोत्तरपक्षौ प्रवर्त्त्येति इत्यथर्द्वारा सङ्गतिरिति ग्रन्थोपेक्षितः, इतरथा प्राणसम्बन्धिनो जीवत्वस्य पक्षद्वयाभ्युपेतत्वेन प्राणसम्बन्धिनो जीवत्वं पूर्वपक्षीक्रियत इति वा सिद्धान्तीक्रियत इति वा वक्त्तुं शक्यत्वात् ततश्च पूर्वं प्राणसम्बन्धिनः परमात्मत्वं समथिर्तम्, इह प्राणसम्बन्धिनो भूमत्वं पूर्वपक्षीकृत्य निरस्यत इति पर्यवसितोऽर्थः । ननु धर्मिवाचिषष्ठयन्तशब्दान्तरनिर्देशाभावेपि धर्मवाचिभूमशब्दप्रतियोगितया निर्देशादेव धर्मपरत्वमस्त्वित्यस्वरसादाह - यत्र नान्यत्पश्यतीति श्रुतेश्चेति । सप्राणनिष्प्राणविषयोपमर्दतदभावयोरिति पाठः क्वचिद्दृश्यते, सप्राणनिष्प्राणविषयोपमर्दयोरितिपाठस्समीचीनः । सप्राणविषयोपमर्दे सजीवशरीरोपमर्दनिमित्तहिंसाया निष्प्राणशरीरोपमर्दे निर्जीवशरीरोपमर्दनिमित्तहिंसाभावस्य च श्रवणादिति तस्यार्थः । अप्राणेष्वितीति - ननु मूलनिषिक्त्तसलिलदोहलपार्थिवधातूनामभ्यादानादचेतनेष्वपि प्राणोऽस्त्येव, उक्त्तं च न्यायसिद्धाञ्जने “स्थावरेष्वपि तत्सत्त्वम्’ अतः कथमेतदिति चेत् सत्यं, प्राणोऽस्त्येव अथापि “भेदश्रुतेर्वैलक्षण्यात्’ इतिसूत्रप्रतिपादितं पञ्चधा विभज्य शरीरधारणरूपं यत्प्राणासाधारणकार्यं तदभावादप्राणत्वोक्तिः । अत एव “नतु दृष्टान्तभावा’दिति सूत्रभाष्ये स्थावरेषु प्राणसद्भावेपि तस्य पञ्चधावस्थाय शरीरधारकत्वेनावस्थानं नास्तीति वक्ष्यते । आविस्तरां वेदसम्यग्वेदेत्यर्थः । ननु प्रक्रान्तस्यात्मोपदेशस्य प्राणपर्यन्तत्वात्प्राणः प्रत्यगात्मेति सिद्धान्तिना अनभ्युपेतत्वात्सिद्धान्ते प्राणः प्रत्यगात्मा न स्यादित्यत आह प्रक्रान्तस्यातोपदेशस्येत्यादिना । धारकत्वमिति - विवक्षितमिति शेषः । हेतुवाचिपदेष्विति - “सम्प्रसादादध्युपदेशात्’ इति त्रिषु पदेषु मध्य इत्यर्थः । पूर्वनिर्दिष्टादूर्ध्वमभिधानं हीति - यद्यपि पूर्वत्र आदो वा वास्माद्भूयः इति कण्ठतोऽभिधानमस्ति, न प्रकृते; तथापि आधिक्यस्य प्रतियोग्यपेक्षायाम् उपरिवेषामितानधिकरणन्यायेनाव्यवहितप्राणस्यैवावधित्वेन ग्रहणमिति भाष्याभिप्राय इति भावः । अभिप्रायो विवृतो भवतीति - स्वरूपस्वभावविकारशून्यतया परमात्मन एव सत्यशब्दाभिधेयत्वमित्यभिप्रायो विवृतो भवतीत्यर्थः । ननु तुशब्दस्य विशेषार्थकस्य व्यावर्तकत्वमेव लभ्यते, न त्वधिकतया व्यावर्तकत्वमित्याशङ्कय सत्यं तुशब्दस्य विशेषमात्रप्रदर्शकत्वम्, तथापि प्रकरणवशादाधिक्यसिद्धिरित्याह - पूर्वनिर्दिष्टादुत्तरनिर्दिष्टस्येति । ननु तुशब्देनोपासकाधिक्योक्तावपि उपास्याधिक्यस्यानुक्त्तेः कथमुपास्याधिक्यं सिध्येदित्यत आह - तुशब्दो हीति । नहि जुहोतादिपदान्तरं श्रूयत इति - यद्यप्यग्निहोत्रजुहोतिपदयोर्न विशेषः, तथाप्याख्यातश्रवणे विधिसम्भवात् विहितस्य विधानासम्भवात् कर्मान्तरत्वशङ्कासम्भव इति भावः । भाष्ये- इत्थम्भूतलक्षणे तृतीयेति । ब्रह्मोपासनोपलक्षित इत्यर्थः । इदमुपलक्षणम्, ब्रह्मणोऽतिवदननिमित्तत्वरूपकरणत्वसम्भवेन कारकविभक्त्तित्वमप्युपपद्यत इति द्रष्टव्यम् । सत्यवदनपक्ष एवेति - पूर्वपक्ष्यभिमत इति शेषः । वाक्यस्वरससिद्धमन्यत्वं न बाधितव्यमित्यस्य विप्रकृष्टतया अतश्शब्दस्यासन्निहितोपाध्यन्तरपरामर्शित्वं क्लिष्टमित्यस्वरसादाह - यद्वा अतिवादिशब्दस्येति । यौगिकत्वायौगिकत्वविवादस्य कण्ठतः प्रस्तुतत्वाभावादाह - यद्वा अतिक्रान्तेति । ननु अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतया अतिक्रन्तस्वोपास्यवस्तुवादित्वमित्युक्त्तत्वेऽपि अतिक्रान्तस्वोपास्यवस्तु वादित्वमतिवादिशब्दप्रवृत्तिनिमित्तमित्येवं प्रागनिर्दिष्टतया कथमतश्शब्देन प्रवृत्तिनिमित्तत्वस्य परामर्श इत्याशङ्कयातिवादित्वमतिप्रान्तस्वोपास्यवस्तुवादित्वमित्युक्त्तत्वेऽतिवादिशब्दस्य तदेव प्रवृत्तिनिमित्तमित्यस्यार्थस्य फलिततया फलितस्यार्थस्यातश्शब्दपरामर्श उपपन्न इत्याह - अयमर्थः पूर्वोक्ताथर्फलमिति । फल इति पुल्लिङ्गपाठस्साधुः । तस्यायमर्थः, अतिक्रान्तस्वोपास्यवस्तुवादित्वस्यातिवादिशब्दप्रवृत्तिनिमित्तत्वरूपोऽर्थः पूर्वोक्तयौगिकार्थफल इति; एवञ्चातिक्रान्तस्वोपास्यवादित्वोपपादनं यौगिकत्वोपपादकतया पर्यवस्यतीति अत एवेत्यादिवाक्यस्य यौगिकत्वोपपादनपरत्वं युक्त्तमिति भाव इति वदन्ति । अतिक्रान्तस्वोपास्यवस्तुवादित्वस्यैव प्रवृत्तिनिमित्तत्वादेव हीति - सत्यशब्दार्थस्य ब्रह्मण एव निरतिशयपुरुषार्थतया तद्वेदिन एवातिक्रान्तस्वोपास्यवस्तुवादित्वमस्तीति “सत्यं त्वेव विजिज्ञासितव्यम्’ इति सत्यशब्दाभिधेयं ब्रह्मैवोपास्यतयोक्तम् न तु वेदितव्यतयेत्यर्थः । विजिज्ञासितव्यशब्दास्वारस्यं भवेदिति - ननु विज्ञानमिति श्रद्धाकृतिषु “विज्ञानं त्वेव विजिज्ञासितव्यं विज्ञानं भगवो विजिज्ञास’ इत्यादिष्विवात्रापि सम्पादनीयमित्येवार्थोऽस्तु, नच विज्ञानादिषु विजिज्ञासितव्यमित्यस्य सम्पादितव्यमित्येवार्थोऽवश्यं वाच्यः, अग्रे “यदा वै मनुते अथ विचानाति यदा श्रद्दधाति अथ मनुते’ इति तदुपायकीर्तनदर्शनादत एव सत्यव्यतिरिक्त्तविषयाणि जिज्ञासितव्यपदानि सम्पाद्यवाचीनीत्युत्तरत्र वक्ष्यतीति वाच्यम् तर्हि सत्येपि तथैवार्थोऽस्तु । अग्रे यदा वै विजानाति अथ सत्यं वदतीति तदुपायकीर्तनदर्शनादिति चेत् परमात्मनि प्रसिद्धस्य सत्यशब्दस्य परमार्थप्रतिपादके वचसि लक्षणया प्रयोगस्यायुक्त्तत्वात् सत्येनातिवदानीति तृतीयाया अयुक्त्तत्वात् अतीत्युपसर्गवैयर्थ्यात् तुशब्दस्वारस्याच्च सत्यं भगवो विजिज्ञास इत्यत्रापि सत्यवदनं सम्पादनीयमित्यर्थाश्रय णस्य क्लिष्टत्वाच्चेत्यादिदूषणे तात्पर्यात् । प्रमाणान्तरमुक्त्तमिति - प्रमाणशब्देन श्रुतिलिङ्गे विवक्षिते । ब्रह्मसाक्षात्कारनिमित्तेत्यनेनेति - यदा वै विजानातीत्यस्य वाक्यस्य साक्षात्कारित्वनिमित्तातिवादित्वप्रतिपादनपरतया ग्रन्थकृतैव व्याख्यायमानत्वादिति द्रष्टव्यम् । तदुपायभूतं सत्योपासनं कुर्यादित्यर्थ इति - सत्यं त्वेव विजिज्ञासितव्यमितिवाक्यस्येतिशेषः । ननु यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदतीत्यादिवाक्यं सत्यं त्वेव विजिज्ञासितव्यमित्यस्यानन्तरखण्डे पठ्यते प्रकरणं चोत्तरोत्तरस्य पूर्वपक्षं प्रति हेतुत्वप्रतिपादनपरम्, नतूत्तरोत्तरस्य पूवर्पूर्वसाध्यत्वप्रतिपादनपरम्; ततश्च पूर्वखण्डे सत्यं त्वेव विजिज्ञासितव्यमित्युपासनं विधाय तत्साध्यसाक्षात्कारं तदुत्तरखण्डे कथं प्रतिपादयतीति चेत् ? उच्यते; पूर्वखण्डे सत्यं त्वेव विजिज्ञासितव्यमिति अतिवादित्वसिद्धये ब्रह्मोपासनं विहितम् तत्र चातिवादित्वे सत्योपासनस्य साक्षात्कारद्वारा हेतुत्वमिति प्रतिपाद्यते द्वितीयखण्डे ततश्च खण्डद्वयेनापि अतिवादित्वनिमित्तेन साक्षात्कारहेतूपासनं विधीयते, तदुत्तरखण्डैरुपासनोपयोगिमननादयो विधीयन्त इति भाष्यकाराभिप्राय इति भावः । यादृच्छिकेति - जानश्रुतेर्हससंवादादिना बह्मणि निरतिशयपुरुषार्थत्वावगमस्य दृष्टत्वात् महाभगवतसंवादादिना च ब्रह्मणि निरतिशयपुरुषार्थत्वावगमस्य दर्शनादित्यर्थः । लभतेः प्राप्त्यर्थत्वादिति - ज्ञानस्यापि प्राप्तिरूपत्वादिति भावः । मुख्यप्राप्तिपरत्वेऽनिष्टमाह - नहि श्रवणादेरिति । सत्यव्यतिरिक्त्तविषयाणीति - “विज्ञानं विजिज्ञासितव्यं मतिस्त्वेव विजिज्ञासितव्या’ इत्यादावुपासनार्थत्वासम्भवादिति भावः । दृश्यमिथ्यात्वशङ्का स्यादितीति - ब्रह्मव्यतिरिक्त्तदर्शनाभावो हि दृश्यव्यतिरेकाद्वा स्यात् दृशिव्यतिरेकाद्वा, तस्य दृशि स्वरूपस्य नित्यतया दृश्यव्यतिरेक एव पर्यवस्यतीति दृश्यमिथ्यात्वं सिध्यतीति परेषामाशय इति भावः । भाष्ये- अनवधिकातिशयस्वरूप इति । यद्यपि “यत्र नान्य’दिति भूमलक्षणवाक्ये यत्र नान्यत्पश्यतीत्यल्पलक्षणवाक्य इवानिर्धारितवस्तुपामशर् एवोचितः । न त्वनवधिकत्वादिविशिष्टपरामर्शः, अत एवान्यदर्शनाभावादेस्तद्बललभ्यत्वकथनमप्यनुचितम् । नहि यः सास्नावान् स हि गौरित्यत्र यच्छब्देन गोत्वविशिष्टपरामर्शात् सास्त्रावत्त्वलाभ इति सङ्गतम् तथापि जन्मादिसूत्रे यतस्सर्वज्ञादिति सकलभाष्यकृतां व्यवहारात् समाधानसम्भवादिति द्रष्टव्यम् । ततोऽन्यदिति व्याख्येयं पदम् दुःस्वरूपं तद्य्वतिरिक्त्तं च किञ्चिन्न पश्यतीत्यर्थ इति - दुःखरूपम् दुःखत्वमित्यर्थः । “न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति’ इति साक्षितयोदाहरिष्यमाणश्लोकानुसारेण नान्यत्पश्यतीत्यत्र यत्र यत इति द्वयमपि योज्यम्, ततश्च यस्मिन्ननुभूयमाने तद्विरुद्धं दुःखत्वं यस्मिन्न पश्यति यतोऽन्यच्च न पश्यति स भूमेत्यर्थः । तत्र दुःखदर्शनाभावहेतुरिति - विभूतिगुणविशिष्टे ब्रह्मणि दुःखरूपत्वदर्शनाभावहेतुरित्यर्थः । दुःखं न पश्यतीत्यर्थ इति - विभूतिगुणविशिष्टो ब्रह्मणि दुःखरूपतां न पश्यतीत्यर्थः । स्वरूपान्तर्गताः ज्ञानादिगुणा इति - ज्ञानानन्दादीनां स्वरूपनिरूपकत्वादिति भावः । अभिप्रेतहेतुसमुच्चयार्थ इति - दुःखदर्शनाभावहेतोरनवधिकातिशयसुखरूपत्वस्यानवधिकातिशयसुखरूप इति विशेषणेनाभिप्रेतस्य समुच्चयार्थ इति भावः । विभूतिर्हि ब्रह्मणोऽन्येति शङ्कायामिति - यत्र यद्विभूतो चानुभूयमाने यतोऽन्यन्न पश्यतीत्युक्त्ते यच्छब्दद्वयेनापि ब्रह्मण एव परामृष्टतया विभूतेरपि तदनन्यत्वादित्यर्थः । ऐश्वर्यापरपर्यायविभूतिगुणविशिष्टम् इतिभाष्यस्य विभूतिविषयो गुणो विभूतिगुणः, ऐश्वर्यापरपर्यायविभूतिगुण इति वा, विभूतिश्चासौ गुणश्च विभूतिगुणः, ऐश्वर्यापरपर्यायश्चासौ विभूतिगुणश्च ऐश्वर्यापरपर्यायविभूतिगुण इति वा ऐश्वर्यापरपर्यायविभूत्या गुणैश्च विशिष्ट इति वेत्यर्थत्रयमभिप्रेत्य व्याचष्टे - विभूतिविषयो गुण इत्यादिना । यच्छब्द एव विशिष्ट ब्रह्मपर इति भाव इति - यदि विशेष्यस्वरूपमात्रस्यैव भूमत्वमाचक्ष्महे तदा यत्र नान्यत्पश्यतीतिलक्षणस्याव्याप्तिस्स्यात्, विभूतिवाचकशब्दश्च मृग्येत, अपि तु विभूतिगुणविशिष्टमेव भूमशब्दार्थः, न विशेष्यमात्रम् ततश्च यच्छब्दोपि लक्ष्यत्वेनाभिमतं विशिष्टमेव परामृशेत्, अतो न काप्यनुपपत्तिरिति भावः । न च विशिष्टस्यैव भूमशब्दार्थत्वे विशिष्टस्याहमथर्शरीरकत्वात्मत्वयोरभावेन “अथातोऽहङ्कारादेशः’ इत्यादिना भूम्न अहङ्ग्रहोपासनात्मत्वोपदेशो न स्यादिति वाच्यम्; विशेष्यांशाभिप्रायेणाहङ्ग्रहात्मत्वोपदेशसम्भवादिति द्रष्टव्यम् । न त्वत्यदर्शनमित्यर्थ इति - न तु विशेष्यान्यदर्शनमपीत्यर्थः । दुःखादर्शनमनुपपन्नमिति - दुःखरूपत्वदर्शनमनुपपन्नमित्यर्थः । सर्वस्येति व्याख्येयं पदम् । दार्ष्टान्तिकेपि तादृक्तवमाहेति - यद्यपि भाष्ये द्वितीयदृष्टान्तसाधर्म्यमेव कण्ठत उक्त्तम्, तथापि प्रथमदृष्टान्तसाधर्म्यमप्यभिप्रेतं द्रष्टव्यम् । एतदिति व्याख्येयं पदम् । औपाधिकेत्यादि व्याख्यानम् । सुकृतम्, “रसो वै सः’ इति कार्यावस्थोच्यते । “आनन्दाद्धयेन खलु’ इति कारणावस्थोच्यते । भाष्ये- अथातोऽहङ्कारादेश इत्याह-?ङ्ग्रहोपक्रमादिति । जीवस्वरूपोपदेशपरत्वे अथातोहमुपदेश इति स्यात् अतोऽहङ्कारशब्दो बुद्धिपर इति भावः । अस्मिन् प्रकरणेऽपि सर्वात्मत्वमुक्त्तमिति दर्शयिष्यन्निति - यद्यपि “स एवाधस्तात्’ इत्यादिना भूम्नसर्वात्मकत्वं प्रागप्युक्त्तम्, तथापि सर्वात्मकत्वदृढीकरणायोत्तरत्रापि दर्शयिष्यन्नित्यर्थः । एतञ्चोपलक्षणम् । अथात आत्मादेश इत्यस्याभावे “तरति शोकमात्मवित्’ इत्युपक्रान्तस्यात्मोपदेशस्यापर्यवसानात् अन्यदुपक्रान्तमन्यदापतितमितिशङ्का स्यात्, अतो भूमैवात्मेतिदर्शयितुमात्मोपदेश इत्यादिसन्दर्भ इति द्रष्टव्यम् । आत्मत्वं फलितमित्युक्त्तमिति - सर्वात्मत्वे कथिते उपासकात्मत्वमपि फलितमित्यभिप्रेत्य अथात आत्मदेश इति वाक्यमुदाहृतमित्यर्थः । कण्ठोक्तिमद्वाक्यस्येति । तस्य ह वा एतस्येतिवाक्यस्येत्यर्थः । भाष्ये- उपासकस्यान्तर्यामितयावस्थितत्वादिति । विजानत आत्मत इति श्रुतेरुपासकस्यान्तर्यामिण इत्यर्थ इति भावः । यदत्र विवरणकारणोक्तम् अहङ्कारस्यात्मैकत्वेन प्रत्यक्षसिद्धस्याथातोहङ्कारादेशः । अथात आत्मादेश इति पृथगुपदेशो भेदार्थः, भूमात्मनोर्भिन्नत्वेन प्रसिद्धयोः पृथगुपदेश ऐक्यार्थः । द्वयोस्सार्वात्म्यायोगादिति तदसारम् । अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात् तयोरुपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरुपदेश ऐक्यार्थ इति वैपरीत्यस्यापि सुवचत्वात् । न चाहमर्थस्य जडरूपस्यान्तः करणस्य भूमाभेदबोधनं बाधितम् नात्मनस्तथेतिवाच्यम्; तस्य तन्मतश्रद्धालुमात्रहृदयङ्गमत्वात्, अतस्स एवाधस्तादित्यादिना सर्वात्मत्वेनोपदिष्टे भूम्नि अथातोहङ्कारादेश इति अहङ्ग्रहोपासने विहिते तस्य दृष्टिविधित्वशङ्कावारणाय प्रागुपक्षिप्तसर्वात्मकत्वं द्रढीकुर्वन्नुपक्रान्तात्मोपदेशस्य तत्रैव पर्यवसानं च दर्शयति अथात आत्मादेश इत्यादिना इत्येव युक्त्तमिति द्रष्टव्यम् ॥ इति भूमाधिकरणम् ॥