18 द्युभ्वाद्यधिकरणम्

ननु पूर्वस्मिन्नधिकरणे द्युमूर्द्धत्वादिकमेव परमात्मलिङ्गत्वनोपन्यस्तम्, नतु द्युप्रभृतिसम्बन्धित्वमात्रमित्यस्वरसादाह - यद्वा अदृश्यत्वादिगुणक इतीति । असमाप्तिबुध्येति - अदृश्यत्वबुध्येत्यर्थः । यद्यपि नैतदधिकरणपूर्वपक्षिणा अदृश्यत्वादिगुणकस्य परमात्मत्वमाक्षिप्यते, अपि तु तदभ्युपेत्यैव तत्प्रकरणविच्छेदेन “यस्मिन् द्यौ’रितिमन्त्रस्य लिङ्गवशाज्जीवपरत्वमित्येव पूर्वपक्षः प्रवर्त्त्यते, तथापि यस्मिन् द्यौरितिमन्त्रस्य जीवपरत्वे अदृश्यत्वादिवाक्येपि परमात्मत्वशङ्का अङ्कुरेदिति भावः । विषयवाक्यश्रुतिक्रमस्सर्वोपि अदृश्यत्वाधिकरणे लिखितः, तत्रैव द्रष्टव्यः । श्लोकस्य द्युभ्वाद्यायतनविषयत्वमिति - द्युभ्वाद्यायतनपरत्वमित्यर्थः । ननु “अन्तस्तद्धर्मोपदेशात्’ इति भाष्ये “अजायमानो बहुधा विजायते’ इति श्रुतिवशात् परमकारुणिको भगवान् स्वेच्छयैवोपासकप्रतिपत्त्यनुगुणाकारदेवमनुष्यादिसंस्थानभाग्भवतीत्यभिधानात्कथं बहुधा जायमानत्वं जीवलिङ्गमित्यत आह - अन्तरादित्य विद्यायामिति । बहुधाशब्दार्थस्तत्र सूत्रकृता न विचारित इति भावः । प्रथमनिर्वाह इति - योगपक्षे यौगिकार्थस्य मुख्यत्वेपि प्रथमप्रतिपन्नरूढ्यर्थस्य सर्वात्मना त्यागो दोषः । द्वितीये तु रूढ्यर्थसदृशार्थपरिग्रहेण सर्वथा रूढ्यर्थापरित्यागेपि अशक्यार्थस्वीकारो दोष इति भावः । हेतुविशेष इति - इच्छारूपहेतुविशेषः उपासकानुग्रहरूपफलविशेषश्च सूच्यत इत्यर्थः ॥is not available.पदार्थकथनपूर्वकत्वात् वाक्यार्थकथनस्य व्युत्क्रमेण कथने हेतुमाह - सूत्रसङ्गतेरिति । सङ्गच्छमानम् सङ्गतिमन्तमित्यर्थः । सङ्गतिमिति कथिते सङ्गतेर्बुद्धिस्थत्वादिति भावः । सूत्रस्य द्राघीयस्त्वादिति - “अव्ययं विभक्त्ती’त्यादिसूत्रस्यातिदीर्घत्वादित्यर्थः । प्रकृतात्परमात्मनोऽन्यदिति - अस्मिन् सूत्रे प्रधानजीवयोः प्रकृतत्वात्तच्छब्दे तयोः परामर्शसम्भवादिति भावः । परमात्मा चेदिति - यद्यपि प्रधानजीवव्यतिरिक्त्तः परमात्मनोऽन्योपि सम्भवति, तथापि प्रधानजीवपरमात्मनामेव प्रस्तुतत्वेन तच्छब्दस्तत्रैव ढपर्यवस्यति । अतएवोत्तरत्र तद्वाचिशब्दव्यतिरिक्त्तशब्दादित्यस्य परमात्मशब्दादित्यर्थसिद्धिमभिप्रेत्य तत्स्वशब्दादित्यनधिकार्थमिति वक्ष्यति । अतः पारिशेष्यादर्थाभाव इति - अम्भावस्तु नाव्ययीभावादतोत्वपञ्चम्या इति’ इति पर्युदासान्न भवतीति रूपसिद्धिः ॥ईशभिन्नत्वस्य जीवसाधारण्यात्कथं प्रकृतिपरत्वमित्याशङ्क्याह - स्त्रीलिङ्गसामर्थ्यादिति । ननु भूतार्थे विहितस्य प्रीयमाणमिति वर्तमानार्थनिर्देशः कथमित्यत्राह - आदिकर्मणि क्त्त इति भाव इति । तदाशब्दस्य मन्त्रे अश्रवणादाह - यत्तदोरिति । पक्षान्तरमाह - इतिशब्द इति । तदर्थस्तदाशब्दविवक्षित इति - तदर्थ इतिशब्दार्थ इत्यर्थः । भाष्यस्थस्तथाशब्द इतिशब्दव्याख्यानमित्यर्थः । ननु भेदव्यपदेशमात्रेण कथं द्युभ्वाद्याधारस्य परमात्मत्वं जीवत्वं वा कुतो न स्यादित्यत्राह - द्रष्टृत्वसमानाधिकरणेति ॥पूर्वत्रोत्तरत्र चेति । प्राणभृत्प्रतिक्षेपे परमात्मसाधने चेत्यर्थः ।प्राणभृत्प्रतिक्षेपे परमात्मसाधने चेत्यर्थः । प्राकरणिकतयोक्तानीति - न त्वेतन्मन्त्रप्रतिपाद्यानीत्यर्थः । सार्वज्ञ्यादिसमानाश्रयत्वादिति - यस्सर्वज्ञस्सर्वविदित्यत्र प्रकरणे श्रवणात्सार्वज्ञ्यमपि प्रकृतद्युभ्वाद्यायतनविषयमिति भावः । स्वयं योग्यत्वादिति । जीवस्य तु सार्वज्ञ्यामृतसेतुत्वादेरदृष्टादिद्वारा अमुख्यतया कथञ्चिन्निर्वाह्यत्वादिति भावः । नन्वस्मिन् सूत्रे श्रुत्या परमात्मपरत्वमेव साध्यते, नहि तत्र “भेदव्यपदेशात्’ इतिसूत्रोक्तहेतोरन्वयोऽस्ति, तस्य प्रत्यगात्मपरत्वप्रतिक्षेपकत्वादित्यत आह - तदपि प्रत्यगात्मेति । नन्वस्मिन् सूत्रे जीवपरयोः प्रस्तुतत्वोपन्यासः कथं द्युभ्वाद्यायतनस्य परमात्मत्वे जीवत्वप्रतिक्षेपे वा उपयुज्यते, प्रत्युत विरुद्ध एव । यदि च प्राकरिणिकहेत्वन्तरैः पूर्वसूत्राभिप्रेतैः परमात्मासाधारणैः परमात्मपरत्वं साध्यते, किमनेनेत्याशङ्कय सूत्राभिप्रेतमर्थमाह - अभिचाकशीतीति परस्येति । तदुपयोगितयेति - परमात्मनो भोक्तृत्वराहित्यप्रतिपादने प्रयुक्त्तोऽयं मन्त्रः, तत्र भोक्तृत्वराहित्यं द्रढयितुं लोकवेदसिद्धं भोक्तृत्वं जीवस्यैव, न तु परमात्मनश्शरीरावस्थितस्यापीति प्रतिपादयति; अतो जीवस्य भोक्तृत्वप्रतिपादनं परमात्मनस्तदभावप्रतिपादनाय । न च परमात्मनः अभोक्तृत्वर्पतिपादनं जीवस्य भोक्तृत्वप्रतिपत्त्यर्थमिति वैपरीत्यं वक्त्तुं शक्यम्, प्रसिद्धं ह्यप्रसिद्धप्रतिपत्त्यर्थं भवेत्, न च परमात्मस्वरूपं जीवादपि प्रसिद्धम्, येन तथा स्यात् नापि परमात्मप्रति पत्त्यपेक्षयापि जीवप्रतिपत्तिः प्रयोजनवती, येन परमात्मप्रतिपादनं जीवप्रतिपत्त्यर्थं स्यात्, तस्माज्जीवभोक्तृत्वप्रतिपादनमभोक्तृपरमात्मप्रतिपत्त्यर्थम् तस्मात्तस्मिन्मन्त्रे परमात्मा प्रतिपाद्यत इति सिद्धम् स च मन्त्रः प्राक् प्रस्तुतद्युपृथिव्याद्याधारविषय एव अप्रस्तुताभिधाने असङ्गतेः, तस्मात् द्युभ्वाद्यधिकरणं परमात्मेति सिद्धमिति भावः । पदानामस्वारस्यप्रसङ्गाच्चेति । अचेतने अन्तःकरणे शोकमोहासीनामसम्भवादिति भावः । पश्य इति - पश्यः परमात्मा, पश्यन्तं चेतनम्, अपश्यन्तमचेतनं, पश्यन्तं परमात्मानं, पश्यापश्ये चेतन्रोचेतनश्च, पश्यपश्यत्वात् परमात्मदृश्यतैकस्वरूपत्वान्न पश्यत इत्यर्थः । इह कैश्चिदित्यादि - धारकत्वयोगादिति । इदमुपलक्षणम् परावरत्वयोगादित्यपि द्रष्टव्यम् । सद्विद्यावाक्यविषयत्वं चेति - परैर्हि स्वशब्दादित्यस्यात्मशब्दादित्यप्यर्थः, प्रकरणान्तरे आयतने सदायतना इति स्वासाधारणसच्छब्दप्रयोगात् द्युभ्वाद्यायतनय परमात्मेत्यर्थोऽपि वर्णित इति भावः । द्वितीयसूत्रस्य चेति - यद्यप्यस्मिन्नपि सूत्रे अविद्याविमुक्त्तप्राप्यत्वव्यपदेशादिति योजनान्तरमप्युक्त्तम्, तथापि तस्याभिमतत्वात् विमुक्त्तैः ज्ञेयत्वव्यपदेशादितियोजनान्तरमेव स्वानभिमततया दूप्यत इति द्रष्टव्यम् । वाक्कर्तृकमुक्त्तप्रत्यभिज्ञानमिति पाठस्समीचीनः । वाग्विमुक्त्तेरिति परैरुक्त्तेरिति द्रष्टव्यम् । तत्र च प्रत्ययविपरिणामेनेत्यस्य वाच इति द्वितीयाया विपरिणामेनेत्यर्थः । वाक्कर्तृकेतिपाठे मुक्त्तेत्यत्रादिकर्मणि क्त्तः कर्तरीति कर्तरि क्त्तप्रत्ययः । वाग्रूपं कर्म वाक्कर्मकप्रत्ययः स्वार्थिकः द्वितीयेति योगविभागात्समासः । प्रत्ययविपरिणामेनेत्यस्य आदिकर्मणि क्त्त इति क्त्तप्रत्ययविपरिणामेनेत्यर्थः । जीवव्यावृत्तिं प्रतिज्ञायेति - स्थित्यदनाभ्यां चेतिसूत्रेण प्राणभृदित्यस्यैव साध्यत्वादिति भावः । बुद्धिव्यावृव्युपपादनस्येति - अत्तृत्वानत्तृत्वाभ्यां जीवव्यावृत्तेरेवोपन्यसनीयत्वादिति भावः । परमात्मा भवतीति - ततश्च प्राणभृन्न भवतीत्यस्यान्तःकरणाद्युपाधिसम्पिण्डितचैतन्यं न भवतीत्येवाथर्ः, न तु उपाधिविनिर्मुक्त्तजीवचेतन्यमपि न भवतीत्यथर्ः, येनासङ्गतिस्यादिति भावः । हेतुतयोपन्यासायोगादिति - उपाधिसंयोगदशायां कल्पितस्य भोक्तृत्वस्य निष्कृष्टचैतन्येपि सत्त्वात्, इतरथा च कर्तृत्वादिबन्धस्य मोक्षस्य च वैयधिकरण्यप्रसङ्गादिति भावः । द्वासुपर्णावित्यस्य विशिष्टनिष्कृष्टचैतन्यविषयत्वे गृहान्तःप्रविष्टे एकस्मिन् पुरुषे द्वौ पुरुषावित्यपि व्यपदेशप्रसङ्गात् विशिष्टनिष्कृष्टभेदेन द्वित्वसम्भवादिति भावः । व्यतिरेकेण जीवव्यावृत्तीति - अतच्छब्दादिति व्यतिरेकेणेत्यर्थः ।