समानप्रकरणे वाजसनेय इति - अग्निरहस्ये “वैश्वानरं ह वै भगवान् सम्प्रति वेद तन्नो ब्रूहि’ इति श्रवणादित्यर्थः । अग्निशब्दोपक्रमः कोशेषु द्रष्टव्यः । त्रिष्वपि क्रमेण प्रयोगं दर्शयति - अक्षरात्परतः परः इत्यादिना । हरो जीव इत्यर्थः । विधिशब्दस्य मन्त्रत्वे भावस्यादितिन्यायेनेति - दर्शपूर्णमासयोः श्रूयते आग्नेयोऽष्टाकपालः’ इति बहूनि चाग्नेरभिधानानि येन केनचिच्छब्देनाभिधानं कर्तव्यम्, उत विधिगतेनैवाग्निशब्देनेति विशये अग्न्यर्थो देवताकर्तव्य इत्येतावांश्चोदनार्थः । तस्य तच्छब्दोहिश्यमानस्य देवतात्वमिति प्रयोगावस्थायां शब्दोच्चारणमापतति, तन्नियमे च नास्ति प्रमाणम्, पावकशब्देनाप्युद्दिश्यमानस्य चोदनाविहितमग्नेर्देवतात्वं सम्पादितमेव भवति, तस्माच्छब्दप्रयोगानियम इति पूर्वपक्षं कृत्वाऽवश्यं ह्यत्रशब्दोच्चारण एव पुरुषो नियोक्तव्यः, शब्दोच्चारणस्यैव पुरुषव्यापारत्वात् । ततश्च शब्दस्यरूपमेव उच्चारणान्वयित्वेन विधीयते, तद्विधाने चार्थस्य देवतात्वं प्राप्तमेवानूद्यते, येन हिशब्देन हविस्त्यज्यते तस्या र्थस्तस्य देवता भवति तस्माच्छब्दोच्चारणस्यैव विधानान्न पर्यायप्रसक्त्तिरिति पर्यायशब्दानां बाध इति बाधलक्षणे विधिशब्दस्य मन्त्रत्वे बाधस्यात्तेन चोदना’ इत्यधिकरणे सिद्धान्तितम्, यथा शब्दानियमपूर्वपक्षेपि प्रथमाध्यायप्रतिष्ठापितप्रामाण्यस्य न हानिस्तद्वदत्र वैश्वानरशब्दस्यार्थानियमपूवर्पक्षेपि न प्रतिष्ठापितप्रामाण्यहानिरिति भावः । इदमुपलक्षणम् । “छागो वा मन्त्रवर्णात्’ इत्यादिपूर्वपक्षोत्थानस्यापीति द्रष्टव्यम् । अत्र केचित्; तदधिकरणपूर्वपक्षे न पदार्थानध्यवसायो न वाक्यार्थानध्यवसायः, इह तु वैश्वानरपदाथर्ानध्यवसाये तद्धटितवाक्यस्य संशायकत्वेन प्रमापकत्वात् प्रतिष्ठापितप्रामाण्यस्य हानिर्भवत्येव । अत एव पिकयववराहवेतसशब्दार्थानध्यवसाये तद्धटितचोदनाया अप्रामाण्यमित्युक्त्तम् । अत एव भावार्थनये किन्नामपदेन विषयतया कर्मार्प्यते, उताख्यातपेदेनेत्यध्यवसाय इति संशये अनध्यवसायात्मक एव पूर्वपक्षः प्रवर्तितः । तत्र चाप्रामाण्ये प्रमाणाध्याय एव इयं चिन्ता स्यादित्याशङ्कयोपोद्धातत्वेनात्रैव युक्त्ता साक्षात्सङ्गतेरुपोद्धातसङ्गतिबलीयस्त्वादित्युक्त्तं विवरणे । ततश्च स्वर्गकामाद्यधिकरणेषु प्रसिद्धप्रामाण्याक्षेपवदिहापि पूर्वपक्षिणः प्रामाण्याक्षेपो न दोषमावहतीति वदन्ति । अग्निशब्दसामानाधिकरण्येति - “स एषोऽग्निर्वैश्वानरो यत्पुरुषस्स यो हैतमग्निं वैश्वानरं पुरुषं पुरुषविधम्’ इत्यादिवाक्यप्रतिपन्नसामानाधिकरण्येत्यर्थः । परैर्वैश्वानरशब्दस्य जाठरतृतीयभूततदधिष्ठातृदेवतारूपार्थतृतीयसाधारणत्वात् आत्मशब्दस्य जीवपरमात्मस्वरूपार्थद्वयसाधारणत्वाच्च पञ्चधा संशयो वर्णितः, तद्दूषयति - जीवपरसाधारणात्मशब्दसद्भावेपीत्यादिना । अग्निमित्यस्य विवरणं महाभूततृतीयमिति । यद्यपि नाग्निशब्दस्य भूतृतीयं सर्वमर्थः । तथापि ज्वलनसामान्यमर्थः । न देवता न जाठराग्निविशेष इति भावः । केतुमादित्यमिति - आदित्योदये दिनव्यवहारात्तस्य केतुशब्दितं चिहत्वमिति भावः । तद्विषयभूतास्स्यामेति - अस्मासु शोभना मतिस्तस्य भूयादित्यर्थः । मतिसम्बन्धस्य भूततृतीये अचेतने वा जाठरे वा असम्भवाद्देवतापरत्वमाश्रयणीयमिति भावः । हिकमित्यव्ययमिति - प्रसिद्धौ वर्तत इति शेषः । विशेष्यत इति विशेष इतिभाष्यस्य कर्मत्वरूपप्रत्ययार्थव्याख्यानरूपत्वे स्वरसतः प्रतीयमानेपि साधारणशब्दविशेषादितिसूत्रस्थविशेषपदस्य कर्मणि घञन्तत्वे साधारणशब्द एव विशेष इति कर्मधारयस्याश्रयणीयत्वात् कर्मधारये च विशेषशब्दस्य पूर्वनिपातप्राप्त्या पश्चान्निर्देशानौचित्यात्सूत्रस्वारस्यानुरोधार्थं विशेषशब्दस्य भावार्थत्वमभिप्रेत्य साधारणशब्दस्येति षष्ठयर्थीभूतकर्मत्वव्याख्यानपरं विशेष्यत इतिभाष्यमिति व्याचष्टे - नेदं विशेषशब्दस्येत्यादिना । ननु विशेष्यत इत्यस्य विशेषशब्दव्याख्यानरूपत्वाभावे विशेष इति पृथक्पदमनन्वितं स्यादित्याशङ्कय विशेष इति कृदन्तं पदम्, कर्मार्थषष्ठीनिमित्तमित्यध्याहृत्य व्याख्येयमित्याह - विशेष इति कृदन्तं पदमिति । अध्याहारदेशं विशेषणविशेष्यभावस्य कामचारित्वं चाभिप्रयन् भाष्यस्वारस्यानुरोधेनान्यथा व्याचष्टे - यद्वा विशेष्यत इत्यादिना । फलविशेषनिर्देशादीनां परमात्मधर्मत्वाभावादाह - लिङ्गपर इति । अतन्निष्ठस्यापि लिङ्गत्वमुपपद्यत इति भावः । ननु विशेषपदस्य कर्मसाधारणत्वपक्षे भावप्रधानत्वानाश्रयणेन कथं विशेष्यमाणत्वादित्यर्थलाभ इत्यत आह - फलितार्थ इति । भाष्ये औपमन्यवादय इति । प्रचीनशाल औपमन्यवत्सत्ययज्ञः पौलुपिरिन्दद्युमनो आश्वनेयो जनकश्शार्कराक्ष्यो बुटिल आश्वतराश्विः । प्राचीनशालादिशब्दा आद्याः पञ्चमि नामानि । ते हैते महाशाला महाश्रोत्रियास्समेत्य मीमांसा चक्रुः । महाशालाः- विस्तीर्णशालाः, सम्पन्ना इत्यर्थः । “को न आत्मा किं ब्रह्म’ इति ते ह सम्पादयाञ्चक्रुः, निश्चितवन्त इत्यर्थः । उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रतीयमात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुस्स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये । सर्वं वक्त्तुं नोत्सह इत्यर्थः । हन्ताहमन्यमभ्यनुशासानीति । तान् होवाच । अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः । तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातस्सञ्जिहान उवाच । न मे स्तेनो जनपदे न कदर्यो न मद्यपः । नानाहिताग्निर्नाविद्वान्न खैरी खैरिणी कुतः । यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्य्भो दास्यामि वसन्तु भगवन्त इति । ते होचुः येन हैवार्थेन पुरुषश्चरेत् तं हैव वदेत् । यत्प्रयोजनमुद्दिश्य पुरुषः प्रवर्तते तदेव वदेदित्यर्थः । आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति । तान् होवाच प्रातर्वः प्रतिवक्त्तास्मीति ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिरे । तान् हानुपनीयैवैतदुवाच, यत एवं महाशाला महाश्रोत्रियाः ब्राह्मणास्सन्तो महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ता जातितो हीनं राजानं विद्यार्थितया विनयेनोपाजग्मुः, तथान्यैरपि विद्योपादित्सुभिर्भवितव्यम्, योग्येभ्य एव विद्या दातव्येत्ययमर्थ आख्यायिकया सूच्यते । फलविशेषनिर्देशश्चेति - सर्वलोकाद्याश्रयान्नानुभवसर्वपापप्रदाहरूपफलद्वयनिर्देश इत्यर्थः । परैः द्युमूर्द्धत्वादिकल्पना सर्वविकारानुगते ब्रह्मण्येव सम्भवतीत्युक्त्तम्, तद्दूषयति - द्युभूर्द्धत्वादीति ॥श्रुतिलिङ्गवाक्येत्यादिसूत्रपठितेति - न तु “आकाशस्तल्लिङ्गात्’ इत्यत्रेव तदसाधारणधर्मरूपलिङ्गपरः । स्मर्यमाणस्वरूपस्य परमपुरुषासाधारणधर्मत्वाभावेन परमपुरुषत्वे लिङ्गत्वोक्तययोगात्, अतो लिङ्गशब्दो ज्ञापकपर इति भावः । यद्यपि श्रुतिलिङ्गादिसूत्रे सामर्थ्यं लिङ्गम्, तच्च शब्दगतम्, अर्थगतमित्येव व्यवहृतम् । तथापि तदपि ज्ञापकान्नातिरिच्यत इति भावः । यद्वा श्रुतिलिङ्गवाक्ये तत्स्वरूपकथनार्थमिति द्रष्टव्यम् । इत्थं भूमित्यादिभाष्यस्य द्युप्रभृतीत्यादिना सूत्रार्थप्रतिपादकेन भाष्येण पौनरुक्तयमाशङ्कय इतिशब्दान्वयानन्वयाभ्यां परिहरति - इतिशब्दार्थेनान्वितमिति । भाष्ये- तथाहीति । “औपमन्यव कं त्वमात्मानमुपास्व इति दिवमेव भगवो राजन्निति होवाच एष वै सुतेजाः आत्मा वैश्वानरोयं त्वमात्मानमुपास्से तसमात्तव सुतं प्रसुतमासुतं कुले दृश्यते । सुतप्रसुतासुतशब्दैरेकाहाहीनसत्रयोगा लक्ष्यन्ते । अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवात्मानं वैश्वानरमुपास्ते मूर्द्धा त्वेष आत्मन इति होवाच मूर्द्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति । अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाच एष वै विश्वरूप आत्मा वैश्वानरोऽयं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते । प्रवृत्तोऽश्वतरी रथोदासीनिष्कोत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवात्मानं वैश्वानरमुपास्ते चक्षुस्त्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति । अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत् वायुमेव भगवो राजन्निति होवाच एष वै पृथग्वर्त्मा वैश्वानरोयं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति । पृथग्रथश्रेणयोऽनुयन्ति । अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति पि्रयं भवत्यस्य ब्रह्मचर्यसङ्कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति । अथ होवाच जनं शार्कराक्ष्य कं त्वमात्मानमुपास्स इति आकाशमेव भगवो राजन्निति होवाच एष वै बहुल आत्मा वैश्वानरोयं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोसि प्रजया च धनेन च । अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवं वैश्वानरमुपास्ते सन्देहस्त्वेष आत्मन इति होवाच सन्देहस्ते व्यशीर्यद्यन्मां नागमिष्य इति । अथ होवाच बुटिलामाश्वतराश्विं वैय्याघ्रपद्य कं त्वमात्मानमुपास्स इति । अप एव भगवो राजन्निति होवाच एष वै रयिरात्मा वैश्वानरोयं त्वमात्मानमुपास्ते तस्मात्त्वं रयिमान् पुष्टिमानत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मचर्यसङ्कुले य एतमेवमात्मानं वैश्वानरमुपास्ते वस्तिस्त्वेष आत्मन इति होवाच वस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति । अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाच एष वै प्रतिष्ठात्मा वैश्वानरोऽयं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोसि प्रजया च पशुभिश्च अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्त्यस्य ब्रर्ह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति । तान् होवाच एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वान् सोऽन्नमात्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मखन्नमत्ति, तस्य हवा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्त्यो मनोऽन्वाहार्यपचनमास्यमाहवनीयः, तद्यद्भक्त्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यसि’ इत्यादिना प्राणाद्याहुतिपञ्चकं प्रदर्श्य स यदिदमविद्वानग्निहोत्रं जुहोति’ इति पठ्यते । इत्थं श्रुतिक्रमः । भाष्ये- तानेकैकं पप्रच्छेति । एकैकमिति क्रियाविशेषणम् एवमुत्तरत्रापि; एकैकमुपास्यमानतया कथितानामित्यादावपि द्रष्टव्यम् । नतु नाभिरितीति - “खं वै नाभि’रित्युपबृंहणानुगुण्ये सत्यपीति शेषः । स्वभूलत्वेन वैश्वानरविद्याया इति - स्मृतेर्वेदमूलकत्वावश्यम्भावात्तस्यास्मृतेर्मूर्द्धैव सुतेजा इति वाक्यमेव मूलं भविष्यतीति भावः । अस्ति ह्यग्निमूर्द्धेति - ननु “अग्निमूर्द्धा’ इत्याथर्वणवाक्यं “द्यां मूर्द्धान’ मिति स्मृतिवचनस्य मूलाकाङ्क्षां शमयितुं प्रभवति । तत्राग्निमूर्द्धत्वश्रवणेपि द्युमूर्द्धत्वस्याश्रवणात् । न च “असौ वाव लोकः’ इति श्रुत्यनुसारादग्निशब्दस्य द्युलोकपरत्वमस्तीति वाच्यम्; उपचरिताग्निशब्दप्रयोगविषयत्वस्य पर्जन्यपृथिव्यादिष्वपि सत्त्वेन तदनुसारेणार्थनिर्णयासम्भवात्; अतो वैश्वानरविद्यावाक्यमेव मूलमिति चेन्न; “शीर्ष्णोद्योस्समवर्तत पद्य्भां भूमिर्दिशः श्रोत्रात्’ इत्यादीनां बहूनां परमात्मपरतया निर्णीतानां वाक्यानां भूलत्वसम्भवेन स्मृतिवचनस्य विप्रतिपन्नवैश्वानरविद्यैकशरणत्वमिति भावः ॥दूरस्थत्वादिति - यदस्याधिकरणस्य छान्दोग्यवाक्यवद्वाजसनेयवाक्यमपि विषय एव, अतो न दूरस्थत्वादिवैषम्यम्; तथापि “पुरुषमपि चैनमधीयते’ इति वाजसनेयकस्य तटस्थवदुदाहृतत्वादेवमुक्त्तमिति द्रष्टव्यम् । भाष्ये- समानाधिकरणतयाग्निरिति श्रूयत इति । वाजसनेयकेऽग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्तवा “स एषो वैश्वानरो यत्पुरुषः सहैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति श्रूयत इत्यर्थः । अन्तःप्रतिष्ठितत्वस्याग्निशब्दनिर्देशसाहित्यविवक्षासिद्धिः कथमितिशङ्कायामेकवाक्योपादानादिति दर्शयति - स यो हैतमेवमग्निमिति । परैः “शब्दादिभ्योन्तःप्रतिष्ठामा’दिति सूत्रखण्डो जाठरादित्रयशङ्कापरतया व्याख्यातः भाष्यकारैस्तदनादरेण जाठरमात्रशङ्कापरतया तत्खण्डस्य व्याख्याने कारणमाह - शब्दादिभ्य इत्यादिसूत्रखण्डमित्यादिना । तथा दृष्टयुपदेशादित्यत्र दृष्टिशब्दः परैर्जाठरे परमात्मदृष्टिपरतया व्याख्यातः, तदुपेक्षणे किं कारणमिति शङ्कते - दृष्टिशब्दोऽतस्मिन् तथात्वानुसन्धानेति । सूत्रतात्पर्यविरुद्धमिति - यद्यप्युद्गीथप्रस्तावादौ अध्यस्योपास्यमानाकाशप्राणादेः “आकाशस्तल्लिङ्गात्’ “अत एव प्राणः’ इति परमात्मपरत्वसमर्थनपरसूत्रतात्पर्याविरोधवदविरोधस्सम्भवति, नच तत्रापि दृष्टिविरोधिपरत्वे विमतिः । “संज्ञातश्चेत्तदुक्त्तमस्ति तु तदपि’ इत्यत्र भाष्ये कण्ठत एवाविष्कृतत्वात्, तथापि तत्र गत्यभावाद्दृष्टिविधित्वेपि इह तदाश्रयणस्यायुक्त्तत्वात्; अत एव परैरपि दृष्टिविधित्वपक्षं परित्यज्य अथवा जाठरवैश्वानरोपाधिः परमेश्वर एवेह द्रष्टव्यत्वेनोपदिश्यत इत्युक्त्तमिति द्रष्टव्यम् । अग्निशब्दादिभिर्हीतिभाष्ये- अग्निशब्देन त्रेताकल्पनादिलिङ्गैश्च जाठरप्रतिपाद्यमानत्वं निषिध्यमानमयुक्त्तम्, लिङ्गानां प्रतिपादकत्वाभावादित्याशङ्कय प्रतिपाद्यत इतिपदं शब्दलिङ्गसाधारणज्ञापनपरतया व्याचष्टे - ज्ञाप्यत इत्यर्थ इति । ननु वैश्वानरादिशब्दस्य परमात्मपरत्वे त्रेताकल्पनादिलिङ्गं कथं साक्षात्परमात्मन्यन्वेत्वित्याशङ्कयाह - तदिति । भाष्ये किञ्चेति । हेतुद्वयसमुच्चयप्रतिपादनस्य सूत्रारूढतां दर्शयति - अपि चेत्यत्रेति । पुरुषशब्दवाच्यतयाप्यधीयत इत्यभिप्रायेणेति - अधीयत इत्यस्य शब्दकर्मत्वस्यैवोचितत्वात् । पुरुषमपि चैनमधीयत इति सूत्रखण्डस्य एतस्मिन् पुरुषशब्दमध्ये तारं प्रयुञ्जत इति पर्यवसन्नमर्थं हृदि निधायाह - किन्तु पुरुषशब्दवाच्यतयापीति । क्षरत्वाद्युपाधिनेति - “द्वाविभौ पुरुषौ लोके क्षरश्चाक्षर एव च’ इति क्षरपदसमभिव्याहाररूपोपाधिबलेनेति भावः । “पुरुषं पुरुषविधं पुरुषेन्तःप्रतिष्ठितं वेद’ इति पुरुषान्तःप्रतिष्ठितत्ववत् पुरुषत्वस्यापि श्रवणेन पुरुषान्तःप्रतिष्ठितत्वमात्रस्याश्रवणान्न जाठरत्वमिति परैर्व्याख्यातम्, तन्निराचष्टे - अत एव पुरुषमिति । हेत्वन्तराणामपीति - “तथाचासम्भवा’ दित्यस्य हेत्वन्तरनिरासकत्वं पुरुषमपि चेत्यस्यान्तःप्रतिष्ठाननिरासकत्वमिति व्यवस्था निर्मूलेति भावः ॥समुदितस्येति - त्रिवृत्कृतस्य भूततृतीययस्येत्यर्थः ॥अग्निशब्दसामानाधिकरण्येन विनेति - यद्यप्यग्निशब्दो वैश्वानरशब्दवत् बह्वर्थसाधारण एव “विश्वस्मा अग्निं भुवनाय’ इति भूततृतीये “एषोऽग्निर्वैश्वानरो येनेदमन्नं पच्यते’ इति जाठरे । “त्वमग्ने यज्ञानां होता’ इति देवतायाम् “हृदयेऽग्नौ वैश्वानरे प्रास्यत्’ इति परमात्मनि; इत्येवमादिप्रयोकदशर्नात्, तथापि वैश्वानरशब्दे यौमिकार्थाभिव्यक्त्तिवदग्निशब्दे यौगिकार्थाभिव्यक्त्तिर्नास्तीतिभावः । पुनरुक्त्तिप्रसङ्गादिति - नच वैश्वानरशब्देनैवापर्यवसानवृत्त्याग्निविशिष्टस्याभिहिततयाग्निशब्दस्यैव यौगिकार्थपरत्वं किं न स्यादिति वाच्यम्, अग्नौ वैश्वानरे प्रास्यादित्यग्निशब्दस्य प्रक्रमस्थत्वेन पुनरुक्त्तत्वशङ्कानुदयेनाग्निशब्दस्यापर्यवसानवृत्त्या परमात्मपरत्वस्य सिद्धतया पश्चाछ्रुतवैश्वानरशब्द एव पौनरुक्तयशङ्कोदयादिति भावः । परमात्मविषयवाक्यान्तरेष्वपीति - अग्निशब्दरहितेषु “आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि’ इत्यादिवाक्येष्वित्यर्थः । एकप्रयोजकत्वायेति - एकस्यैव प्रयोजकत्वसिध्यर्थमित्यर्थः । वैश्वानरशब्दो दृष्टान्ततयोक्त इति - ननु पौनरुक्तयप्रसङ्गपरिहाराय वैश्वानरशब्दस्य यौगिकत्वमाश्रितम् । अग्निशब्दे तादृशबाधकाभावात् कुतो योग इति चेन्न; रूढ्यर्थासम्भवे अपशूद्राधिकरणइव योगस्यैव ज्यायस्त्वमिति जैमिन्यभिप्राय इति भावः । विशदतरत्वेपि प्रयोगादिति - ज्ञानस्य साक्षात्त्वमित्यादिप्रयोगदर्शनादिति भावः । भिदाद्यजन्त ऋष्यणन्तो वेति - गोत्रापत्त्ये भिदाद्यञन्तः अनन्तरापत्ये ऋष्यणित्यर्थः । ततश्च भिदाद्यञन्तादृष्यणो बाधितत्वात् कथमत्र ऋष्यणितिशङ्का निरस्ता । पुरुषसमष्टिवाचित्वेपीति - “नरे च संज्ञाया’मिति संज्ञायां ङीप्विधानात् समष्टिपुरुषसंज्ञात्वेपीत्यर्थः । विश्वानर एव वैश्वानर इति - प्रज्ञादे राकृतिगणत्वादणप्रत्ययः । विद्याभेदस्यादिति - यद्यपि नोपास्याकारभेदमात्रं विद्याभेदकम्, एकस्यामेव शाण्डिल्यविद्यायां मनोमयत्वप्राणशरीरत्वादीनामविरुद्धानां बहूनामुपास्याकाराणां दर्शनात् किं बहुना, सर्वास्वपि परविद्यासु आनन्दादयः प्रधानस्य’ अक्षरधियान्त्ववरोधः’ इति न्यायेन सत्यत्वज्ञानत्वानन्दत्वादीनां बहूनामाकाराणामनुयायित्वदशर्नाच्च न विद्याभेदप्रसक्त्तिः, तथाप्यग्निशरीरत्वाग्रनेतृत्वयोर्विरोधमभ्युपगम्यैवमुक्त्तमिति द्रष्टव्यम् । विलम्बाविलम्बसाम्यात्तुल्यबलत्वमितीति - रूढ्यर्थानुपपत्तिप्रतिसन्धानमूलत्वेन दौर्बल्यं यौगिकार्थरूढ्यर्थापर्यवसानवृत्तिलब्धाथर्योस्समानम् । तत्रापर्यवसानवृत्तिलब्धार्थस्य प्रथमप्रतिपन्नरूढ्यर्थानुगुणत्वं प्राबल्यहेतुः, तत्पक्षे रूढ्यर्थस्यापरित्यागात्, यौगिकार्थस्य तु मुख्यत्वमेव प्राबल्यहेतुः । रूढ्यथर्वद्यौकिकार्थस्यापि मुख्यत्वादिति तुल्यबलत्वमिति भावः । ननु रूढ्यर्थापर्यवसानलब्धार्थस्य रूढिपूर्वकलक्षणापेक्षया अधन्येन यौगिकार्थेन तुल्यत्वं वदता अपर्यवसानलब्धार्थे लक्षणैवोक्ता स्यात् नचेष्ठापत्तिः, चराचरव्यपाश्रयाधिकरणे परमात्मनि मुख्यत्वस्यैवाकृत्यधिकरणन्यायेन समर्थितत्वादिति चेत् उच्यते मुख्यार्थान्तरानुपपत्तिप्रतिसन्धानमूलकतया यौगिकार्थवद्विलम्बितप्रतीतिकस्यापि ब्रह्मणः “वचसां वाच्यमुत्तमम्’ । नतास्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती’ इत्यादिप्रमाणानुसारात् समुदायशक्त्तिगोचरत्वमस्ति; नहि विलम्बमात्रेण मुख्यार्थत्वहानिः “आदित्यस्य गावः प्रकाशयन्ति’ इत्यादौ किरणादीनां विलम्बितोपस्थितिकानामपि मुख्यार्थत्वदर्शनादिति द्रष्टव्यम् एकेनैव वाक्येन वैकल्पिकार्थेति - नन्वग्निशरीरत्वाग्रनेतृत्वरूपार्थयोरेकवाक्यविहितत्वे अरुणैकहायन्योरिव समुच्चयस्यैवावश्यम्भावेन विकल्पस्याप्रसक्तया वैकल्पिकार्थद्वयविधानवादिनो वाक्यभेदपुरस्कारेणैव विकल्पस्याभ्युपगन्तव्यतया कथं वाक्यभेदोपादानम् ? तदनिष्टं स्यात् । किञ्च वाक्यभेदभीत्या विकल्पं परित्यज्य विद्याभेदस्वीकर्तव्य इत्याक्षिपतो मते एकेनाग्निशब्देन वृत्तिद्वयाश्रयणोनार्थद्वयविधाने वृत्तिद्वयविरोधप्रसङ्गेनावृत्तिलक्षणवाक्यभेदस्याभ्युपेतव्यतया वाक्यभेददोषस्यानुद्धाट्यत्वमिति चेत्, उच्यते; अग्निशरीरकत्वाग्रनेतृत्वरूपगुणद्ववत्तया विधाने विद्याभेदो वा स्यात् तस्यामेव विद्यायां वाक्यभेदमाश्रित्य विकल्पाभ्युपगमेऽष्टदोषदुष्टो विकल्पस्यात् वाक्यभेददोषश्च स्यादित्यत्र तात्पर्यात् । यौगिक इति हि सूत्रतात्पर्यमिति - रूढ्यभावे योग एव ज्यायान्, मुख्यत्वात्, न त्वपर्यवसानवृत्तिः, तस्याः योगिकार्थवन्मुख्यत्वाभावादिति जैमिनेर्मतं नतु द्वयोरपि तुल्यबलत्वम् । येन विद्याभेदो विकल्पो वा स्यादिति भावः । न द्वितीयेति कृत्वेति - “तानि द्वैधं गुणप्रधानभूतानि’ इत्यधिकरणे व्रीहिनवहन्तीत्यत्र किमवधातार्था व्रीहयः, उत व्रीह्यर्थो वा अवघातः ? इतिविचार्य भावार्थाधिकरणन्यायेन भूतस्य द्रव्यस्य क्रियानिवृत्तिर्दृष्टं प्रयोजनं लभ्यत इत्यवघातार्था व्रीहयः अवघातस्त्वदृष्टार्थः इति पूर्वपक्षं कृत्वा अवघातस्य कर्मौपयिकतुषविमोकादिलक्षणदृष्टप्रयोजनेन सप्रयोजनत्वे सम्भवति यागादिवददृष्टाथर्कल्पनाया अन्याय्यत्वात् अवघातस्य व्रीह्यर्थत्वमेव । व्रीहीणां च तण्डुलपिष्टप्रणाडिकया यागार्थत्वमिति न कुत्राप्यदृष्टं कल्पनीयमिति सिद्धान्तितम् । तत्र ननु व्रीहीनवहन्तीति द्वितीयाश्रुत्या अवघातस्य व्रीह्यर्थत्वावगमात् कथं पूर्वपक्षोत्थितिरित्याशङ्कय द्वितीया नास्तीति सिद्धवत्कारेण पूर्वपक्षः प्रवर्तत इति पूर्वमीमांसकैर्वर्णितमित्यर्थः ॥not availableबुध्यारोहार्थत्वं किं न स्यादिति - प्रियशिरस्त्वादिवदिति भावः ॥ननु सम्पत्तिं दर्शयतीत्येतावति वक्त्तव्ये परमात्मोपासनोचितमेव फलं दर्शयतीतिभाष्ये निर्देशो निष्प्रमाणक इत्याशङ्क्य प्रागुपक्षिप्तस्य प्राणाहुतेः परमात्मसमाराधनरूपत्वस्योपपादकं तदित्यत्राह - अग्निहोत्रसम्पत्तेः परमात्मसमाराधनार्थत्वमिति । परमात्मसमाराधनं प्राणाहुतिः, तस्या अग्निहोत्रहोमत्वाथर्ा गाह्रपत्त्याग्न्यादिसम्पत्तिरिति भावः । तस्य सर्वेषु लोकेष्वित्याद्युक्त्तः फलविशेष एव प्राणाहुतेः परमात्मसमाराधनत्वं ज्ञापयतीति भावः । सर्वं सामराधितं भवतीति - यागस्य देवपूजार्थत्वात्पूजायाश्चाराधनरूपत्वाद्यागहोमयोश्चानतिभेदात् हुधातोराराधनमर्थ इति भावः । तदङ्गपरोपासनफलं दर्शयतीति - उपासनफलस्य सर्वपापप्रदाहस्य प्राणाग्निहोत्रे प्रदर्शनं प्राणाग्निहोत्रस्य तदङ्गत्वज्ञापनार्थमित्यर्थः । इदञ्च प्राणाहुतिमात्रस्येत्याद्युत्तरवाक्ये स्पष्टमिष्यते । उपासकस्य मूर्धाद्यवयवानामेवेति - “यस्त्वेवमेवं’ इति पूर्ववाक्ये उपासकस्य प्रकृततया “तस्य ह वा एतस्य’ इत्यत्र तच्छब्देन तस्यैव परामृष्टव्यत्वात् उर एव वेदिर्लोमानि बर्हिः’ इत्युत्तरवाक्ये उपासकोरःप्रभृतीनामेव परामृष्टव्यत्वेन वैश्वानरस्य मूर्द्धैव सुतेजाः’ इत्यादौ मूर्धादिशब्दैरप्युपासकमूर्धादिपरामर्शस्योचितत्वाच्च । नचैवमात्मनो वैश्वानरस्येति व्यपदेशः कथं घटतामिति वाच्यम्; उपास्योपासकाभेदविवक्षया वैश्वानरादिशब्दप्रयोगोपपत्तेरिति भावः ।मुक्तिरेव फलमितीति । ज्ञापयितुमुक्त्ततयेत्यन्वयः । यद्यपि “सर्वेष्वात्मस्वन्नमत्ति’ इत्यत्रानिष्टनिवृत्त्यंशो न कण्ठोक्तः ब्रह्मानुभवमात्रस्योक्तत्वात् तथापि तदन्तर्गतत्वमस्तीत्यभिप्रयन्नाह - फलान्तर्गतेति । वाक्यप्रतिपन्नस्याङ्गभावस्येति - यद्यपि नानेन वाक्येनाङ्गाङ्गिभावः प्रतिपाद्यते, तथापि “उर एव वेदिर्लोमानि बर्हिः’ इत्यग्निहोत्रसम्पत्तिवाक्ये “तस्य हवा एतस्य’ इत्यस्यानुकर्षात्तादथ्यर्सिद्धमिति भावः । शङ्करादिभिस्तु अभिव्यक्त्तेः’ इत्यादिसूत्रचतुष्टयं मतभेदेन प्रादेशमात्रश्रुतिनिर्वाहभेदप्रदर्शनपरं व्याख्यातम् अतिमात्रस्यापि परमात्मन योगवसात् प्रादेशमात्रत्वोपपत्तिरिति आश्मरथ्यो मन्यत इति अभिव्यक्त्तेरिति सूत्रार्थमाहुः । प्रादेशमात्रहृदयादयावच्छिन्नमनोनुस् उपासकानुग्रहार्थं प्रादेशमात्रतया अभिव्यक्त्तिसम्भवात् द्युपृथिव्यादिप्रादेशसम्बन्धिनी प्रादेशी मात्रा परिमाणं यस्य स तथोक्तमिति मरणीयतया रूढिपूर्वकलक्षणाया प्रादेशमात्रत्वमिति बादरिरिति द्वितीयसूत्रार्थमाहुः । वाजसनेयके प्रादेशमात्रे उपासकमूर्द्धचुबुकान्तराले त्रैलोक्यात्मनो वैश्वानरस्य द्युप्रभृतीनां मूर्द्धाद्यवयवानां सम्पादनात्प्रादेशमात्रत्वोपपत्तिः । एवं हि साजसनेयके श्रूयते;- प्रादेशमात्रमिव ह वै देवास्सुविदिता अभिसम्पन्नास्तथा तु एतान् वक्ष्यामि । यथा प्रादेशमात्रमिवाभिसम्पादयिष्यामीति । स होवाच मूर्द्धानमुपदिशन्नुवाच एष वा अतिष्ठा वैश्वानर इति चक्षुषी उपदिशन्नुवाच एष वै सुतेजा वैश्वानर इति नासिके उपदिशन्नुवाच एष वै पृथग्वर्त्मा वैश्वानर इति मुख्याकाशमुपदिशन्नुवाच एष वै बहुलो वैश्वानर इति मुख्या आप उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति चिबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानर इति । अयमर्थः, प्रादेशमात्रमिव देवास्सूर्यादयः अभिसम्पन्नाः प्राप्ताः उपासनतया यदा तदा ते विदिता भवन्ति । अहं केकयराजः, युष्मभ्यम् औपमन्यवादिभ्यः, एतान् देवान्, तथा वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति औपमन्यवप्रभृतीन् प्रति वक्त्तव्यत्वेन प्रतिज्ञाय अश्वपतीं रोजोवाच, किं कुर्वन्नित्युक्त्ते अस्य मूर्द्धानमुपदिशन् कराग्रेण दर्शयन् एष वै भूरादिलोकानतीत्य तिष्ठतीत्यतिष्ठा द्यौर्वैश्वानरस्यावयव इति प्रसिद्धे मूर्द्धनि वैश्वानरस्याधिदैवं यो मूर्द्धा द्युलोकः तत् दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नाह एष वै सुतेजास्स हि सूर्योधिदैवतं वैश्वानरस्य चक्षुरितिप्रसिद्धयोश्चक्षुषोर्वैश्वानरस्याधिदैवं यदादित्याख्यं चक्षुः तद्दृष्टिरित्यर्थः । इत्यादि सर्वत्र ज्ञेयमिति, इत्थं सम्पत्तेरिति सूत्रार्थमाहुः । अस्मिन् प्रादेशमात्रे मूर्द्धचिबुकान्तराले एनं परमात्मानं जाबाला अप्यधीयते । “एषोऽनन्तोऽव्यक्त्त आत्मा सोविमुक्त्ते प्रतिष्ठितः’ इति । सोविमुक्त्तः अस्मिन् प्रतिष्ठ इति वरणायान्नस्य मध्ये प्रतिष्ठित इति । का वै वरणा काच नासीति तत्र चेयामेव नासिकां वरणा नासीति निरूच्य पुनरप्यामनन्ति । कतमच्चास्य स्थानं भवति भ्रुवोः प्राणस्य च यस्सन्धिस्स एष द्युलोकस्य परस्य सन्धिर्भवतीति । ततश्च नासिकाभ्रूमध्यप्रदेशमात्रवर्त्तिनि परमात्मनि प्रादेशमात्रोपपत्तिरिति चतुर्थसूत्रार्थमाहुः । तेषां मते चतुस्सूत्र्या अपि प्रादेशमात्रत्वनिर्वाहमात्र प्रदर्शनपरत्वेन अस्मन्मत इव प्रत्येकं भिन्नभिन्ननिवृत्त्या शङ्काया अभावात् नातीव सप्रयोजनमित्याह - अीभव्यक्त्तिरनुस्मरणीयत्वमित्यादिना । द्युप्रभृतिमूर्द्धत्वादिसम्पादनमिति पाठः । मस्तकचिबुकान्तराल इत्येतत् काकाक्षिन्यायेनोभयत्र सम्बध्यते, मस्तकचिबुकान्तराले द्युमूर्द्धत्वादिसम्पादनं मस्तकचिबुकान्तराले परस्य स्थितेरिति चोभयत्र सम्बध्यते, श्रुत्या प्रतिपादनमित्यस्यानन्तरं प्रादेशमात्रत्वश्रुतिनिर्वाहौपयिकमिति शेषः पूरणीयः ॥