16 अदृश्यत्वादिगुणकाधिकरणम्

न तूभयोरुभयात्मकत्वमिति - अदृश्यत्वादिगुणकस्यापि प्रकृतिपुरुषोभयात्मकत्वमक्षरात्परतः परस्यापि प्रकृतिपुरुषोभयात्मकत्वमिति न भ्रमितव्यमित्यर्थः । उभयत्रेति व्याख्येयं पदम् । अचिदानयोपस्थापकतोपब्रह्मकतयेति - निषिध्यमानदृश्यत्वादिगता या अचिदाश्रयोपस्थापकता तदुपबृंहणतयेत्यर्थः । इत्थमत्र विषयशुद्धिः, अव्याख्यातांशे क्वचिदर्थोपि लिख्यते; आथर्वणे- “ब्रह्मा देवानां प्रथमस्सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां र्विविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह । अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां परोवाचेङ्गिरसे तत्त्वतो ब्रह्मविद्याम् । स भरद्वाजाय सत्यवाहाय प्राह । भरद्वाजोऽङ्गिरसे परावराम् । शौनको ह वै महाशालेऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति । तस्मै स होवाच । द्वे विद्ये वेदितव्ये । इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च । तत्रापरा ऋग्वेदे यजुर्वेदस्सामवेदोऽथर्ववेदश्शिक्षा कल्पो व्याकरणं निरुक्त्तं छन्दो ज्यातिषमितिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीति । अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगरात्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभु सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः । यस्मात्परं नापरमस्ति किञ्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । यर्थोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात् सम्भवतीह विश्वम् । तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम् । यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्मनामरूपमन्नं च जायते ॥ प्रथमः खण्डः ॥ तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा सन्ततानि । तान्याचरत नियतं सत्यकामा एष वः पन्थाः सुकृतो ब्रह्मलोकः । यथा लोलायते ह्यर्चिस्समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् । यस्याग्निहोत्रमदर्शपूर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जनं च । अहुतमवैश्वदेवमश्रद्धयाऽविधिना हुतमासप्तमात्तस्य लोकान् हिनस्ति । सप्त ते अग्ने समिधस्सप्तजिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्तहोत्रास्सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन । अग्नेस्सप्तापि जिह्वाभेदान्नामत आह । काली कराली च मनोजवाच सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लेलायमाना इति सप्तजिह्वाः । एतासु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तान्नयन्त्येतास्सूर्यरश्मयो यत्र देवानां पतिरेकोधिवासः । एतासु भ्राजमानासु सप्तसु जिह्वासु यथाकालं यः कर्माचरति तमाददाना आहुतयस्सूर्यरश्मयो भूत्वा इन्द्रादिलोकं नयन्तीत्यर्थः । एह्येहीति तमाहुतयस्सुवर्चसस्सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यस्सुकृतो ब्रह्मलोकः । प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । ये तच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति । अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः । अविद्यायां बहुधा वर्तमाना वयं कृतार्था सत्यभिमन्यन्ति बालाः । यत्ममिर्णो न प्रवेदयन्ति रागोत्तेनातुराः क्षीणलोकाश्च्यवन्ते’ । यस्मात्कारणात् कर्मिणो रागोपहतास्तत्त्वं न जानन्ति, तस्माच्च्यवन्त इत्यर्थः । “इष्टापूर्त्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रभूढाः । नाकस्य पृष्ठे सुकृतेऽनुभूत्वा इमं लोकं हीनतरं चाविशन्ति’ । अनुभूत्वा- अनुभूयेत्यर्थः । हीनतरं वा अतिहीनं नरकं वा इत्यर्थः । “तपश्श्रद्धे येह्युपवसन्त्यरण्ये शान्ता विद्वांसो ब्रह्मचर्यं चरन्ति । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतस्स पुरुषो ह्यव्ययात्मा । परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ द्ितीयः खण्डः ॥ तदेतत्सत्यम् । यथा सुदीप्तात्पावकाद्विष्फुल्लिङ्गाः सहस्रशः प्रभबन्ते सरूपाः । तथाक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति । दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परतः परः । एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । स्वं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । अग्निर्मूद्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्य्भां पृथिवी ह्येष सर्वभूतान्तरात्मा । तस्मादग्निस्समिधो यस्य सूर्यस्सोमः पर्जन्य ओषधयः पृथिव्या । पुमान् रेतस्सिञ्चति योषितायां वह्नीः प्रजा बहुधा सम्प्रसूताः । तस्मादृचस्सामयजूंषि दीक्षा ब्रह्माश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकस्सोमो यत्र पवते यत्र सूर्यः । तस्माच्च देवा बहुधा सम्प्रसूतास्साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च । सप्तप्राणाः प्रभवन्ति तस्मात् सप्तार्चिषस्समिधस्सप्तहोमाः । सप्तेमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्त सप्त । अतस्समुद्रा गिरयश्व सर्वे अस्मात्स्यन्दन्ते सिन्धवस्सप्तरूपाः । अतश्च विश्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा । पुरुष एवेदं सर्वं ततो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकीरतीह सोम्यः । तृतीयः खण्डः ॥ आविस्सन्निहितं गुहाचरं नाम महत्पदम् । तत्रेदं सर्वमर्पितम् । एजत्प्राणं निमिएञ्च यत् । एतज्जानथ सदसद्वरेण्यम् । परं विज्ञानाद्यद्वरिष्ठं प्रजानाम्’ । जानथेति- हे शिष्या इति शेषः । “यदर्चिमद्यदणुभ्योऽणु यच्च यस्मिंल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म तत्प्राणस्तदवाङ्मनः’ । वाङ्मनसागोचरमित्यर्थः । “तदेतत्सत्यं तदमृतं वेद्धव्यं सोम्य विद्धि । ऋग्धनुर्यजुर्बाणस्सामज्याघोषणादिना । आथर्वणमयं शुभ्रं प्रतिगृह्णीत सुव्रतः । धनुगर्ृहीत्वोपनिषदं महास्रं शरं ह्युपासना निशितं सन्दधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेकाक्षरं सोम्य विद्धि । प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । लक्षं सर्वगतं चैव शरो मे सर्वतो मुखम् । वेद्धा सर्वगतश्चैव विद्धं लक्षं न संशयः । आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् । यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः । अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथात्मानं स्वीयः पाराय तमसः परस्तात्’ । पारायतीरभूतायेत्यर्थः । “यस्सर्वज्ञस्सर्ववित् । यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्नि आत्मा प्रतिष्ठितः । मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्तर्हृदये सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीराः । आनन्दरूपममृतं यद्विभाति । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । हिरण्यमये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति । न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः कुतोऽन्या देवताः । स एष देवः कृतभूतभावनः स्वयं विरुद्धो विरजः प्रकाशते । ब्रह्मैवेदममृतं यत्पुरस्तात् ब्रह्म पश्चाद्दक्षिणतश्चोत्तरतश्च । अतश्चोर्ध्वञ्च प्रसृतं ब्रह्म ब्रह्मैवेदं सर्वमिदं वरिष्ठं ब्रह्म । पद्मकोशप्रतीकाशं सुषिरञ्चाप्यर्थोमुखम । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ चतुर्थः खण्डः ॥ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुद्भमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवति नातिवादी’ । अतिवादी न भवति- बहुगर्ह्यवाङ्म भवतीत्यर्थः । “आत्मक्रीड आत्मरतिः क्रियावानेष हि ब्रह्मविदां वरिष्ठः । सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यज्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रः । यं पश्यन्ति यतयः क्षीणदोषाः । सत्यमेव जयति नानृतम् । सत्यस्य पन्था विततो सेवयानः । येनाप्नुवन्ति ऋषयो ज्ञानतृप्ताः । यत्र तत्सत्यस्य परमं निधानम् । ब्रह्म च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यस्येतन्निहितं गुहायाम् । न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः । एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा’ । विभवति वैभवयुक्त्ता भवति । परमात्मनि प्रसन्ने असङ्कुचितज्ञानो भवतीत्यर्थः । “यं यं लोकं मनसा संविभाति विशुद्धसव्वः कामयते यांश्च कामान् । अनन्तं लोकं जयति तांश्च कामान् तस्मादात्मस्थं ह्यर्चयेद्भूतिकामः ॥ पञ्चमः खण्डः ॥ स यो ह वै तत्परं धर्मधाम यस्मिन् विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्लमेतदतिवर्तन्ति धीराः’ । शुक्रम्- पुरुषमित्यन्वयः । शुक्लं शरीरोपादानभूतं यच्छुग्लमित्यर्थः । “कामान् यः कामयते मन्यमानः स कामभृज्जायते यत्र तत्र । पर्यात्मकामश्च कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । नायमात्मा बलहीनेन लभ्यो न च प्रमादान्न तपसोप्यऽलिङ्गात्’ । तपश्शब्दो ज्ञानपरः । चक्राङ्कनादिलिङ्गशून्यज्ञानेन च न लभ्य इत्यर्थः । “एतैरुपायैर्यतते यस्तु विद्वान् तस्यैष आत्मा विशति ब्रह्मधाम’ । एतैरुपायैः- बलाप्रसादसलिङ्गज्ञानैरित्यर्थः । “सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मनो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्त्तात्मानस्सर्वमेवाविशन्ति । वेदान्तविज्ञानसुनिश्चिताथर्ास्सन्न्यासयोगाद्यतयश्शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे । गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वमेकं भवन्ति । यथा नद्यस्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्त्तः परात्परं पुरुषमुपैति दिव्यम् । स यो ह वैतद्ब्रह्म वेद ब्रह्मैव भवति । नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्त्तोऽमृतो भवति । तदेषः श्लोकः । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरो वृतं विधिवद्यैस्तु चीर्णम् । तदेतत्सत्यमृषिरङ्गिराः प्रोवाच नैतदचीर्णव्रतोऽधीते नाकृतपावनो नासन्न्यासी च नमः परमर्षिभ्यो नमः परमर्षिभ्यः ॥ षष्ठः खण्डः ॥ अर्हार्थीयतृजन्तपदेति - ननु किमत्र प्रमाणम् ? “ल तृचा’ विति तृच एव सम्भवात् नित्यसाक्षात्काराश्रये तस्मिन् अर्हे कृत्यतृचश्च’ इत्यर्हार्थत्ववस्यान्याय्यत्वाच्च, सत्यपि तस्य अर्हार्थत्वे अदृष्ट इत्यस्य भूतार्थत्वे विरोधाभावेन “धातुसम्बन्धे प्रत्यया’ इति विहितस्य णिनिप्रत्ययस्य भूतार्थतया अग्निष्टोमयाजीत्यस्याग्निष्टोमेनेष्टवानित्यर्थकतया तस्मिन् भवितेति ल्युडर्थिभूतानद्यतनभविष्यत्त्वस्यासम्भवेन तत्र धातुसम्बन्धे प्रत्यया इति सूत्रवशेनाग्निष्टोमयाजीत्यस्य भविष्यदर्थाश्रयणोपि अविरोधेन इह तथात्वे प्रमाणाभावादिति चेत् उच्यते; “वेदाहं समतीतानि मां तु वेद न कश्चन’ इत्यादिस्मृत्यनुसारेण स्वयमितरैरदृश्य एव सन् इतरान् पश्यतीत्यस्य तदर्थतया अदृष्ट इत्यस्यादृश्यत्वाथर्कत्वाददृश्यत्वस्य च ब्रह्मणि पूर्वाधिकरणे प्रतिपन्नत्वात्कथमदृश्यत्वपदावलम्बनेन पूर्वपक्ष इति भावः । नाचिद्य्वावर्तकत्वमित्यर्थ इति - प्रत्युताचित्साधकमेवेत्यर्थः । दृष्टान्तश्च चेतनेति - ऊर्णनाभेश्चेतनत्वादिति भावः । नञुपश्लिष्टेति - नञिव युक्त्तमन्यसदृशाधिकरणे तथाह्यर्थगतिरिति न्यायात् नञिवशब्दयोरेकाथर्वृत्तित्वादिति भावः । इदञ्चोपादानोपादेयभेदाभ्यपगमपक्ष इति ध्येयम् । सादृश्यस्य भेदगर्भत्वादुपादानोपादेयभेदमङ्गीकृत्याह - अबालाकृशेति । ननु चेतनदृष्टान्तानुगुण्यकायर्सारूप्यनिषेधस्वारस्यहेतुभिः यत्तदद्रेश्यमित्यादौ परमात्मपरत्व्वयुदासेन प्रधानपरत्वाश्रयणेपि अक्षरात्परतः परः इति वाक्येन परमात्मत्वपरित्यागे प्रमाणं पश्यामः, प्रत्युत “यस्सर्वज्ञस्सर्ववित्’ इत्यादिश्रुत्यनुरोधेन ब्रह्मविद्यासमाख्यानुरोधेन च परेषां प्रथमपूर्वपक्ष इव परमात्मपरत्वमेवास्त्वित्याशङ्कय यथा निषेधस्वारस्यवशेन तस्यैव द्रव्यस्यावस्थान्तरयुक्त्तस्य ग्रहणमित्युच्यते तथा “दिव्यो ह्यमूर्तः पुरुषः’ इतिमन्त्रे जीवे प्रसिद्धस्य मूर्तिमत्त्वस्य मनःप्राणवत्त्वस्य च निषेधदर्शनात् तस्यैवावस्थान्तरयुक्त्तस्य ग्रहणमुचितम्; अतस्सर्वज्ञत्वादिकमपि जीव एव मुक्त्यवस्थापेक्षया नेतुं शक्यमित्यभिप्रयन्नाह - प्रधानत्वसमर्थनमुपजीव्येति । ननु निषेधस्वारस्यमवलंब्य “यत्तदद्रेश्य’मितिवाक्ये प्रधानत्वपूर्वपक्षो न युक्त्तः । “अगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्’ इति जीवे प्रसिद्धगोत्रादिनिषेधबाहुल्यात्तत्रापि वाक्ये पराभिमतद्वितीयपक्ष इव जीवपरत्वमेव किं न स्यात्, अन्यथा “अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुमूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’ इत्यन्तं प्रधानपरम् । “यस्मात्परं नापरमस्ति किञ्चित्’ “यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्’ “वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ इति तदुत्तरवाक्यं जीवपरम् । “यर्थोर्णनाभिस्सृजते गृह्णते च’ “यथा पृथिव्यामोषधयस्सम्भवन्ति’ यथा सतः पुरुषोत्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्’ इति तदुत्तरवाक्यं प्रधानपरम् । ततोऽन्नमभिजायते । अन्नात्प्राणो मनस्सत्यं लोकाः कमर्सु चामृतम्’ इत्यारभ्य “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिेठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ सत्युपरितनसन्दर्भो जीवपरः । तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विष्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’ इति प्रधानपरम् । “दिव्यो ह्यमूर्तः पुरुषस्य बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परतः परः’ इति जीवपरमिति कथमिवैतत्पण्डितानां हृदयं प्रथममधिरोहेदिति चेन्न; “यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः’ सत्यानन्तर्यमचोदनेत्यधिकरणन्यायेनानन्तर्यमात्रस्याप्रयोजकतया दूरस्थेनापि योग्यतावशात् सम्बन्धोपपत्तेः प्रधानजीवयोर्व्यतिकरेण प्रतिपाद्यत्वस्यागत्या स्वीकार्यत्वादिति भावः । चेतनदृष्टान्तः कथमित्यत्राहेति - प्रधानस्य प्रतिपाद्यत्व इति शेषः । भाष्ये- प्रसूत इति तत्र दृष्टान्ता इति । अत्र इतिर्हेतो, यतः पुरुषाधिष्ठितप्रधानं प्रसूते, अतश्चेतनाचेतनदृष्टान्ता उपन्यस्यन्त इत्यर्थः । ननु प्रधानजीवावत्र प्रतिपाद्येते इति पूर्वः पक्षः साङ्खयमतावलम्बी, साङ्कयमते च पुरुषस्य सन्निधानमात्रेणैवोपकर्तृत्वं नाधिष्ठातृत्वेनेत्याशङ्कय तदनुरूपदृष्टान्तस्यापि सत्त्वात् पुरुषाधिष्ठितं प्रधानं परिणमत इति वा पुरुषसन्निधानमात्रेण परिणमत इति वा किञ्चित्तन्मतमवलम्ब्य पूवपक्षः प्रवर्तितुमर्हतीत्यभिप्रयन्नाह - अनधिष्ठितत्वेपीति । पूर्वपक्षमुपसंहरति - अत इति ॥ इतीत्यस्यानन्तरं राद्धान्ते अदृश्यत्वेतीति कोशेषु पाठो दृश्यते, तस्य मन्दप्रयोजनस्यापि शिष्यावदानार्थमिति ध्येयम् । ननु प्रकृष्टपुण्यस्य जीवस्य बद्धदशायां कथं सार्वज्ञ्यमित्यत आह - तदवस्थोपलक्षित इति । पुण्योपलक्षित इत्यर्थः । नित्यमुक्त्तस्य गोत्रवर्णनि षेधस्वारस्याभावात् पुण्योपलक्षितमुक्त्त इत्युक्त्तमिति द्रष्टव्यम् । प्रकृताक्षरपर इति भाव इति - पूर्वपक्षिणोपि विवादाभावादिति भावः । कारणत्वप्रत्यभिज्ञानाच्चेति - “तथाक्षरात्सम्भवतीह विश्व’मिति पूर्वप्रस्तुतपञ्चम्यन्तप्रत्यभिज्ञानं चशब्देन समुच्चीयते । कारणत्वमनूद्येति - तस्यापि विधाने गौरवादिति भावः । ननु भूतयोनित्यलिङ्गप्रत्यभिज्ञानादपीति अथ परा यया तदक्षरमधिगम्यत’ इति वाक्यप्रतिपाद्यस्य च कारणत्वप्रत्यभिज्ञानादैक्यमभ्युपगम्याक्षरात्परतः पर इत्यवधि पञ्चम्यन्ताक्षरपदनिर्दिेष्टस्य भूतयोन्यक्षरभेदकल्पनापेक्षया अथ परा यया तदक्षरमितिवाक्यप्रतिपन्नाक्षरस्याक्षरात्परतः पर इति पञ्चम्यन्ताक्षरपदनिर्दिष्टप्रधानैक्यमेव ज्यायः । उभयत्राप्यक्षरश्रुतिप्रत्यभिज्ञानात् । ततश्च तस्मिन् प्रधाने सार्वज्ञ्यादिविधानमनुपपन्नमित्यर्थः । भूतयोनित्वलिङ्गानुगृहीतस्येति - यद्यपि येनाक्षरं पुरुषमितिवाक्ये भूतयोनित्वं न श्रुतम्, तथापि “यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायते’ इतिवाक्यस्य “येनाक्षरं पुरुष’मितिवाक्यस्य चैकार्थ्यस्य चोभयसम्प्रतिपन्नतया भूतयोनित्वलिङ्गानुगृहीताक्षरशब्दतया प्रत्यभिज्ञा बलवतीति तात्पर्यम् । प्रथमभाविनः प्रबलतयेति - एतेन “तथाक्षरात्सम्भवतीह विश्वम्’ “तथाऽक्षराद्विविधास्सोम्य भावाः अक्षरात्परतः परः’ इत्येतेषां पञ्चम्यन्तसारूप्यादेकविषयत्वमित्येतदपि निरस्तं वेदितव्यम् । पुरुषत्वादिति - चेतनत्वात् सार्वज्ञ्ययोग्यत्वं सम्भवतीति भावः । व्यपदिश्यत इत्यर्थ इत्यस्यानन्तरं तत्र हेतुमाह प्रकृतमदृश्यत्वादिगुणकमितीति ग्रन्थ उपेक्षितः । अतश्च वकयुत्क्रमेण प्रतीकग्रहणशङ्काया नावकाशः । अदृश्यत्वादिगुणकत्वेन प्रकृतत्वादित्यर्थ इति - उत्तरग्रन्थानुसारात्तस्यैव हेतूकर्तुमुचितत्वादिति द्रष्टव्यम् । पुरुषशब्दवाच्यत्वेन चेति - नच पूर्वपक्षिणः “तेनेदं पूर्णं पुरुषेण सर्व’मित्यादीनां भूतयोन्यक्षरपरत्वमसम्मतम् । पुरुषशब्दितजीवपरमित्येव तदभिप्रायादिति वाच्यम्; “यस्मात्परं नापरमस्ती’त्यत्र यच्छब्दादिबलेन प्रकृतभूतयोन्यक्षरप्रतिपादकत्वस्य पुरुषशब्दे वक्त्तव्यत्वात् “येनाक्षरं पुरुषं वेद सत्य’ मित्यत्रापि प्रक्रमश्रुताक्षरशब्दानुरोधेन पुरुषपदस्य वर्णनीयतया एकविषयत्वस्य वक्त्तव्यत्वाच्चेति द्रष्टव्यम् । प्रकृतमदृश्यत्वादिगुणकमिति भाष्ये प्रकृतमित्यस्य प्रधानप्रतिपाद्यत्वेन प्रकृतत्वमर्थ इत्यभिप्रयन्व्याचष्टे अदृश्यत्वादिगुणकमक्षरमेवेति । परतः परत्वेनोच्यत इत्यभ्युपेत्यमिति - अप्रधानप्रतिपाद्यस्य प्रधानप्रतिपाद्यात्परत्वेनोक्तयसम्भवादिति भावः । ब्रह्मशब्दयोभिर्न्नविषयत्वदर्शनादिति - तच्चोत्तरत्र भाष्य एव स्फष्टम् । समानविभक्त्तिनिर्देशस्वारस्यादिति - अक्षरात्परतः पर इति पदद्वयस्यापीत्यर्थः । पञ्चम्यन्तपदसापेक्षत्वादिति - अत एव देवदत्तपुत्र इत्यादौ न सामानाधिकरण्यं पुत्रपदस्य षष्ठ्यन्तपदसापेक्षत्वादिति द्रष्टव्यम् ॥परब्रह्मविषया विद्या परविद्येति - न तु “अथ परा’ इति श्रुताविवापरोक्षत्वमर्थ इति भावः । भाष्ये- गुरुपरम्परया अङ्गिरसा प्राप्तामिति । “ब्रह्मा देवानां प्रथमस्सम्बभूव’ इत्यादिश्रुतिरत्रानुसन्धेया । व्याख्यानप्रकारमाह - तत्र कैश्चिदिति । मृषावादिमतमाह- कैश्चित्कर्मज्ञानमिति - अपरा च धर्मसाधनफलविषयेति मुण्डकभाष्ये शङ्करेण व्याख्यातत्वादिति भावः । अपरमात्मज्ञानमपरविद्येति - जीवमानमित्यर्थः । अत्रत्यवाक्येनेति - “न मेधया न बहुना श्रुतेन’ इति वाक्येन मेधाशब्दितस्योपासनस्यापि नैष्फल्यावगमादित्यर्थः । विवेकादिसाधनसप्तकानुगृहीतमित्यत्र साधनसप्तकस्यागमजन्यज्ञानाङ्गत्वाभावात् अनुगृहीतमित्यत्र सहकृतमित्यर्थ इत्यभिप्रयन्नाह - साधनसप्तकं शास्त्रजन्यज्ञानं चेति । उत्थितमित्यर्थ इति - “आगमोत्थं विवेकाच्च’ इति श्लोके उत्थितमिति शेष इत्यर्थः । तत्रेत्यादिवाक्येनेति - भाष्यगतं तत्रेतिपदं न भाष्यकारीयम्, अपितु श्रुतिगतमित्यर्थः । “परा चैवापरा च तत्रापरा ऋग्वेदो यजुर्वेदः’ इति हि श्रुतिः । स्पष्टीकृतमिति भाष्येपि वेदस्य ज्ञानोत्पत्तिहेतुत्वादित्यत्र वेदशब्देन सूचितम्, तेन चात्रागमोत्थत्वं शाब्दं प्रतीयत इति शङ्का भाष्य एव परिहृतेति द्रष्टव्यम् । कर्मस्वायत्तममृतमिति - लोकाश्चेति शेषः । अमृतत्वसाधनभूतं कर्मेत्यर्थ इत्यत्रापि स्वर्गामृतत्वसाधनत्यर्थः । स्वर्गापवर्गेति भाष्यानुरोधात्, ततश्च लोका अमृतं च कर्मस्वायत्तमिति श्रुत्यन्वय इति भावः । यद्वा भोग्यपदेनान्नशब्दो व्याख्यात इत्यर्थः । कमनीयत्वायकामनाविषयत्वायेत्यर्थः । अनाग्रयणमिति - आग्रयणः शरदि कर्तव्येष्टिविशेषः । अहुतमिति स्वकाले अहुतमित्यर्थः । त्रिवर्गसाधनकर्मविषयमिति - दर्शपूर्णमासाग्रयणवैश्वदेवातिथिपूजानां नित्यतया यथाशक्त्ति तदवश्यकर्तव्यत्वस्यापवर्गकर्मस्वपि सत्त्वात् तत्परत्वेपि न दोष इति द्रष्टव्यम् । कर्मफलाभिन्धिमदिति - कर्मण अवरत्वं फलाभिमसन्धिमत्त्वमेवेत्यर्थः । इदञ्चोपलक्षणम्, ज्ञानापूर्वकत्वमपि द्रष्टव्यम् । येभिनन्दन्तीति - ये चाभिनन्दन्तीत्यर्थः । ततश्च फलाभिसन्धिमत्कर्मकारिणां तदभिनन्दितॄणां च जरामृत्युवश्यत्वमित्यर्थः । अतस्सर्वा ओषधय इत्येवमन्तेष्विति - “एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । पद्य्भां पृथिवी ह्येष सर्वभूतान्तरात्मा तस्मादग्निस्समिथश्च सूर्यः । तस्मादृचस्मामयजूंषि दीक्षा । तस्माच्च देवा बहुधा सम्प्रसूताः । सप्त प्राणाः प्रभवन्ति तस्मात् । अतस्समुद्रा गिरयश्च सवर्े । अतश्च सर्वा ओषधयो रसाश्च’ इति तत्प्रकरणगततदेतच्छब्दैरित्यर्थः । तदेतच्छब्दैः परामृश्येत्यस्यानन्तरभूतं भूतयोनित्वं सप्रपञ्चमुपपाद्येत्यध्याहारोऽपेक्षितः । ननु भाष्ये षष्ठखण्डप्रतिपाद्योपासनपरभक्त्तिरूपत्वस्य पञ्चमखण्डप्रतिपाद्यब्रह्मसाम्यलक्षणब्रह्मानुभवफलात्प्रागेव प्रतिपादनमसङ्गतमित्याशङ्कयाह - पाठक्रमादिति । तस्य क्रमभावित्वमुक्त्तमिति - वेदान्तविज्ञानसुनिश्चितार्था इति । वेदान्तार्तनिश्चयबम्तः कमर्सन्न्यासयोगाद्यनवन्तश्शुद्धान्तः करणाः, ते परान्तकालेदेहावसानकाले, परामृताः- परममृतं ब्रह्म आत्मतया येषां ते परामृताः, जीवन्मुक्त्ता एव सन्त इत्यर्थः । ब्रह्मलोकेषु ब्रह्मणि मुच्यन्ते । भिन्नघटाकाशवत् निर्वृतिमुपयान्तीत्यर्थ इत्येवं जीवन्मुक्त्तिपरममुक्त्तिक्रमभावित्वमुक्त्तं शाङ्करमुण्डकभाष्य इति भावः । सर्वगस्य ब्रह्मण इति - न तु सर्वशून्यस्येत्यर्थः । ब्रह्मप्राप्तिप्रतिपादकमिति वक्ष्यत इति - “कार्यं बादरिरस्य गत्युपपत्तेः’ इत्यधिकरण इति शेषः । इतरचेतनाचेतनवदिति - न चेदं न वक्त्तव्यम् चेतनान्तरवत्सिद्धेरिति वाच्यम् । मुक्त्तिदशायामेस न लयः, अपितु आप्रलयं तदिन्द्रियाणामप्यवस्थानमिति प्रदर्शनार्थमिति द्रष्टव्यम् । परमात्मनैक्यापत्त्यभावादिति - ननु “गताः कलाः पञ्चदश प्रतिष्ठाः’ इतिमन्त्रस्य मोक्षकाले दशेन्द्रियपञ्चभूतरूपाः या देहारम्भिकाः कलाः तास्स्वस्वप्रतिष्ठाङ्गताः स्वं स्वं कारणं प्राप्ता भवन्तीत्यर्थः । ये च देहाश्रयाश्चक्षुरादिकरणनिष्ठा देवास्ते आदित्यादिषु गता भवन्तीत्यर्थः । कर्माणि विज्ञानमयश्च आत्मा कर्माणि अभुक्त्तफलानि कर्माणि विज्ञानोपाधिको जीवश्च परस्मिन् ब्रह्मण्यविशेषतां गच्छन्तीत्यर्थ इति मुण्डकभाष्ये शङ्करेणार्थो वर्णितः, नतु मुक्त्तपरित्यक्त्तः देहादीनां परमात्मन्यैक्यमिति चेत् सत्यम्; तानि परे तथाह्याहेतिसूत्रे एवमेवास्य परि द्रष्टुरिमाष्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ती’तिवाक्यमुदाहृत्य परब्रह्मविदः कृत्स्नं कलाजातं ब्रह्मैव सम्पद्यत इत्युपसंहारादेवमाशङ्कय पयिहृतमिति द्रष्टव्यम् । पूर्वोक्तसाम्यापत्तिनिगमनपरमिति - “वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लोकान् अभिजयति’ इत्यत्रेव एवकारसादृश्यवाची, “साम्यैवमेववद्वे’ति निघण्टुपाठादिति भावः । ब्रर्ह्मपर्यन्तेति - न च ब्रह्मशब्दस्य ब्रह्मात्मकपरत्वे लक्षणा स्यात्, शरीरवाचिशब्दानां शरीरिपर्यन्तत्वेपि शरीरिवाचिशब्दानां शरीरवाचित्वाभावादिति वाच्यम्, तुल्यन्यायतया शरीरिशब्दानामप्यपृथक्सिद्धशरीरवाचित्वसम्भवात् गत्यभावे लक्षणाया अप्यदोषत्वात् । प्रोक्षणीष्वर्थसंयोगादितिन्यायमिति - प्रोक्ष्यते सिच्यते आभिरिति योगादेव प्रोक्षणीशब्दस्य अप्सु वृत्तिसम्भवान्न तत्र रूढिः कल्पनीयेत्युक्त्तम्, तन्न्यायादिति भावः । अत्र केचित्; ननु कथमदृश्यत्वादिगुणकस्याक्षरशब्दाभिहितत्वम् ? अव्याकृतेऽक्षरशब्दस्य रूढत्वात् रूढेर्योगापहारित्वादित्याशङ्कय प्रोक्षणीन्यायेन रूढेरभावाद्योगस्य च ब्रह्मसाधारणत्वान्न दोष इत्याह- अश्नुत इति वा न क्षरतीति वेति । इत्येव भाष्यस्यावतारिकामाहुः । इदमप्यसदर्थद्वयमिति - वक्ष्यमाणमिति शेषः । देवताविशेषरूढ इति - “कृशानुरेतास्सर्वज्ञो धूर्जटिर्नीललोहितः’ इति निघण्टुपाठादिति भावः । अक्षरशब्दयोरिति - अत्र द्वित्वमविवक्षितम् । “अक्षरात्सम्भवतीह विश्वम्’ तथाक्षराद्विविधास्सोम्य भावाः’ अक्षरात्परतः परः’ इति त्रयाणामैकार्थ्यं सिध्यतीति द्रष्टव्यम् । तथात्वं श्रूयत इति - अन्नादिप्रपञ्चहेतुत्वं श्रूयत इत्यर्थः । उत्तरत्र तथात्वमित्यस्याप्ययमेवार्थः । ब्रह्म वनमिति - वन मित्यधिकरणमुच्यते, ब्रह्म स वृक्ष इत्युपादानत्वम् । ब्रह्माध्यतिष्ठद्भवनानि धारयन्निति निमित्तत्वं चेति भावः । ननु शैवमते पञ्चम्यन्ताक्षरशब्दयोरेकार्थत्वात् । “तपसा चीयते ब्रह्म’ तस्मादेतद्ब्रह्म’ इति वाक्यद्वयस्य ब्रह्मशब्दयोरप्येकार्थत्वाच्चाक्षरब्रह्मशब्दयोः कारणकार्यविषयत्वं नास्त्येव । किञ्च तन्मते अक्षरशब्दितस्य पुरुषस्य सर्वोपादानत्वाभ्युपगमेन कार्यत्वानभ्युपगमात्कारणपरामर्शि वा कार्यमशिर् वा इति विचारो न युक्त्तः । तद्मादेतद्ब्रह्मनामरूपमन्नञ्च जायत इत्यत्रापि न ब्रह्मशब्दितस्योत्पत्तिः श्रूयते, किन्तु भूतयोन्यक्षरमेतद्ब्रह्मान्नादिरूपेण परिणमत इति ह्युच्यते, नहि कुलालान्मृत्पिण्डो घटो भवतीत्युक्त्ते मृत्पिण्डस्योत्पत्तिः कुलालकायर्त्वं वा प्रतीयत इत्यस्वरसादाह - किञ्च येनाक्षरमिति । भूतयोन्यक्षरधर्माणामिति - अपाणिपादत्वादीनाममूर्तत्वादिना प्रत्यभिज्ञानादिति भावः । तच्छब्दसामानाधिकरण्याच्चेति - नच स बाह्याभ्यन्तर इत्येतद्बाह्याभ्यन्तरसाहित्यवाचकमेकं पदं किं न स्यादिति वाच्यम्; तथात्वे बाह्याभ्यन्तर इत्यनेनैव तदर्थस्य लाभात्स इत्यस्य वैयर्थ्यप्रसङ्गात् । तयोरनन्यत्वसिद्धिरिति - पुरुषद्वित्वे प्रमाणाभावादितिभावः । न पुरुषशब्दो नेय इति - “दिव्यो ह्यमूर्तः पुरुषः’ इति पुरुषशब्द इत्यर्थः । पुरुषनारायणोत्तरनारायणेति - पुरुषदेवताकत्वान्नारारणर्षिकत्वाच्च पुरुषसूक्त्तस्य पुरुषनारायणत्वम्; एवमुत्तरनारायणेत्यत्रापि द्रष्टव्यम् । अक्षहृदयाभिज्ञस्येति - अक्षहृदयाख्यविद्याभिज्ञस्येत्यर्थः ॥ननु भाष्ये सर्वभूतान्तरात्मनः परमात्मन एव सम्भवतीत्ययुक्त्तम् । सर्वभूतान्तरामत्वस्यापि एतद्वा क्यप्रतिपाद्यत्वेन एतद्वाक्यप्रतिपाद्यद्युमूर्द्धत्त्वादिसर्वभूतान्तरात्मत्वान्तधर्मवत्त्वं परमात्मन एव सम्भवतीत्येव वक्त्तुं युक्त्तत्वादित्त्याशङ्कय “पृथिवी ह्येष सर्वभूतान्तरात्मा’ इत्यत्र हिशब्देन पूर्वोक्तद्युमूर्द्धत्वादेस्सर्वभूतान्तरात्मत्वहेतुकरणात् द्युमूर्द्धत्वाद्युपपाद्यं सर्वभूतान्तरात्मत्वं परमात्मन एव सम्भवतीत्यर्थ इत्त्यभिप्रयन्नाह - सर्वभूतान्तरात्मसम्बन्धितयोच्यमानमिति ॥ शारीराद्विशिनष्टीति - शारीरादित्यनन्तरं विलक्षणत्वेनेत्यध्याहार्यम् । विशिनष्टि हि प्रकृते भूतयोनिं शारीराद्विलक्षणत्वेनेति परैरुक्त्तत्वाच्छारीरस्य विलक्षणत्वावधित्वेनैव निर्दिष्टतया विशेषणक्रियावधित्वेन निर्दिष्टत्वात् । विशिनष्टीत्युक्त्तेन केन विशेषणेनेत्याकाङ्क्षाया इव कस्माद्विशिनष्टीत्याकाङ्क्षाया अदर्शनाच्च । न च कथं तर्हि भाष्यकृता विशिनष्टि हि प्रकरणं प्रधानात्पुरुषाच्चेति निर्दिष्टमिति वाच्यम्; प्रधानात्पुरुषाच्चेत्यस्य व्यावर्तयतीत्यर्थ इति तत्यिोत्तरवाक्यान्वितत्वात् । नच कथं तर्हि किं कस्मादिति टीकोक्तिरिति वाच्यम्; तस्या अपि किं कस्माद्य्वावर्तयतीत्यर्थकत्वादितिध्येयम् । अक्षरात्परो हि जीव इति - परतोक्षरादिति सामानाधिकरण्यापेक्षया वैयधिकरण्यस्य ज्यायस्त्वस्य प्रामुपपादितत्वादिति भावः । ननु धर्मशब्देनेति - अदृश्यत्वादिगुणको धर्मोक्तेरिति धर्मशब्देनेत्यर्थः । “एतस्माज्जायते प्राणः’ इति मन्त्रात्क्रियानुषङ्गेण अग्निर्मूर्द्धेतिमन्त्रस्य त्रैलोक्यशरीरो हिरण्यगर्भो भूतयोन्यक्षराज्जायतेत्यर्थपरत्वमङ्गीकृत्य रूपोपन्यासादिति सूत्रस्य च “पुरुष एवेदं सर्वम्’ इति सार्वज्ञ्यरूपब्रह्मलिङ्गोपन्यासाद्भूतयोनिः परमात्मेयपि योजनान्तरं परैर्दर्शितम् । तदनूद्य दूषयति - रूपोपन्यासाच्चेतीति । प्रकरणवशादिति - सन्निधिवशादित्यर्थः । अवान्तरप्रकरणस्येति - सन्निधेः प्रकरणविरोधे दुर्बलत्वादित्यर्थः । ततश्च प्रकरणं खल्वेतद्विश्वयोनेस्सन्निधिश्च जायमानानां सन्निधेश्च प्रकरणं बलीय इति । ननु अजायतेत्यध्याहारमन्तरेण विन्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेन्न; प्रकरणिनः शरीरेन्द्रियरहितस्य विग्रहवत्त्वविरोधादिति वाचस्पत्यानुगुण्यं च सिध्द्यति । मीमांसकप्रवादविरोधश्च पीरहृतो भवति । अत्रेदमवधेयम्; अस्मन्मते भट्टमत इवान्तरप्रकरणभेदेन प्रकरणद्वैविध्यमेव नास्ति, अवान्तरप्रकरणशब्दाभिलप्यवस्तुसन्निधिरेव, नचैवमभिक्रमस्य प्रयाजाङ्गत्वं न सिध्द्येदिति वाच्यम् । गुरुमतरीत्या समर्थनसम्भवादिति ॥ इत्यदृश्यत्वादिगुणकाधिकरणम् ॥