विषयं शोधयतीति - इत्थं हि विषयशुद्धिः- जनकेन ब्रह्मिष्ठशुल्कत्वेनानीते गोसहस्रे याज्ञवल्क्येन वादकथायां प्रवृत्तेषु केषुचिद्ब्रह्मवादिषु विजितेषु उद्दालकेन सूत्रान्तर्यामिणोः प्रश्नः कृतः । “अथ हैनमारुणिरुद्दालकः प्रपञ्च । याज्ञवल्क्येति होवाच, मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयमानाः’ मद्रेषु देशोष्वित्यर्थः । “तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोसीति । सोऽब्रवीत् कबन्ध आधर्वण इति’ । कबन्धः- कबन्धनामा । “सोब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ न त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः । सर्वाणि च भूतानि सन्द्रब्धानि भवन्ति’ इति । सूत्रे पुष्पाणीव प्रोतानीत्यर्थः । “सोऽब्रवीत् पतञ्जलः काप्यो नाहं तद्भगवन् वेदेति । सोब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोब्रवीत्पतञ्जलं काप्यो नाहं तद्भगवन् वेदेति । सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च यो वैतत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्सभूतवित् स आत्मवित्स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद स ब्रह्मवित् इत्यादिना प्रशस्य काप्याय याज्ञिकेभ्यश्च सूत्रन्तर्यामिणं च गन्धर्वं उपदिदेश, तद्द्वयमप्यहं जान इत्यर्थः । तच्चेत्वं याज्ञवल्क्य सूत्रमविद्वान् तं चान्तर्यामिणं ब्रह्मगवीर्यद्युदजसे मूर्द्धा ते विपतिष्यति’ इति । ब्रह्ममवीः- ब्रह्मिष्ठशुल्कत्वेन जनकेन दत्ता गावः । यद्युदजसेयदि नयसीत्यर्थः । वेद वा अहं तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्च ब्रूयात् वेद वेदेति यथा वेत्थ तथा ब्रूहीति । यः कञ्चिदपि अहं जानामीति ब्रूयात् त्वं यदि जानासि तर्हि वदेत्यर्थः । “स होवाच वायुवर्ै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकस्सर्वाणि भूतानि संद्रब्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुः’ व्यसृंसिषितास्याङ्गानीतिविस्रस्तानीत्यर्थः । वायुना हि गौतम सूत्रेण सन्द्रब्धाणि भवन्ति’ इति । एवं सूत्रप्रश्नस्योत्तरे दत्ते- “एवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रूहि’ इति उक्त्तांशमभ्युपगम्यान्तर्यामिणं पप्रच्छ “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः’ इत्युपक्रम्य “योऽप्सु तिष्ठन् योऽग्नौ तिष्ठन्’ इत्येवं क्रमेण अम्ब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चर्न्दतारकाकाशतमस्तेजः पर्यन्तान् पर्यायानुपदिश्य “इत्यधिदैवतम्’ इत्युपसंहृत्य “अथाधिभूतम्’ इत्युपक्रम्य “यस्सर्वेषु भूतेषु’ इति पर्यायमुपन्यस्य इत्यधिभूतम्’ इत्युपसंहृत्य एष त आत्मा अन्तयर्ाम्यमृतः श्रोता नान्योतोस्ति मन्ता नान्योतोस्ति विज्ञाता एष त आत्मा अन्तर्याम्यमृतः अतोन्यदार्तम्’ सत्युपसंहृतम् । माध्यन्दिनपाठे तु लोकवेदयज्ञपर्यायास्रयोऽधिका इति । प्रत्यगात्ममात्रे अन्तर्यामित्वपूर्वपक्षासम्भवात् उपचितसुकृतजीवविशेषपरः प्रत्यगात्मशब्द इत्याह - प्रत्यगात्मशब्द इति । यदा निषेधोऽनुपपन्न इति - द्रष्टृत्वस्य रूपादिसाक्षात्कारकर्तृत्वरूपत्व इति शेषः । नियमनस्यार्थसिद्धत्वमुपपादयति - परप्रेरणरूपस्येति । ननु जीवः कोऽत्रान्तर्यामी स्यात्, न तावदुपासकजीवः, तस्य “यः पृथिव्यां तिष्ठन्’ इत्यादिवाक्यप्रतिपाद्यपृथिव्यादिस्थितितन्नियमनयोरसम्भवात् । नापि पृथिव्याद्यभिमानी देवताविशेषः, तस्य पृथिव्यादिस्थितिनियमनादिसम्भवेपि उपदेश्योपासकजीवभिन्नतया “स त आत्मे’ति निर्देशासम्भवात् । नापि जीवसमुदायः, तस्यापि पृथिव्याद्यतिष्ठत्वेन समुदाये स त आत्मेति निर्देशानुपपत्तेरित्याशङ्कयोपासकस्य वा पृथिव्याद्यभिमानिनो वा जीवसमुदायस्य वा नैकस्यान्तर्यामित्वं पूर्वपक्षे विवक्षितम्, किन्तु जीवजातीयानां वस्तूनामन्तर्यामित्वं विवक्षितम् न च तथात्वे स त आत्मेति निर्देशानुपपत्तिः, उपदेश्यस्योपासजीवस्यान्तर्यामिबहुजीवात्मकत्वाभावादिति वाच्यम्, तज्जातीयस्त्वमसीत्यर्थस्य वक्ष्यमाणत्वेनादोषादित्यभिप्रयन्नाह - प्रतिपर्यायं यच्छब्दावृत्त्येति । यथा यस्तिष्ठति स ते पुत्रः यः पचति स ते पुत्र इत्युक्त्ते पुत्रभेदः प्रतीयते तद्वदित्यर्थः । व्यापकनियामकवस्त्वन्तराभावाभिप्रायेणेति नहि जीवजातीयावच्छिन्नत्वस्य व्यापकं नियामकं वा किञ्चिदस्तीत्यर्थः । यत्तु जीवविशेषान् प्रत्यन्तर्यामित्वमिति - “य आदित्यो तिष्ठन् यश्चन्द्रमसि तिष्ठन्’ इत्यादिभिः प्रतिपाद्यमानं जीवविशेषान्तर्यामित्वमिति भावः । अष्टमूर्त्त्यादेरिवेति - रुद्रस्याग्न्याद्यष्ठमूर्त्तिनियन्तृत्वमिवेत्यर्थः । तत्तद्गणाध्यक्षाणामिति - आदित्यगणाध्यक्षाणामित्यर्थः । एवं प्राप्त इत्यस्यानन्तरं सूत्र इति क्वचित् कोशे पठ्यते, न तस्य प्रयोजनं पश्यामः । भाष्ये- अधिदैवाधिलोकादिपचिह्नितेष्विति । ननु “यः पृथिव्यां तिष्ठन्’ इत्युपक्रम्य पृथिवयम्ब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतमस्तेजांसि निर्दिश्य चरमे तेजः पर्याय एव “इत्यधिदैवम्’ इतिपदं श्रूयते, नतु पूर्वेषु पर्यायेषु; अतस्तेषां कथमधिदैवपदचिह्नितत्वमितिचेन्न; इत्यधिदैवमितीतिकरणेन पूर्वेषामपि पर्यायाणां परामर्शात् तत्पदचिह्नितत्वोपपत्तेरिति भावः ॥ अनेन सवर्सूत्रेष्वति - अधिदैवाधिलोकादिष्वित्यत्र दैवलोकभूतादिषु विषयेष्वन्तर्यामी परमात्मेत्यपि व्याख्यायास्सम्भवात् तत्परित्यागेनाधिदैवादिशब्दस्य वाक्यपरत्वमभ्युपगम्य वाक्यप्रतिपाद्योऽन्तर्यामीति व्याख्यानात्सर्वसूत्रेष्वपि तत्तद्वाक्यप्रतिपाद्य परत्वमेव साध्यं विवक्षितम् । अध्यायस्य वाक्यसमन्वयप्रतिपादनपरत्वादिति भाष्यकाराभिप्राय इति भावः । पदद्वयेति - एतेनाधिलोकपदशून्यः परेषां सूत्रपाठस्तावदप्रामाणिक इति दर्शितम् । बहुपर्यायप्रदर्शनार्थेनाधिदैवशब्देनेति - पृथिव्यम्ब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशपर्यायाणामधिदैवानुप्रविष्टानां बहुत्वादित्यर्थः । अवधारणं फलितमिति भाव इति - यद्यप्यौपनिषदानि वाक्यानि सवर्प्रशासितृत्वादिकं परमात्मन एव सर्वप्रशासितृत्वं सवर्ात्मत्वमिव्येवमाकारेण वदन्तीति भाष्यार्थमालोच्यैवमुक्त्तमिति द्रष्टव्यम् । स्वाभाविकं चामृतत्वमितिभाष्यस्यायं भावः- स्वाभाविकौपाधिकयोर्मध्ये औपाधिकस्योपाधिप्रतिपत्त्यधीनप्रतिपत्तिकत्वेन विलम्बितप्रतीतिकतया ततोपि स्वाभाविकस्यैव ग्राह्यत्वादिति । किमार्थमिति - व्याप्तिबलात् परमात्मनोपि दर्शनश्रवणादयः करणैर्विना नोपपद्यन्त इत्यर्थस्वभावायत्तमित्यर्थः । द्रष्टृत्वादिकं न करणायत्तमितीति - यद्यपि न च परमात्मनः करणायत्तं द्रष्टृत्वादिकमिति भाष्यपाठः, तथाप्यर्थतः प्रतीकग्रहणामिति द्रष्टव्यम् । ननु न च परस्यात्मनः करणायत्तं द्रष्टृत्वादिकमिति भाष्यं युक्त्तम् । दर्शनकर्तृत्वरूपस्य द्रष्टृत्वस्य करणायत्तनियमात् परमात्मनि तादृशद्रष्टृत्वानभ्युपगमाच्चेत्यतो व्याचष्टे - रूपादिमिरिति । ननु स्वभावशब्दो न धर्मपरः, अपितु स्वरूपशब्दपर्यायइत्याशङ्क्य समभिव्याहारदर्शनात्पर्यायत्वं नेत्याह स्वरूपस्वभावशब्दयोरिति । अदृष्टापेक्षां च व्यावर्तयतीति - चशब्देन स्वव्यतिरिक्त्तचेतनान्तरसङ्कल्पमपि समुच्चिनोति, स्वमावशब्द धर्मभूतज्ञानपरतया व्याख्याय सत्तापरतया व्याचष्टे - यद्वा न करणायत्तमिति । साध्याविशेषमाशङ्कयाह - सामान्येनेश्वरज्ञानेति । सामान्याकारयोगस्येति - ईश्वरत्वज्ञानत्वावच्छेदेन करणादृष्टादिनैरपेक्ष्यस्येत्यर्थः । तथा च श्रुतिरितिभाष्यस्य तथा श्रुतिश्चेत्यन्वयः । उदाहरिष्यमाणाया हि “पश्यत्यचक्षुः’ इति श्रुतेः ज्ञानविशेषोपादानवत्त्वं कारणविशेषनिषेधकण्ठोक्तिमत्त्वमित्याकारद्वयमस्ति, “स्वाभाविकी ज्ञानबलक्रिया च’ इत्यत्र कारणनिषेधकण्ठोक्तिमत्त्वेपि ज्ञानविशेषोपादानं नास्ति, द्रष्टा श्रोतेत्यादिविशेषोपादानेपि कारणविशेषकण्ठोक्तिर्नास्ति । पश्यत्यचक्षुरित्यत्र तु द्वयमप्यस्तीति सिद्धम् । तत्र च तथाचेत्यत्र तथाशब्दस्य कारणनिषेधकण्ठोक्तिमत्तापरामर्शितया विशेषोपादानपरामर्शितया वा तदुभयपरामर्शितया वा व्याख्यानं सम्भवतीत्यभिप्रेत्य त्रेधा व्याचष्टे - द्रष्टा श्रोतेत्यादिना । रूपशब्दयोस्साक्षात्कर्तेत्यर्थ इति - न चैवं रूपद्रष्टेत्यादौ पौनरुक्तयप्रसङ्ग इति वाच्यम्; पाकं पचतीतिवत् तत्र द्रष्टृशब्दस्य साक्षात्कर्तृत्वमात्रपरत्वात् घटद्रष्टेत्यादावपि मन्तेत्यादौ का गतिरित्याशङ्कय तादृशस्थले लक्षणया मननसमानविषयसाक्षात्कारवत्त्वमित्यर्थ इत्याह - ये मानसेति । ननु परमात्मनो नित्यमननादिकमस्त्वित्यत आह - चक्षुरादिबाह्यकरणेति । साधारणाकारग्रहणेति - चक्षुरादिबाह्यकरणैस्साधारणाकारं गृहीत्वा मनोरूपान्तःकरणेन विचार्यबुद्धिरूपेणान्तःकरणेन हि जीवोध्यवस्यतीति भावः । तदाश्रयो जीव इति चेति - ततश्च परमात्मनि मन्त्रबोद्धादिशब्दस्य लक्षणा दुर्निरासेति भावः । अतश्शब्दस्वारस्यवशादिति - सर्वनाम्नः पूर्वप्रस्तुतविशेषणविशिष्टपरामर्शित्वनियमादित्यर्थः । अत एव “तस्योपनिषदहमित्यधिदैवतं तस्योपनिषदहमित्यध्यात्मम्’ इत्यत्र तच्छब्दस्य न प्राक्प्रस्तुतब्रह्मपरामर्शित्वमात्रम्, अपितु स्थानादिविशेषविशिष्टपरामर्शित्वमिति सम्बन्धादेवमन्यत्रापि’ इत्यत्र वक्ष्यत इति भावः । अतश्शब्दस्वारस्यात् इत्येतच्चोपलक्षणम्, अन्यशब्दस्वारस्यादित्यपि द्रष्टव्यम् । अन्यशब्दस्य पूर्वनिर्दिष्टसदृशपरत्वात्; अत एव इषुनामके कृतौ “इषुविर्ष्टुतिस्सप्तहं भवति’ इति वैशेषिकाङ्गविधानानन्तरमाम्नाते “समानमितरच्छ्येनेन’ इतिवाक्ये इतरश्शब्दपूर्वनिर्दिष्टवैशेषिकाङ्गसदृशानां वैशेषिकाङ्गानामेवेतरशब्देन ग्रहणम्, पूर्वनिर्दिष्टसादृश्यात्, नतु प्राकृतानामपीति पूर्वतन्त्रे निर्णीततया तन्न्यायेनान्यशब्देनापि सर्वनाम्ना पूवर्निर्दिष्टसदृशस्य नियन्तुरेव ग्रहणमिति भावः । ननु “एष त आत्मा’ स त आत्मा’ इति व्यतिरेकनिर्देशस्य तद्धर्मव्यपदेशादिति सूत्रखण्डाविवक्षितस्य भाष्ये युक्त्तितया उपन्यासो न युक्त्त इत्याशङ्कय तस्य सूत्रकृदभिमतत्वं दर्शयति - एतत्पादाद्यधिकरण इति । ननु “शब्दविशेषात्’ इतिसूत्रे सर्वं खल्विदं ब्रह्म’ इति श्रुतिवाक्यार्थनिर्धारणार्थतया भिमतत्वात्तस्य युक्त्तितयोपन्यासो न युक्त्त इत्यत आह - तस्य प्रदर्शनार्थत्वादिति ॥is not available.ननु “पुमान्न देवो न नरः’ इत्यत्रेव देवादिशब्दानां शरीरमात्रपरत्वे बाधकाभाव इत्याशङ्क्याह - तच्चापवादाभाव इति । तदस्वारस्यापवादश्चेति - न केवलं व्यतिरेकनिर्देशस्वारस्यबाधकाभावः । स्वारस्यसाधकश्चास्तीत्यर्थः ॥ असम्भवनिरस्त इति - परमात्मादित्रिकबहिर्भूतस्यान्तर्यामित्वसम्भावनापदस्य कस्यचिदभावादित्यर्थः । योगसिद्ध इत्यस्याणिमाद्यैश्वर्ययोगशाली सिद्ध इति वा अष्टाङ्गयोगशाली सिद्ध इति वासम्भावितोऽर्थस्यात् । अर्थद्वयमपि प्रकृष्टपुण्येषु विग्रहादियुक्त्तदेवेष्वेव सम्भवतीति तत्रैवान्तर्भावाच्छिरोभेदकल्पनं विफलमित्यर्थः । कार्यकरणवत्त्वं जीवत्वे हेतुतयोक्तमिति - देहेन्द्रियवत एव नियन्तृत्वसम्भवादन्तर्यामित्वे देहेन्द्रियवत्त्वमपेक्षितम्, तादृशञ्च देहेन्द्रियवत्त्वं जीवस्यैव सम्भवतीति नेश्वरस्यान्तर्यामित्वं सम्भवतीत्युक्त्तमिति भावः । पुरोवादिशङ्करभाष्यानुसारात् । पृथिव्यादिष्वेकैकस्य शरीरत्वावगमादिति - अयं भावः, देहातिरिक्त्तनियमने हि शरीरेन्द्रियाद्यपेक्षा, नतु स्वदेहनियमनेपि शरीरान्तरापेक्षा दृष्टजरी, तथा च पृथिव्यादीनां परमात्मशरीरत्वादेव परस्य तैरेव स्वशरीरत्वेन न तन्नियमने शरीरान्तरापेक्षेति, नतु पृथिव्यादिषु हि सशरीरत्वे परस्य जीवत्वप्रसङ्ग इत्याशङ्कयाह - तत्कृतजीवत्वशङ्काया इति । उपकरणोपकरणित्वलक्षणसम्बन्धो हि जीवत्व साधक इति - शरीरभोक्तृत्वलक्षणसम्बन्धो हि जीवत्वसाधकः । न तादृशसम्बन्धो नियमने अपेक्षित इति भावः । एवमन्तमेकं सूत्रमिति - न तु शारीरश्च “उभयेपि हि भेदेनैनमधीयते’ इत्येकं सूत्रमिति भावः । नियन्तृनियाम्ययोरभेदेन तत्परिहार इत्यपीति - ननु तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न सम्भवति, भेदाभावात् । भेदे हि सत्यनवस्थादोषापत्तिरिति शाङ्करभाष्यं व्याकुर्वताऽऽनन्दगिरिणा भेदाभावादित्यस्य परमात्मनो हि निरङ्कुशं सर्वनियन्तृत्वं श्रोतम्, तादृशि च सर्वनियन्तरि नियन्त्रन्तरस्य कल्पयितुमशक्यतया नियन्तृभेदाभावात् सिद्धान्तेप्यन्तर्यामिणोप्यन्यो नियन्तेत्यनवस्था न प्रसज्यत इत्यर्थो वर्णितः, न तु नियन्तृनियाम्ययोः परजीवयोर्भेदाभावमादायेति चेन्न; तद्भाष्याभिप्रायमाविष्कुर्वता मृषावादिगोष्ठीगरिष्ठेन वाचस्पतिमिश्रेणैव नचानवस्था न च नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता स परमात्मैव उपाध्यवच्छेदकल्पितभेदस्तथा ख्यायत इति असकृदावेदितम्, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था । तथा च “नान्योतोस्ति द्रष्टा’ इत्याद्या अपि श्रुतयः उपपन्नार्थाः परमात्मनोऽन्तर्यामिणोऽन्यस्याप्यात्मनो द्रष्टुरभावात् अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः प्रत्यक्षादीनि प्रमाणानि संसारानुभवः विधिनिषेधशास्त्राणि चेति नियन्तृनियाम्यभेदस्यैवाविष्करणादित्यास्तां तावत् । प्रतीयमानोपि भेदो मिथ्येति - सर्वोपीत्यर्थः । अत एव नानवस्थेति - जीवपरभेदमिथ्यात्वादेवेत्यर्थः । पृथिव्यादिकं प्रति जीवस्येवेति - यथा पृथिव्यादिकं प्रति नियन्तुर्नियाम्यभेदरहितस्य जीवस्य नियन्त्रन्तराकाङ्क्षा; एवं नियाम्यभेदरहितस्यापीश्वरस्य तदाकाङ्कावश्यम्भाविनीत्यर्थः ॥ इत्यन्तर्याम्यधिकरणम् ॥ अदृश्यत्वेन परमात्मत्वपरत्वमिति - पृथिव्यादिनियाम्यैरनुपलभ्यमान एव नियमयतीति भाष्ये उक्त्तत्वात् अदृश्यत्वमपि परमात्मत्वसाधकतयोपन्यास्तमिति ग्रन्थकृदाशयः, वस्तुतस्तु भाष्ये नायमाशय उपलभ्यते । प्रत्युतास्याक्षरस्य अदृष्टो द्रष्टा’ इत्यादाविव न द्रष्टृत्वादिश्चेतनधर्मविशेष इह श्रूयत इत्यादिभाष्यपर्यालोचनायामद्रष्टृत्वादेरचेतनत्वसाधकम् । द्रष्टृत्वादेस्तु तदपवादकत्वमेव प्रतीयते, न त्वद्रष्टृत्वादेरचेतनत्वसाधकत्वमिति द्रष्टव्यम् ॥