14 अन्तराधिकरणम्

स्वरूपसत्सन्निधानस्य प्रसिद्धावनुपयोगात् सर्वेन्द्रियकन्दभूते हृदये वर्तमानस्य चक्षुषि सन्निधानाभावाच्च व्याचष्टे - सन्निधानावगमादिति । चक्षुष्यवगमादित्यर्थ इति - चक्षुषावगमादित्यर्थः, उत्तरग्रन्थानुसारात् । ननु उन्मीलितं हीत्यादिभाष्येण चक्षुषो देहे जीवस्थितिगतिनिश्चायकत्वमुपपादितम् । नैतावता “अक्षिणि पुरुषो दृश्यते’ इति सप्तम्यर्थ उपपादित इत्याशङ्कयाह - अस्मिन् कर्मणीति । अनेन कर्मणा अस्य सामर्थ्यं दृष्टमिति वक्त्तव्ये अस्मिन् कर्मण्यस्य सामथ्यर्ं दृष्टमितिवत् अक्ष्णा दृश्यत इति वक्त्तव्ये अक्षिणि दृश्यत इत्युक्त्तिरिति भावः । दृष्टमिति - सूचितमित्यर्थः । उत्तरत्र सूचक इति ग्रन्थानुसारात् । अथवा सूचकमित्यस्य दर्शकमिति वार्थस्समाश्रयणीयः । ननु “य एषोऽन्ताक्षिणि पुरुषो दृश्यते’ इत्यस्य परतमात्मपरत्वस्य “अन्तस्तद्धर्मोपदेशात्’ इत्यधिकरणेन समथिर्तत्वात् कथं तत्तुल्यनिर्देशेऽस्मिन् वाक्ये अस्य पूर्वपक्षस्योत्थितिरिति चेत् सत्यम्, तत्र जीव इति पूर्वपक्षस्तत्रत्यानन्यथा सिद्धलिङ्गेन प्रत्याख्यातः, इह तु बाधकलिङ्गाभावात् प्रसिद्धिदृश्यत्वाभ्यां प्रतिबिम्बादिपूर्वपक्षस्योत्थितिः । नन्वेवमपि “एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामानि संयन्ति सर्वाण्येव वामान्यभिसंयन्ति य एवं वेद । एष उ एव वामनिः । एष हि सर्वाणि वामनि नयति, सर्वाणि वामनि नयति य एवं वेद । एष उ एव भामनिः । एष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति । य एवं वेद, इत्यादिना प्रदर्शितानां सर्वकामोपेतत्वसकलशुभप्रापकत्वसर्वलोकभासमानत्वरूपाणां संयद्वामत्ववामनित्वभामनित्वानां तत्तदनुरूपफलरूपतात्पर्यलिङ्गानुगृहीतानां एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्म’ इति श्रुतिप्रतिपादितानामौपसंहारिकाणां बहूनामात्मत्वामृतत्वाभयत्वब्रह्मत्वानामनन्यथासिद्धब्रह्मलिङ्गानां सत्त्वे प्रसिद्धिदृश्यत्वलिङ्गाभ्यां प्रथमश्रुताभ्यामपि कथं पूर्वपक्षोत्थितिरित्याशङ्कयाह - इतिकरणञ्चार्थतात्पर्यद्योतकमिति । मनो ब्रह्मेत्युपासीतेत्यादौ इतिशब्दप्रयोगे अर्थे तात्पयदर्शनादिति भावः ॥ शिष्यबुद्धिसौकर्यार्थमाह - राद्धान्ते इति । व्याख्यायत इति शेषः । बहुवचनाभिप्रायं वक्त्तुं पुनरपि तमेव प्रतीकं गृह्णाति - एषामितीति । अर्थपरत्वमेव दृष्टमिति चानुसन्धेयमिति - इतिशब्दस्तत्रैवार्थविवक्षां वारयति, यत्र ज्ञानसम्बन्धो विवक्ष्यते यथा मनो ब्रह्मेत्युपासीतेत्यादौ । यत्र तूक्त्तार्थवच्छेदेन वचनसम्बन्धस्तत्रेतिशब्दो नार्थविवक्षां वारयति । यथा इति ह स्मोपाध्यायः कथयतीत्यादाविति भावः । परोक्तसिद्धान्तयुक्त्तिं दूषयति - तद्यद्यप्यस्मिन्नित्यादिना ॥व्यतिरेकस्य वक्ष्यमाणत्वाच्चेति - स्थितिव्यतिरेकस्य हेतूकरिष्यमाणत्वात् तदन्वयो हेतूकर्तुमुचितमिति भावः । नतु प्रदेशपरतयेति - न परमतवदधिकरणपरतयेत्यथर्ः । जीवात्मनि सम्भवतस्तस्येति - नन्वाकाशवत्सर्वगतस्य ब्रह्मणः कथकत्यल्पाक्षिस्थानत्वमित्याशङ्क्य यः पृथिव्यां तिष्ठन्नित्यादिस्थानव्यपदेशवत् नामरूपरहितस्यापि ब्रह्मणः तस्योदिति नाम हिरण्यश्मश्रुर्हिरण्यकेशः इति नामरूपोपदेशवच्च सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यत इत्येव परैरुक्त्तम् नतु नामरूपवत्ताया अपरमात्मसाधकत्वमुपन्यस्तम् । येनायं दोषस्यादिति चेत् उच्यते; सर्वगतस्य ब्रह्मणः कथमत्यल्पाक्षिस्थानकत्वमितिशङ्कायां “यश्चक्षुषि तिष्ठन्’ इति श्रुत्यन्तरे चक्षुषः स्थानत्वेन व्यपदेशादित्येवमस्मदुक्त्तरीत्या वक्त्तुं शक्यत्वेन नामरूपरहितस्य ब्रह्मणोऽनुचितस्थाननामरूपाणां व्यपदेशदर्शनादिति शिरोवेष्टनेन नासिकाग्रहणस्यायुक्त्तत्वादित्यत्र तात्पर्यात् । अस्मत्पक्षेपि सम्भवतीति - अन्यथासिद्धिः फलितेति शेषः। अर्थतश्शब्दतश्चेति - “यश्चक्षुषि तिष्ठन्’ इत्यादावर्थतः प्रसिद्धिः । “दृश्यते त्वग्रयया’ इत्यादौ शब्दतः, इदमुपलक्षणम् । “य एषोऽक्षिणि पुरुषो दृश्यते’ इत्यक्षिविद्यायां शब्दतोऽर्थतश्च प्रसिद्धिर्द्रव्या । साधकान्तरप्रदर्शनपरमिदं सूत्रमिति - ननु चक्षुषि स्थितिनियमनादिकं मिलितं परमात्मत्वसाधकम्; उत स्थितिमात्रम् । नाद्यः, स्थितिनियमनादेर्मिलितस्य परमात्मत्वसाधकत्वेपि य एषोक्षिणीतिवाक्ये मिलितस्याश्रवणात् । न द्वितीयः, स्थितिमात्रस्य परमात्मव्यतिरिक्त्तेष्वपि सत्त्वेन तदसाधारणत्वाभावात् । अतः पूर्वपक्षोक्तयुक्तयन्यथासिद्धिपरत्वमेव वक्त्तव्यमिति चेत् उच्यते; उत्तरत्र सूत्रार्थनिष्कर्षावसरे श्रुत्यन्तरप्रदर्शनमुखेन स्ववाक्यस्थशङ्कापरिहारपरं द्वितीयसूत्रमित्याचार्यैरेव वक्ष्यमाणत्वान्न तत्राग्रहः ॥उपकोसलो ह वै कामलायनस्सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्य ह द्वात्रिंशद्वर्षाण्यग्नीन् परिचचार । स ह स्मान्यानन्तेवासिनस्समावर्तयंस्तं ह स्मै व न समावर्तयति । तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन् पर्यचारीत् । मा त्वाऽग्नयः परिप्रावोचन् प्रब्रूह्यस्मा इति । तस्मै हा प्रोच्यैव प्रवासांचक्रे । स ह व्याधिनाऽनशितुं दध्रे । तमाचार्यजायोवाच । ब्रह्मचारिन्तशान किंनु नाश्नासीति । स होवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यया व्याधिभिः परिपूर्णोस्मि नाशिष्यामीति । अथ हाग्नयस्समुदिरे । तप्तो ब्रह्मचारी कुशलं न पर्यचारीत् । हन्तास्मै प्रब्रुवामेति । तस्मै होचुः । प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति । ते होचुः । यदेव कं तदेव खं यदेव खं तदेव कमिति । प्राणं च हास्मै तदाकाशं चोचुः । अथ हैनं गार्हपत्योऽनुशशास । पृथिव्यग्निरन्नमादित्य इति । य एष आदित्ये पुरुषो दृश्यते सोहमस्मि स एवाहमस्मीति स य एतमेवं विद्वानुपास्ते । अपहते पापकृत्यां लोकीभवति । सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उपवयन्तं भुञ्जामोऽस्मिंश्च लोके अमुष्मिंश्च य एतमेवंविद्वानुपास्ते अथ हैनमन्वाहार्यपचनोऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति । य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्तीति स य एतमेवं विद्धानुपास्ते’ इत्यादि पूर्ववत् । अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोहमस्मि स एवाहमस्तीति स य एतमेवंविद्धानुपास्ते’ इत्यादि । ते होचुरुपकोसलैष सोम्य तेऽस्मद्विद्या चात्मविद्या च आचार्यस्तु ते गतिं वक्त्तेति आजगामाहास्याचार्यस्तमाचार्योभ्युवाद उपकोसल इति भगव इति ह प्रतिशाश्रुव । ब्रह्मविद इव सोम्य ते सुखं भाति को नु त्वानुशशासेति कोनु मानुशिष्याद्भो इति उहापेव निहनुते इमे नूनमीदृशा अन्यादृशा इति हाग्नीनम्पूदे । किं नु सोम्य किल तेऽवोचन् इदमिति ह प्रतिजज्ञे लोकान् वा व किल सोम्य ते अवोचन् अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाशे आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति । तस्मै होवाच य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्मेति । तद्यद्यप्यस्मिन् सर्पिर्वा उदकं वा सिञ्चति वर्त्मनीव गच्छति एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद एष उ एव वामनिः । एष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद । एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद । अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षम् आपूर्यमानपक्षाद्यान् षडुदङ्ङेति मासास्तान् मासेभ्यस्संवत्सरं संवत्सरादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते’ इति श्रुतिक्रमः । श्रुत्यनुरोधेन सूत्रं योजयित्वा सूत्रानुरोधेन श्रुतिं योजयति - तद्गुणसारत्वादितिन्यायेनेति । अयन्तु हेतुर्व्यतिरेकोक्तिनिरपेक्ष इतीति - इदमुपलक्षणम्, स्वसद्भावसाधने हेत्वन्तरनिरपेक्ष इति द्रष्टव्यम् । अत एव भाष्ये सामान्यत एवकारो नैरपेक्ष्यं द्योतयतीत्युक्त्तम् । ततश्च ब्रह्मणः प्रस्तुतत्वेप्यग्निविद्याव्यवहितत्वान्नास्य परामर्शः, अतस्सुखविशिष्टाभिधानादिति हेतोरसिद्धिरिति या शङ्का सापि नैरपेक्ष्यद्योतकेनैवकारेण सूत्रकृता व्यावर्त्यत इति भाष्याभिप्राय इति भावः । अङ्गानामप्यङ्गिफलाविरुद्धेति - पात्रधारणोपयुक्त्तप्रस्तरप्रतिपविरूपतया क्रत्वर्थस्यैव सतः प्रस्तरप्रहरणस्य श्रुतिविनियुक्त्तायुरादिफलप्रदिपादकसूक्त्तवाककरणकत्वान्यथानुपपत्त्या फलसाधनत्ववत् ब्रह्मविद्याङ्गभूतायाः अग्निविद्याया अपि फलार्थत्वमुपपद्यत इति भावः । उपक्रमोपसंहारयोरुभयत्रेति योजना, नतु व्याख्येयं पदम् । तद्वाक्यस्योत्तरत्रावतरिष्यमाणत्वादिति मन्तव्यम् । हेतुचतुष्टयेनेति - यद्यप्युपक्रमोपसंहारयोर्ब्रह्मसंशब्दनमपि आचार्यस्तु ते गतिं वक्त्ता’ इत्यग्निवचनवदग्निविद्यायाः प्राक् ब्रह्मविद्याया असमाप्तावेव हेतुः । ततश्च प्रस्तुतब्रह्मविद्योपक्रमतदुपसंहारमध्यपतितत्वात् “अथ हैनम्’ इत्यन्वादेशात् । समुच्चित्योपदेशाच्चेति हेतुत्रयमेवोपन्यस्यत इति शक्यं वक्त्तुम् । भाष्येपि तथैव प्रतीयते, न प्रकारान्तरेण; तथापि साक्षात्परम्परोपपादकसाधारण्येन चतुष्टयमुपन्यस्तं द्रष्टव्यम् । पुनः परामर्शो ह्यन्वादेश इति - क्रियान्तरसम्बन्धितया शब्दतः प्रकृतस्य पुनः क्रियान्तरसम्बन्धितया शब्दतः प्रतिपादनमन्वादेशः इत्यर्थः । उपदेष्टव्यत्वविशेषविवक्षयेति - मोक्षफले समप्रधानत्वाभावेन समुच्चयाभावेप्युपदेशक्रियायां समुच्चयस्सम्भवतीति भावः । यद्वा सम्बन्धमात्रपर इति - नतु समप्राधान्येन सम्बन्धपर इत्यर्थः । “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्’ इति जैमिनीयसूत्रपाठः । द्रव्यगुणसंस्कारकर्मस्विति क्वचित् कोशो पाठो लेखकस्खलनकृतः । एतत्सूत्रार्थश्च शेषत्वात् पुरुषार्थवाद इत्यत्रास्माभिस्स्पष्टयिष्यते । ब्रह्मविद्यानुगुणफलत्वं दर्शयतीति - सत्पुत्रपौत्रादिसन्तत्यभिवृद्धेः पितृपितामहाद्यार्जितविद्यार्थपुण्यकर्मफलाभिवृद्धौ हेतुत्वादित्यर्थः । “शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्पराये कीर्तिं स्वर्गं च वर्धयन्ति’ इत्यापस्तम्बोक्तेरिति द्रष्टव्यम् । भाष्ये- श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयत इति । नचाग्निविद्यायां ब्रह्मविद्योपयुक्त्तसत्सन्ततिरूपफलजनकत्वकीर्तनावसरे सत्सन्ततेः ब्रह्मविद्याफलत्वप्रापकश्रुत्यन्तरोदाहरणमयुक्त्तमिति वाच्यम्; निर्दिष्टफलानां पूर्वपक्ष्यभिमतब्रह्मविद्याविरोधित्वप्रतिक्षेपमात्रे तात्पर्यात् । अङ्गयनुकूलफलजनकत्वाभावेपि अङ्गिविरुद्धफलजनकत्वाभावेप्यङ्गत्वं सम्भवतीत्येव भाष्यकृत्संरम्भात् अत एव वक्ष्यति- “अन्यथा त्वंशब्दात्’ इति सूत्रे आर्थवादिकमपि फलं तदविरुद्धं ग्राह्युमेवेति । उपशब्दार्थ इति - पर्यन्तवाचिना परीत्युपसर्गेण उपशब्दाथर्भूतं सामीप्यं सूच्यते, अतो विध्ननिवारणपर्यन्तत्वलाभ इति भावः । एकप्रकरणत्वे स्थितेपीति - पूर्वं ब्रह्मणः प्रकृतत्वे अग्निविद्याव्यवधानाभावे च सत्यपीव्यर्थः । सह व्याधिनाऽनशितुं दद्ब्र इति वाक्यार्थमभिप्रयन्नाह, भाष्ये- अनाश्वासमिति । “उपेयिवाननाश्वा’निति नञ्पूर्वादश्नातेरनाश्वानितिरूपम्, अभुक्त्तवन्तमित्यर्थः । यावतेत्येतद्वयाचष्टे - प्रत्युतेति । नतु ब्रह्मशब्देनेति - ब्रह्मोपदिष्टं चेत् ब्रह्मोचुरित्येव निगमनं स्यादिति भावः ।उपनिषत्सु प्रतीकोपासनानामिति - ये श्रुतोपनिषदोपि प्रतीकमुपासते तेषामर्चिरादिगतेरनुसन्धेयत्वाभावात्तद्य्वावृत्त्यर्थमधिगतपरमपुरुषयाथात्म्यस्येति व्याचष्ट इत्यर्थः । नन्वेवमपि ये पुनरधिगतपरमपुरुषयाथात्म्या अदृष्टवैगुण्यवशान्न ब्रह्मोपासते तेषामर्चिरादिगतेरनुसन्धेयत्वाभावात् पुनरपि स दोषस्तदवस्थ इति चेन्न; अधिगतपरमपुरुषयाथात्म्यस्येत्यस्य ब्रह्मोपासकस्येत्यर्थात् । ब्रह्मविद्याङ्गत्वज्ञापकश्रुत्यन्तरज्ञापनाथर्मिति - श्रुताः पठिताः उपनिषदः अङ्गभावप्रतिपादकत्वेन यस्या गतेः सा श्रुतोपनिषत्का, अङ्गभावप्रतिपादकपठ्यमानोपनिषत्प्रतिपाद्यगत्यभिधानादित्यर्थ इत्येवमावृत्त्या श्रुतोपनिषत्कस्य पुरुषस्य श्रुतोपनिषत्कगत्यभिधानादिति प्रदशर्नार्थम् । श्रुतोपनिषत्केत्यधिकाक्षरोपादानमिति श्रुत्यन्तरप्रतिपाद्यमानार्चिरादिकेति भाष्याभिप्राय इति भावः । ततश्च श्रुतोपनिषत्केत्यनेनायमर्थः कथं लभ्यते ? श्रुतब्रह्मण इत्युक्त्ते कुतो न लभ्यत इति शङ्का पराकृता । सूत्रस्य सवर्तो मुखत्वात् आवृत्तिरलङ्कार इति द्रष्टव्यम् - तत्प्रतुनयविरोध इत्यभिप्रायेणेति - प्राप्यस्य परमपुरुषस्योपासनविषयत्वावश्यम्भावादिति भावः । ननु अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदु च न’ इति पूर्ववाक्ये अस्मिन्नित्येकवचननिर्देशात्कथं इत्युक्त्तिरित्याशङ्क्य पूर्ववाक्यस्थस्यास्मिन्नित्यंशस्य जात्यभिप्रायत्वान्न दोष इत्यभिप्रयन्नाह - अर्चिषमेवेत्यतः पूर्वमिति । नन्वस्यामुप? कोसलविद्यायामर्चिरादिगतिप्रतिपादनं व्यर्थम् । “तद्य इत्थं विदुर्ये चेमे अरण्ये श्रद्धा तप इत्युपासते’ इतिपञ्चाग्निविद्यावाक्यसिद्धत्वात् । न च “आचार्यस्तु ते गतिं वक्त्ता’ इति गतेराचार्यवक्त्तव्यत्वेनाग्निभिरुपदिष्टत्वात् आचार्येण गतिरुक्त्तेति वाच्यम्; अग्नयो वा किमर्थं तथोचुरिति पर्यनुयोगस्य तत्रापि समत्वादित्यत्राह - पञ्चाग्निविद्येति । ननु श्रुतोपनिषत्कगत्यभिधानं कथमक्षिपुरुषस्य परमात्मत्वसाधकम्, अग्निभिस्सुखविशिष्टब्रह्मोपासनमुदिश्य तच्छेषत्वेन “आचार्यस्तु ते गतिं वक्त्ता’ इति आचर्यवक्त्तव्यत्वेनोक्ता गतिराचार्येणोपदिष्टेत्येतावताक्षिपुरुषस्य ब्रह्मत्वे किमायातम् ? अग्न्युपादिष्टसुखविशिष्टविद्याया ब्रह्मविद्यात्वमात्रेणापि अर्चिरादिगत्यभिधानस्य सङ्गतत्वात् । नचाग्न्युपदेष्टसुखविशिष्टस्य ब्रह्मत्वे सिद्धे सुखविशिष्टाभिधानादेव चेतिसूत्रोक्तन्यायादेवाक्षिपुरुषस्यापि ब्रह्मत्वं सिद्धमिति वाच्यम्; तथात्वे श्रुतोपनिषत्कसूत्रवैयर्थ्यापत्तेः । नचेदमपि सूत्रमग्न्युपदिष्टसुखविशिष्टस्यैव ब्रह्मपरत्वसाधकमिति वाच्यम्, एतस्य सूत्रस्य साक्षादक्षिपुरुषब्रह्मत्वोपपादकत्वस्यैव ग्रन्थकृदभिमतत्वादितिचेत् उच्यते; “अथ यदु चैवास्मिन् शव्यं कुर्वन्ती’ त्यत्र इदंशब्दस्याक्षिपुरुषविद्यानिष्ठविषयत्वस्य परित्यागायोगेनाक्षिपुरुषस्य साक्षाद्ब्रह्मत्वसाधकत्वात् ॥ननु हृदयस्य कथं गोलकादिप्रदेशवर्तीन्द्रियकन्दत्वमित्याशङ्क्य “शतं चैको च’ इत्यादिप्रतिपन्ननाडीद्वारा कन्दत्वमभिप्रयन्नाह- शतं चैका चेत्यादि । इयं च श्रुतिरिति - “आसु तदा नाडीषु’ इति श्रुतिरित्यर्थः । अत्र वक्त्तव्यं सर्वं जगद्वाचित्वादित्यत्र स्पष्टम् । हृदयशब्दो हृद्गतपरमात्मपर इति - इदमुपलक्षणम् । प्रासादगतखट्वास्थे पुंसि प्रासादस्थ इतिवत् हृदयस्थपरमात्मस्थे पुंसि हृदयत्वमिति व्यवहारोमुख्य एव । यादवप्रकाशीये तु इत्यादि - परमात्मत्वसाधनमनुपपन्नमिति - जीवव्युदसनमनुपपन्नमित्यर्थः । तदनुवादेन परमात्मत्वसाधनायेति - प्रतिबिम्बव्यावृत्तिं सिद्धवत्कृत्य जीवव्यावृत्तिसाधनायेत्यर्थः । यद्वा पूर्वोपन्यस्तहेतूननूद्य तैर्हेतुभिः जीवव्यावृत्तिसाधनायेत्यर्थः । ननु “अत एव न देवता भूतं चे’तिसूत्रतुल्ययोगक्षेमं भविष्यतीत्यस्वरसादाह - प्राणो ब्रह्मेत्यादिवाक्यस्येति । अतो ब्रह्मणः प्रतिपाद्यत्वं न पुनः प्रतिज्ञातव्यमिति - यद्यप्यत एव च स ब्रह्मेत्यत्र प्रतिबिम्बव्यावृत्ति-हेतुभिरेव जीवव्यावृत्तिस्सिद्धयतीत्येवं जीवव्यावृत्तिरेव प्रतिज्ञायते, न ब्रह्मेत्युक्त्तम्; तथापि वक्ष्यमाणरीत्या परमसाध्योपपादकोपपादकत्वमेव युज्यत इति भावः । नहि न्यायनिबन्धनेति - ततश्च सुकविशिष्टाभिधानोपपत्तीनामपि तस्मिन्नेव सूत्रे विवक्षितत्वमभ्युपेयम्, नतु निर्युक्त्तिकसुखविशिष्टाभिधानस्वरूपमात्रपरमिति भावः । श्रुत्यन्तरे दक्षिणवामयोरक्ष्णोरिति - “हन्धो ह वै नामैष योऽयं दक्षिणेऽक्षिन् पुरुषस्तं वा एतमिन्धं सन्तमिन्द्रमित्याचक्षते । अथ तद्वामेऽक्षिणि पुरुषस्य रूपमेषास्य पत्नी विराट् प्रदेशान्तरे तौ मिथुनं समेताम् । ततः प्राणोऽजायत । इन्द्रस्य’ इत्यादिः ज्योतिरधिकरणोदाहृता श्रुतिर्द्रष्टव्या । यत्सर्वेष्वधिकरणेष्विति - तथा च “अत एव च स ब्रह्म’ इत्यस्य परमसाध्योपपादकत्वमयुक्त्तमिति भावः । उपपाद्यत्वाद्दुर्बलमिति - अन्तर्यामिब्राह्मणस्यापि उत्तराधिकरणन्यायोपपाद्यत्वादिति भावः । अक्षिपुरुषविद्याया गतिचिन्तनानुवादेन तदङ्गत्वमुच्यत इत्यस्य अक्षिपुरुषविद्या गतिचिन्तनाङ्गत्वेन विधीयत इत्यर्थो विवक्षितः, उत गतिचिन्तनमक्षिपुरुषविद्याङ्गत्वेन विधीयते ? इति विकल्प्याद्यं दूषयति - अक्षिपुरुषस्य परमात्मत्वनिर्णयादिति । द्वितीयं दूषयति - गतिचिन्तनस्य सर्वपरविद्याङ्गतादिति ॥