साक्षादग्निप्रस्तावाभावादिति - साक्षादग्निर्मुख्याग्निः ज्वलनरूपाग्निः तदाधारतया ह्यग्निशब्दः स्थण्डिलरूपाग्नावुपचर्यत इति भावः । ननु स्थण्डिलाग्निविषय एव संशयः । तस्यैवान्नादत्वप्रसिद्धिश्चास्तीत्यत्राह - अग्निप्रकरणस्येति । ओदनोपसेचनसामर्थ्यावगतस्येति - ओदनादेर्भोग्यत्वेन लोकप्रसिद्धेर्भोक्तृत्वस्यैव प्रथमं बुद्धाववतारादिति भावः । ननु मन्त्रे मुख्य ओदनो न श्रुतः, येन तत्प्रतिसम्बन्धी अत्ता भोक्ता स्यात्, किन्तु ब्रह्मक्षत्रिययोरोदनरूपणमात्रं क्रियते, न ह्युपचरितौदनस्यापि तत्प्रसम्बन्धिना भोक्त्रा भवितव्यम्, न चास्य “मृगयाविनोदिनोऽमृगाः परनृपतयः’ इत्यत्रामृगेषु मृगत्वरूपेण वस्तुतोमृगहन्ता क्षत्रिय एव तत्प्रतिसम्बन्धी प्रतीयते, न तु श्रोत्रियः कश्चिद्ब्राह्मण इति वाच्यम्; तथा नियमाभावात् । “त्वत्कृपाणभुजङ्गस्य क्षीरं विद्विषतां यशः’ इत्यत्रोपचरितक्षीरप्रतिसम्बन्धिनि कृपाणे पातृत्वस्याप्रतीतेः, सत्यामपि प्रतीतौ वास्तवपातृत्वादर्शनादिति चेत् उच्यते, अवश्यं तावदिहानोदनविषयेण ओदनशब्देन वाच्यगतं कञ्चिद्गुणमपेक्ष्य वर्तितव्यम् । तदिह भोग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूपः पर्यवस्यतीति तत्प्रतिसम्बन्धिनो यस्येति पदोपात्तस्य भोक्तृत्वप्रतीतिरनिवार्या । कृपाणभुजङ्गस्येत्युदाहरणेपि कृपाणे समारोपिततत्पातृत्वप्रतीतिरस्त्येव, न च तत्र भुजङ्गत्वरूपणात् पातृत्वप्रतीतिः, न तु यशः क्षीरत्वरूपणमात्रात् । ततश्च ब्रह्मक्षत्रस्यौदनत्वरूपणमात्रेण कथं पातृत्वप्रतीतिरिति वाच्यम्; “करवालस्य ते वीर क्षीरं विद्विषतां यशः’ इत्यत्रादौ भुजङ्गत्वरूपणभावेपि क्षीरत्वरूपण मात्रेण पातृत्वप्रतीतेः, तचैवं तद्वदेव भोक्तृत्वमप्यारोपितमस्तु, ततश्च वस्तुतः ततसम्बन्धिन अभोक्तृत्वमेव पर्यवस्यतीति कथं भोक्तृत्वं जीवत्वसाधकं स्यादिति वाच्यम्; असति बाधके भोक्तृत्वप्रतीतेः । प्रमात्मस्योचितत्वेन जीवत्वसाधनसम्भवादिति भावः । स्त्रीपुंसात्मकत्वादिति - स्त्रीणां भोग्यत्वं सिद्धमेव पुंनपुंसकयोरपि भृत्यादिरूपेण भोग्यत्वमिति भावः । विधेय इत्यभिप्रायेणेति - अबाधक इत्यभिप्रायेणेत्यर्थः । ननूपसेचनशब्देन साधारणमबाधकत्वमात्रं न लक्षयितुमुचितम्, अपितु स्वयमद्यमानत्वे सति अन्यादनहेतुत्वम् तादृशञ्चादनं संहारयितृपरब्रह्मपक्ष एव घटते, नान्यिेति चेत् नैष दोषः, प्रथमश्रुतौदनशब्देन भोग्यत्वस्य प्रतीतत्वात् । तदनुरोधेनैव चरमश्रुतोपसेचनशब्दस्यापि अबाधकत्वार्थकत्वस्यैव युक्त्तत्वात् । न चोपसेचनपदानुसारेणौदनपदस्य विनाश्यत्वपरत्वमस्त्विति वाच्यम्; चरमश्रुतस्वारस्यानुरोधेन प्रक्रमश्रुतस्वारस्यान्यथानयनायोगात् ॥ साधारणाकारं विहायेति - अत एव प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रोद्गातॄणां प्रयजमानस्येति । अध्वर्युप्रैष उद्गातृशब्दस्य बहुवचनानुसारेण रूढिपूर्विकलक्षणया बहुषु वृत्तौ वक्त्तव्यायां षोडशर्त्विक्साधारणाकारं विहाय विशेषाकारेणोद्गातृगणमात्रलक्षणा पूर्वतन्त्रे निणर्ीता । भाष्ये- तदुपसिच्यमानस्येति । तन्मिश्रितस्येत्यर्थः । विष्णोः श्रूयमाणत्वादिति - यद्यपि “सोऽध्वनः’ इत्यादिवाक्यं “प्रकरणाच्च’ इत्युत्तरसूत्रस्य विषयः, न त्वस्य सूत्रस्य; अत्र निखिलचराचरसंहर्तृत्वस्यैव हेतुकरणात् तस्य च मृत्यूपसेचनसमभिव्याहारलभ्यत्वान्नान्यापेक्षा, अथापि मृत्यूपसेचनसमभिव्याहारस्य प्रकरणमप्युत्तम्भकमिति सूचनार्थं तथोक्तमिति द्रष्टव्यम् । मृत्यूपसेचनसामर्थ्येति - ननु प्रक्रमश्रुतौदनपदस्वारस्यप्रतिपन्नभोग्यत्वानुसारेण चरमश्रुतं मृत्यूपसेचनत्वमबाधकत्वाभिप्रायेण नेयमित्युक्त्तमिति चेत् उच्यते; इह ब्रह्मक्षत्रयोर्मृत्योश्च तावदोदनोपसेचनभावरूपणात् दध्यन्नरीत्या सम्बन्धः प्रतीयते, तथा च मृत्युमिश्रणप्रतीत्यनुसारेण ब्रह्मक्षत्रशब्दाभ्यां चराचरात्मकं विनाशिवस्तुमात्रं लक्षणीयम् । मृत्यूपसेचनत्वरूपणसन्निधानादेव ओदनशब्देनापि विनाश्यत्वं लक्षणीयम् । स्वबुद्धयपस्थानीयविशेषाकाररूपगुणग्रहणादपि एकवाक्यतापन्नपदान्तरोपस्थापितगुणग्रहणस्य बुद्धिलाघवेन एकवाक्यतासामर्थ्येन च न्याय्यत्वात् । “अत एवाक्त्ताश्शर्करा उपदधाति’ इत्यत्र विधेयाञ्जनस्य साधनापेक्षायां “तेजो वै घृत’मिति वाक्यशेषे श्रुतं घृतमेव ग्राह्यम्, नतु पुरुषबुद्धिकल्पनीयमद्रवद्रव्यमात्रमिति पूर्वतन्त्रे निर्णीतम् । ननु तथापि कथं ब्रह्मक्षत्रशब्देन चराचरग्रहणसिद्धिः? ओदनशब्दस्य गौणत्वावश्यम्भावेन तस्य समभिव्याहृतपदार्थान्तरोपस्थापितगुणलक्षकत्वेपि ब्रह्म च क्षत्रं चेत्यस्य मुख्यार्थवृत्तिसम्भवात्, न च मृत्यूपसेचनकीर्तनात् तदुपसिच्यमानं सर्वं तेन ग्राह्यमित्युक्त्तं युक्त्तम् । “शूर्पेण जुहोति तेन ह्यन्नं क्रियते’ इत्यत्र शूर्पशब्दस्य वाक्यशेषे अन्नकरणत्वकीर्तनेपि यद्यन्नकरणं तत्र सर्वत्र लक्षणानुगमात् । ननु शूर्पमात्रस्याप्यन्नकरणत्वेन स्तुतिस्सम्भवति, अन्नकरणत्वस्य शूर्पे दर्वीपिठरादौ च व्यासज्यवृत्त्यभावात् इति चेदिहापि ब्रह्मक्षत्रमात्रस्यापि मृत्युमिश्रणप्रतिपादनं सम्भसतीति तुल्यम् । किञ्च व्यर्थं ब्रह्मक्षत्रशब्दयोः कृत्स्नचराचरलक्षकत्वोपपादनम् ओदनशब्दस्य संहार्यत्वलक्षकत्वोपपादनमात्रेणापि तत्प्रतिसम्बन्ध्यत्ता संहर्तेति सिद्धौ शब्दवृत्त्यसङ्कोचप्राप्तसर्वकल्पानुयायिसकलब्रह्मक्षत्रजात्यलिङ्गितव्यक्त्तिसंहर्तृत्वलिङ्गेनहवात्तुः परमात्मसिद्धेरिति चेत् उच्यते; कर्तृत्वं भोक्तृत्वमुपसंहर्तृत्वमिति पक्षद्वयेपि ओदनपदवत् ब्रह्मक्षत्रपदयोरपि लक्षकत्वमवश्यम्भावि । नहि मृत्यादिरूपभोग्यतया वा भक्ष्यतया वा ब्रह्मक्षत्रयोरेव भोक्ता कश्चिज्जीवोऽस्ति, न वा परमात्मा तदुभयमात्रसंहर्ता, न चाधिकभोक्तृत्वेपि विशिष्य तदुभयमात्रग्रहणे प्रयोजनमस्ति, न चान्तरादित्यविद्यायाम् ये चामुप्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ इति सर्वलोककामेशितरि परमात्मनि लोकविशेषकामविशेषेशितृत्ववत् सर्वसंहन्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहतृत्वोपपत्तिरिति चेन्न तत्राक्ष्यादित्यस्थानभेदेन “स एष ये चामुप्मापराञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’ इति निर्देशभेददर्शनात् तत्र व्यवस्थासिद्धावपि इह तन्मात्रग्रहणे नियामकाभावात् ब्रह्मक्षत्रग्रहणमुपलक्षणं न स्वार्थमात्रनिष्ठमिति उपलक्षणीयाकाङ्क्षायां पश्चात्तनमृत्यूपसेचनकीर्तनात् तदुपसिच्यमानं सर्वमुपलक्षणीयमिति निश्चीयते । किञ्च ओदनशब्दस्योक्तयुक्तवा संहार्यत्वलक्षणास्थितौ यच्छब्दयोगेनाऽनुवादकेऽस्मिन्मन्त्रे संहार्यसमर्पकस्य ब्रह्म क्षत्रं चेत्यस्य “सन्मूलास्सोम्येभास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः’ इत्यादि पुरोवादानुसारेण चराचरात्मकविनाशिमात्रोपलक्षकत्वमावश्यकमित्यास्तां तावत् ॥प्राकरणिकहेतुरत्रोच्यत इति - प्राकरणिकः प्रकरणसहित इत्यर्थः । प्रकरणाच्चेति सूत्रे चशब्देन लिङ्गं समुच्चीयते, एवञ्च परमात्मप्रकरणात् क इत्था वेदेति दुर्विज्ञानत्वरूपलिङ्गप्रत्यभिज्ञानाच्चेत्यर्थः । नतु विषयवाक्यात् पूर्ववाक्यस्थमहत्त्वविभुत्वादिहेतुरित्यर्थः । ब्रह्मणः प्रकृतत्वे विवादाभावेन लिङ्गेन तस्यासमर्थनीयत्वात् सूत्रभाष्यगतप्रकरणशब्दस्वारस्याच्च । एकप्रकरणत्वं कथमितीति - यद्यपि “महान्तं विभुम्’ इत्यादौ ब्रह्म प्रकृतम्, न प्रकृतं च हातुं योग्यम् । अथापि “न जायते म्रियते’ इत्यादौ जीवस्यापि प्रकृतत्वात् ब्रह्मण एव ग्रहणेन प्रमाणं पश्याम इति भावः । परस्य स्थितिरिति जिज्ञास्यत इति - सामान्यतश्शरीराधारत्वं जानता शिष्येण शरीरे प्रदेशविशेषः पृच्छ्यत इत्यर्थः । प्रकरणविच्छेदं दर्शयतीति - “ऋतं पिबन्तौ’ इति वाक्यस्य परमात्मप्रकरणविच्छेदं दर्शयतीत्यर्थः । यस्य ब्रह्म चेत्यादि- वाक्यापेक्षयेति - ऋतपानलिङ्गबलात् ऋतं पिबन्तावितिवाक्ये यस्य ब्रह्म चेत्यस्य पश्चात्पठिते परमात्मप्रकरणविच्छेदेपि नात्तुः परमात्मत्वहानिः । यस्य ब्रह्मचेत्यादिवाक्यस्य महान्तं विभुमित्यादिना एकप्रकरणतया ऋतं पिबन्तावित्यनेन एकप्रकरणत्वाभावादिति शङ्काभिप्रायः । व्यवहितत्वाद्विच्छेदो युक्त्त इति - ननु “महान्तं विभु’मित्यत्रापि अव्यवधानमस्ति । एवं हि पाठक्रमः- महान्तं विभुमात्मानं मत्वा धीरो न शोचति । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् । यस्य ब्रह्म च क्षत्रञ्च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः । ऋतं पिबन्तौ सुकृतस्य लोके’ इति । ततश्चाव्यवधानं द्वयोरप्यविशिष्टम् । तत्र च प्रकरिष्यमाणपरामर्शलाभेन प्रकृतहानमयुक्त्तम् । प्रकृतप्रत्यभिज्ञापकं दुरधिगमत्वलिङ्गं च वर्तते । अतः कथमृतं पिबन्तावितिखण्डान्तरस्थोत्तरवाक्यैकप्रकरणत्वलोभेन प्रकृतैकवाक्यत्वपरित्याग इतिशङ्केति चेत् उच्यते; प्रकरणाच्चेतिसूत्रे प्रकरणशब्देन परमात्मप्रतिपादकवाक्यसन्दर्भमध्यगतत्वं विवक्षितम् । तदिह गुहां प्रविष्टावितिसूत्रे आक्षिप्य समाधीयत इत्यनवद्यम् । यद्यपीमौ शङ्कापरिहारौ तदेकप्रकरणत्वात्पूर्वप्रस्तुतोक्तावपि स एव भवितुमर्हतीति भाष्याभिप्रेतौ तत्रैव वक्त्तव्यौ च । तथाप्यनन्तरमितिपदस्यैकप्रकरणत्वोपपादकत्वादिहोक्ताविति द्रष्टव्यम् । समप्राधान्यशङ्कापरिहारार्थमिति - तथा हि सति परमात्मनः प्रतिपाद्यत्व शङ्कापि स्यादिति भावः । बुद्धिप्राणयोरन्तरत्वमिति - बुद्धिशब्देनान्तःकरणमुच्यते । नहि संहर्तृत्वमुच्यत इतिवदिति - यस्य ब्रह्म चेति वाक्य इति शेषः । यथाकथञ्चिदिति व्याख्येयं पदम् । युक्तयन्तरमाह - तत्र प्रथमत इति । अनेकैरिति - समभिव्याहृतैरिति भावः । यथा न विरुध्यत इति - ननु द्वयोरप्यजहत्वस्वार्थलक्षणाप्रतिपाद्यत्वाविशेषात् कथं कस्यचित्प्राधान्यं कस्यचिदप्राधान्यम् ? नहि “काकेभ्यो दधि रक्ष्यता’मित्यादौ काकानां प्राधान्यम् नवा “सृष्टिरुपदधाति प्राणभृत उपदधाति पृष्ठैम्तुवत’ इत्यादौ शक्यार्थस्य प्राधान्यमन्यस्याप्राधान्यमुपलभ्यत इति चेदुच्यते; लोके श्रेष्ठवाची शब्द एव हि अश्रेष्ठे उपचरितो दृश्यतो अत एव हि महाभाष्ये “कारकान्तरे कर्तृवाचीशब्द उपचर्यते न कर्तरि कारकान्तरशब्दः’ इत्युक्त्तम् । ततश्च यद्वाचिशब्दो यत्रोपचारेण प्रयुज्यते स तदपेक्षया श्रेयानिति उत्सर्गसिद्धमेतत् । ततश्च तेन न्यायेन मुख्यार्थस्यौपचारिकाथर्ापेक्षया प्राधान्यं सिद्धमिति भावः । उपकरणभूतान्तःकरणस्य द्वितीयत्व इति - ऐतेन “त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ इति सूत्रोक्तरीत्योपायोपेयोपेतॄणामेवोपन्यसनीयतया बुद्धिप्राणयोश्च त्रिष्वनन्तर्भावेन तत्परपूर्वपक्षस्य कथमुत्थितिरिति शङ्का परास्ता । बुद्धिप्राणयोरप्युपासननिर्वृत्त्युपकरणतयोपायकोटावेवान्तर्भावसम्भवेन पूर्वपक्षोदयसम्भवादिति ध्येयम् ॥परमसाध्योपपादकत्वसूचक इति - अत्तुः परमात्मत्वोपपादकतां सूत्रार्थस्य दर्शयति हिशब्द इत्ययमथर् उत्तरत्र स्पष्टः । दृश्यत इत्यन्वय इति - अन्वयः अनुषङ्ग इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । जीवोपासनमङ्गत्वेन विधीयत इति - तथाचाध्यात्मयोगाधिगमशब्दस्य जीवोपासनमर्थ इति भावः । भूमौ च वेदप्रसिद्धेरिति - “अदित्यास्त्वोपस्थे सादयामि’ इत्यादौ भूमौ च प्रयोगाभावादिति भावः । सजातीययोरेव द्विवचननिर्देशार्हत्वमिति - विजातीयपरिग्रहे जातिव्यक्तयोरप्युपस्थापनीयतया गौरवम् । सजातीयपरिग्रहे तु व्यक्त्तिमात्रस्यैवोपस्थाप्यतया लाघवमिति भावः ॥तत्तद्वाक्योदितविशेषणान्तराणीति - ब्रह्मजज्ञत्वसेतुत्वादीनीत्यर्थः । उपास्यत्वोपासकत्वेति - ततश्चोपास्यस्य परमात्मनः उपासकदवीयस्त्वशङ्कानिरासाय हृदयगुहायां द्वयोरप्यवस्थितिम् ऋतं पिबन्तावितिवाक्यं प्रतिपादयतीति भावः । भाष्ये- यस्सेतुरीजानानामिति । यज्वनां सेतुः प्रतिष्ठापक इत्यर्थः । ननु भाष्ये- इहापि चायातपावित्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्येते इत्युक्त्तिरयुक्त्ता, छायातपशब्दयोरज्ञत्वसर्वज्ञत्वपरत्वस्य पूर्वपक्षिणं प्रत्यसिद्धत्वेन विशेषणस्य हेतुकरणासम्भवादित्याशङ्कय छायातपशब्दयोर्ज्ञाज्ञाविति श्रुतिस्मारकतया हेतुकरणं सम्भवतीत्याह - अज्ञत्वसर्वज्ञत्वाभ्यामित्यनेनेत्यादिना ॥ भाष्ये- सर्ववेदसदक्षिणक्रतुसमाप्तिवेलायामिति । अत्रोपयुक्त्ता श्रुतिर्लिख्यते- “उशन् ह वै वाजश्रवसस्सर्ववेदसं ददौ’ उशन्कामयमान इत्यर्थः । “तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश । पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । आनन्दा नाम ते लोकस्तान् स गच्छति ता ददत्’ । जरद्गवीः प्रयच्छन् आनन्दान् सुकरहितान् लोकान् पाप्नोतीत्येवममन्यत इत्यर्थः । “स होवाच पितरं तात कस्मै मां दास्यसीति । द्वितीयं तृतीयम् । तं होवाच । मृत्वेव त्वा ददामीति । एवं पित्रा कुपितेनोक्तो नचिकेताः परिदेवयाञ्चकार “बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किं स्विद्यमस्य कर्तव्यं किं मयाद्य करिष्यति’ इति । अहं बहुनां पुत्राणां शिष्याणां वा मुख्यो मध्यमो वा न सर्वथा अधमः ईदृशमपि मां कुतो यमाय प्रादात्, तस्य वा प्रेत्तेन मया किं प्रयोजनमित्यर्थः । अथापि पितृवचनं मृषा माभूदिति मत्वा किं मयोक्तमिति शोकाविष्टं पितरमाह- “अनुपश्य यथा पर्वे प्रतिपश्य यथापरे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः’ । पूवर्ेषां पितृपितामहादीनां वर्तमानानां च साधूनां चरितानि शरीरानित्यतां च ज्ञात्वा यमाय मां प्रेषयेत्यर्थः । एवमुक्त्तेन पित्रा प्रेषितं यमभवनद्वारि तिस्रो रात्रीर्वसन्तं दृष्ट्वा प्रोष्यागतं यमं प्रति आर्याणां वाक्यम्- “वैश्वानरः प्रविशत्यतिथिर्बाह्मणो गृहान् । तस्यैतां शान्तिं कुवर्न्ति हर वैवस्वतोदकम्’ अर्ध्यादिपूजां कुर्वित्यर्थः । अकरणे प्रत्यवायं चोचुः- आशाप्रतीक्षे सङ्गतं सूनृतं च इष्टापूर्ते पुत्रपशूंश्च सर्वान् । एतद्वृङ्क्त्े पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे’ कामसङ्कल्पसत्संयोगसत्यवाक्यत्वेष्टापूर्तपुत्रपश्चादीनुपवसन्नतिथिर्नाशयतीत्यर्थः । एवममात्यैरुक्त्तस्य मृत्योर्वचनम्- “तिस्रो रात्रीर्यदवात्सीः गृहे मे अनश्वन् ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन् स्सस्तिमेऽस्तु तस्मात्प्रति त्रीन् वरान् वृणीष्व’ । इत्येवमुक्त्तो नचिकेतास्त्वाह- शान्तसङ्कल्पस्सुमना यथा स्याद्वीतमन्युर्गौतमो माभिमृत्यो । त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे’ । शान्तसङ्कल्पः निवृत्तविचार इत्यर्थः । मा अभिमां प्रतीत्यर्थः । त्वत्प्रसृष्टं मामभि प्रतीतः सोयं पुत्र इति प्रत्यभिज्ञानन् वदेत्, सल्लपत्वित्यर्थः । एवमुक्त्तस्य मृत्योरुत्तरम्- “यथा पुरस्ताद्भविता प्रतीतः औद्दालकिरारुणिः प्रहृष्टः । सुखं रात्रीश्शयीत वीतमन्युस्त्वा दर्शितवान्मृत्युमुखात्प्रमुक्त्तम् ’ । यथापूर्वं प्रत्यभिज्ञानात्वित्यर्थः । दर्शितवान् दृष्टवानित्यर्थः । पुनर्नचिकेता आह- “स्वर्गे लोके न भयं किञ्च नास्ति न तत्र त्वं जरया बिभेति’ । तत्र वर्तमानो जरया युक्त्तस्सन् त्वत्तो न बिभेतीत्यर्थः । एवं स्वर्गं पशस्याह-“सत्वमग्निं स्वर्गमध्येषि मृत्यो प्रब्रूहि तं अद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्ते एतद्वितीयेन वृणे वरेण’ स्वर्ग्यं स्वर्गसाधनमित्यर्थः । एकमुक्त्तो मृत्युराह - “प्रते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् । अनन्तलोकाप्तिमधो प्रत्तिष्ठां विद्धित्वमेतं निहितं गुहायाम्’ । अनन्तलोकाप्तिप्रतिष्ठासाधनभूतं विद्वद्बुद्धौ निविष्टमग्निं जानीहीत्यर्थः । तत्र श्रुतिवाक्यम् “लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’ । इष्टका यावतीर्वा यथा वा- इष्टकास्वरूपतत्सङ्खयादिकमुपदिदेशेत्यथर्ः । “स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनराह तुष्टः’ । प्रत्यवदत् अन्ववददित्यर्थः । “तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायामग्निः सृङ्काञ्चेमामनेकरूपां गृहाण’ । सृङ्कारत्नमयी माला । त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति । त्रिणाचिकेतस्रयमेतद्विदित्वा एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशात्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके । यो वाप्येतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम् । स एव भूत्वा ब्रह्मजज्ञात्मभूतः करोति तद्येन पुनर्न जायते । एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्ितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व । येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ । एषां वाक्यानामर्थो ग्रन्थकृतैवानुमानिकाधिकरणे वक्ष्यते । एवमुक्त्तो मृत्युराह- देवैरत्रापि विचिकित्सितं पुरा नहि सुज्ञेयमनुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्’ । मामोपरौत्सीः- अतिमा सृजैनम्- मां मा बधस्व । एनं वरं मां प्रति अतिसृज मुञ्चेत्यर्थः । एवमुक्त्तो नचिकेता आह- “देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुविज्ञेयमात्थ । वक्त्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्’ । एवमुक्त्तो मृत्युराह- “शतायुषः पुत्रपोत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि’ । आयतनम्- निवासस्थानमित्यर्थः । “एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि’ । त्वमेधित्वं महाभूमौ राजा भवेत्यर्थः । “ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामान् छन्दतः प्रार्थयस्व । इमा रामास्सरथास्सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः’ । मरणसम्बन्धं येयं प्रेतप्रश्नं न प्रष्टुमर्हसीत्यर्थः । एवं प्रलोभितोपि नचिकेता आह- “श्वोभावा मर्त्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितमल्पमेव तवैव भावास्तव नृत्तगीते’ इति । श्वः अभावः येषां ते श्वोभावाः, त्वदुपन्यस्तभोगाः सर्वे अपि विनश्वरा इत्यर्थः । सर्वेन्द्रियाणामिति । किञ्च ते भोगाः सर्वेन्दियबलनाशका इत्यर्थः । तवैव भावास्तव नृत्तगीते इति । भावा रामादयो नृत्तगीतादिकं च तवैव सन्त्वित्यर्थः । “न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वाम् । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयस्य एव’ । वित्तं न तृप्तिहेतुः, किञ्च त्वद्दर्शने धनायुषोः को भारः ? अतस्स एव वरणीय इत्यर्थः । “अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् नातिदीर्घे जीविते को रमेत’ । क्वधस्थः- भूरूपाधोलोके वर्तमानः । प्रजानन्- विवेकी मनुष्यः देवानामपि समीपं गत्वा वैषयिकभोगप्रवणः । अत्यल्पे जीविते को रमेतेत्यर्थः । “यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूमि नस्तत्’ । यस्मिन् परलोके देवानामपि विचिकित्सा तमेव ब्रूहीत्यर्थः । अतः परं श्रुतिवचनम्- “योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेतो वृणीते’ । अतः परं मृत्युवचनम्- “अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्यः प्रेयो वृणीते’ । सिनीतः- बध्नीतः, भिन्नप्रयोजने श्रेयःप्रेयसी पुरुषसम्बन्धिनी भवतः । तयोर्मध्ये श्रेय आददानस्य साधुत्वम्, अन्यस्य तदभावश्चेत्यर्थः । श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्त्ति धीरः । श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते । एतः- प्राप्नुवत इत्यर्थः । सम्परीत्य सम्यगालोच्य प्रेयोपेक्षया अभ्यर्हितं श्रेयः धीरो वृणीते । मनदस्तु प्रेयोरूपशरीराप्यायकान्नपानादि वृणीते इत्यर्थः । “न त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः’ सृङ्काकुत्सिता गतिः । दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विषूची- विरुद्धगती इत्यर्थः । “विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्त’ । विद्यानीप्सिनम् विद्याभिलाषिणमित्यर्थः । “अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । दन्द्रभ्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः’ । दन्द्रभ्यमाणाः- कचत्सितां गतिं गच्छन्त इत्यर्थः । न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे’ । बालम्- अज्ञं प्रति, साम्परायः परलोको न भातीत्यर्थः । अयं लोक इत्यस्यार्थः संयमने त्वनुभूयेत्यत्र वक्ष्यते । “श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोपि बहवो यं न विद्युः । आश्चर्यो वक्त्ता कुशलोऽस्य लब्धा आश्चर्यों ज्ञाता कुशलानुशिष्टः’ । यस्य श्रवणं वेदनं वक्त्ता लब्धा ज्ञाता वा दुर्लभ इत्यर्थः । कुशलानुशिष्टः- कुशलेनाचार्येणानुशिष्ट इत्यर्थः । “न नरेणावरेण प्रोक्त एष सुविज्ञोयो बहुधा विचिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात्’ । अवरेण- अल्पज्ञेनाचार्येण प्रोक्तोऽयमात्मा ज्ञातुं शक्यः वादिभिर्बहुधा उत्प्रेक्ष्यमाणः, अन्येन प्राकृतेन मनुष्येण प्रोक्ते उपदिष्टे सत्यवगतिर्नास्ति, यतोऽयमणोरप्यणीयानित्यर्थः । तदेवाह- “नैषा तर्केण मतिरापनेया प्रोक्तोऽन्येन सुज्ञानाय प्रेष्ठ । यं त्वमापस्सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः पृष्टा । आत्मविषया पतिस्तत्प्राप्या न भवति, हे प्रेष्ठ हे प्रियतम ! अन्यप्रोक्तोपि आगमानभिज्ञप्रोक्तोपि सुज्ञानाय न भवति । यद्विषयिणीं मतिं त्वं प्राप्तवानसि, स आत्मा दुरधिगमः । त्वं यतः प्रलोभ्यमानोपि अविचालितः, अतस्त्वं धीरः, तस्मात् त्वादृश एव न शिष्यस्स्यादित्यर्थः । “जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितोग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् । कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्तमभयस्य पारम् । स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः । तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति । एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्ममणुमेयमाप्य । संमोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद । सर्वे वेदा यत्पदमामनन्ति सर्वाणि भूतानि च यद्वन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्गृहेण ब्रवीम्योमित्येतत् । एतद्धयेवाक्षरं परम् । एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् । एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते । अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् । आसीनो दूरं व्रजति शयानो याति सर्वदा । अस्तं वदाम तं देवं मदन्यो ज्ञातुमर्हति । अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । नाविरतो दुश्चारितान्नाशान्तो नासमाहितः । नाशान्तमनसो नापि प्रज्ञानेनैनमाप्नुयात् । यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः । यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि । आत्मानं रथिनं विद्धि शरीरं रथमेव च’ इत्यादि । निर्विशेषतापत्तिर्मोक्षश्चेदिति - ततश्चोपायविशेषनिर्धारणं नासत्तावधारणात्मकमोक्षस्वरूपनिर्धारणं न सम्भवतीति मोक्षज्ञानार्थत्वं तदनुबन्धिज्ञानस्य युज्यत इति भावः । ज्ञातेतरविषयत्वादिति - देहातिरिक्त्तस्य नित्यस्यात्मनो ज्ञातत्वेन प्रन्नस्य तद्य्वतिरिक्त्तविषयत्वादित्यर्थः । श्रुत्यन्तरसंवादमिति - “न प्रेत्य संज्ञास्ति’ इति वाक्यस्य मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचाभावेन भूतसङ्घातेनैकीकृत्यात्मनि देवादिरूपज्ञानं नास्तीत्यर्तकत्वादिति भावः । परावरात्मतत्त्वविज्ञानमिति व्याख्येयं पदम् । प्राकरणिकपूर्ववाक्यस्थहेतुपरं द्वितीयमिति - अत्र यद्वक्त्तव्यम् तत्पूर्वमेवोक्तम् । हिशब्दपञ्चम्यन्तपदयोरुभयोः श्रवणादिति - इतरथा हिशब्दस्यात् हेतुत्वार्थकत्वेन पौनरुक्तयप्रसङ्गादित्यर्थः । स्वपक्षे पौनरुक्तयाभावमुपपादयति - गुहां प्रविष्टयोरिति । सूत्रार्थस्य दर्शयतीति - गुहाप्रविष्टयोरात्मत्वरूपसूत्रार्थस्येत्यर्थः । गुहाप्रविष्टयो रात्मत्वादत्ता परमात्मेत्यर्थः । नन्वेवं हि परेषां योजना; गुहां प्रविष्टौ जीवपरावेव । कुतः? आत्मानौ हि तौ, चेतनौ हि तावित्यर्थः । द्वयोरपि चेतनत्वेन सजातीयत्वात् ऋतपानलिङ्गेन निश्चितस्य द्वितीयापेक्षायां सजातीयस्य चेतनान्तरस्यैव ग्रहणमुचितम् । अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्त्ते द्वितीयो गौरेवान्विष्यते, नाश्चादि । यदुक्त्तं परमात्मनो गुहाहितत्वं नोपपद्यत इति तन्न; श्रुतिस्मृतिषु परमात्मनोपि गुहादितत्वदर्शनात् परमात्मनोपि गुहाहितत्वं नोपपद्यत इति । अतो भवत्पक्ष इवास्मत्पक्षेपि गुहां प्रविष्टाविति सैत्रं पदं सिद्धान्तयुक्त्तिसूचकम् । अस्मन्मते पूर्वपक्षयुक्त्तिसूचकम् । अतः पूर्वपक्षद्योतकनिर्देशोऽनावश्यक इत्यस्वरसादाह - अर्भकौकस्त्वादिति परस्योपपन्न इतीतिच्छेदः । कृतकरत्वादिति - अर्भकौकस्त्वादितिसूत्रेणेत्यर्थः ।अस्मिन्नधिकरणे एष एव न्यायो द्वासुपर्णो सयुजौ सखायौ’ इत्यत्रापि शाङ्करभाष्ये यदुक्त्तं तद्दूषयतिद्वासुपर्णावितिवाक्य इत्यादिना । ननु षैङ्गिरहस्यब्राह्मणानुसारेण द्वासुपर्णेति मन्त्रस्य बुद्धिजीवपरत्वेन एतन्न्यायातिदेशस्य तद्भाष्य एव दूषितस्य दूषणं किमर्थं क्रियत इत्याशङ्क्य तदभिमतबुद्धिजीवपरत्वमपि न सम्भवतीत्याह - तस्य च वाक्यस्येति । ॥ इति अत्रधिकरणम् ॥