पादानुयायिनोऽर्थस्येति - चिदचिद्विलक्षणकारणास्तित्वस्येत्यर्थः । नन्वर्थभेदादेव पादक्रमोपपत्तौ सङ्गतिः कुतस्सूत्रकाराभिमतेत्याशङ्कयाह - पादभेदो ह्यर्थभेदादिति । नतु प्रमविशेष इति भावः । सङ्गतिविशेषादिति - पौर्वापर्यनियामकजिज्ञासाविषयस्यैव सङ्गतित्वादिति भावः । तत्र किं प्रमाणमिति - सङ्गतिविशेषस्य सूत्रकाराभिमतत्वे किं प्रमाणमित्यर्थः । ननु जन्मादिसूत्रत्रयस्यापि प्रथमाधिकरणाधीनारम्भत्वेपि शास्त्रारम्भसिध्द्यर्थत्वमव्याहतमेव, ईक्षत्यधिकरणोपक्रमत्वाच्छास्त्रस्य । ततश्च प्रथमाधिकरणस्य शास्त्रारम्भसिध्यर्थत्वकीर्तनमयुक्त्तमित्याशङ्कयाह - यद्वा जनमादिसूत्र्याः इति । प्रथमपादे सङ्गतिरप्यस्तीति - शास्त्रान्तर्भूतत्वमप्यस्तीत्यर्थः । नन्वीक्षत्यधिकरणादारभ्यैव शास्त्रं न ततः प्राचीनस्य शास्त्रत्वम्, शास्त्रारम्भार्थतया शास्त्रान्तर्भावस्तु प्रथमाधिकरणस्यापि समानः । अतः प्रथमाधिकरणानुक्रमे शास्त्रारम्भसिद्धय इत्युक्त्तमयुक्त्तमित्याशङ्कयाह - यद्वा शास्त्रारम्भसिद्धय इतिपदमिति । आत्यन्तिकलयपर्यन्तत्वाभिप्रायेणेति - आत्यन्तिकलयो मोक्षः, मोक्षस्यानन्दरूपत्वादिति भावः । वस्तुतः परमात्मवृत्तेमर्ुक्त्तगतामृतत्वस्य कथं तदसाधारणत्वमित्याशङ्कयाह - प्रदेयत्वेनेति । चिह्नभूतमित्यर्थ इति - तथाचातद्धर्मस्यापि तच्चिह्नत्वमुपपद्यत इति भावः । भाष्ये- अतिपतितेति । प्रमाणान्तरविषयत्वगन्धशून्य इत्यर्थः । औत्पत्तिकसूत्र इति - औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति सूत्र इत्यर्थः । प्रत्यक्षसूत्र इति - “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्’ इतिसूत्र इत्यर्थः - अन्ययोगव्यवच्छेदस्त्रिपाद्या क्रियत इति - आक्षेपपरिहारमुखेन नान्ययोग्यव्यवच्छेदार्ढ्यमित्यर्थः । ब्रह्म लिङ्गगतमिति । परैरुक्त्तमिति - स्पष्टब्रह्मलिङ्गादिवाक्यानि प्रथमपादे चिन्तितानि, अस्पष्टब्रह्मलिङ्गादिवाक्यानि द्वितीयतृतीययोविर्चार्यन्ते । तत्र द्वितीयपादः सविशेषप्रधानः, तृतीयस्तु निर्विशेषप्रधानः । चतुर्थस्तु कारणवाक्यविगानपरिहारपर इति परैरुक्त्तमित्यर्थः । लिङ्गिप्रतिपादनमिति अव्यक्त्तादिशब्दैः प्रधानादेः प्रतिपादनादिति भावः । न तल्लिङ्गप्रतिपादनमिति - द्वितीयतृतीयपादयोरिव न लिङ्गमात्रप्रतिपादनमिति भावः ॥ सर्वं खल्वित्यादेरिति सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोको पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणश्शरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकमर्ा सर्वकामस्सर्वगन्धस्सर्वरसः सर्वमिदमभ्याक्त्तोऽवाक्यनादरः’ एष म आत्मान्तर्हृदयेऽणीयान् ब्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा एष म आत्मान्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् द्विवो ज्यायानेभ्यो लोकेभ्यस्सर्वकार्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्याक्त्तोऽवाक्यनादर एष म आत्मान्तर्हृदये एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यश्शाण्डिल्यः’ इति श्रुतिः । व्याख्यात्रन्तराभिमतां विषयशुद्धिं दर्शयति, भाष्ये- स क्रतुं कुर्वीतेति । मनोमय उपास्यतया सम्बन्ध्यत इति - अयं भावः, मनोमयादिपदानां प्रथमान्ततया “स क्रतुं कुर्वीत’ इतिप्रकृतोपासनकर्तृविशेषणसमर्पकत्वमेव युज्यते, नतूपास्यविशेषणसमर्पकत्वमिति न वाच्यम्, मनोमयादिपदानामनपेक्षितोपासनकर्तृसमर्पकत्वं परित्यज्य विभक्त्तिविपरिणामेनोपास्यविशेषणसमर्पकत्वस्यैव युक्त्तत्वादिति । फलवत्सन्निधाविति - “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इतिवाक्ये शान्त्यर्थतयोपासनविधानेन तस्य फलवत्त्वात् । स क्रतुं कुर्वीतेतिवाक्ये फलाश्रवणात् फलवदफलन्यायेन तदङ्गत्वं प्रसज्येतेति भावः । विहितोपासनाधिकृतस्यैवेति - न च तस्यैवोपासनान्तरं विधीयत इत्यत्र किं मानम् ? येनास्याश्शङ्काया उत्थितिस्स्यात् । उपकोसलदहरादिविद्यावत् विद्यान्तरानधिकृताधिकारविषयत्वसम्भवादिति वाच्यम्, शान्तेः ब्रह्मोपासनाङ्गतया शान्त्यर्थोपासनाधिकृतस्यैव स क्रतुं कुर्वीतेत्युपासनायाप्यधिकृतत्वादित्याशयात् । यद्यपि शान्त्यर्थोपासनविधानमिति न परेषां मतम् मृषावादिभिस्ततदनभ्युपगमात् । इत्थं हि तन्मतम् स क्रतुं कुर्वीतेतिवाक्ये उपासनं विधीयते, तदनुवादेन तदङ्गतया शान्त उपासीतेतिवाक्येन शमगुणो विधीयते तस्य विधेरयमथर्वादः, सर्वं खल्विदं ब्रह्म तज्जलान्’ इति तज्जत्वतल्लत्वतदनत्वैस्सर्वस्य ब्रह्मात्मकत्वेनैकात्मकत्वाद्रगद्वेषादेः कर्तुमयुक्त्तत्वेन शम एव कर्तुमुचित इति “शूर्पेण जुहोति तेन ह्यन्नं क्रियते इतिवदिति तथापि व्याख्यात्रन्तराभिमतमिति तथोक्तम् अत एवोत्तरत्र व्याख्यात्रन्तरशब्दोपि मृषावादिव्यतिरिक्त्तविषय एवेति द्रष्टव्यम् । उपासनप्रचुरत्वादिति - “क्रतुमयः पुरुषः’ इत्यत्र क्रतुशब्द उपासनपयः । मयट्प्रत्ययश्च प्रातुर्यार्थ इति भावः ॥ क्रतुविधिपरत्वादस्येति - यागविधिपरत्वादित्यर्थः । प्रकृतोपास्यविषयत्व इति - ननु मनोमयत्वादीनां सर्वं खल्विदं ब्रह्मेतिवाक्ये प्रकृतब्रह्मविशेषणत्वादेव प्रकृतोपास्यविशेषणसमर्पकत्वं भविष्यतीत्याशभ्क्याह - ब्रह्मपरत्वानिश्चयादिति । मनोमयत्वा दिगुणके संशय इति - भाव इत्यन्तरं सूच्यत इति शेषः । ततश्चोपासनस्येतिपदेनेति - तृतीयान्तपदस्य नान्वय इति शङ्कापास्तेतिध्येयम् । उपकरणोपकरणित्वलक्षणसम्बन्धविशेषस्यास्पष्टत्वादिति - इदमुपलक्षणम् । उदाहृताज्जीवलिङ्गादपि वाक्योपक्रमगततज्जत्वतल्लत्वादिहेतुकसार्वात्म्यरूपब्रह्मलिङ्गस्य स्पष्टतया अस्पष्टब्रह्मलिङ्गानां द्वितीयपादे विचार्यत्वमिति मृषावाद्युक्त्तमयुक्त्तम् । न च विषयवाक्यस्य मनोमय इत्यादेः पूर्वपक्षे भिन्नवाक्यतया मनोमयवाक्ये ब्रह्मलिङ्गस्यास्पष्टतेतिवाच्यम्; तर्हि ज्योतिर्वाक्यस्यापीह पादे विचार्यतापत्तेः । तत्पूर्ववाक्ये सर्वभूतचरणत्वरूपब्रह्मलिङ्गस्य स्पष्टत्वेपि ज्योतिर्वाक्ये अस्पष्टतया तस्यापीह चिन्त्यत्वप्रसङ्गादित्यास्तां तावत् । उभयाकाङ्क्षेति व्याख्येयं पदम् । पञ्चम्यन्वय इति - न वक्त्तुं युक्त्तमित्यनेन उभयाकाङ्क्षानिवृत्तिसिद्धेरिति पञ्चम्यन्वय इत्यर्थः । वाक्ये योजनां परिसमाप्त वाक्यान्तर्गतस्य मनोमयत्वादिगुणकेनेत्यस्य सिंहावलोकितेन प्रयोजनं दर्शयति - मनोमयत्वादि चेत्यादिना ॥ परैर्व्याख्यातमिति - यद्यपि परैर्नैवं व्याख्यातम्, अपितु परमेव ब्रह्मेहमनोमयत्वादिभिर्धर्मैरुपास्यम् । कुतः? सवर्त्र प्रसिद्धोपदेशात् । यत् सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम्, इह च सर्वं खल्विदं ब्रह्मेति वाक्योपक्रमे श्रुतं तदेव मनोमयत्वादिधर्मविशिष्टमुपदिश्यते’ इति व्याख्यातम् । तथापि फलितार्थमादाय तथोक्तमिति द्रष्टव्यम् । कथं युक्तयन्रोक्तिरिति - परोक्तयुक्तयनादरेण किमर्थं युक्त्तयन्तरमुपन्यस्यत इत्यर्थः । पूर्वार्धमेकरूपं पठित्वेति - तथा च पूर्वार्धयोरैकार्थ्यात् उत्तरार्धयोरप्यैकार्थ्यं युक्त्तमिति भावः । समाहितात्मा ज्ञानस्वरूपं परिपश्यतीति - अनेन च विशुद्धमनोग्राह्यत्वमुक्त्तं भवति । आत्मशब्दस्य मनः परत्वादिति भावः । धृत्या समाहितात्मा भक्तया पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोतीत्यर्थः । “भक्तया त्वनन्यया शक्यः’ इत्यनेनै कार्थ्यादिति वेदार्थसङ्ग्रहे प्रतिपादितमिहानुसन्धेयम् । ननु “सर्वाणि ह वा’ इत्यादिवाक्यं प्राणशरीरकत्वे कथं प्रमाणं भवितुमर्हति? यौगिकवृत्त्या परमात्मपरत्वस्य पूर्वं साधितत्वादित्याशङ्कयाह - सर्वाणीत्यादिवाक्य इति । अपयर्वसानवृत्येति - आकृत्यधिकरणन्यायादिति भावः । वैश्वानराधिकरणन्यायेनेति - “साक्षादप्यविरोधं जैमिनिः’ इत्युक्त्तत्वादिति भावः । सुखदुःखेच्छाद्वेषादय इति - यद्यपि “सवर्गन्धस्सर्वरसः’ इत्यादौ कल्याणगन्धरसपरत्ववन्मनोमयशब्दस्यापि कल्याणसुखादिमनोविकारपरत्वे वा सर्वं खल्विदं ब्रह्मेत्यादिवदसङ्कुचितपरत्वेपि वा न विरोधः । अथापि मनोग्राह्यत्वरूपार्थस्य सम्भवेऽन्तःकरणप्रतिबिम्बतया मनोविकारभूतजीवाभेदोपचारेण मनोमयत्वोक्तिरयुक्त्तेति भावः ॥ प्रतिज्ञावाक्यस्याध्याहार्यत्वादिति - कृत्स्नस्येति शेषः । ततश्च पूर्वयोजनायामिव द्वितीययोजनायां न कृत्स्नाध्याहार इति भावः । ननूपासनविधेरिति - विधीयमानोपासनस्येत्यर्थः । उत्पत्तिशिष्टसर्वात्मकत्वेति - उत्पत्तिवाक्यविहितेत्यर्थः । उत्पत्तिवाक्यं प्राथ मिकावगतिजनकं वाक्यम् । उपासनविध्येकवाक्यत्वमिति - ननु ब्रह्मशब्दस्य द्वितीयान्तत्वे द्वितीयान्तस्य खल्वित्यनेनैकवाक्यतया अन्वयो न सम्भवेत् । तज्जत्वतल्लत्वतदनत्वत्वैस्सर्वस्य ब्रह्मात्मकत्वं शासिादवगम्य रागद्वेषादिरहितस्सन् वक्ष्यमाणगुणकं ब्रह्मोपासीतेत्यर्थ इति वक्ष्यमाणरीत्या शमविध्यर्थवादतया परमतवदेकवाक्यत्वं सम्भवत्येव । “सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्यस्य “शूर्पेण जुहोति’ “तेन ह्यन्नं क्रियत’ इत्यस्यैव हेतुवन्निगदार्थवादत्वं मतद्वयेपि साधारणम् । इयांस्तु विशेषः, परमते “स क्रतुं कुर्वीत’ इत्युपासनं विधीयते सर्वं खल्वितिवाक्ये तदनुवादेन शमो विधीयते । अस्मन्मते तु सर्वं खल्वितिवाक्ये शमविशिष्यमुपासनं विधीयते । स क्रतुं कुर्वीतेति वाक्ये तु सर्वं खल्वितिवाक्यविहितोपासनानुवादेन मनोमयत्वादयो गुणा विधीयन्त इति । न च प्राप्तोपासनानुवादेन कथमेकस्मिन् वाक्ये मनोमयत्वाद्यनेकगुणविधानमिति वाच्यम्; मनोमयत्वादीनां नानात्वेपि “एतमितः प्रेत्याभिसम्भवितास्मि’ इत्यत्रेतिशब्देन क्रमविशेषरूपप्रकारविशिष्टतया प्रतीतेर्विधेयनानात्वेपि विधेयतावच्छेदकैक्याद्वाक्यभेदाप्रसक्त्तेः । ततश्चास्मिन्मेपि सर्वं खल्विदमितिवाक्येपि एकवाक्यत्वं सिद्धमेव । कथं भेद इति चेत् उच्यते; सत्यमेकवाक्यत्वम् तथाप्युपास्याकाङ्क्षायां रात्रिसूत्रन्यायेन शमविध्यर्थवादप्रतिपन्नं ब्रह्मैवोपास्यतया सम्बध्यते नतु सर्वात्मकत्वविशिष्टं ब्रह्म ब्रह्ममात्रेणोपास्याकाङ्क्षाशान्तेः, येनोत्पत्तिशिष्टगुणावरोधशङ्कापि स्यादिति भावः । वस्तुतस्तु सार्वात्म्यस्योत्पत्तिशिष्टास्यापि वक्ष्यमाणमनोमयत्वाद्यविरोधान्न वक्ष्यमाणानां मनोमयत्वादीनामन्वय इत्यपि द्रष्टव्यम् । अत एव “तं मामायुरमृतमुपास्व’ इत्युपासनविधौ आनन्दोऽजरोऽमृतः’ इत्यौपसंहारिकगुणानामुपास्यतया विधानमिति तथा “ओमित्येतदक्षरमुद्गीथमुपासीत’ इति विहिते उद्गीथावयवत्वगुणकप्रणवोपासने रसतमत्वादीनामप्युपास्यत्वमिति स्तुतिमात्रमुपादाना’दित्यत्र समर्थितम् । अत एव शाण्डिल्यविद्यायां सार्वात्म्यस्योपास्यत्वमिति बहुषु स्थलेषु भाष्यटीकयोर्व्यवहारः । न च शान्त्यर्थतयोपदिष्टस्य सार्वात्म्यस्य कथमुपास्यविशेषणत्वमिति शङ्कनीयम् ब्रह्मण इव सर्वात्मकत्वस्यापि उपास्यत्वोपपत्तेः । इतरथा ब्रह्मणोपि शमार्थनिर्दिष्टरयोपास्यत्वं न स्यात् न चेष्टापत्तिः । ब्रह्मशब्दवाच्यस्योपास्यत्वसिद्धवत्कारेणैव पूर्वोत्तरपक्षयोः प्रवर्तनादिति द्रष्टव्यम् । केचित्तु गुणानां च परार्थत्वादित्यत्रादृष्टकार्येणापि निरपेक्षतया श्रुतेन पूर्वावगतेनाधठनेनावरुद्धेऽग्नौ भिन्नादृष्टकार्याणामपि पवमानेष्टीनां न निवेशो युक्त्तः । अत एवाग्नेयावरुद्धे प्रयाजादिर्न करणम् । अन्यथा समप्राधान्यं स्यादिति नयविवेकोक्तेरविरोधेपि न विवेशो युक्त्त इति वदन्ति । भाष्ये- क्वचित्क्वचिद्ब्रह्मशब्द इति । इदं ब्रह्मायाति तज्ज्ञानं ब्रह्म संज्ञितम्’ इत्यादिष्विति भावः ॥ भाष्ये- ब्रह्मशब्देन तदात्मकतया विधीयमानमिति । तदात्मकतया- अन्तर्यामितयेत्यर्थः । सर्वस्य जगतः अन्तर्यामितया विधीयमानमिति यावत् । तज्जलानिति हेतुत इति भाष्यस्य जन्मस्थितिलयानां तत्कृततादात्म्यस्य च प्रसिद्धत्वेनोपदेशादित्यर्थ इति यदुक्त्तम् तदयुक्त्तम्; तद्विवरणे भाष्ये- यस्माज्जगज्जन्मस्थितिलयाः प्रसिद्धा इति कारणत्वप्रसिद्धमात्रप्रतिपादनादित्याशङ्कयाह - कारणत्वनिबन्धनतादात्म्यस्येति । जगज्जन्मस्थितिलयानां हेतुत्वप्रसिद्धौ प्रसक्त्तायां तत्साध्यतादात्म्यप्रसिद्धिरप्यर्थादुक्त्तेति भावः । प्रसिद्धत्वमस्त्विति - जगज्जन्मस्थितिलयहेतुत्वेन वेदान्तप्रसिद्धमेव प्रतीयतामित्यर्थः । तस्यैव भाष्ये पूर्ववाक्ये प्रतिपादितत्वादिति द्रष्टव्यम् । तादात्म्यमप्यर्थसिद्धमित्याहेति - तादात्म्यमप्यर्थसिद्धमित्यभिप्रयन्नाहेत्यर्थः । भाष्ये- तदात्मकतया तादात्म्यमुपपन्नमिति । अत्र साध्याविशेषमाशङ्कय श्रुत्यन्तरसिद्धतदात्मकत्वं हेतुः, एतच्छ्रुतिप्रतिपन्नतादात्म्यमुपपाद्यमित्याह - तदात्मकतयेति श्रुत्यन्तरविषयमिति । इदमुपलक्षणम् । तदात्मकतया तादात्म्यमित्यस्य वाक्यस्य शरीरशरीरिभावेन तादात्म्यमिति वाक्यतुल्यत्वान्न साध्याविशेषशङ्कापीत्यपि द्रष्टव्यम् । उभयलिङ्गस्य ब्रह्मण इति - तथा च प्रलयदशायां ब्रह्ममात्रपरिशेषे ब्रह्मस्वरूपस्यैव परिणामप्रसक्तया सविकारत्वरूपदोषप्रसङ्गादिति भावः । श्रुत्यन्तरैः कण्ठोक्तं चेति - “तम आसीत्’ “यस्य तमश्शरीरम्’ इत्यादिभिरित्यर्थः । ततः किमुभयलिङ्गकस्येत्यत्राहेति - पूवर्पक्षिणा आपादितस्योभयलिङ्गत्वविरोधस्य कः परिहार उक्त्तस्यादिति शङ्कार्थः ॥निषेधवाक्यविरोधेति - अप्राणो ह्यमनाः’ इति वाक्यविरोधपरिहारायेत्यर्थः । विशेषवाक्यानुगुणमिति - मनसा तु विशुद्धेन इतिवाक्यानुगुणमित्यर्थः । धमर्भूतज्ञानव्यावृत्त्यर्थमाह - स्वस्मै प्रकाशयतीत्यर्थ इति । सत्यकामपदैकार्थ्यादिति - सत्यकामपदस्य नित्यविभूतिमत्त्वार्थकत्वं दहराधिकरणे स्पष्टयिष्यते - अत्र स्वीकरणरूपगुणविधिरिति । नन्वेतदनुक्त्तिसिद्धं तद्गुणकत्वप्रतिपादनादेव तदुपादानस्य सिद्धत्वादितिचेन्न; सर्वकर्मेत्यादि पुनः पाठस्य सकृत्पठितमनोमयत्वादिगुणोपास्यत्वपरिसङ्खयार्थत्वशङ्कानिरसनाय प्रागुक्त्तसर्वगुणोपास्यत्वप्रतिपादनार्थतया सार्थक्यमित्याशयात् । पुनः पाठस्य तु प्रयोजनमुत्तरत्र वक्ष्यते - नायमादिकर्मणीति । आरम्भ आदिकमर्, “गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहर्जीयतिभ्यश्च’ इति कर्तरिक्त्तप्रत्ययविधानमाशङ्क्य निराकरोति - न चाभ्याददातिरित्यादिना । तेनैव कर्त्रर्थकत्वं क्त्तप्रत्ययस्य कल्प्यतामिति - लक्ष्यप्राधान्यवादिनोयं परिहारः, गत्यर्थत्वमङ्गीकृत्य कल्प्यतामित्यर्थः । महाभाष्ये कथं भुक्त्ता ब्राह्मणः पीता गावः इत्याशङ्क्य अर्श आद्यजन्ततया निर्वाहः कृतः । तदनुरोधेन निर्वाहं दर्शयति - यद्वा कर्तरि प्रतीतिः प्रतिपत्तिरिति । क्त्त इत्यनेन क्त्तप्रत्ययान्तजन्यप्रतिपत्तिर्लक्ष्यत इति भावः । नतु वाक्सामर्थ्यविरह इत्यर्थ इति - अवाकीत्यनेन प्रतिपाद्यत इति शेषः ॥तुशब्दाभिप्राय इत्याशयवतोक्तमिति - बद्धे संशयहेतोस्सतोऽयथा सिद्धिः कार्या, मुक्त्तेतु संशायकहेतुरपि नास्तीत्येवंरूपवैषम्यं तुशब्देन द्योत्यत इत्यर्थः । जीवधर्मैरिति - मनोमयत्वादिभिरित्यर्थः ॥ परमसाध्यहेतुमाहेति - विवक्षितगुणानुपपत्तिद्वारा भाष्ये जीवव्यतिरेके हेतुरुच्यते अनेन सूत्रेण, नतु विवक्षितगुणानुपपत्ताविति भावः ।प्राप्यप्राप्तारावेव हीति - “एतमितः प्रेत्याभिसम्भवितास्मि’ इत्यत्र एतच्छब्देन प्राक्प्रस्तुतोपास्यस्य परामर्शादितिभावः - स्वरूपस्यैवेति - दशमस्त्वमसीत्यादाविव स्वरूपस्यैव प्राप्यत्वं प्राप्तृत्वं च सम्भवतीतिशङ्कार्थः । श्रुतिस्वारस्यभङ्ग इति - “एतमितः प्रेत्य’ इति श्रुतिस्वारस्यभङ्ग इत्यर्थः । नन्वेवमितः प्रेत्याभिसम्भवितास्मि इति वाक्ये प्राप्यस्य पुल्लिङ्गतया निर्देशात् प्राप्तुरन्यदेवेदमिति श्रुतौ शब्दविशेषः श्रूयते जीवपरयोः । यथा “व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमय विज्ञायत इति भाष्ये नपुंसकनिर्देशः कथमित्याशङ्कयाह - अत्रेदमिति निर्देश इति ॥नान्योन्याश्रय इति - शब्दविशेषस्य जीवपरविषयत्वसिद्धौ जीवपरविषयकशब्दविशेषणोपास्योपासकभेदसिद्धिः, उपास्योपासकभेदसिद्धौ जीवपरविेयत्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।सर्वशब्दो जीवविषय इति - न देहादिसङ्घातविषयः, येनोपायस्योपासकयोजर्ीवपरयोर्भेदो न सिद्धयेदितिभावः । भ्रान्त्याश्रयत्वादिति - “भ्रामयन् सर्वभूतानि’ इतिप्रतिपाद्यभ्रान्त्याश्रयत्वादित्यर्थः । अवान्तरशङ्कापरिहारेति - अवस्थाभेदेन प्राप्यत्वप्राप्तृत्वोपपत्तिरितिशङ्कानिराकरणार्थसूत्रद्वयोक्तहेतुसमुच्चयाथर् इत्यर्थः । श्रुतिस्मृत्योस्साम्यासम्भवादाह - अन्वाचयो वेति । अस्मिन् सूत्रे शाङ्करभाष्ये कः पुनरयं शारीरो नाम परमात्मनोऽन्यः यः प्रतिषिध्यते “अनुपपत्तेस्तु न शारीरः’ इत्यादिना । श्रुतिर्हि “नान्यदतोऽस्ति द्रष्टा नान्यतोस्ति श्रोता’ इत्येवञ्जातीयकापरमात्मनोन्यमात्मानं वारयति । तथा स्मृतिरपि “क्षेत्रज्ञं चापि मां विद्धि सर्व क्षेत्रेषु भारत’ इत्येवञ्जातीयकेति । अत्रोच्यते- सत्यमेवमेतत्; पर एव त्वात्मा देहेन्द्रियमनोबुध्युपाधिभिः परिच्छिद्यमानो बालैश्शारीर इत्युपचर्यते, यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदभासते, तद्वत्तदपेक्षया च कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते । प्राक् तत्त्वमसीत्युपदेशग्रहणाद्गृहीते त्वात्मैकत्वे बन्धमोक्षादिसवर्व्यवहारपरिसमाप्तिरेव स्यादित्युक्त्तम्, तदनूद्य दूषयति - अत्र केचिदिति । अन्येषां जीवेश्वरभ्रमाभावाच्चेति - वेद एवभ्रान्तो व्यदिशतीति पक्ष इति भावः । अन्येषां जीवेश्वरभेदभ्रान्त्यभावेपीति - ईश्वरस्य मानान्तरागोचरत्वेन तद्भेदभ्रमासम्भवेपीत्यर्थः । त्वमित्येवोपदेष्टव्यमिति - श्वेतकेतुं प्रतीतिशेषः । मनुसूर्यादिजन्मस्मरणपरत्वसम्भवादिति - अनद्यतनलङ्निर्देशस्वारस्यादिति भावः । मुक्त्तप्राप्यत्वादीनामनुमातुमशक्यत्वाच्चेति - ततश्च श्रुत्येकसमधिगम्यानां तेषामनुवादो न सम्भवतीति भावः । उपास्यत्वादिनिबन्धन इति - उपासनार्थ इत्यर्थः । तदेवोपपादयति- तत्तत्फलविशेषार्थिनामिति । श्रुतिः कल्पयतीति चेदिति - ननु श्रुतिकल्पितकर्मकर्तृभेदो न भेदकार्यसाधक इति कथमियं शङ्केति चेत्, अत्यन्तागतिकस्यैतादृशशङ्कोपपत्तेः । किञ्च उपासने प्रवर्तमानस्योपास्योपासकभेदबुद्धेरेवापेक्षितत्वेन वास्तवभेदानपेक्षत्वेन शङ्कोपपत्तेरिति द्रष्टव्यम् । जीवविलक्षणं वस्त्विति - जीवभेदं प्रतिज्ञायेत्यर्थः । न ह्यतात्विकभेदः प्रतिज्ञात इत्युत्तरग्रन्थानुसारात् । अपरमार्थभेदव्यपदेशं विजानन्निति - कर्मकर्तृभावलक्षणं भेदमित्यर्थः । तत्त्वार्थहेतुतयेति - जीवविलक्षणत्वरूपभेदहेतुतयेत्यर्थः । ब्रह्मजिज्ञासेत्युपक्रमविरोधादिति - इतरथा “अथातोतात्विकभेदजिज्ञासा’ इत्येव सूत्रयेदिति भावः ॥परव्याख्यां दूषयति - व्योमद्द्रष्टव्यमित्युक्त्त इति । प्रमाणाकाङ्क्षा भवतीति - अर्भकौकस्त्वादिकं व्योमवदौपाधिकं द्रष्टव्यमित्युक्त्ते स्वाभाविकमेव किं न स्यात् ? औपाधिकत्वे प्रमाणाभावादिति प्रमाणाकाङ्क्षा भवतीति भावः । प्रमाणमेव दर्शितं भवतीति श्रुत्या व्यपदिश्यत इति हि तस्यार्थः । अतः प्रमाणमेव दर्शितं भवतीति भावः । ननु “प्रशस्यस्य श्रः’ ज्यच’ इति प्रशस्यशब्दस्य ज्यादेशविधानात् प्रशस्यशब्दादीयसुन्प्रत्यये ज्यायश्शब्दनिष्पत्तिः । न तु वृद्धशब्दादित्याशङ्कयाहज्य च वृद्धस्य चेति हि सूत्रमिति । ज्यच वृद्धस्य चेति हि सूत्रक्रम इत्यर्थः । अयं भावः, वृद्धस्य चेत्यत्र ज्यचेत्यनुयर्तते, वृद्धशब्दादीयसुन्प्रत्यये वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे ज्यादादीयस इतीयसुन्नीकारस्य आकारादेशे ज्यायश्शब्दनिष्पत्तिरिति । नतु प्रशस्यस्य श्र इति तन्निष्पत्तिरिति प्रशस्यस्यश्र इत्यधिकारे पठितेन ज्यचेतिसूत्रेण प्रकृतेन तन्निष्पत्तिरित्यर्थः । अत्रापि हेतुरणीयस्त्वप्रतिसम्बन्ध्याकारपरत्वाज्ज्यायश्शब्दस्येति वक्ष्यमाण एव द्रष्टव्यः । ततोपि ज्यायस्त्वश्रवणादिति - ज्यायान् पृथिव्या इत्यादिना पृथिव्यादिभ्यो ज्यायस्त्व श्रवणादित्यर्थः । तस्य वाक्यान्तरस्थत्वादिति - यद्यपि ब्रह्मात्मकत्वं सर्वस्य शास्त्रादवगम्य रागद्वेषादिरहितस्सन्नित्यादिना एकवाक्यत्वमुत्तरत्र वक्ष्यते तथापि ब्रह्मणस्सर्वात्मकत्वस्य शमशेषत्वादित्यत्र तात्पर्यम् । वस्तुतस्तु यथा शान्त्यर्थस्योपदिष्टस्यापि ब्रह्मणः “मूलतश्शाखां परिवास्योपवेषं करोति’ इत्यत्र शाखापरिवासने अपादनतया अन्वितस्यापि मूलत इत्यस्योपवेषं करोतीत्यनेनापि आकाशावशेनान्वयवदन्वयोऽभ्युपेयते तथा सर्वात्मकत्वस्यापि अन्यार्थनिर्दिष्टस्योपास्यत्वेन विरोध इति द्रष्टव्यम् । पूर्वमप्येतत्प्रतिपादितम् । लक्षणतो धमिर्निर्देश इति - कारणत्वरूपलक्षणोक्तिमुखेन ब्रह्मस्वरूपधमिर्निर्देश इत्यर्थः । भाष्ये- प्राप्तिनिश्चयानुसन्धानञ्च प्रतिविधायेति । प्राप्तिनिश्चयरूपानुसन्धानमित्यर्थः । प्राप्तिनिश्चयोपेतस्येत्युत्तरभाष्यानुगुण्याच्छ्रुत्यानुगुण्याच्चेति द्रष्टव्यम् । उपास्यतया प्राप्यतयेति - यद्यप्युपास्यत्वे पाप्यत्वं सिद्धम् तथापि द्विःपाठस्तेन क्रमेणानुसन्धानार्थ इति द्रष्टव्यम् । हृदिस्थितिर्द्विरुक्त्तिरिति - “एष म आत्मान्तर्हृदये’ इति द्विरुक्त्तिरित्यर्थः ॥भोगप्रसञ्जने सुखग्रहणमिति - अपुरुषार्थप्रसञ्जने इत्यर्थः । उक्त्तार्थे श्रुतेः सम्मुखतया प्रमाणत्वासम्भवात् । तथाच श्रुतिरित्येतद्वयाचष्टे - तथाच श्रुतिरिति । जीवस्यानभ्युपगम इति - जीवस्यानभ्युपगमादित्यर्थः । अवगतत्व इति - अवश्याभ्युपगन्तव्यत्वे सतीतिविशेषः । आनन्दगिरीयविकल्पमुपन्यस्यति - किं शास्त्रादवगमः, उतास्माद्वाक्यादिति । परस्य भोक्तृत्वाभावोपीति - परस्य जीवस्येत्यर्थः । शारीरस्यैव तावदुपभोकतृत्वं वारयतीति शाङ्करभाष्यानुसारात् । भोक्तृजीवाभेदायत्तभोक्तृत्वप्रसक्त्तेः, तथैव परिहर्तव्यत्वाच्च । द्वितीये तु भ्रान्तिसिद्धेति - अस्मदुक्त्या जीवब्रह्मैक्यप्रवगतं चेत्, तथा तत्पक्षदोषपरिहारप्रकारोपि मदुक्त्तरेवावगन्तव्यः । तत्रापि किमर्धजरतीयन्यायेनेति भावः । अनभ्युपगमनिरस्तमिति - द्वितीयपक्षस्य स्फटत्वादिति भावः ॥ इति सर्वत्रप्रसिध्द्यधिकरणम् ॥