22 दक्षिणायनाधिकरणम्

॥ अतश्चायनेऽपि दक्षिणे ॥ 19 ॥ अवान्तरसङ्गतिः स्फुटा, किं दक्षिणायनमृतस्यापि विदुषो ब्रह्मप्राप्तिः सम्भवति, नेति, किं अथ यो दक्षिणे इति दक्षिणायनमृतस्य चन्द्रप्राप्तिवचनं ब्रह्मप्राप्त्यभावं गमयति, नेति, चन्द्रप्राप्तानामावृत्तिवचनं किं विद्वदविद्वत्साधारणम्? उताविद्वद्विषयमिति, किं भीष्मादीनां कालप्रतीक्षापालविधानस्मरणसहकृतसामान्यश्रुत्यनुरोधेन साधारणत्वसमाश्रयणं न्याय्यम्? उत “ब्रह्मणो महिमान"मिति वाक्यशेषानुरोधनाविद्वद्विषयत्वसमाश्रयणं न्याय्यमिति, साधारण्याश्रयणे न्याय्ये सत्यावृत्तिवचनस्य साधारण्येन ब्रह्मप्राप्त्यभावावगमकतया न ब्रह्मप्राप्तिः, अविद्वद्विषयत्वाश्रयणे न्याय्ये सत्यावृत्तिवचनस्याविद्वद्विषयतया “अथ यो दक्षिणे” इति वाक्यस्य ब्रह्मप्राप्त्यभावानवगमकत्वाद्दक्षिणायनमृतस्य विदुषोऽपि ब्रह्मप्राप्तिः स्यात् । दक्षिणायनमृतस्येति । “उदगयने प्रमीयते” दक्षिणे प्रमीयते” इत्यत्र धूमादिमार्गलिङ्गाभावात् ब्रह्मप्राप्तिवचनाच्चार्चिरादिगतस्यैव मरणकालविशेषेण मार्गे सम्मानविशेष उच्यत इत्यर्थः । उत्तरसूत्रशङ्कामाह- नन्विति ॥ 19 ॥

॥ योगिनः प्रति स्मर्येते स्मार्त्ते चैते ॥ 20 ॥ स्मार्ते इति सौत्रं पदम् तद्वयाचष्टे - स्मृतीति । योगयुक्तो भवमार्गानुसन्धानरूपयोगयुक्तो भवेत्यर्थः । अन्यथा सङ्गत्यभावप्रसङ्गात् । यत्र काले त्विति । मध्ये उपसंहारे च मागर्विधानपरत्वदर्शनान्महावाक्यस्वारस्येनोपक्रमो बाध्यत इत्यभिप्रायेण “अग्निर्ज्योति"रित्यादिवचनमुक्तम्, योगिन इति सौत्रयोगिशब्दश्चतुर्विधमगवदुपासकसाधारणः, भक्तियोगस्य तेषां साधारणत्वात्, तत्र मुमुक्षोर्देवयानानुसंदानम्, ऐश्वर्यार्थियोगिनः पितृयाणानुसन्धानमिति विधीयत इति, श्रुतौ गतिद्वयं विहितं, तदनुसन्धानमत्र विधीयत इत्यर्थः । न मुमुर्षून्प्रति मरणकालविशेष इति- विधीयत इत्यन्वयः । अथ परे चापरे च “योगिनः प्रति” इति सूत्रमेवं व्याचक्षते, योगिनः प्रतिस्मार्तोपासनार्थोऽयं स्मार्तः कालविनियोगः प्रत्यासन्नत्वात्, अतः श्रौतेषूपासनेषु नावतरति, यदि तत्रापि कालवाचिशब्दः कालाभिमानिदेवतापरः, तदा न श्रुतिविरोध इति, अग्न्यादिशब्दानां कालवाचित्वाभावेन “नैते सृती” इति निगमनाच्च कालविषिपरत्वायोगात् विषयव्यवस्थया निर्वाहो भाष्येऽनादृतः । अन्ये त्विदं सूत्रमेवं व्याचक्षते । योगिनः- प्राणायामेन वायुविजयपराः, योगिनः प्रति एतौ अयनरूपकालौ स्मर्येते, ते हि शक्कुवन्त्येव स्वच्छन्देन मर्तुममर्तुं चेति, तदयुक्तं, प्रशस्तकाले मर्तव्यमिति विधिश्चदग्न्यादिकीर्तनस्य विकलत्वात् “नैते सृती” इत्युक्तत्वाच्छतिसिद्धमार्गप्रत्यभिज्ञाभङ्गप्रसङ्गाच्च ॥

॥ दक्षिणायनाधिकरणं समाप्तम् ॥

इति श्रीहारीतकुलतिलकवाग्विजयसूनुना श्रीरङ्गराजदिव्याज्ञालव्ववेदव्यासापरनामधेयेन

श्रीमद्वरदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन

श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रकाशिकायां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥