21 निशाधिकरणम्

॥ निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ 18 ॥ सङ्गतिः स्फुटा, किं निशि मृतस्य विदुषो ब्रह्मप्राप्तिः सम्भवति, नेति, किं निशामरणस्याधोगतिहेतुत्वं निशि मृतस्य ब्रह्मप्राप्त्यभावं ज्ञापयति, नेति, निशामरणनिन्दावचनं किं विद्वदविद्वत्साधारणम् उताविद्विषयमिति, साधारणत्वे निशि मरणस्याधोगतिहेतुत्वेन ब्रह्मप्राप्त्यभावावगमात् निशि मृतस्य न ब्रह्मप्राप्तिः, अविद्वद्विषयत्वे निशामरणस्याधोगतिहेतुतया ब्रह्म

प्राप्त्यभावानवगमान्निशि मृतस्यापि ब्रह्मप्राप्तिः स्यात् । पूर्वपक्षमुकत्वागराद्धान्तमाह- तन्नेति । प्रारब्धकर्मणाऽनेकदेहहेतुत्वसम्भवात् । कथं कर्मसम्बन्धस्य याचहहमावित्वं प्रारब्धसमाप्तिरस्तु अमुक्तपूर्वाण्यपि कर्माणि सन्ति, कमर्णो यांवद्देहभावित्वेन कथं निशामरणस्याधोगतिहेतुत्वं परिहृतं तथा च सति निशामरणनिन्दावचनस्य का गतिरत्यित्राह- एतदुक्तभवतीति । दिवानिशाविभागनिरपेक्ष प्रारब्धकमर्ावसाने मोक्षश्रवणात् “तस्य तावदेव चिर"मिति वाक्यमुपात्तं, नन्वप्रशस्तकाले निशि मृतं शरीरं न चरमं स्यात्, चारम्ये सिद्धे हि ब्रह्मप्राप्तिसिद्धिः, नैवम्, “अथ यो दणिणे प्रमीयते, पितृणामेव महिमानं गत्वा” इत्यारभ्य “तस्माद्व्रह्मणो महिमानमाप्नोति” इति दक्षिणायनाद्यप्रशस्तकलामृतस्यापि ब्रह्मप्राप्तिश्रवणात् अप्रशस्तकालमरणेन हेतुना चरमदेहत्वं न बाध्यम्, अतो यथोक्त एवार्थ इति । इतरे त्रयोऽपीदं सूत्रद्वयमपि रश्म्यनुसारविषयमेकमधिकरणमाहुः, निशि रविरश्मयो न सन्तीति चेत् न, नाडीरविरश्मिसम्बन्धस्य यावद्देहभावित्वात्, तथा “अमुष्मादादित्यात्प्रतायन्ते” इति श्रुतिर्दशयतीति योजयन्ति, न यदि निशि रविरश्मयः स्युः, तर्हि निशि मृतस्य ब्रह्मप्राप्तिर्न स्यात्, तस्य रविरश्म्यनपेक्षत्वे दिवाऽपि तैर्विना गमनसंभवाद्रश्म्यनुसारशास्त्रवैयर्थ्यं, रात्रौ मृतस्य ब्रह्मप्राप्तिर्वा न स्यात् माभूदिति न वाच्यं, विद्यायाः पाक्षिकफलतया तत्र प्रवृत्त्यनुपपत्तेः, यावदुदयं प्रतीक्षणकल्पनमप्ययुक्तं, “स यावत् क्षिपेन्मनस्तावदादित्यङ्गच्छे"दिति शैध्य्रावगमादित्युपपादयन्ति, निशि मृतस्य ब्रह्मप्राप्तिर्न स्यादिति प्रसङ्गो, निशामरणनिन्दावचनमवलम्बमानानां नानिष्टः स्यात्, विद्यायाः पाक्षिकफलत्वं च निशामरणस्य विद्यानिष्पत्त्यभावनिबन्धनत्वाश्रयणेन परिहृतं स्यात्, अतोऽपेक्षितं निशि मृतस्य मोक्षसमर्थनमिति तदर्थमधिकरणभेदो न्या य्यः, नाडीरविरश्मिसम्बन्धनियमाभिधानमपेक्षितमिति चेत्, सत्यं, तस्य तु प्रतिज्ञायामपेक्षितत्वादाभिप्रायिकत्ववर्णनमुचितम्, अन्यथाऽपेक्षितार्थान्तरप्रतिज्ञाया उपपत्तेश्चानभिहितत्वप्रसङ्गात्, प्रतिज्ञाहेत्वोरुभयोरप्याभिप्रायिकत्वकल्पनादपि पूर्वप्रतिज्ञोपपत्तिमात्रस्याभिप्रायिकत्वकल्पनं न्याय्यमिति ॥ 18 ॥

॥ निशाधिकरणं समाप्तम् ॥