॥ तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषयत्वनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ 16 ॥ अवान्तरसङ्गतिमाह- एवमिति । उत्क्रान्तौ ब्रह्मणि सम्पत्तेविर्द्वदविदुषोस्तुल्यत्वात् “समाना चे” इत्यादिसूत्रमत्र वक्तव्यम्, तथा न कृत, तत्र हेतुर्विदुषो ब्रह्मसम्पत्तावविवादः । तत्रेत्यादि- किं विदुषो मूर्धन्यनाङ्यैव गमननियमः सम्भवति? नेति,
किं तयोर्ध्वमाय" न्निति यादृच्छिकगमनानुवाद? उत नाडीविशेषेण गमननियमविधिः? नाड्या दुविर्वेचाः? उत
सुविवेचाः, दुर्विवेचत्वे दादृच्छिकगत्यनुवादपक्षस्य न्याय्यत्वान्नियमासम्भवः, सुविवेचत्वे नियमविधिपरत्वोपपत्तेर्गतिनियमसम्भवः । परे तु अपरविद्याविषयमिमं विचारमाहुः, तत्पूर्ववदयुक्तम्, “तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योदेनैष आत्मा निष्कामति” इतीदं वाक्यमत्रापेक्षितं पूर्वत्रोपात्तत्वान्नात्रोदाहृतम् ॥ 16 ॥
॥ तदोकोऽधिकरणं समाप्तम् ॥