॥ अविभागो वचनात् ॥ 15 ॥ सङ्गतिपूर्वपक्षावुच्येते- सेयमित्यादिना । किमियं सम्पत्तिर्लयरूपा? उत विभागरूपा, किं तेजःपरस्यामिति वचनस्य कारणापत्तिपरत्वन्याय्यम्? उताविभागमात्रपरत्वमिति, प्रथमे लयरूपत्वं, द्वितीये त्वविभागरूपत्वम् । अविभाग इतीति अनुषक्तमपि पदमत्र कारणापत्तिवाचीत्यत्राह- अनुषक्तस्येति । उत्क्रान्तिवेलायां कारणापत्तिप्रयोजनाभावादिति- भारवाहकस्य देहिनः सभारस्यैव यष्टयवष्टम्भेन विश्रमतुल्यः सुषुप्तौ निश्रमः, अपनीतभारस्य विश्रमतुल्यो महाप्रलयो, यथा च कञ्चुकोष्णीषवतस्तद्रहितस्य च विश्रमस्तद्वत् कारणे लीनस्य करणकलेबररहितस्य द्विपरार्द्धकाले विश्रम इति प्रयोजनविभागः सुषुप्तिप्रलययोः शरीरान्वयव्यतिरेकाभ्यामवगतः, तदभावादित्यर्थः । अव्यक्तादेः पुनः सृष्टिरुक्ता चेत्, कारणापत्तिः प्रयोजनं च कल्प्यं, सा च नास्तीत्याह- पुनस्तत्राव्यक्तादिसृष्टयवचनाञ्चेति । सुषुप्तौ जीवमात्रस्याविभागपत्तिः प्रलय एव विशिष्टस्य लयापत्तिः, उत्क्रान्तौ तु भूतसूक्ष्म विशिष्टस्य लयानुपपत्त्या संयोगमात्रमेव, विशेष्यांशस्य प्रलय इति चेत्, तज
श्शब्दस्य विशेष्यभूतजीवमात्रवाचित्वाभावात् अनुषक्तपदार्थवैरूप्यायोगादिभिश्च, एवं विभागानर्हभूतसूक्ष्मविशिष्टस्य लयानुपपत्त्या प्रयोजनाभावाव्यक्तादिसृष्टयवचनाभ्यां च सम्पत्तिः संयोगः, नित्यान्तरवस्थितेऽपि परमात्मनि तदानीं संसर्गविशेषः शास्त्रैकमधिगम्यः । परे त्विदमधिकरणद्वयं परविद्यानिष्ठविषयं व्याचक्षते, तत्र “गताः कलाः पञ्चदश प्रतिष्ठा” इति प्रतिष्ठाशब्दवाच्स्वकारणेषु कलालां लयं पूर्वपक्षीकृत्य “षोडशकलोः पुरुषं प्राप्यास्तं गच्छन्ति” इति श्रुत्या ब्रह्मणि लयः, इयं विद्वद्दृष्टिः, स्वकारणेषु लयोक्तिस्त्वविद्वद्दृष्टया स्यात्, स्वकारणेषु लयेऽपि तैः पृथिव्यादिभिः सह ब्रह्मणि लयश्चोपपन्नः इति सिद्धान्तयन्ति प्रथमे, स च ब्रह्मविदः परमात्मनि कलाप्रलयः सावशेषः- उत्क्रान्त्यादाविवेति पूर्वपक्षं कृत्वा “भिद्येते चासां नामरूपे पुरुषे” सति वचनादविद्याकल्पितानां विद्यानिमित्तप्रलये सावशेषत्वानुपपत्तेश्च निरवशेषः प्रलये इति द्वितीये सिद्धान्तयन्ति, तत्राद्ये ब्रह्मण्येव लयसमर्थनं प्रत्यक्षविरुद्धं श्रुतिविरुद्धं च, भस्माद्यवस्थो हि देहः पृथिव्यादिषु लीयमानो दृष्टः, “पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्त” इति च श्रुतिः, नायमविद्वद्दृष्टया लय उच्यते, “इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भृतादौ लीयन्ते भूतादिर्महति लीयते” इत्यादिनोक्तस्य सेन्द्रियाणां तन्मात्रादीनां भूतादिप्रभृतिषु लयस्याविद्वद्दृष्टयाऽप्यनवगतत्वात्, सांख्यादृष्टिरियमिति चेत् ततः किं, यतः श्रुत्यविरोधः, तत्र सांख्यादृष्टेः
श्रुतिमूलत्वान्न निराकरणीयता, “तद्धैक आहुः कुतस्तु खलु सोम्यैवं स्यात्” इतिवत् परमतत्वेनोपन्यस्य श्रुत्यैव निराकृतत्वाभावाच्च नोपेक्ष्यता, पराशराद्युपवृंहणानुगृहीता चेयं श्रुतिः, सर्वस्य तज्जत्वश्रुतिविरोधात् परमतत्वमिति चेन्न, सर्वस्य तज्जत्वश्रुतिविरोधेन आकाशाद्वायुरित्याद्युक्तसर्गस्यापि परमतत्वप्रसङ्गात्, तत्तदवस्थब्रह्मणः कारणत्वादविरोधश्चेत् लयेऽपि तुल्यम्, अत एव “पुरुषं प्राप्यास्तं गच्छन्ति” इति चोपपन्नम्, एवमद्वारकलयस्य श्रुतिप्रत्यक्षविरोधात् सद्वारकलयस्य सर्वसाधारणतया श्रुतिप्रत्यक्षसिद्धतया ब्रह्मविदो विशेषाभावाच्चाद्याधिकरणवर्णनमयुक्तम्, इतरत्र च निरवशेषलयो नाम किं निरवयवविनाशः? उत पृथिवीत्वादिप्रहाणम्? उत मुक्तस्य पुनर्देहारम्भायोग्यत्वम्? उत चेतनान्तरयुक्तस्यापि देहारम्भायोग्यत्वम्, न प्रथमः “तदेतदक्षयं नित्यं जगन्सुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत्” इति नित्यत्ववचनात् । नापि द्वितीयः- ब्रह्मविद्देहस्यापि भस्मीभावादिदशायां पृथिवीत्वानुवृत्तिदर्शनात् पृथिवीत्वादिप्रहाणस्य समष्टितत्त्वलयदशामावित्वात्, तस्य च प्राकृतप्रलयभावित्वात्, नैमित्तिकादिप्रलयेषु पृथिवीत्वादिप्रहाणस्य प्रमाणाभावात् “भिद्येते चासां नामरूपे”
इति श्रुतर्देवेमनुष्यादिनामरूपविषयतया वा प्राकृतप्रलयविषयतया वार्थवत्त्वाच्च । न तृतीयः । मुक्तस्यापुनरावृत्तेर्वक्ष्यमाणतया तं प्रति देहारम्भकत्वशङ्काया असम्भवेनाविचार्यत्वात् । न चतुर्थः- नियामकाभावात्, न हि देवदत्तस्यांगुलीयतया परिणतः कनकांशो यज्ञदत्तं प्रति न तथा परिणमतीति नियन्तुं शक्यम्, अतोऽनुपपन्नम् । अपरे तु “तानि परे” इति सूत्रं न पृथगधिकरणयन्ति, तैश्च सूत्रार्थः परैरिव वर्णितः, तत्रानुपपत्तिश्च पूर्ववत्, अविभागसूत्रनिर्वाहोऽपि पूर्वोक्तयैव दिशा निरस्तः । अन्ये तु वागादिलयस्यामुख्यत्वादस्वयोनौ लयसम्भवेऽपीहलयस्य मुख्यत्वात्तेजःप्रभृतिभूतानां स्वयोनिष्विति पूर्वपक्षं कृत्वा तन्त्वादीनां भस्माद्यवस्तानामस्वयोनौ विनाशदर्शनानुगृहीतात्तेजः परस्यामिति वचनात् हृदिस्थे परमात्मनि लय इत्याद्ये सिद्धान्तयन्ति । अनन्तरे च स एव मरणे भूतलयः किं स्थूलभेदे स्थिते वस्त्वन्तरसंश्लेषमात्रम्? उत जीवानामिव स्थूलभेदनिवृत्त्या सूक्ष्मशक्तिभेदयोगेनैव नीरक्षीरन्यायादविभागप्राप्तिलक्षण इति संशय्य पूर्ववाक्यत्रायानुषक्तस्य सम्पत्तिशब्दस्यात्रानुवृत्त्या संश्लेषमात्रमिति पूर्वपक्षं कृत्वा मरणे “भूतेभ्यः समुत्थाय तान्येवानुविनश्यति” इति जीवविनाशदर्शनात्तद्वदविभागापत्तिरिति सिद्धान्तयन्ति, भूतानां कारणानां च महाप्रलये सूक्ष्मशक्तिभेदोऽपि नावशिष्यते, मरणे तु सोऽवशिष्यते शरीरान्तरार्थं तेषां गमनोपपत्तेरिति चाहुः । तत्र तावद्धृधेयस्थः परदेवताप्राज्ञात्मशब्दवाच्यः परमात्मा नामेश्वर एव, तत्र लयो मुख्य इत्यनुपपन्नम्, ईश्वरांशस्य निमित्तकारणत्वात्, अखयोनावपि लयो दृष्ट इति चेत् न, भस्माद्यवस्थतन्त्वादीन्प्रति साक्षःदनुपादानत्वेऽपि
प्रणाङ्योपादानत्वात् पृथिव्यास्तत्र लय उपपन्नः ईश्वरः प्रणाङ्यापि न भूतकरणग्रामोपादानमिति न तत्र मुख्यलयसंभवः । सन्मात्रे लय इति चेन्न, तस्य परदेवताप्राज्ञात्मशब्दवाच्यत्वाभावादंशत्रयव्यतिरेकेण सन्मात्रस्य कस्यचित् घयशरावाद्वस्थमृद्वदवस्थानानभ्युपगमाच्च, तस्म ल्लय इति सिद्धान्तः तस्य च मुख्यत्वेऽभ्युपगते सत्यस्वयोनौ परमात्मनि लय इत्यप्यनुपपन्नम्, वचनन्तु वाह्मनसीतिवदन्यथासिद्धत्वादस्वयोनौ लये प्रमाणं न स्यात्, अनन्तरे चाधिकरणे स्थूलभेदनिवृत्त्या जीववदविभाग इति यत् तन्निरूपणीयम्, भूतकरणानां महाप्रलयवद्विनाशस्तावदनभ्युपगतः लोकान्तरगमनश्रवणात् । सूक्ष्मशक्तिभेदविशेष निवृत्तिर्नाम किं मनुष्यादिसन्निवेशप्रहाणम्? उत पृथिवीत्वादिप्रहाणम्, न प्रथमःसंस्थानापगमस्य प्रत्यक्षतया निरूपणीयत्वाभावात्, न द्वितीयः लोकेन्तरगमनानुपपत्तेः, यदि निवृत्तस्थूलाकाराणां परमात्मनि सम्पत्तिर्निरूप्य सा तु “तानि परे” इत्यत्र निरूपितेति निरूपणीयाभावादविभागाधिकरणानारम्भ एव स्यात् ॥ 15 ॥
॥ अविभागाधिकरणं समाप्तम् ॥