17 परसंपत्त्यधिकरणम्

॥ तानि परे तथा ह्याह ॥ 14 ॥ अवान्तरसङ्गतिमाह- सकरणेति । सैषेति- पूर्वं “समाना चासृत्युपक्रमा” दिति नाडीप्रवेशात् पूर्वं मुमुक्षुसंसंरिणोर्गतेः समानत्वमुक्तं, तत्र वक्ष्यमाणाधिकरणद्वयप्रतिपाद्यायां परमात्मसम्पत्तौ मुक्तस्यास्तित्वनास्तित्वविगानं नास्ति,यतः पूर्वाधिकरणप्रतिपादितार्थं एव विप्रतिपत्तिः, अतः “तदोकोग्रज्वलन” मित्येतस्मात्पूर्वाधिकरणप्रतिपाद्येऽर्थे विद्वदविदुषोः समानेऽपि “तानि परे” इत्यधिकरणात् पूर्वत्रैव विद्वदविदुषोः समानत्वविप्रतिरिति हृदि कृत्वा सूत्रकारैः समानत्वमुक्तमित्यभिप्रायेणात्र सैषा संपत्तिर्विदुषो न विद्यत इत्याशङ्कय परिहृतमित्युक्तं भाष्ये, किं तेजश्शब्दनिर्दिष्टानि भूतानि जीवपरिष्वक्तानि यथाकर्म यथाविद्यं गच्छन्ति? उत परमात्मनि सम्पद्यन्त, किमत्र परदेवताशब्दो गन्तव्यस्थानावस्थपरमात्मपरः? उतातदवस्थपरमात्मपर? इति, किमत्र सम्पत्तौ प्रयोजनं सम्भवति? नेति, असम्भवे परमात्मशब्दस्य गन्तव्यप्रदेशविशेषावस्थपरमात्मपरत्वेन यथाकर्मविद्यं गच्छेयुः, सम्भवेतु अतदवस्थपरमात्मपरत्वेन तस्मिन्सम्पद्योरन् । पूर्वपक्षमाह । मध्य इति । “तेजः परस्या"मिति श्रुतिः परस्यात्मनः सर्वदा सर्वाधारत्वमात्रपरेति पूर्वपक्षिणोभिप्रायः ।