16 आसृत्युपक्रमाधिकरणम्

॥ समाना चासृत्युपक्रमादमृतत्वं चानुपाष्य ॥ 7 ॥ सङ्गतिः स्फुटा, किमियमुत्क्रान्तिर्विद्वदविदुषोः समाना? उताविदुष एवेति, “तयोर्ध्वमायन्नमृतत्वमेति” इति श्रुतिः किं विदुष उत्क्रान्तमवगमयति? नेति, किमेषा श्रुतिरिहामृतत्वश्रुत्युत्क्रान्तिनिषेधश्रुतिभ्यां व्याहन्यते, नेति, इहामृतत्वं किमधाश्लेषविनाशरूपम्? उत सर्वबन्धमोक्षरूपं? निषिध्यमाना चोत्क्रान्तिः किं शरीरापादाना? उत शारीरापादानेति च, यदेहामृतत्वं सर्वबन्धनिर्मोक्षरूपम्, उत्क्रान्तिश्च शरीरपादाना, तदा तद्विषयश्रुतिभ्यां तयोर्ध्वमायन्निति श्रुतेर्व्याधातादविदुष एवोत्क्रन्तिः, यदेहामृतत्वमधाश्लेषविनाशारूपं, निषिद्धोत्क्रन्तिश्च शारीरापादाना, तदा तद्विषयश्रुतिभ्यामूर्ध्वगायन्निति श्रुतेरविरोधात् विदुषोऽप्युत्क्रार्न्ति सावगमयति इत्युत्क्रान्तिर्विद्वदविदुषोः समाना स्यात् । पूर्वपक्षहेतुमाह- विदुष इति । राद्धान्ते विष्वगिति, अन्या नाड्यः विष्वग्वितताः ताश्चामुमुक्षूणामुत्क्रमणार्था इत्यर्थः, तेन प्रद्योतेन- प्रकाशेन “तस्य हैतस्य दृदयस्याग्रं प्रद्योतते तेनैष आत्मा विष्क्रामति” इति पूर्वं श्रुतेः, मूर्ध्नो निष्क्रमत एव ऊर्ध्वया नाड्या प्रकाशितद्वारय निष्क्रमणमित्यर्थः- वस्तुसामर्थ्यात् । अनुशेष्य- “उष दहि” इति धातुः ॥7॥

॥ तदापीतेः संसारव्यपदेशात् ॥ 8 ॥ उत्क्रान्तस्यापि गच्छतः सूक्ष्मशरीरसंबन्धात् आ अपीतेः संसार इत्यभिप्रायः । ब्रह्मणः सर्वगतत्वादत्रैव हि ब्रह्म प्राप्तमिति शङ्काया व्यावृत्त्यर्थमाह साचार्चिरादिनेति ॥ 8 ॥

॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धः ॥ 9 ॥ पूर्वसूत्राभिप्रेतसूक्ष्मशरीरसंबन्धे प्रमाणमिहोच्यते ॥ 9 ॥

॥ नोपमर्देनातः ॥ 10 ॥ जीवन्मुक्तिनिराचिकीर्षातिशयादिदं सूत्रमुक्तम् । उपासनविधानात्, तस्याऽऽप्रयाणादनुवृत्तिश्रुतेः, उत्क्रान्तिश्रुतेः, अर्चिरादिमार्गश्रुतेः, देशविशेषप्राप्त्या सर्वबन्धविमोक्षश्रुतीनां बाधप्रसङ्गात्, प्रत्यक्षविरोधाश्च जीवन्मुक्तिरनुपपन्नेति भावः । तदुक्तं भगवताऽ्रपस्तम्बेन, “वेदानिमं लोकममुञ्च परित्यज्याऽऽत्मानमन्विच्छेत् । बुद्धे श्रेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणम् । इहैव न दुःखमुपलभेत” इति । शास्त्रैरिति बहुवचनेनानेकशास्त्रविरोधो विवक्षितः । विप्रतिषिद्धं- विशेषप्रतिषिद्धम् । प्रकरणसमवन्न समबलेन प्रतिरोधः कालात्ययापदिष्यवदधिकबलेन विरोधः, अनेकशास्त्रविरोधादिति भावः ॥ 10 ॥

॥ अस्यैव चोपपत्तेरूष्मा ॥ 11 ॥ स्थूलशरीरस्योष्मा सार्वत्रिकः “सन्तापयति स्वं देहमापादलमस्तकम्” इति श्रुतेः, अत उत्क्रान्तौ क्काचित्क ऊष्मा सूक्ष्मशरीरस्य क्काचित्कत्वेन, तत्रैव सर्वदहव्याप्ताग्निशिस्वायाः क्रमेणोपसंह्रयमाणत्वादित्यर्थः । पुनरपीति- पूर्वमिहामृतत्वश्रुतिनिबन्धन उत्क्रान्त्यसम्भवः परिहृतः । अथोत्क्रान्तिनिषेधश्रुतिनिब्धनत्वदसम्भवः परिह्रियत

इत्यर्थः ॥ 11 ॥

॥ प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् ॥ 12 ॥ यदुक्तमित्यादि - “तेजोमात्राः भूतसूक्ष्मान्, हृदयमेवान्वपक्रामति” हृदयान्निष्कामतीत्यर्थः, तेन प्रद्योतेनेत्यादिवाक्यस्य कथमविद्वदुत्क्रान्तिपरत्वमिति चेत् उच्यते चतुर्मुखलोकगन्तुरुपासकस्यार्चिरादिकाङ्गर्ति पूर्वपक्षी मन्यते, न तु मुक्तस्य तस्मादविदुष इत्युक्तं पूर्वपक्षे, सिद्धान्ते तु विद्वद्विषयमेवेदं वाक्यम्, “अकानयमानो योऽकामो निष्कामः” इत्यत्रार्थपुत्रववविषयैषणाक्षयराहित्यं विवक्षितम् । उदस्मात् प्राणाः क्रामन्ति- उत्क्राम

उत्क्रामन्तीत्यन्वयः, समवलीयन्ते अत्रैव शरीरे लीयन्त इत्यर्थः । स ऊच्छ्रयत्याध्मातः वायुना पूरित उच्छूनो भवतीत्यर्थः । तन्नेत्यादि । प्रकतपरामर्शिनस्तच्छब्दस्य शारीरपरत्वात् तस्मात्प्राणानुत्क्रान्तिरुच्यत इत्यर्थः । चोदयति- तस्येति । षष्ठयन्ततच्छब्दनिर्दिष्टः शारीरोऽस्तु, तत्सम्बन्धिनां प्राणानामुत्क्रान्त्यपादानं शरीरमेवेत्यर्थः, षष्ठ्या उपकरणोपकरणित्वलक्षणसम्बन्धपरत्वमभ्युपगम्य परिहरति । नेति । अश्रुतस्य धर्मिणस्तस्यापादानत्वस्य चोभयोः कल्प्यत्वादापे सिद्धरूपस्यैव धर्मिण अपादानातमात्रकल्पनं युक्तमित्यर्थः । षष्ठ्या एवापादानत्वपरतामाह- किञ्चेति । प्राणानां जीवसम्बन्धकवननैरथ्यात् षष्ठया अपादानवाचकत्वाञ्च शारीर एवापादानमित्यर्थः, नायमर्थ कथंचिदर्थानुगुण्यावगम्यः अपि तु कण्ठोक्तश्चेत्याह- न चात्रेति । स्पष्टोह्येकेषामिति व्याख्येयं पदद्वयं व्याचष्टे- माध्यन्दिनानामिति । यथा योविज्ञाने तिष्ठन्नित्यत्र विज्ञानशब्दः समानप्रकरणस्थेन य आत्मनि तिष्ठन्नित्यात्मशब्देनात्मपरा निश्चीयते तथा तस्येति षष्ठयन्तपदं तस्मादिति पञ्चम्यन्तपदेन पञ्चम्यर्थं निश्चीयते इत्यर्थः । चोदयति- शारीरादिति । प्रसक्तस्य हि प्रतिषेधः अत्र तदभावान्न निषेधोपपत्तिरित्यर्थः । परिहरति- नेति । शरीरवियोगकाले प्रारब्धकर्महेतुकचरमशरीरवियोगकाल इत्यर्थः । तदानीं शारीरात् प्राणानां वियोगस्यानिष्टत्वे सति हि तन्निषेधः कार्य इत्यत्राह - ततश्च देवयानेनेति । न तस्य प्राणा इत्यस्यार्थमाह - न तस्येति । आर्तभागेत्यादि । ग्रहातिग्रहरूपेणग्रहः पात्रविशेषः, तत्स्थद्रव्यमतिग्रहः, दद्रूपेण आकर्षकरज्जुतत्समाकृष्यरूपेण वा अपामग्न्यन्नत्वम् अग्रेरषां भक्षकत्वानुसम्धानं विहितं फलविशेषाय उदस्मात्प्राणाः क्रामन्तीत्यादिना जीवस्य प्राणापरित्यागकथनम्, “अपपुनर्मृत्युं जयति” मृत्युशब्दवाच्यमग्निमपजयति, उदस्मादित्यादि अविद्वद्विषयं चेत्कथं प्राणानुक्रान्तिवचनमित्यत्राह अविदुषस्त्विदि ॥ 12 ॥

॥ स्मर्यते च ॥ 13 ॥ ऊर्ध्वमेक इत्यादिवचनं याज्ञवल्क्यस्मृतौ, तेषां नाडीविशेषाणाम् । परे तु “समाना च” इत्यादिसूत्रमेकं पृथगधिकरणं वर्णयन्ति, निर्गुणब्रह्मविद इव सगुणोपासकस्याप्यमृतत्वप्राप्तिश्रवणेन पुनर्भवाभावात् पुनर्भवहेतुभूतभूताश्रयविशिष्टोत्क्रान्तिः सगुणनिष्ठस्यापि न सम्भवति विद्याप्रकरणेषूत्क्रान्तिकथनं स्वापादिवत्सर्वप्राणिसाधारणोत्क्रान्त्यनुवादस्तेजस्सम्पत्तिस्थानभूतपरदेवतातादात्म्यप्रतिपादनार्थमिति पूर्वपक्षं कृत्वा अविदुषः सगुणविदुषश्च समानोत्क्रान्तिर्नाडीप्रवेशात् पूर्वमिति सिद्धान्तयन्ति, निर्गुणविद्याया अप्रामाणिकत्वादेवं तदयुक्तं, “तदापीतेः” इत्यादिकमधिकरणान्तरमाहुः, “तेजः परस्यां देवतायाम्” इति साध्यक्षस्य सप्राणस्य सकरणग्रामस्य तेजस

आत्यन्तिकप्रलय उच्यते, ब्रह्मणः सर्वप्रकृतित्वात् तत्र लयोपपत्तेरिति पूर्वपक्षं कृत्वा ज्योतिष्टोमादिविधानविद्याशास्त्रवैयर्थ्यादिभिः सुषुप्तिप्रलयवन्नात्यन्तिक इति सिद्धान्तयन्ति, तदप्ययुक्तं

कृतकरत्वात्, “स एव तु कर्मानुस्मृतिशब्दविधिभ्यः” इत्यत्र सुषुप्तौ सुनिरूपितो ह्ययमर्थः । न च शङ्कान्तमस्ति, अत ऐकाधिकरण्यमेव युक्तम्, इत्यञ्च तेषां सूत्रयोजना, तश्च तेजो भूतान्तरसंसृष्टं सूक्ष्मं, नाडीनिष्क्रमणश्रुतिरूपप्रमाणात्त्सौक्ष्म्यमुपलभ्यते, अत एव पार्श्वस्थैरनुपलम्भो भूर्तान्तराप्रतिधातश्चेति, अत एव सूक्ष्मत्वात् स्थूलदहोपमर्देन नोपमृद्यत इति, इदमधिकरणमविदुष आत्यन्तिकलयाभावासमर्थनार्थं चेत् सूक्ष्मभित्यादि सूत्रत्रयमनपेक्षितं, सूक्ष्मपेहसमर्थनस्यानुपयोगात्, भूतसूक्ष्मसंसर्गस्य पञ्चाग्निविद्यायां निरूपितत्वाच्च । नन्वविदुष आत्यन्तिकलयाभावे" तस्य सूक्ष्मदेहवतो निःसरत उपलम्भादिप्रसङ्गः परिहर्त्तव्य इति चेत् न, वेतालादिस्थूलशरीरस्याप्यदृश्यत्वे स्थिते कथं दृश्यत्वशङ्का भवेत्, यद्यपि कस्यचित्सा स्यात्, अतिमन्दतया न परिहर्तव्या, यद्यपि परिहर्तव्या, तदन्तरप्रतिपत्तावित्यत्रैव परिहर्तव्या, कृतकरत्वस्योक्तत्वादेव सर्वमिदमसङ्गतं “प्रतिषेधादिति चेन्न शारीरा"दिति पूर्वपक्षसूत्रं कृत्वा “स्पष्टो ह्येकेषा"मिति सिद्धान्तसूत्रं योजयन्ति, तत्ता बदक्षराननुगुणं, हिशब्देन पूर्वोक्तोपपादकत्वप्रतीतेः, “स्पष्टो ह्येकेषा"मिति अतिभागप्रश्नप्रतिवचनवाक्यमुदाहरन्ति, अत्र प्राणानुक्रान्तेरमृतत्वाभावशङ्कां शमयितुं “अत्रैव समवलीयन्ते” इति प्राणविलय उक्तः । अस्मादिति न शारीरोऽवधिरुच्यते, स उच्छ्रयतीत्युच्छ्रयनादिधर्गोक्तस्तदैकार्थ्यात् “न तस्मात्प्राणा उत्क्रामन्ती"त्यत्रापि शरीरादुत्क्रान्तिर्निषिध्यते तस्मादित्यस् प्रकृतपरानर्शित्वेऽप्यभेदोपचारादुच्छ्रयनादिमतो देहस्यैव निर्देशः, आर्तभागप्रश्नैकार्थ्यात्, अप्राप्तस्य निषेधायोगाच्च । न च शारीरादुत्क्रान्तेः प्राप्तिरस्ति, अतः सा न निषेध्या, वाक्यसामञ्जस्यं च न स्यात् कामयमानस्योत्क्रान्तिमुकत्वा “अथाकामयमान” इत्यकामयमानं पृथङ्निर्दिश्य तस्याप्युत्क्रमणोपदेशे हि पृथग्व्यपदेशोपक्रमो भ्रान्तजल्पवत्स्यात्, “न तस्य प्राणाः” इति षष्ठयवगसंबन्धमात्रस्य करणत्वकरणित्वादिलक्षणविशेषपर्यवसानसिर्द्धर्न तस्मात्प्राणा इति वाक्यन्तरावगतविशेषपर्यवसानाकांक्षा च नास्ति, तत्र च तच्छब्दः शारीरपर इत्युक्तं, स्मर्यते चेति सूत्रेण “सर्वभूतात्मभूतस्य सम्यग् भूतानि पश्यतः । देवापि मार्गे मुह्यन्ति ह्यपदस्य पदैषिण” इति निषेधस्मृतिरभिप्रेतेत्याहुः, शुकस्यादित्यमण्डलप्राप्तिर्विशिष्टदेशे देहत्यामाय न तु मुक्तेर्मार्गगमनापेक्षयेति चाहुः, अत्र व्रूमः- निर्गुणविद्याया अभावात् निर्गुणप्राप्त्यभावाच्च सगुणनिष्ठ एव परविद्यानिष्ठः, सद्विद्यादिष्वप्यानन्दाद्यनुगममत् “अथ परा यया तदक्षरमधिगम्यते” इत्युपक्रम्य “यः सर्वज्ञः सर्ववित्” इत्यामननात् परं ज्योतिरुपसंपन्नस्य लक्षणाद्यमननात्, “सत्यं ज्ञान"मित्यत्र सर्वकामविशिष्टब्रह्मानुभवदर्शनाच्च परविद्यानिष्ठस्यैव सर्वे वेदान्ता मतिमामनन्ति “अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य, तयोर्ध्वमायन्नमृतत्वमेति, तेन प्रद्योतेनैष आत्मानिष्कामति चक्षुषो वा मूर्ध्नो वा,

“यत्रासौ केशान्तो विवर्त्तते । व्यपोद्यशीर्षकपाले” इति ,“स एतमेव सीमानं विदायैतया द्वारा प्रापद्यतसैषा विदृतिर्नाम” इत्युपक्रम्य “स य एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्कम्यामुष्मिन् स्वर्गे लाके सर्वान्कामानाष्त्वाऽमृतः समभवत् अपुनर्भवाय कोशं भिनत्ति कोश भित्त्वा शीर्षकपालं भिनत्ति शीर्षकपालं भित्त्वा पृथिवी भिनत्ति” इत्यारभ्य “आकाशं भित्त्वाऽव्यक्तं भिनत्ति, अक्षरं भिनत्ति मृत्युं भिनत्ति मृत्युर्वै परे देव एकीभवति” इति । यदुक्तमार्तभागप्रश्नैकार्थ्योच्छ्वयनाम्नानवाक्यासामञ्जस्याप्राप्तनिषेधायोगविशेषपर्यवसाननैराकाङ्क्ष्यैनर्ोत्क्रान्तिर्वि

दुष इति, तदयुक्तं, तथो हि आर्तभागप्रश्नस्य विद्वद्विषयत्वाभावात् तदैकार्थ्यमनपेक्षितं, तत्र स सर्वप्राणिसाधारणः, तत्र चास्मात्प्राणाः कामन्त्युत नेति प्रश्नो न शरीरादुत्क्रान्तिविषयः किं तु शारीरात्, शरीरे प्राणस्थित्यभावेन तत उत्क्रान्तेरसंदिग्धत्वात्, अतः प्रतिवचनमपि शारीरादनुत्क्रान्तिविषयम् अत्रैव जीवे समवलीयन्ते- संसृज्यन्त, “स उच्छ्वयती"त्यभेदोपचारादहमभिमानविषयदेहनिर्देशः । यथा परपक्षे “योऽकामो निष्काम आप्तकाम आत्कामः न तस्मात् प्राणा उत्क्रमन्ति” इति तच्छब्दनिर्देशः, अतोविद्वत्प्रकरणस्य न तदैकार्थ्यापेक्षा, आर्तभागप्रश्नस्य विद्व-द्विषयत्वेऽपि शारीरविषयत्वं दर्शितं, वाक्यासामञ्जस्यं तु नास्ति, कामयमानाकामयमानयोः समानायामप्युत्क्रान्तौ ब्रह्मप्राप्त्यभावतत्सद्भावरूपवैषम्यकृतत्वाद्वाक्यभेदस्य, सकामनिष्कामविषयतया प्रकरणभेदः, नोत्क्रान्त्यनुत्क्रान्तिविषयतया, काममय एवं पुरुषः” इत्युपक्रम्य “इति तु कामयमान” इत्युपसंहृत्य “अथाकामयमान” इति प्रस्तावात्, तयोश्च वैषम्यं ब्रह्मप्राप्तितदभावाभ्यां, नोत्क्रान्तितदभावाभ्यामिति वाक्यसामञ्जस्यसिद्धिः, अप्राप्तिनिषेध्रोपि नास्ति अथप्राप्तविषयत्वान्निषेधस्य, सर्वशाखाप्रत्ययन्यायेन सर्वासु विद्यासु देहपातसमये सुकृतदुष्कृतप्रहाणमुक्तं भवति, अतो भोक्तव्याभावेन लोकान्तरगमनाभावाद्विदुषो लोकान्तरगत्यौपयिकप्राणादिविश्लेषः शारीरस्यार्थवशात् प्राप्तः अतः शारीरादुत्क्रान्तिरर्थप्राप्ता प्रतिषेध्या स्यादर्चिरादिगत्युपपत्त्यर्थ; षष्ठयवगतस्य सम्बन्धस्योपकरणोपकरणित्वादिलक्षणसम्बन्धविशेषपर्यवसाने सम्भवत्यपि उत्क्रमणस्यापादानापेक्षायां सन्निहितस्यैवापादानत्वकल्पनोपपत्तेर्विशेषसाकाङ्क्षस्य सम्बन्धमात्रस्याकाङ्क्षितापादानत्वविशेषपर्यवसानं न्याय्यं, न त्वनाङ्क्षिते करणत्वकरणित्वादिरूपे, अपादानस्याकाङ्क्षितत्वादेव छागपशुन्यायाद्वाक्यान्तरावगतापादानविशेषपर्यवसायित्वं च न्याय्यम्, यत उत्क्रान्तिनिषेधः श्रुतौ नास्ति, अत एव “स्मर्यते च, इत्यत्राप्युत्क्रान्तिविषयस्मृतिवचनमेवोदाहतर्व्यम्, “देवापि मार्गे मुहन्ति” इति वचनं त्वतद्विषयत्वांदनुदाहार्यम्, तच्च न गतिनिषेधपरं किन्तु गतेर्दुरवगमत्वपरं, तथा च परपक्षानौपयिकत्वाच्च नोदाहार्थं, तस्य च गतिनिषेधकरत्वाभावो मोक्षधर्म एव गतिविधानादवम्यते “ते तीर्त्वा दुस्तरं जन्म विशन्ति विमलं नभः । ततस्तान् सुकृतीन्सर्वान्सूर्यो वहति रश्मिभिः ॥ पद्मतन्तुवदाविश्य प्रवहन् विषयान् नृप । तत्र तान् प्रवहन् वायुः प्रतिगृह्नाति भारत । वीतरागान् यतीन् सिद्धान् धिया युक्ताँस्तपोधनात् । सूक्ष्मः शीतः सुगन्धिश्च सुखस्पर्शश्च भारत । सप्तानां मरुतां श्रेष्ठो लाकान् गच्छति यः शुभान् । स तान् वहति कौन्तेय ! तमसः परमां गतिम् । तमो वहति लोकेश रजसः परमाङ्गतिम् । रजो वहति राजेन्द्र! सत्त्वस्य परमात्मानमात्मना । परमात्मानमासाद्य तद्भूता यतमानसाः । अमृतत्वाय कल्पन्ते न निवर्तन्ति चाविभो । परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम् । आत्मा केवलतां प्राप्तो यत्र गत्वा न शोचति । ईदृशं परमं स्थानं निरयास्ते च तादृशा” इति । यत्तु शुकोत्पतनं विशिष्टदेशे देहत्यागाय न तु मुक्तौ मार्गापेक्षयेति, तदप्युक्तं “दृष्टो मार्गः प्रवृत्तोऽस्मि” इति गतिचिन्तायां मार्गस्य दृष्टत्वामिधानात् “भूतैः समतिवाह्यते” इत्यातिवाहिकैरतिवाहनस्योक्तत्वाच्च, स्थूलदेहेन आसूर्यमण्डलात् गमनं योगप्रभावज्ञापनार्थमित्युक्तं “दर्शयित्वा प्रभावं स्व"मिति, “सर्वभूतगतोऽभव"दिति च ज्ञानेन सर्वभूतव्याप्तिरुक्ता सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः” इत्यादि श्रुतेः अन्ये तु अप्राप्तायाः शारीरादुत्क्रान्तेः कथं प्रतिषेध, इत्येतदेवं परिहरन्ति, नात्र शारीरादुत्क्रान्तिः प्रतिषिध्यते किं तु “अत्र ब्रह्म ुसमश्नुते” इति वक्तुमनुवादः, सञ्जातविद्यः पुरुषः प्रारब्धवशादनुत्क्रान्तप्रास्मो जीवदशायामेव ब्रह्मानुभवतीत्यर्थ इति तदविरुद्धम्, तथापि तदनादरे कारणमस्ति शारीरादनुत्क्रान्त्यनुवादेनात्र ब्रह्मापरोक्ष्याभिधानेऽपि गतिप्रतिषेधशङ्कापरिहारः सिध्द्येत्, तथाऽपि “न शारीरात्स्पष्टो ह्येकेषा"मिति वदतः सूत्रकारस्य शारीरादुत्क्रान्तिर्भोक्तव्याभावप्राप्ता प्रतिषिध्यते इत्येवाभिप्राय इति ॥ 13 ॥

॥ आसृत्युपक्रमाधिकरणं समाप्तम् ॥