॥ भूतेषु तच्छ्रुतेः ॥ 5 ॥ सङ्गतिः स्फुटा, किमत्र भूतान्तरसंसृष्टतेजस्संयोगः? उत तेजोमात्रसंयोग इति, किं तेजःशब्दस्तेजोमात्रपरः? उत भूतान्तरसंसृष्टपरः, किं “पृथिवीमय आपोमयः” इत्यादिवाक्यं युगपदनेकभूतसंसर्गं दर्शयति? नेति, किं त्रिवृत्करणश्रुतिः पञ्चीकरणस्मृतिश्च संहतानामेवकार्यसामर्थ्यं दर्शयतो नेति, न चेत् पृथिवीमय इत्यादिना यौगपद्यप्रदर्शनाभावेन तेजश्शब्दस्य तेजोमात्रपरतया तेजोमात्रसंयोगः स्यात् । दर्शयतश्चेत् पृथिवीमयत्वादिश्रुत्या युगपदनेकभूतसंसर्गप्रदर्शनेन तेजश्शब्दस्य भूतान्तरसंसृष्टतेजःपरतया भूतान्तरसंसृष्टतेजस्संयोगः स्यात् । सर्वभूतमयत्वश्रुतेरिति- भूतमात्रे प्रकृतेऽपि सामर्थ्यात् भूतमयत्वपरामर्शित्वसिद्धिस्तच्छब्दस्य फलितेति भावः । अनन्तरसूत्रशङ्कामाह- नन्विति ॥ 5 ॥
॥ नैकस्मिन्दर्शयतो हि ॥ 6 ॥ पञ्चीकृतेषु त्रिवृत्कृतेषु वा भूतेष्वेकैकमेव कार्यसमर्थं, न त्वत्रिवृत्कृतमेकैकं कार्यसमर्थम्, “आपः पुरुषवचसोभवन्ति” इत्यत्र त्रिवृत्कृतानामेवाषां कार्यकरत्वदर्शनात्, अजहल्लक्षणया तेजः शब्दस्त्रिवृत्कृतान् भूतसूक्ष्मांशानाह । अत्र परे चापरे च “नैकस्मि” न्निति सूत्रान्तमेकमधिकरणं वर्णयन्ति, कथं तर्हि प्राणस्तेजसीति श्रुतिरत्यिपेक्षायां तन्निर्वाहार्थं “भूतेषु तच्छ्रुते"रिति सूत्रं, सःप्राणसंपृक्तोऽध्यक्षस्तेजःससचिवभूतेषु वर्त्तत इत्यवगन्तव्यं तच्छ्रुतेः- प्राणस्तेजसीति श्रुतेरिति व्याख्याय तावता प्राणस्य साक्षात्तेजः प्राप्तिश्रुतिविरोधस्यापरिहृतत्वात् स्त्रुध्नपाटलिपुत्रदृष्टान्तेन विरोधं शमयन्ति, एकमेव तेजः श्रूयते न भूतान्तरमित्यपेक्षायां नैकस्मिन्निति सूत्रमवतारयन्ति, दर्शयतः प्रश्नप्रतिवचने “आपः पुरुषवचसः” इति, व्याख्यातं त्र्यात्मकत्वादिति, “पृथिवीमय आपोमयः” “अण्व्यो मात्रा विनाशिन्यो दर्शार्धानान्तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्पवत्यनुपूर्वशः” इति श्रुतिस्मृती दर्शयति इति वेति, भेतेष्विति सूत्रे दृष्टान्तस्य कण्ठोकत्यभावादभिप्रायकल्पनायां साक्षात्तेजःइम्पत्तिश्रुर्तिविरोधपरिहारो दृष्टान्ताभिप्रायकल्पनं च “सोऽध्यक्षे” इति सूत्रे एव कर्तुं युक्तं, तत्र जीवसम्पत्तिपरतायाः स्फुटत्वात्, भूतेष्विति सूत्रे जीवसहितप्राणनिर्द्देशाभावात् भूतशब्दतद्गतबहुवचनस्वारस्येन सर्वभूतसंसर्गपरत्वस्य स्फुटत्वात्, तत्र च व्युदसनीयशङ्काभेदसद्भावात् अधिकरणभेदस्य न्याय्यत्वात् । ननु नैकस्मिन्नित्यनेन पुनरुक्तिरिति चेन्न, तस्य च व्युदसनीयशङ्कान्तरस्योपन्यस्तत्वात् । अन्ये त्वधिकरणभेदं वर्णयन्त एव “तच्छ्रुते” रिति “प्राणस्तेजसी"ति श्रुतेरिति व्याचक्षते, तदयुक्तं तत्र तेजोमात्रश्रवणेन पूर्वपक्षवीजतया तन्निवारणक्षमत्वाभावात्, अतः पृथिवीमय इत्यादिश्रुतिरेव तत्रोदाहायर्ा, अतो नैकस्मिन्नत्यत्र त्रिवृत्करणपञ्चीकरणवाक्ये एवोदाहतर्व्ये, पञ्चाग्निविद्यावाक्यस्य दर्शार्धानामिति स्मृतेश्च पुनःसम्भवविषयतया विद्वदविदुषोः समानत्वाभावात् भाष्ये तदनादरः ॥ 6 ॥
॥ भूताधिकरणं समाप्तम् ॥