14 अध्यक्षाधिकरणम्

॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ 4 ॥ सङ्गतिः स्फुटा, किं प्राणस्तेजसि संपद्यते? उत जीवे, किं प्राणस्तेजसीति वाक्यं जीवसंपत्तिपूर्वकतेजःसम्पत्तिपरम्? उत केवलतेजस्संपत्तिपरं, जीवसंपत्तिपरत्वे प्राणस्तेजसीति वाक्यस्वारस्यं हीयते, नेति, हीयते चेदेवाक्यस्य केवलतेजःसम्पत्तिपरत्वान्न जीवे सम्पत्तिः, न हीयते चेत् जीवसंपत्तिपूर्वकतेजःसम्पत्तिपरत्वाद्वाक्यस्य प्राणस्य जीवे सम्पत्तिः । यथेत्यादि उपगमः- संबन्धः, तेजश्शब्देन भूतसूक्ष्मां शका विवक्षिताः, आदिशब्दविवक्षितार्थमाह- तथेति । अन्येन संयुज्य पदार्थान्तरसम्बन्धेऽप्यन्तरावाचिशब्दनिर्देशे दृष्टान्तमाह- यथेति । इतरे त्रयोऽप्यश्रुतत्वादिति पूर्वपक्षहेतुमाहुः, अतिरिक्तहेतौ सम्भवति अश्रवणमात्रस्य हेतुत्वायोगादम्न्यप्रायन्यायो भाष्ये दर्शितः । सिद्धान्ते च स्त्रुध्नात् पाटलिपुत्रगमनस्यमथुराव्यवधानेऽपि स्त्रुध्नात् पाटलिपुत्रगमनव्यहारो दृष्टान्तितः, ततोऽपि गङ्गासाहित्यकण्ठोक्तिरहितथमुनासागरगमनव्यवहारदृष्टान्त उचितः, पाटलिपुत्रगमने स्त्रुध्नमथुरयोः सहगमनाभावात्, इह तु सहगमनसद्भावात् गङ्गास्थानीयजीवापेक्षया यमुनास्थानीयस्य प्राणस्य गुणभावाच्च, सहावस्थानस्य श्रुतिं “स विज्ञानो भवती"त्युदाहरन्तिविज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानानीन्द्रियाणि, सेन्द्रिय इत्यर्थः । तस्याविशदार्थत्वात् प्रतिष्ठाविषयश्रुत्यन्तरमुदाहृतं भाष्ये ॥ 4 ॥

॥ अध्यक्षारधिकरणं समाप्तम् ॥