॥ तन्मनः प्राण उत्तरात् ॥ 3 ॥ सङ्गतिः स्फुटा, किमत्र मनसो लय उच्यते? उत संयोगः, किमत्र प्राण इत्यषां निर्देशः? उत प्राणस्यैव, “आपोमय” इति वाक्यं किं प्रकृतिविकारभावपरम्? उताप्यायनपरं, प्रकृतिविकारपरत्वे प्राण इत्यषां निर्दशात् सम्पत्तिर्लयः स्यात्, आप्यायनपरत्वे प्राणस्यैव निर्दशात् सम्पविः संयोगः स्यात्, तच्छब्दं व्याचष्टे- सर्वेन्द्रियेति । अधिकाशङ्केत्यादि । परम्परया स्वकारणे लय इति । स्वकारणपृथिवीद्वारेणान्नमयस्य मनसः प्राणशब्दलक्षितास्वप्सु लय इत्यर्थः । परिहरति- परिहारस्त्विति । परे तु श्रुतिलक्षणाविशये श्रुतेर्वलीय
स्त्वाद्वागेव सम्पद्यत इति पूर्वपक्षं कृत्वा वाचो मनःप्रकृतिकत्वाभावेन तत्र तल्लयायोगात् पार्थिवेन्धनजन्वाया अग्निवृत्तेरप्सूपशमदर्शनेन वृत्त्युद्भवाभिभवयोः प्रकृतिसमाश्रयत्वासम्भवाच्च वाग्वृत्तिर्मनसि संपद्यते, एवमेवेन्द्रियान्तरवृत्तिर्मनसि संपद्यत इति सिद्धान्तयन्ति, “शब्दात्” इति वाक्छब्दस्यापि वृत्त्यभेदोपचारादुपपत्तेरिति व्याचक्षते, तदयुक्तं सौत्रयोर्वाक्छब्दशब्दयोवृत्त्युपपत्तिपरत्वे लाक्षरिकत्वप्रसङ्गात्, अर्थविरोधाच्च, अर्थविरोधश्च श्रुतिस्वारस्याहान्याधिक्यरूपः वाक्छब्दस्य वृत्तिपरत्वम्, मनसीति सप्तम्या निरर्थकत्वं लयवाचिनः
संपत्तिशब्दस्योपशमपरत्वं च, स्वावस्थाप्रहाणेन कारणसंश्लेषो हि लयः न तूपशममात्रम्, जलसंसर्गो वह्निशान्तिहेतुः, न स्थानम्, अभिज्वलनाभावो ह्यग्न्यवयवाश्रयः, अम्भसोक्षिते दहने सत्यम्भसा शाम्यतीति ह्युच्यते न त्वम्भसि शाम्यतीति बहुजलप्रक्षिप्तेऽप्यग्नौ तच्छान्तिहेतुरेव जलं न त्वभिज्वलनाभावाधिकरणम्, बहुसलिलस्याङ्गाराधिकरणतया विवेकाभावात् निरिन्धनोऽप्सु शाम्यतीति व्यवहारः, अतः श्रुतिस्वारस्यभङ्गाधिक्यम्, अस्माकं तु संपत्तिशब्दास्वारस्यमात्रमेवेत्यस्मत्पक्ष एवोपपन्नः, तन्मनः प्राण इत्यनन्तराधिकरणस्यापि मनोवृत्तिलयपरत्वमुक्तदोषग्रस्तम् । अपरेऽप्यस्मिन्नधिकरणे तुल्याभिप्रायाः, तुल्यप्रतिक्षेपाश्च, हेतुवैषम्यमेव ब्रह्मणि लयश्रुतिविरोधात् अविदुषोऽपि देहान्तरप्रतिपत्तौ करणानुवृत्त्यनुपपत्तेश्च वाग्वृत्तिलय इति, तत्राद्यो हेतुरयुक्तः, तथा हि मनसि वाग्वृत्तिलयश्चेत् ब्रह्मणि सर्ववस्तुलयश्रुतिविरोधः, मनसो ब्रह्माभिन्नत्वादविरोधश्चेत्स्वरूपलयेऽपि तुल्यं, द्वितीयस्तु स्वरूपलयाभावहेतुत्वादस्मत्पक्षानुगुणः । अन्ये तु वागादिवाह्येन्द्रियाणां मनस्यैवलयः? उतान्यत्रेति विचार्य मनःशब्दलक्षिते अहङ्कारे लय इति पूर्वपक्षं कृत्वा सम्पत्तिशब्देन वृत्तिविलोपाय संयोगस्य विवक्षितत्वात् मनस्येव सम्पत्तिरिति सिद्धन्तयन्ति, तन्मन इति प्राणशब्दलक्षिते अहङ्कारे मनसो लय इत्याङ्कय पूर्ववत् सिद्धान्त0यन्ति, मुख्यप्राणे मनःसंश्लेषश्चेत् सहोत्क्रान्तिर्वाच्या न तु पश्चात् सर्वे प्राणा अनूत्क्रामन्तीति पश्चादुत्क्रान्ति श्रवणात्सर्वेन्द्रियसंयुक्तस्य मनसो न प्राणसंयोग इत्यधिकाशङ्कामुकत्वा अनुर्न पश्चाद्भावपरः, किं तु तृतीयार्थे कर्मप्रवचनीयः, तस्मात्सहोत्क्रामतीत्यधिकं परिहारमाहुः, तत्र विचारस्य संपत्तिस्थानविषयत्वादपि संपद्यमानवस्तुविषयत्वमुचितम्, “आकाशाद्वायुर्वायोरग्निरग्नेरापः” इत्युत्पत्तिवचन इव संपत्तिवाक्येऽपि “वाङ्मनसि, मनः प्राणे, प्राणस्तेजसि” इति शृङ्खलितनिर्देशे पूर्वापरयोर्मनःशब्दयोः प्राणशब्दयोश्चार्थैक्यस्य स्वतःप्राप्तत्वेनाहङ्कारवाचित्वमनोवाचित्वाहङ्कारवाचित्वप्राणवाचित्वाश्रयणायोगात्, एकस्मिन्नर्थे ग्राह्मे तत्रापि मुख्यार्थस्य स्वतः- प्राप्तत्वात् मनःप्राणशब्दयोरमुख्यैकरूपार्थस्वीकारे सत्यहङ्कारपरत्वात्तयोरुत्तरवाक्यान्वयोयोगान्मुख्यार्थः स्वत् प्राप्त इति
। यथा प्रसिध्द्यर्थे स्वीकृते सति क्रियमाणो विचारः सम्पद्यमानवस्तुविषय एव भवितुमर्हतीति, पश्चादुत्क्रान्तिश्रवणमिन्द्रियाणां प्राणसंश्लेषबाधकमित्यधिकाशङ्का चानुपपन्ना, प्राणशब्दस्यहङ्कारपरत्वं पूर्वपक्षयतामनभिमतं पूर्वपक्षविरुद्धत्वाच्छङ्कायाः, पूर्वपक्षसाधकयुकत्याधिक्यमूला ह्यधिकाशङ्का, मनसोऽहङ्कारलीनत्वे मुख्यप्राणात् पृथगिन्द्रियोत्क्रमणं हि विरुध्यते, तस्माद्विचाराधिकशङ्के यथाभाष्यमेवोपपन्ने ॥ 3 ॥
॥ मनोऽधिकरणं समाप्तम् ॥