॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥ 1 ॥ शरीरस्थितिसमये यद्विद्याफलं तदुक्तम्, अथ गत्युपक्रमश्चिन्त्यत इति पादसङ्गतिः, गतेरुपक्रमः- उत्क्रान्तिः, स चिन्त्यते, किमियं सम्पत्तिर्वाग्वृत्तिविषया? उत वाक्स्वरूपविषयेति, किं वाक्शब्दस्य मुख्यार्थपरिग्रह उपपन्नो नेति, किमियं सम्पत्तिर्लयरूपा उत व्यापारनिवृत्तिपूर्वकसंयोगरूपेति, इन्द्रियान्तरसम्पत्तिवचनं किं लयपरत्वेऽप्युपपद्यते? उत संयोगपरत्व एवेति, यदा लयपरत्वेऽप्युपपद्यते, तदा सम्पर्त्तेर्लयरूपतया वाक्छब्दस्य मुख्यार्थपरिग्रहायोगात्सम्पत्तिर्वृत्तिविषया स्यात्, यदा संयोगपरत्व एवोपपत्तिस्तदा सम्पत्तेः संयोगरूपत्वेन वाक्छब्दस्य मुख्यार्थत्वात्सम्पत्तिः स्वरूपविषया स्यत्ा । कुत इत्यादि कारणे हि लयः, न वाचो मनःकरणं, तत्प्रवृत्तेरेव कारणं, मन इति वृत्तिविषया सम्पत्तिरित्यर्थः, वाग्वृत्तेर्हि वागाश्रयभूता न मनः, अतस्तद्वृत्तिहेतुस्वरूपव्यापारस्य मनसि लय इत्यस्वारस्याभिप्रायेण कथञ्चिदित्युक्तम् । वाङ्मनसीति- वाक्छब्दस्य वृत्तिपरत्वे लक्षणा स्यात्, स्वरूपपरत्वे तु न लक्षणा, सम्पत्तिशब्दो लयवाची संयोगवाची न, लयवाचित्वे प्रसिद्धिप्राचुर्यात् संयोगवाचित्वमस्वरसमिति चेत्, पूर्वपक्षिणोऽपि लयवाचित्वमयुक्तम्, उपादाने हि लयः, वाग्वृत्तेर्वागेवोपादानं, मनस्तु निमित्तम्, एवं वाक्छब्दसम्पतिशब्दयोरुभयोरपि लाक्षणिकत्वास्वारस्यप्रसङ्गः पूर्वपक्षे । अस्माकं तु सम्पत्तिशब्दास्वारस्यमेव न वाक्छब्दलक्षणेति विशेष इत्यर्थः । दृश्यते हीति - प्रवृत्तव्यापारं मनोनिवृत्तव्यापारं वागिन्द्रियं, तत्र प्रवृत्तस्वकायर्े मनसि निवृत्तस्वकार्यं वागिन्द्रियमन्तर्मतम्भवितुमर्हति, यथा प्रवृत्तस्वकार्ये दारुणि निवृत्तस्वकार्योऽग्निरन्तर्भूत इति भावः । वृत्तिमात्रेति- यद्यन्निवृत्तस्वकार्यं तत्तत्प्रवृत्तस्वकार्येऽन्तर्गतम्भवतीति न व्याप्तिरस्ति, अतो वृत्तिमात्रसम्पत्त्यापि वागिन्द्रियोपरमे मनःप्रवृत्तिदर्शनमुपपद्यत इत्यर्थः । दर्शनाच्छब्दाच्चेति द्वयमप्येको हेतुः ॥ 1 ॥ ॥
॥ अत एव सर्वाण्यनु ॥ 2 ॥ वाचमनुवाचः पश्चादित्यर्थः ॥ 2 ॥
॥ वागधिकरणं समाप्तम् ॥