॥ भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ॥ 19 ॥ सङ्गतिः स्फुटा,आब्धकार्ये युण्यपापे किं विद्यायोनिशरीरावसाने? उत तच्छरीरावसाने? देहान्तरावसाने वेत्यनियमः, किं “तस्य तावत्” इति वाक्यं विद्यायोनिशरीरावसानमवगमयति? उत शरीरमतन्त्रीकृत्य फलभोगावसानमवगमयतीति, प्रथमे विद्यायोनिशरीरावसानत्वं, द्वितीये त्वनियम् । पूर्वपक्षहेतुं परिहरति - तस्य तावदिति । “यावन्न विमोक्ष्ये” इत्यत्र देहस्तदवधिश्च न श्रुतौ,
“धूत्वा शरीरमकृतं कृतात्मा” इत्यत्र शरीरं श्रुतम्, अवधिस्तु न श्रुतः, शरीरमिति एकवचनमपि जातिविषयम्, “अश्व इव रोमाणि विधूयपाप"मिति पूर्वखण्डस्थपापशब्दैकवचनवदित्यभिप्रायेण देहावधिनियमाश्रवणादित्युक्तम्, अस्मिन्पादे बहुधिकरणोक्तार्थस्य सुग्रहत्वायाह - तदेवमिति । परे तु- “अनारब्धकार्ये” इत्यत्र यद्यावर्तितं तस्य कर्मणः क्षयकारं दशर्यतीदं सूत्रमित्याहुः, तत्प्रयोजनशून्यत्वादनादरणीयम्, अनारब्धकार्ययोर्ज्ञानदाह्यत्व्रेभिहिते तदितरयोर्हि भोगेन क्षयः स्फुटः । अपरे तु कर्तृत्वस्याविद्यामूलत्वाद्विदुषश्चाविद्यानिवृत्तौ भोक्तृत्वासम्भवात् बहुशरीरप्रदैककर्मणो देहान्तरोपाधौ तस्य तावदेवेति श्रुतिवशेन भोगासंभवाच्च प्रारब्धस्यापि ज्ञानेनैव क्षय इति पूर्वपक्षं कृतवा तस्य तावदित्यवशेषितस्य कर्मणो ज्ञानदाह्यत्वायोगाद्विदुषोऽपि सुखदुःखानुभवदर्शनेन प्रारब्धभोगानुगुणाविद्यालेशानुवृत्तेरभ्युपगन्तव्यत्वात्तस्य तावदिति श्रुतेः प्रारब्धसर्वकर्मक्षयावधिपरत्वोपपत्तेः, अत एव प्रारब्धस्य देहान्तरोपाधौ ज्ञानदाह्यत्वाश्रयणायोगाच्च भोगेनैव क्षय इति सिद्धान्तयन्ति, तदयुक्तम्- अनारब्धकार्ये एवेत्यत्र समर्थितत्वात्, एवकारार्थो हि प्रारब्धस्य ज्ञानादह्यत्वं, तच्च तस्य तावदित्यवधिश्रवणेन समथिर्तम्, अविद्यापूर्वकत्वात् कर्तृत्वस्य, तदभावात् भोगानुपपत्तिः परिहरणीयेति चेत्, यति सा परिहार्या तर्हि तत्रैव परिहर्तव्या, सह सूत्रेऽपि तत्परिहारस्याभिप्रायिकत्वं वक्तव्यं,तत्तत्रैव वक्तुं युक्तं, साध्यसिद्धयुपयोगस्याविशिष्टतया तदौपयिकार्थानां तत्रैव वक्तव्यत्वात्, युक्तिरपि निमर्ूला “जक्षत् क्रीडन् रममाणः” इति मुक्तौ परं ब्रह्मोपसम्पन्नस्यापि कर्तृत्वश्रवणेन तस्याविद्यापूर्वकत्वाभावात्, कमर्फलभोगादिकर्तृत्वं चौपाधिकमिति पूर्वपक्षयुक्तेर्निर्मूलतयाऽनारम्भणीयता । अतः अनारब्धकार्ये इत्यत्र प्रारब्धस्य भोगविनाश्यत्वे सिद्धे तदवधेरेव चिन्तनीयत्वं युक्तम् । अन्ये तु एकस्यापि कर्मणो बहुशरीरप्रदत्वसम्भवात्तस्य तावदित्यस्य कर्मक्षयावधिपरत्वोपपत्तेर्व्यासादीनां पनर्जन्मदर्शनाच्च विद्यायोनिशरीरावसानत्वनियमाभावं पूर्वपक्षीकृत्य विद्यायोनिशरीरावसाने प्रारब्धस्यापि कर्मणो विरतव्यापारत्वाद्विरतव्यापारस्यानारब्धतुल्यत्वेन विद्याविनाश्यत्वात्, तस्य तावदिति वाक्यस्य तद्देहावधिविषयत्वोपपत्तेर्व्यासादीनामाधिकारिकत्वादविरतव्यापारेण पूर्वकर्मणैव बहुशरीरग्रहणोपपत्तेश्च विद्यायोनिशरीरावसनत्वं सिद्धान्तयन्ति, तदयुक्तम् विद्यायोनिशणीरपाते प्रारब्धकर्मणो विरतव्यापारत्वे
प्रामाणाभावात्, प्रत्युत व्यासादीनां बहुदेहपरिग्रहस्तद्विरुद्ध उपलभ्यते, तेषां कर्मण्रोविरतव्यापारत्वे संप्रतिपन्ने तदितरेषामेकस्मिन् विद्यायोनिदेहान्त एव विरतव्यापारत्वे किं प्रमाणं, तस्य तावदिति श्रुतेस्त्ववधिविशेषाश्रवणात् तद्देहपादावधिपरत्वमनुपपन्नं, न हि विद्यायोनेः शरीराद्यावन्न विमोक्ष्य इति श्रूयते, तस्माद्विद्यायोनिशरीरावसानत्वनियमाभाव एव सिद्धान्तीकर्तव्यः ॥ 19 ॥
॥ इतरक्षपणाधिकरणं समाप्तम् ॥
॥ इति श्रीहारीतकुलतिलकवाग्विजवसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यावापरनामथेयेन
श्रीमद्वरदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचितशारिणा विलिखितायां
श्रुतप्रकाशिकायां चतुर्थस्याध्यावस्य प्रथमः पादः ॥