10 अग्निहोत्राद्यधिकरणम्

॥ अग्निहोत्रादि तु तत्कयर्ायैव तद्दर्शनात् ॥ 16 ॥ अवान्तरसङ्गतिमाह - इतरस्यापीति । ऊर्ध्वरेतस्स्वग्निहोत्रादिनैरपेक्ष्यदर्शनादनूर्वरेतसामपि तन्नैरपेक्ष्यशङ्कायां “सर्वापेक्षा” इति सूत्रं, यज्ञादेराश्रमधर्मत्वे विद्याङ्गत्वे च नित्यानित्यसंयोगविरोधपरहिारार्थं “सहकारित्वेन च” इति सूत्रं, सुकृतफलाश्लेषादननुष्ठेयत्वशङ्कापरिहारार्थम् “अग्निहोत्रादि” इति सूत्रं । एवं सूत्राणामपौनरुकत्यावहेषु शङ्काविशेषेषु सूत्राणामुत्थानात् समुच्चयवादो निरवकाशः, किमग्निहोत्राद्याश्रमधर्मो विदुषः कार्याश्लेषादननुष्ठेयः? उतानुष्ठेयः? किमश्लेषवचनं सर्वसुकृतविषयम्? उत विद्याङ्गाश्रमधर्मव्यतिरिक्तसुकृतविषयं? किं विद्वत्संबन्ध्याश्रमवर्मस्यापि फलं विद्याव्यतिरिक्तम्? उत विद्यैवेति, व्यतिरिक्तं चेत्- अश्लेषवचनस्य सर्वसुकृतविषयतया कायर्ाश्लेषादननुष्ठेयता,यदा विद्यैव फलं तदा चाश्लेषवचनस्य विद्वत्सम्बन्ध्याश्रमधर्मव्यतिरिक्तविषयत्वेन कार्याश्लेषाभावादनुष्ठेयता, पूर्वपक्षमाह - इतरस्येत्यादिना । राद्धान्तस्तु - अग्निहोत्रादीति त्वित्यादि । तर्हि सकृदनुष्ठेयमित्यत्राह - विद्यायाश्चेति । उत्तरसूत्रस्य शङ्कामाह - यद्यग्निहोत्रादीति । सुहृदः साधुकृत्यामित्यस्य को विषय इति - उत्तरपापकृत्यायाः प्रागभुक्फल्व्ा प्रारब्धफल्वाभावातः विद्यार्थत्वाभावाच्च “द्विषन्तः पापकृत्या"मित्यस्योत्तराधं विषयः स्यादिति मत्वा सुहृदः साधुकृत्यामित्यस्य को विषय इत्युक्तम् ॥ 16 ॥

॥ अतोऽन्यापि ह्येकेषामुभयोः ॥ 17 ॥ भुक्तं, भुज्यमानं, भोक्ष्यमाणं, प्रतिबद्धफलं चेति विविधं कर्म, तत्र पूर्वकृतं पश्चाच्च वृष्ट्यन्नादिहोतोः कृतं प्रतिबद्धफलं कर्मस्ति, तद्विषया “सुहृदः साधुकृत्या” मिति श्रुतिरश्लेषविनाशश्रुतिश्चेत्यर्थः ॥ 17 ॥ अनन्तरसूत्रसङ्गतिमाह - अनुष्ठितस्यापीति । पूर्वोक्तं स्मारयतीति - “पृथग्ध्यप्रतिबन्धः फलम्” इति सूत्रेण कण्ठोक्तमत्र

स्मारयतीत्यर्थः ।

॥ यदेव विद्ययेति हि ॥ 18 ॥ सूच्यते हीति - अंह हिशब्दः “पृथग्ध्यप्रतिबन्धः फल"मित्यत्र हिशब्दवन्नापपत्तिप्रसिद्धिद्योतकः, किन्तूपपादितप्रसिद्धिद्योतकः । परे तु तत्कायर्ायेति ज्ञानस्य यत्कार्यं मोक्षस्तदर्थमिति व्याख्याय ज्ञानकायर्स्य मोक्षस्य कर्मकार्यत्वं विद्योत्पत्तिद्विारेणेत्यौपचारिकमिति वदन्ति, ततो वरं ज्ञानाख्यकार्यायेति व्याख्यानम्, उत्पन्ने सम्यग्दर्शने विदुषः शास्त्रवश्यत्वाभावात् विद्यायाः प्रागनुष्ठितर्कविषयं तत्कार्यार्थत्वाभिधानम् । यद्वा सगुणविद्यासु कर्तृत्वानतिवृत्तेर्विद्योत्पत्तावपि तस्याग्निहोत्रादिसम्भवात् दद्विषयमिति चाहु।,तदपि सम्यग्दर्शनवतामपि प्रत्यहमन्तःकरणशुद्धयर्थमग्निहोत्रादेरनुवर्तनीयतायाः “स खल्वेवं वर्तयन् यावदायुष"मिति श्रुतिसिद्धत्वात्सगुणनिगर्ुणविद्याविभागस्याप्रामाणिकत्वाच्चानुपपन्नम् । “अतोऽन्यापी"ति

साधुकृत्यावाक्यं काम्यविषयमित्याहुः । यदेव विद्ययेति सूत्रमधिकरणान्तरमाहुः, “तेनोभौ कुरुतः यश्चैतदेवं वेद यश्च न वेद” इत्युदनगीथादिविद्यासंयुक्तमसंयुक्तं च कर्म, तत्र विद्यासंयुक्तं कर्म प्रकृष्टं, “ब्राह्मणाय दद्या"दित्युक्तत्व्रेपि “विद्यां व्रतवते दद्यान्न मूर्खाय” इति विशिष्टविषयत्वसिद्धिवद् यज्ञेनेत्यविशेषेणोक्तेऽपि विद्यासंयुक्तविशिष्यकर्मविषयत्वसिद्धेर्विद्यासंयुक्तकर्मण एव ज्ञानार्थत्वमिति पूर्वपक्षं कृत्वा “तदेव वीर्यवत्तर"मिति नवणाद्विद्यावधुरस्य वीर्यवत्त्वमात्रं गम्यत इति तावदुपकारहेतुत्वादविशेषणासंयुक्तमपि कर्म ज्ञानार्थमनुष्ठेयमिति सिद्धान्तयन्ति, तदयुक्तं- यज्ञेनेत्यविशेषश्रवणाद्वेदानुवचनदानादीनामिव विद्याविधुरस्य यज्ञस्य ज्ञानार्थत्वप्रतीतेः, यज्ञस्यैव ह्यङ्गाश्रयोपासनं न दानादेः, ब्राह्मणायेत्युक्तेऽपि विलक्षणपात्रसिद्धिवदित्यप्युक्तं “दानमश्रोत्रिये यथा” “अश्रोत्रिये श्राद्धमधीतमव्रत"मित्यादिनिेधवचनान्तरवासितमनस्कस्य तदैकार्थ्याद्विशेषविषयत्वप्रतीतिर्न तु वचनान्तरनिरपेक्षा, इह तु वाक्यान्तरेण विद्याविधुरयज्ञस्य ज्ञानार्थत्वप्रतिषेधादर्शनाद्यज्ञविशेषविषयप्रतीत्यभाव एव- यथा “स्वर्गकामो यजेत” “यज्ञेन देवेभ्यः” इत्यादिषु विद्यासंयुक्तयज्ञाप्रतीतिः, अतः पूर्वपक्षानुत्थानादनारम्भणीयतैव । अपरे तु । तत्कार्याय-अपवर्गायेति समुच्चयपरमाहुः, तदयुक्तं- ज्ञानकर्मसमुच्चयस्याप्रामारिकत्वात् । ते च “यदेव विद्यया” इति सूत्रमुपैक्षिषतए तदयुक्तं- तदा परोक्तयोजनैव स्यात्, तदा ह्यानर्थक्यं प्रतिबद्धकर्मद्योतनरूपप्रयोजनसद्गावादपरेषां मतिमान्द्यमेव तेन द्येतितम् । समुच्चयाप्रामाणिकत्वदोषोऽन्येषामपि तुल्यः । अन्ये तु विद्यासहकारिणां कर्मणां विद्यया प्रहाणसम्भावनाया एवाभावाद्विद्यधिगमात् प्राक् जन्मान्तरे चानुष्ठितकाम्यव्यतिरिक्तनित्यनैमिति ककर्मविषयमिदमधिकरणं व्याचक्षते, राजनियोगानुष्ठायिनां सम्माननाप्राप्ति वत् स्वाधिकारार्थानामप्यग्निहोत्रादीनामपवर्गोऽवान्तरफलं भवतीत्यप्रहाणमिति सिद्धान्तयन्ति, “य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते” इति वचनमत्र प्रमाणयन्ति,े “यस्य तु स्वलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छती"ति गर्भसंस्काररदेरपवर्गार्थत्वविषयस्मृत्युपवृंहितत्वात् प्रागनुष्ठितस्यापवर्गार्थत्वसिद्धिरिति, तदयुक्तम्- उदाहृतवचनस्य विद्याधिगमात् प्रागनुष्ठितकर्मविषयत्वे स्वरसतः प्रामाण्याभावात् कथंचिदापाद्यमानस्यानुपपन्नत्वाच्च, कर्तृत्वममताफलविषयत्रिवधित्यागाभावे कर्मणोऽपवर्गार्थत्वायोगाद्वेदान्तज्ञानात् पूर्वं त्रिविधपरित्यागानुपपत्तेश्च तदानुष्ठितस्यापवर्गार्थत्वायोगाद्विद्यासहकारिणां कथं विद्यया प्रहाणशङ्केति चेन्न, अश्लेषविनाशश्रुतिबलेन विद्यासहकारित्वनिश्चयस्य प्रतिबद्धत्वात् द्विषयश्रुतेरर्थवादत्वाश्रयणोपपत्तेः, परविद्याकार्यमपि जनयन्ति यज्ञादयः किं पुनः स्वर्गमिति हि स्तोतं शक्यम्, अतः प्रागनुष्ठितविषयत्वमनादृत्य विद्वत्सम्बन्ध्याश्रमधर्मविषयत्वाश्रयणं युक्तम्, अतोऽन्यापीति सूत्रेण प्रहाणवचनं विनियोगेवचनं च काम्यविषयमित्युक्ते मोक्षार्थं कर्म तु न प्रहीयते, किं त्वाब्रह्मलयात्तमनुगच्छति, एवं काम्यानि विज्ञानानि च देहान्ते प्रहीयन्ते, नित्यानि विज्ञानानि वद्वांसमनुगच्छन्तीति कर्मसु ज्ञानेषु च विभागमुकृत्वा नित्यानि विज्ञानानि न स्तीति शङ्कामापाद्य तत्परिहारपरं “यदेव विद्यया” इति सूत्रं व्याचक्षते, कर्मसमृध्द्यर्थं विज्ञानं हि विहितं, तत्र काम्यकर्मसमृध्द्यर्थं विज्ञानं प्रहीयते, मोक्षार्थकर्मसमृध्द्यर्थं विमानमनुगच्छतीति, अत्र व्रूमः- मोक्षार्थं कर्म विद्वांसमनुगच्छतीत्येतन्मुमुक्षोश्चरमदेहपाते? उत तद्वयतिरिक्तदेहपाते, प्रथमे कल्पे नायं विभागः- ज्ञानकर्मसमुच्चयस्य निरस्ततया विद्योत्पादनमात्रचरितार्थस्य कर्मणो मोक्षार्थमनुगत्यनुपपत्तेः, द्वितीये तु- कृत्स्नसुकृतदुष्कृतप्रहाणाभावात्काम्यं कर्म प्रहीयते, मोक्षार्थमनुगच्छतीति विभागोऽनुपपन्नः, यतः कर्मणां विद्याङ्गत्वमेव न मोक्षार्थत्वम्, अत एव मोक्षार्थकमर्समृध्द्यर्थं विज्ञानमनुगच्छति, काम्यकर्मसमृध्द्यर्थं विमानं प्रहीयत इति च विभागोऽनुपपन्नः । ननु मुमुक्षोश्चरमेतरदेहपातेऽपि विद्याङ्गकर्मसमृध्द्यर्थं विज्ञानमनुगच्छति इतरत्प्रहीयत इति विभागपरं सूत्रं स्यादिति चेत्, चरमदेहपातात् पूर्वमशेषसुकृतदुष्कृतप्रहाणाभावेन सुकृतसमृध्द्यर्थज्ञानस्यापि प्रहाणायोगात् उपकार्यानुगमाननुगमानुगुणौ हि उपकारकानुगमाननुगामौ अत एव हि मोक्षार्थकर्मसमृध्द्यर्थं विज्ञानानुगमस्त्वयोत्प्रेक्ष्यते, अतः प्रतिबद्धफलसाधुकृत्योपपादनमाकाङ्क्षितमिति तत्परत्वमेव सूत्रस्य युक्तम् ॥ 18 ॥

॥ अग्निहोत्राद्यधिकरणं समाप्तम् ॥