09 अनारब्धकार्याधिकरणम्

॥ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ 15 ॥ अवान्तरसङ्गतिमाह - ब्रह्मविद्योत्पत्तेरिति । ततः पूर्वभाविनोः- ब्रह्मविद्योत्पत्तिपूर्वभाविनोरित्यर्थः किं पूर्वे सुकृतदुष्कृते अविशेषेण नश्यतः? उतानारब्धफले, किं “सर्वे पाष्मानः” इति सर्वशब्दस्वारस्यानुरोधो न्याय्यः? उत “तस्य ताव"दिति विलम्बश्रुत्यनुरोधः, किं कुलालचक्रभ्रमणवत् कमर्विनाशे संस्कारेण शरीरधारणमुपपद्यते? नेति, किमीश्वरप्रतीत्यप्रीतिव्यतिरेकेण संस्कारकल्पनायां प्रमाणमस्ति? नेति, अस्ति चेत् तेन शरीरधारणोपपत्तेः सर्वशब्दस्वारस्यानुरोधस्य न्याय्यत्वादविशेषेण नश्यतः, न चेत्संस्कारेण शरीरधारणायोगाद्विलम्बश्रुत्यनुरोधेनानारब्धफले एव नश्यत इति सिध्यति । सर्वमिथ्यात्ववादिनामिदमधिकरणं विरुद्धं- प्रारब्धकर्मणोऽपि मिथ्यात्वेन बाधात् स्थ्यिनुपपत्तेः, द्वितीयचन्द्रज्ञानव अषम्यं प्रागेवोक्तं, प्रवृत्तफलस्य कर्मणः कुलालचक्रवेगवदन्तराले प्रतिबन्धासम्भव इत्यापि दुरुक्तं, त्वाप्नकुलालचक्रभ्रमणवद् द्वितीयक्षणे प्रबोधे सति तद्वेगस्य बाधितत्वदर्शनात्, संस्काराद्देहधारणं चेत् क्षीणायुषामविदुषामपि देहधारणं स्यात् ॥ 15 ॥

॥ अनारब्धकार्याधिकरणं समाप्तम् ॥