08 इतराधिकरणम्

॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥ 14 ॥ अवान्तरसङ्गतिः स्फुटा, इतरस्याप्यसंश्लेष इति प्रतिज्ञानिर्देशः, एवमिति न्यायातिदेशः, उवरपूर्वसुकृतयोरश्लेषविनाशौ किं सम्भवतः, नेति, किं “पापं कर्म न श्लिष्यते” “सर्वे पाष्मानः प्रदूयन्ते” इति वाक्यद्वयं सुकृतदुष्कृताश्लेषविनाशपरम्? उत दुष्कृतमात्राश्लेषविनाशपरं, किमत्र पापकर्मशब्दो निषिद्धपरः, उत विद्याविरोधिफलकर्मपरतामवगमयति? नेति, “न सुकृतं न दुष्कृतं सर्वे पाष्मानोऽतो निवर्त्तन्ते” इति हि श्रूयते, न चेत् पापशब्दस्य निषिद्धमात्रपरतया वाक्ययोर्दुष्कृतमात्राश्लेषविनाशपत्वान्न सुकृताश्लेषविनाशसम्भवः, अवगमयति चेत् पापशब्दस्य विद्याविरोधिफलकर्मपरत्वेन वाक्ययोः सुकृतदुष्कृताश्लेषविनाशपरत्वात् पूर्वोत्तरसुकृतयोरश्लेषविनाशसंभव इति, । एवं शब्दं व्याचष्टे - उक्तेनेति । उक्तन्यायं विवृणोति - विद्याफलेति । एवंशब्देन पूर्वसूत्रानुकृष्टव्यपदेशशब्दार्थमुपपादयति - भवति चेति । पुण्यस्यपि पाष्मशब्दवाच्यत्वे श्रुतिं दर्शयति - उभे इति । उभयोः पृथगभिधाने श्रुतिमाह - तत्सुकृतेति । अतिदोस्याधिकाशङ्कामाह - सुकृतस्येति । सूत्रखण्डान्तरस्य शङ्कामाह - नन्विति । विद्यानुगुणदृष्टफलानि तिष्ठन्ति चेत्तानि शरीरपातादूर्ध्वं नश्यन्तीत्यर्थः । परे चापरे च “पाते तु” इति सूत्रखण्डमेवं व्याचक्षते- अश्लेपविनाशसिद्धेर्देहपाते मुक्तिरवश्यंभाविनि, तुशब्दोऽवधारण इति, तन्निष्प्रयोजनं- सर्वबन्धकविरहे मोक्षस्य वक्ष्यमाणप्रकारेण निःसंशयत्वात् सर्वप्रारब्धकर्मानपक्षये सति देहपाते मोक्षस्योपरितनाधिकरणविरुद्धत्वाच्च । अन्ये त्वनेनाधिकरणेनाश्लेषमात्रातिदेशः, न विनाशातिदेश इति वदन्ति, तदयुक्तं विनाशाश्रवणरूपहेतोरसिद्धत्वात्, पाष्शब्दस्यैवोभयवाचित्वोपपादनाच्च, देहान्ते ज्ञातिभिः परिग्राहादविनाश इति चेन्न, द्विषद्भिः परिग्रहेण दुष्कृतस्याप्यविनाशप्रसङ्गात्, सुकृतस्याश्लेषो नाम- काम्यकर्मरुच्यनुत्पत्तिः, षङ्क्तिपावनत्वादिलक्षणमाहात्म्यस्य तु विद्यया विरोधाभावान्नाश्लेषः, एवं स्वसामर्थ्यप्रभावितं ज्ञानफलं निरूपितं, कदं तर्हि नैयोगिकफलं सुकृतदुष्कृतप्रहाणमित्यपेक्षायामाह पाते त्विति देहपात एवेत्यर्थ इत्याहुः, पात इत्यस्य व्याख्यानमनुपपन्नं निष्फलत्वादेव, तच्च “साम्पराय"इत्यत्र प्रागुक्तत्वात्, अपेक्षिताकथनं च भाष्योक्तशङ्कायाः परिहरणीयत्वात्, अतो यथाभाप्यमेवार्थः ॥ 14 ॥

॥ इतराधिकरणं समाप्तम् ॥