07 तदधिगमाधिकरणम्

॥ तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्वयपदेशात् ॥ 13 ॥ पेटिकासङ्गतिमाह - एवमिति । उपायभूतोपासनस्य उपास्यनिरतिशयप्रियत्वेन स्वयमपि प्रियरूपत्वादुपेयरूपत्वमप्यस्तीत्यत्र तन्निरूपणं कृतम्, “दश्यमानो

महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याऽऽह्लादसंस्थितः, “तच्चित्तविमलाह्लादक्षीणपुण्यचयस्तदा” इत्यादिभिः प्रीतिरूपत्वं ह्यवगम्यते । ब्रह्मविद्याप्राप्ताविति । ब्रह्मविद्याप्राप्तिः- साक्षात्कारावस्थोपासनलब्धिर्विवक्षिता, तस्मिन् दृष्टे क्षीयन्त इति हि विषयवाक्यम्, प्राप्तिः- उपक्रमः, विद्याप्राप्तिशब्दः साधारण्यात् प्रपदननिष्पत्तेरपि द्योतमः, संश्लिष्टस्य पूर्वाधस्याश्लेषायोगाद्विनाश एव, उत्तराधस्य त्वश्लेष एवेति योग्यतावशाद्विभागः, अश्लेषविनाशप्रतीतिसंशयाभावात् तयोरुपपत्त्यनुपपत्तिविषयः संशय उक्तः, किं विदुष उत्तरपूर्वाधयोश्लेषविनाशौ

सम्भवतः, नेति, किमश्लेषविनाशशास्त्रे यथाश्रुतार्थपरे, उत “नाभुक्तं क्षीयते” इत्यनेन विरोधात् विद्यास्तुत्यर्थतया नेये, किमश्लेषविनाशशास्त्रयोरभुक्तकर्मापरिक्षयशास्त्रस्य च विरोध एव, उताविरोधः सम्भवति, विरोध एव चेद्विद्यास्तुत्यर्थत्वादश्लेषविनाशासम्भवः, अविरोधसम्भवे शास्त्रस्य यथाश्रुतार्थपरत्वादश्लेषविनाशसम्भव इति, नाभुक्तमित्यादिना पूर्वपक्षोपन्यासः,अननुभवेऽपि कर्मणां प्रायश्चित्तेन विनाशो दृश्यत इत्यत्राह - न चेति । एवं प्राप्त इति - नाभुक्तमित्यादिवचनविरों “परिहरति - न चेति । अत्र शक्तिशब्दः कर्मानुष्ठानजनितभगवन्निग्रहपरः, भिन्नविषयत्वेन वचसोरविरोधे दृष्टान्तमाह - यथेति । अश्लेषविनाशौ विवृणोति । अधस्येति -

उत्पत्स्यमानाया उत्पत्स्यमानस्य कर्मणः स्वकार्यकरणशक्तेः प्रतिबन्धोऽश्लेषः, उत्पन्नस्य कर्मणः उत्पन्नायाः कायकरणशक्तेविर्नाशकरणं विनाश इत्यर्थः । शक्तिशब्दार्थमाह - शक्तिरपीति । एतदुपपन्नमित्याह - तदेवमिति । ब्रह्मानुभवस्य स्वतःप्राप्तत्वेनासाध्यत्वात् प्रतिबन्धनिवृत्तिरूपसाध्ये प्राश्चित्ततुल्यैव ब्रह्मविद्या, स्वर्गादेः साध्यत्वात्तत्साधनस्य कर्मणो न प्रतिबन्धनिवर्त्तकत्वम्, अत्र तु प्रनिबन्धनिवृत्तेरेव साध्यत्वाद्विद्यायस्तद्धेतुत्वं युक्तमित्यर्थः, तर्हि ब्रह्मविदो निषेधशास्त्रवश्यत्वं न स्यादित्यत्राह - तदितमिति । ननु ब्रह्मविद्याया अपि पापाप्रायश्चित्तत्ववचनात् कृच्छ्रादीनामिव बुद्धिपूर्वपापनिवर्तकत्वमपि स्यात्, नैवं प्रामादिकाधप्रायश्चित्तत्वेनैव तद्विधानात् “अपि चेत्पातकं किंचिद्योगी कुर्यात् प्रमादतः । योगमेव निषेवेत नान्यं यज्ञं समाचरेत्” इति ह्यच्यते । ननु पूर्वं शरीरपातानन्तरं कर्मक्षय उक्तः, अत्र तूपासनारम्भे कर्मप्राहाणमुक्तम्, कथमिदमुपपद्यते? उच्यते- उपासनारम्भसमाप्त्योर्भगवत्प्रतीविशेषाभिप्रायत्वात् अधिकरणद्वयाविरोधः, उपासनारम्भप्रीतः परमात्मा त्समाप्तावुपासकस्याधं क्षमिष्यामीति सङ्कल्पयति, समाप्तौ तु क्षान्तमिति सङ्कल्पयति, अतोऽधिकरणद्वार्थ उपपन्नः । परे तु ज्ञानस्याविधेयत्वेन कर्मक्षयोद्देशेन विद्यायाः प्रायश्चिवकमर्वद्विधानभावात्तया कथं कर्मक्षय उक्त इत्याशङ्क्य सगुणविद्यायां तावद्विधानमस्ति, निर्गुणविद्यायामपि वस्तुसामर्थ्यात् कर्मक्षयः कालत्रयेऽपि नाहं कर्त्ता भोक्तेत्यवगमादिति परिहरन्ति, तदयुक्तं- नाहं कर्ता नाहं भोक्तेति ज्ञाने सत्यपि चन्दनेन कण्टकेन स्वदेहं लिभ्पतस्तुदतश्च पुरुषस्य लेपतोदकर्मकृतसुखदुःखान्वयदर्शनात्, साक्षात्कारवतो न सुखाद्यन्वय इति चेन्न “व्युत्थानकाले राजेन्द्र आस्ते हेयतिरोहितः” इति योगव्युत्थाने दहसुखदुःखाद्यन्वयस्य प्रामाणिकत्वात्, निर्गुणविद्याया अप्रामाणिकत्वाच्च वन्ध्यामुतस्य व्याधिपरिहारवद् व्यर्थः प्रयासः, कर्मफलभोगानवश्यम्भावेऽपि देशकालनिमित्तापेक्षो मोक्ष इति पूर्वपक्षिणोक्ते तथा चेत् कर्मफलवदनित्यत्वप्रसङ्ग इति सिद्धान्तिना

परिहारश्चानुपपन्नः, निवर्तकज्ञानोदयानन्तरभाविन्या अविद्यानिवृत्तेरनित्यत्वप्रसङ्गात्, प्रागप्यविद्यानिवृत्तिरस्ति चेत्- शास्त्रवैयर्थ्यम् । अपरे तु नाभुक्तमिति स्मरणमविद्वद्विषयमित्याहुः, तद्भाष्योक्तविषयव्यवस्थाफलम्, विद्यायाः कर्मणां फलोत्पादनशक्तिविनाशसामर्थ्ये ह्युक्ते कर्मणां फलजननसामर्थ्यं सिध्यतीति भाष्ये मूलयुक्तिरुक्ता । अन्ये त्वाहुः- अघफलं द्विविधं लेपो विपाकश्चेति, तत्र लेपः- अप्रायत्यं, स्नानाद्यपनेयं, विपाकः - नरकपातादिः, सुकृतस्यापि लेपः

महत्त्वपङ्क्तिपावनत्वशापानुग्रहसामर्थ्यकाम्यकर्मरुचिरूपः, विपाकः- स्वर्गादिः, तत्र महत्त्वं नाम “सवनगतौ क्षत्रियवैश्यौ हत्वा ब्रह्महा भवति” “आग्निर्वै दीक्षितस्तस्मादेनं नोपस्पृशेत्” इत्यवगम्यते, तत्र लेपः स्वसामर्थ्यप्रसूतं फलम्, विपाकः नैयोगिकफलम्, एवं ज्ञानस्यापि स्वसामथ्यर्प्रभावितं नैयोगिकं चेति फलं द्विविधं, तत्र पुरुषशुद्धिलक्षणेन माहात्म्यशब्दवाच्येन कल्मषविरोधिना पूर्वकल्मषविनाशः, उत्तराधानामप्रायत्यकरणरूपसंश्लेषविधातश्च, ज्ञानस्य नैयोगिकफलं तु देहपातेऽन्तिमप्रत्ययसापेक्षं सुकृतदुष्कृतप्रहाणं, ब्रह्मभावाविष्करणं च, उत्तरेषामधानामश्लेष एव न विनाशः, अत एव “सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृत"मिति धूननवचनमप्रियज्ञात्युपायनवचनं चोतराधविषयमिति, अत्रोच्यते- यद्यपि कर्मणामधिकारानधिकारसजातीयकर्मान्तररुचिस्वर्गनरकादिफलविभागोऽस्ति तथाऽपि सामर्थ्यप्रभावितनैयोगिकफलविभागो नोपपन्नः, भगवत्प्रीत्यप्रीतिव्यतिरेकेण सामर्थ्यप्रभावान्नियोगाभावाच्च, तद्वयतिरेकेण सामर्थ्यनियोगाभ्युपगमेऽप्यश्लेषवचनस्य लेपविधातमात्रविषयत्वं धूननोपायनवचनयोरुत्तराघमात्रविषयत्वं चानुपपन्नम्, तथाहि- उत्तराधस्य विपाकहेतुशक्तिरुत्पन्ना न वा, न चेल्लेपविघातोऽश्लेष इति विशेषोपादानवैयर्थ्यं स्यात्, अस्मदीयपक्षः परिगृहीतश्च भवेत्, उत्पत्तिपक्षेक्रियोत्तीर्णा कर्माक्तिरात्मधर्मभूता परमात्मप्रीत्यप्रीतिरूपा वा स्यात्, उभयथाष्यश्लेषवचनमनुपपन्नं स्यात्, आत्मधर्मत्वे त्समवेतत्वात् परमात्मप्रीत्यप्रीत्योश्चेतनविषयत्वाच्च, विपाकाशक्तेः श्लेषस्त्विष्टः, लेपविघात एवाश्लेषरूपतयाऽभिमत इति चेत्- तर्ह्यश्लेषवचनसङ्कोचः स्यात्, “सुकृतदुष्कृते धूनुते” इति धूननश्रवणबलादवर्जनीयः सङ्कोच इति चेत्- तर्ह्युनुत्पन्नस्य धूननायोगाद्विपाकशकत्युत्पत्तिकल्पनगौरवं च स्यात्, न चानुत्पन्नस्य धूननायोगात्तदुत्पत्तिः कल्पनीया भवेत्, उत्पन्नस्याप्यदृष्टस्य पासुभसितकरीषादिवत् संयोगविभागार्हद्रव्यत्वाभावाद्धूननानुपपत्तेस्तत्कल्पनवैयर्थ्यात् धूननशब्देन विनाशो लक्ष्यत इति चेत्- न, विनष्टस्य प्रियाप्रियज्ञातिपरिग्रहायोगात् पुरुषयतादृष्यविनाशेऽपि प्रियाप्रियेषु नष्टसजातीयादृष्टान्तरोत्पत्तिरेव तत्संक्रमणमिति चेत्, कर्तृगतादृष्टविनाशस्य पुरुषान्तरगतादृष्टान्तरोत्पत्तेश्च किं कर्मस्वभाव एव कारणं, तर्हि सर्वेषां सर्वाणि कर्माणि नश्येयुः, पुरुषान्तरेष्वदृष्टं जनयेयुश्च, ततश्च कर्तृणां भोगाभावोऽन्येषां भोगनियमश्च स्यात्, अभुक्तफलस्याकृतप्रायश्चितस्य कमर्णोऽयं स्वभाव इति चेत्, तर्हि द्वादशवार्षिकादिषु केनचिदननुष्ठितेषु तद्द्विषतां ब्रह्महत्यादिदोषान्वयेन सव्यवहारादिषु बहिष्कार्यता स्यात्, यद्युच्येत नात्र कर्मस्वभावः कारणम्, अपि तु परविद्यामाहात्म्यमेव, तत्तु विद्वद्गतं पूर्वाघं विनाश्य तदप्रियेषु तादृशमघं जनयतीति, तर्ह्युतराघप्रतिबन्धं प्रियाप्रियेषु तादृशादृष्टं च विद्या करोतीत्यभ्युपगमो वरं, तथा सति उत्पत्तिकल्पनगौरवाभावात्, एवं च धूननोपायनयोरुत्तराधमात्रविषयत्वनिर्बन्धो निर्निबन्धः स्यात्, विदुषः पूर्वाधविनाशने ज्ञातिषु तादृशाधजनने च विद्यासामर्थ्यस्योपपन्नत्वात्, एवं च सति “सुकृतदुष्कृते धूनुते” इत्यत्र सुकृतदुष्कृतशब्दयोरसङ्कोचः स्यात्,

अन्यथा सङ्कोचो

निर्निबन्धतः स्यात्, नष्टस्य कर्मणोऽन्यत्र संक्रमणायोगरूपस्य सङ्कोचहेतीः परिहृतत्वात्, पुरुषान्तरे तादृगदृष्टन्तिरोत्पतिरुपायनामिति त्वयैव ह्युक्तम् । इयान्विशेषः- एकस्मिन् पक्षेऽश्लेषवचनस्य धूननोपायनवचनयोश्च सङ्कोचो विपाकशकत्युत्पत्तिकल्पनगौरवं च, पक्षान्तरे तु सर्वश्रुत्यसङ्कोचो लाघवं चेति । अत्रायमर्थोऽनुसन्धेयः- विदुषः कर्मणां चतस्त्रोऽवस्थाः श्रुताः- विनाशोऽश्लेषो धूननमुपायनं चेति, क्रियामात्रविनाशस्य लोकसिद्धत्वात् क्रियाया अश्लेषधूननसंक्रमणानामयोग्यत्वाच्चावस्ताचतुष्टयं क्रियोत्तीर्णशक्तिविषयं निर्णीतम्, सा च शक्तिरिष्टानष्टफलदित्सालक्षणपरमात्मप्रीत्यप्रीतिरूपा, अन्यथा श्रुतहानाश्रुतकल्पनप्रसङ्गादिति प्रागेवोपपादितम्, तत्र विनाशाश्लेषवचनयोः पूर्वोत्तराघविषयत्ववदुपायनवचनस्य पुरुषान्तरे त्समानादृष्टोत्पत्तिविषयत्वं चार्थसामर्थ्यात् सर्वैरभ्युपगन्तव्यम् । आलेषवचनं च कृत्स्नोत्तराघविषयम्, असङ्कोचस्य स्वतःप्राप्तत्वात्, अश्लेषश्च प्रतिबद्धोदयत्वम् उत्पत्तिकल्पनगौरवाभावात् तत्पल्पनेऽपि धूननसंक्रमणायोगात्, एवं च विद्यायाः पूर्वाधविनाशने उत्तराधप्रतिबन्धे प्रियाप्रियेषु सजातीयादृष्टजनने समार्थ्यं च सिद्धम् । एवं विद्याया विनष्टप्रतिवद्धादृष्टसजातीयादृष्टजननसामर्थ्यादुपायनश्रुतिश्च नोत्तराघमात्रविषया, अपि तु पूर्वोत्तराघविषया स्यात्, तथा चोपायनवाक्यस्थसुकृतदुष्कृतशब्दासङ्कोचश्च भवेत्, तत्र विनाशः- भगवतः पूर्वोत्पन्नकर्मफलदित्सानिवृत्तिः, अश्लेषश्च- उत्तरकमर्फलदित्साप्रतिबन्धः, तौ च यद्यर्थोपहितौ, यद्ययं प्रक्रान्तमुपासनं समापयेत् पूर्वोत्तरयोः कर्मणोः फलं न दास्यामीति सङ्कल्परूपौ हि तौ, समाप्ते तु कर्मफलं नैव दास्यामीति सङ्कल्पो विधूननश्रुत्यभिप्रेतः, लोके सेवारम्भसमापनयोः प्रीतितारतम्यदर्शनात्, शास्त्रेषु तीर्थसेवाद्युपक्रमसमापनयोः फलतारतम्यदर्शनाच्च । लोकेराजादीनामिव परमात्मनोऽपि स्वसेवकविषयप्रीत्यतिशयेन तत्प्रियाप्रियजनेषु तदनुरूपेष्टाफलदित्सा च भवति, एवं पूर्वोत्तराघविनाशप्रतिबन्धधूननोपायनहेतुर्विद्यामाहात्म्यमिति ॥ 13 ॥ ॥ तदधिगमाधिकरणं समाप्तम् ॥