॥ आप्रयाणात्तत्रापि हि दृष्टम् ॥ 12 ॥ सङ्गत्यादि स्पष्टम्, उक्तलक्षणमुपासनं किमेकस्मिन्नहनि कर्तव्यम्? उताप्रयाणादिति, किमेकादिनानुष्ठानेन शास्त्रार्थस्य कृतत्वं, नेति कृतत्वं चेदेकस्मिन्नहनि कर्तव्यं, न चेदाप्रयाणात् कर्तव्यमिति । परे तु साक्षात्कृतात्मतत्त्वस्यानियोज्यत्वात् अनुवर्तयेदिति शासनमशक्यन्, अत्रोभ्युदयफलोपासनविषयेयं चिन्तेति, तदयुक्तं “यावदायुषमेव वर्तयन् ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते” “प्रायणान्तमोङ्कारमभिधायायीत” इत्यत्रापुनरावृत्तिलक्षणमोक्षसाधनविद्यास्वेवाप्रयाणादनुवृत्तेः श्रुतत्वात्, यावच्छरीरपातं शास्त्रवश्यत्वादनियोज्य इति चायुक्तम्, अन्तिमप्रत्ययस्य मोक्षहेतुत्वदर्शनात्, तदौपयिकाहारशुध्द्यादिसापेक्षत्वाच्च शास्त्रवश्यत्वमवर्जनीयं, न चान्तिमप्रत्ययशास्त्रममुमुक्षुविषयं, मुमुक्षुविषयतयैव प्रतिपादितत्वात्, “प्रयाणकलो मनसा” इत्यारभ्य “स तम्पम्पुरुषमुपैति दिव्य"मिति ह्युच्यते, न च साक्षात्कृततत्त्वस्य भेददशर्नाभावान्नान्तिमप्रत्ययापेक्षेति वाच्यं देहपोषणादिषु प्रवृत्तिदर्शनात्, तेषु मिथ्यात्वज्ञानमस्तीति चेत्- तथाऽप्यन्तिण्प्रत्ययः कार्य एव, तद्वैकल्येन ह्यादिभरतस्य मृगत्वप्राप्तिः, न च तस्य देहादिषु मिथ्यात्वधीर्नास्तीति वाच्यम्, विप्रजन्मनि पूर्वार्जितज्ञानातिरिक्तज्ञानाभावात्, अतः शास्त्रवश्यत्वमस्त्येव । किञ्च किमिदमशास्त्रवश्यत्वं नाम, किमुच्चार्य्यमाणमपि शास्त्रं भेददृष्टयभावान्न शृणोति? उत शृण्वन्नपि नार्थं प्रत्येति? उत सत्यामप्यर्थपीतीतौ ब्राह्मण्याद्युपाधेः कर्तृत्वादेश्चाभावान्नाह कर्मवश्य इति जानाति, अर्थे प्रतीतेऽपि किन्नानुतिष्ठति? उतानुतिष्ठतो, न प्रत्यवायः? उतेष्टानिष्टप्राप्तिनिवृत्ती नेच्छतीति, न प्रथमद्वितीयौ प्रतिबुद्धतत्त्वानां वसिष्ठादीनामप्युक्तिप्रत्युक्तिदर्शनात्, न तृतीयः- आत्मनि ब्रह्माण्याद्यभावेऽप्युपाधेरनिवृत्तत्वात्, तदभावज्ञानवतां वसिष्ठजनकभीष्मादीनामनुष्ठानदर्शनाच्च, न चतुर्थः- अज्ञस्याननुतिष्ठतोऽप्यशास्त्रवश्यत्वप्रसङ्गात्, न पञ्चमः- आदिभरतादीनां प्रत्यवायदर्शनात्, विप्रजन्मनि “सतां मार्गमदूषय"न्निति वचनाच्च, न षष्ठः- अमुमुक्षुत्वप्रसङ्गात्, बन्धनिवृतीच्छा हि मुमुक्षा, मुक्तस्य न मुमुक्षेति च्चेन्न, क्षुदाद्युपशमाय प्रवृविदर्शनात्, अतोऽनुवृत्तिविधिवश्यत्वादाप्रयाणात् परविद्याऽनुवर्तनीया । अन्ये तु साक्षात्करणफलत्वादुपासनस्य तत्पर्यन्तत्वमिति पूर्वपक्षयन्ति, तदयुक्तं परमपुरुषप्रीतिफलकत्वादुपासनस्य, प्रीतेश्च यथाशास्त्रमनुष्ठानजन्यत्वात्, अत शास्त्रार्थस्य कृतत्वादित्येव पूर्वपक्षयुक्तिर्युक्ता । अत एव सिद्धन्तेऽपि साक्षात्कारमात्रफलकत्वाभ्युपगमेनान्तिमप्रत्ययसिध्द्यर्थमनुवर्तनीयतोक्तिरपि न युक्ता, किन्तु यथाशास्त्रमनुष्ठानसिद्धयेऽनुवर्तनीयत्वमेव वक्तव्यम् ॥ 12 ॥
॥ आप्रायाणाधिकरणं समाप्तम् ॥