॥ प्रासीनः सम्भवात् ॥ 7 ॥ अवान्तरसङ्गतिमाह - मोक्षेति । अनन्तराधिकरणयोः प्रासङ्गिकत्वात् परमप्रकृतेन प्रधानभूतेन ब्रह्मोपासनेन सङ्गतिरुक्ता । यद्वा दृष्टयुपासनानामप्यासनसापेक्षत्वेऽप्यासनसमर्थनहेतोरैकाग्रयस्याद्याधिकरणसमर्थितत्वात् तेन सङ्गतिरुक्ता । किमासीनश्चिन्तयेत्? उतासीनः शयानस्तिष्ठन् गच्छत् वेति, किं गमनादिषु ध्यानं सम्भवति न वेति, सम्भवति चेदासनानियमः, न सम्भवति चित्तन्नियमः- उपासनसम्भवादित्यतोऽप्येकाग्रतासम्भवादित्युचितम्, उपासनसम्भवादित्युक्तेऽपि कथमित्यपि शङ्काया एकाग्रतताभिप्रायेण शमयितव्यत्वात्, “यत्रैकाग्रता” इत्येकाग्रतायाः सन्निहितत्वात् योग्यत्वाच्च । “उपविश्यासने युञ्ज्या” दिति स्मृतिवचनस्य मनोऽनुकूलताभिप्रायतां मत्वा पूर्वपक्षी प्रत्यवतिष्ठते । ॥ तदवश्यभावात्तत्परिहारः ॥ 7 ॥
॥ ध्यानाच्च ॥ 8 ॥ ध्यानादिति भावप्रधाननिर्द्देश इत्यभिप्रायेणोक्तं ध्यानरूपत्वादिति, स्थितिगत्योर्विजातीयप्रत्ययसम्भवात्तदैकाग्रयविरोधि गत्यादिकमित्यर्थः ॥
॥ अचलत्वं चापेक्ष्य ॥ 9 ॥ " आप" इति स्थिरं तटाकादिजलं विवक्षितम्, निश्चलत्वमात्रसाम्यं विवक्षितम्, निश्चलत्वमैकाग्रयाद् भवति, तच्चासीनस्यैव, गत्यादौ विजातीयप्रत्ययेन चलनसम्भवादित्यर्थः ॥ 9 ॥
॥ स्मरन्ति च ॥ 10 ॥ न केवलमर्थसामर्थ्यात्, वचनादपि तत्सिद्धिरित्यर्थः ।
॥ यत्रैकाग्रता तत्राविशेषात् ॥ 11 ॥ स एवोपासनस्य देशः कालश्चेति - तिथिनक्षत्रादिनियमो नास्तीत्यर्थः, वर्णाश्रमधर्माविरुद्धकालविशेषसम्भवात् आसनसहपठितो देशादिरप्यैकाग्रयसिध्द्यर्थमपेक्ष्यते, किं पुनरासनमिति सूत्राभिप्रायः । इतरे त्रयोऽपि यत्रैकलग्रतेति सूत्रमधिकरणान्तरमाहुः, वैदिककर्मसु देशकालादिनियमदर्शनादुदगयनादिपरिग्रह इति पूर्वपक्षं कृत्वा न नियम इति सिद्धान्तयन्ति उक्तप्रकारेण पूर्वाधिकरणशेषत्वोपपत्तेर्नाधिकरणान्तरत्वं युक्तम् ॥ 11 ॥
॥ आसीनाधिकरणं समाप्तम् ॥