॥ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ 6 ॥ देवताया उत्कर्षात् दृष्टिविशेषणत्वमुक्तं, तदुत्कर्षाक्षेपेक्ष कर्मण एवोत्कर्षशङ्कयाऽवान्तरसङ्गतिः, क्रत्वङ्गश्रयोपासनेषु किमादित्यादावुद्गीदृष्टिः? उतोद्गीथादावादित्यादिदृष्टिः? फलसाधनतयोत्कर्षः किमादित्यादेरुतोद्गीथादेः, उद्गीथादेश्चेदादित्यादावुद्गीथादिदृष्टिः, आदित्यादेश्चेदुद्गीथादावादित्यादिदृष्टिः कार्या स्यात् । ननु फलसाधनत्वं देवताया इति पूर्वमेव सिद्धं “स एवैनं भतिं गमयति” इति, तत्कथमुद्गीथादेः फलसाधनत्वशङ्कया पूर्वपक्षोत्थानं, सत्यं, फलसाधनतया विहितत्वात् प्रधानस्य कर्मणः काष्ठानां ज्वालावद्देवताप्रतीतिरवान्तरव्यापारमात्रमित्यप्राधान्यमाशङ्कयते, ब्रह्ममतिवदादित्यादिमतय्रोपीति चशब्दार्थः, “मनो
ब्रह्मेत्युपासीत” इत्यत्रोपास्य प्रथमं निर्दिष्टं दृष्टिविशेषणं चरमनिर्दिष्टम्, एवमत्रापि “य एवासौ तपति तमुद्गीथम्” इत्युद्गीथस्य चरमनिर्देशात् स दृष्टिविशेषणं, देवतायां यद्वृत्तयोगात् प्राथम्याच्चोद्देश्यत्वमित्यपि पूर्वपक्षयुक्तिरभिप्रेता । अफलेभ्यः- अफलसाधनेभ्यः । राद्धान्ते - आदित्यादिदेवताराधनद्वारेणेति । “अर्यम्णे चरुं निर्वपे”
दित्यादि द्रष्टव्यम्, देवतायाः स्थिरत्वेनाञ्यवहितसाधनतया लोकदृष्टसेव्यसेवान्यायेनाराधनस्याराध्यदेवताप्रधानत्वाच्च देवतोत्कर्षसिद्धेर्यद्वृत्ताद्यस्वारस्यं सोढव्यमिति भावः । परे तु - उद्गीथादित्यादीनां दृष्टिविशेषणत्वमनियमेन स्यात् - नियामकाभावादिति च पूर्वपक्षमाहुः - नियामकसद्भावात् तदनादरः, एवं च पूर्वपक्षान्तरमाहुः - उद्गीथादीनां कमर्समचायितया क्रियारूपाणां फलसाधनतयोत्कर्षः “इयमेवर्गग्निः साम” इत्यत्र “तदेतदस्यृाच्यध्यूढं साम” इत्युक्सामशब्देन पृथिव्यग्न्यभिधानञ्च ॠक्सामाध्यासनिबन्धनं, क्षत्तरि हि राजाध्यासाद्राजशब्दो न राज्ञि क्षत्रशब्दः, तत्र क्षत्रध्यासाभावात्, “लोकेषउ पञ्चविधं सामोपासीत” इति लोकानामधिकरणत्वश्रवणात् तत्र क्रत्वङ्गाध्यासः, पृथिवी हिङ्कार इति प्रथमनिर्द्देशाच्च पृथिव्याद्यद्देशेन हिङ्कारत्वादिदृष्टिविधिरिति पूर्वपक्षहेतव उपन्यस्ताः । यदेव विद्यया करोति तदेव वीर्यवत्तरमिति विद्यया कर्मणो वीर्यवत्तरत्वं श्रुतं न सिद्धरूपद्रव्यस्य, अत आदित्यादिमतिभिरुद्गीथादिकर्मस्वतिशय उपपद्यते न तूद्गीथादिमतिभिरादित्यादीनाम्, कर्मणो ह्यपूर्वसन्निकर्षः, न त्वादित्यादीनाम्, असाधितस्य करणत्वायोगात्, अतः कर्मस्वतिशयावैत्वादादित्यादिः प्रधानम्, कर्मफलस्यादित्यादिप्राप्तिलक्षणत्वात् फलात्मकतया चादित्यादीनां प्राधान्यम्, “ओमित्येतदक्षरमुद्गीथमुपासीत” इत्युपक्रमे द्वितीयाश्रुत्योद्गीथादिरुपास्यत्वेनावगतः, इयमेवर्गिति एवकारोपश्लेषादृचि पृथिवीत्वं विधेयमवगतं, “य एवं विद्वान् साम गायती"त्यङ्गाश्रयविज्ञानमुपसंहृतम्, अत आदित्यादेर्दृष्टिविशेषणत्वम्, पृथिव्यामृक्छब्दो
लाक्षणिकः सम्बन्धमात्रमपेक्षते न तूत्कर्षमिति न तन्निबन्धनः, सामात्मना लोकमुपासीतेति विभक्तिद्वयविपरिणामादपि लोकात्मना सामोपासीतेति सप्तमीमात्रविपरिणामो वरम्, पृथिवी हिङ्कार इत्यादिक्रमो बहूपपत्त्यनुरोधेन नयः, अतोऽङ्गेष्वादित्यादिदृष्टिविधिरिति सिद्धान्तयन्ति, उपपत्तेरिति कस्योपपत्तिरित्यपेक्षायामुत्कर्षस्य पूर्वसूत्रप्रकृतत्वात् तस्योपपत्तेरिति व्याख्यानमुचितं न त्वर्थान्तरस्य, उत्कर्षश्च प्रागुक्तलक्षणः, कर्मस्वातिशयाधायकत्वेन फलात्मकत्वेन च प्राधान्यमुत्कर्षान्तर्गतम्, उद्गीथेनोपक्रमः साम्नोपसंहारशाच सर्वेषु देवतादृष्टिविधिष्वननुगताविति व्यापक एव हेतुर्भाष्येऽभिहितः, लोकेषु पञ्चविधं साम सप्तविधं सामेत्यादिषु विभक्तद्वयविपरिणामाभावादेव लोकस्य दृष्टिविशेषणत्वोपपादनं मन्दम्, न हि द्वितीयाविभकत्यर्थ्रोनन्वितः लोकादिशब्दानां देवतापरत्वे प्रामाणिके सत्युत्कर्षादेव देवताया दृष्टिविशेषणत्वं न चेद्यथाप्रतिपन्नस्वीकारेऽप्यविरोधः, पृथिवी हिङ्कार इत्यादिरप्येतेन व्याख्यात्, अतो भाष्योक्तप्रकारेण सारतरयुकत्यभिप्रायं सूत्रम् । अन्ये तु फलसाधनतयोत्कर्षदेव पूर्वपक्षं कृत्वा एवं सिद्धान्तमाहुः- उद्गीथादिष्वादित्यादिदृष्टिः कर्मसमृध्द्यर्थेषूपासनेष्वधिकृताधिकारोपपत्तेः, आदित्यादीनां कर्माङ्गदृष्ट्योपास्यत्वे हि क्रत्वधिकृतेनैव कर्तव्यत्वनियमो न स्यात्, तन्नियमश्च यदेव विद्यया करोतीति श्रुत्याऽवगम्यते “य एवासौ तपति तमुद्गीथमुपासीत” “य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे” इत्यादिषु यच्छब्दयोगप्राथम्याभ्यामुद्देश्यत्वावगमादादित्यादीनामुपास्यत्वमिति चेत्- “ओमित्येतदक्षरमुद्गीथमुपासीत” इत्युद्गीथोपास्यताया उपक्रमसिद्धत्वात् क्रत्वधिकृताधिकारोपपत्तेश्च कर्मसमृद्धिव्यतिरिक्तफलेष्वङ्गाश्रितषूपासनेषु “लोकेषु पञ्चदिधं सामोपासीत” इत्यादिषु क्रत्वधिकृताधिकारसम्बन्धे प्रमाणाभावात् न क्रत्वङ्गेषु देवतादृष्टिरिति नियमः, तत्रैवं निर्वाहः- त्रिविधमुपासनं भूतार्थमध्यासस्सम्पदिति, भूतार्थं यथार्थविषयं न तत्र किंचिन्निरूप्यम्, अध्यासोऽन्यस्मिन्नन्यधर्माध्यासः, यथोद्गीथेऽसुरपाष्मविध्वंसनादयः प्राणधर्माः, भयतमोपहत्यादयः आधित्यधर्माः, अन्यसादृश्यानुसन्धानं सम्पत्, यथा पञ्चविधत्वसप्तविधत्वाद्यनुसन्धानं, तच्च वाक्येनैवोपपादनादवगम्यत, अध्याससम्पत्ती च निकृष्टगतधर्मतत्सादृश्यविषये चेत् उपास्यं निकृष्टं कृतं स्यात्, उत्कृष्टगतधर्मतत्सादृश्यविषये चेदुपास्यमुत्कृष्टं कृतं स्यात्, ततो महत्कृतमेवोपास्यम्, तत्र दृष्टिविशेषणनिर्णयस्तु उपक्रमोपसंहारवाक्यशेषप्राथम्ययच्छब्दयोगमहत्त्वाद्यनुरोधेन वर्णनीयः, लोकेषु पञ्चविधं सामोपासीतेत्यादिषु सामप्रतियोगिकं सादृश्यं लोकेषु विधीयते प्रथमनिर्दिष्टत्वात् सप्तम्याञ्जस्याच्च सामशब्दः सामसादृश्यपरः लोकसामशब्दयोरन्यतरस्य लक्षणाय अवर्जनीयत्वेऽपि साम्नि लोकसादृश्ये विधित्सिते सप्तमी न घटते,
इयमेवगिर्त्यत्रापि पृथिव्या ॠगात्मकत्वं विधित्सितं निर्देशप्राथम्यात्, एवकारान्वयस्य “उत्तर एव वेदि” रित्यत्र व्यभिचारात्, पृथिव्येव नान्यर्गस्तीति वाक्यशेषश्चेत् पृथिव्या ॠगात्मकत्वं विधेयं स्यात्, ॠक् पृथिव्येव न पृथिव्या अन्येति वाक्यशेषश्चेदृचः पृथिवीत्वविधानं स्यात्, कर्मसमृध्द्यर्थोपासनव्यतिरिक्तेषु न कर्माङ्गषु देवतादृष्टिनियमः, कर्मसमृध्द्यर्थेषु तूपासनेषु कृत्वङ्गेषु देवतादृष्टिनियमः, कर्मसमृध्द्यर्थेषु तूपासनेषु क्रत्वङ्गेषु देवतादृष्टिरिति स्थितिरिति, अत्रापि क्रत्वङ्गव्यतिरिक्तेषु देवतादृष्टिनियमाभावोऽनुपपन्नः, अध्याससम्पव्योर्न्निकृष्टधर्मदृश्यविषयत्वानुपपत्तेः स्वयमेव प्रतिपादितत्वात्, अतः क्रत्वङ्गविषयेष्वतद्विषयेषु चोपासनेषु देवताविवक्षायाः सुव्यक्तत्वे देवताया उत्कर्षादेव दृष्टिविशेषणत्वं, विवक्षाविरहे यथाश्रुताङ्गीकारश्च युक्त इति उत्कर्ष एवोपपत्तिशब्दविवक्षितो हेतुर्भवितुमर्हति, अर्थस्वाभाव्यात् प्रकृतत्वाच्च, अतः सर्वत्रोत्कर्षस्यैव दृष्टिविशेषणत्वे प्रयोजकत्वात् क्रत्वधिकृतानुष्ठेयत्वमप्रयोजकमित्युपपत्तिाब्दस्योत्कृष्टतोपपत्तिपरत्वमुक्तं भाष्ये, क्रत्वङ्गविषयेषु क्रत्वधिकृतानुष्ठेयत्वमप्यभ्युच्चयहेतुः स्यात्सर्वत्राप्युत्कर्षानुगुणमेव दृष्टिविशेषणत्वनिर्णयो युक्तः ॥
॥ आदित्यादिमत्यधिकरणं समाप्तम् ॥