03 प्रतीकाधिकरणम्

॥ न प्रतीके न हि सः ॥ 4 ॥ आत्मत्वेनोपासनमुक्तम्, तत्प्रतीकोसनेऽस्ति नेति शङ्कया सङ्गतिः, किं मनो ब्रह्मत्यादिप्रतीकोपासनेष्वात्मत्वेनानुसन्धानं कर्तव्यम्? उत नेति, तेषूणस्यं किमुपासितरात्मा नेति, किं ब्रह्मणः प्रतीको दृष्टिविशेषणम्? उत प्रतीकस्य ब्रह्म दृष्टिविशेषणमिति? प्रतीकस्य दृष्टिविशेषणस्वे ब्रह्म उपास्थ्त्ात्तस्य चात्मत्वात्तत्राप्यात्मत्वेनानुसन्धानं कार्यं स्यात् ब्रह्मणः प्रकीके दृष्टिविशेषणत्वे प्रतीकस्यैवोपास्यत्वात्तस्य चोपासकं प्रत्यात्मत्वाभावात् आत्मधीर्न कार्या स्यात् । मन इत्यादि - ब्रह्मोपासनत्वसाम्यादिति । ब्रह्मशब्दनिर्देशाद् ब्रह्मैवोपास्यम्, अतो ब्रह्मोपासनत्वसाम्यमित्यर्थः । एवं प्राप्त इति - प्रतीकोपासनेऽप्युपास्यं ब्रह्म, तच्चोपादितुरात्मा, अतो ब्रह्मोपासनत्वसाम्यादात्मेत्युपास्यमित्यत्राह - प्रतीकोपासनेष्विति । तर्हि ब्रह्मशब्दनिर्देशः कथमित्यत्राह - ब्रह्म त्विति । अनन्तरसूत्रशङ्कमाह - नन्विति ॥ 4 ॥

॥ ब्रह्मदृष्टिरुत्कषात् ॥ 5 ॥ अचेतनमनःप्रभृतेरुपास्यत्वासम्भवोऽभिमानिदेवतोपास्यत्वेन परिहृत इति भावः । इतरे त्रयोऽपि ब्रह्मदृष्टिरिति सूत्रमधिकरणान्तरमाहुः, नियामकाभावात् पूर्वपक्षम्, उत्कर्षात् सिद्धान्तमाहुः, तदयुक्तं तादथ्यर्नैरन्तर्याभ्यामैकाधिकरण्यसिद्धेः । परे तु न प्रतीक इत्यत्र सिद्धान्तयुक्तमेवमाहुः- प्रतीकानां ब्रह्माभिन्नत्वात्, तस्याऽप्यात्मत्वमिति चेत्, विकारस्वरूपोपमर्देन ब्रह्मत्वं स्यात् यथा जीवस्य जीवभावप्रविलयेन बह्मत्वम्, स्वस्तिकस्य तदाकारोपमर्देन स्वर्णात्मकत्वम्, एवं स्वरूपोपमर्दे सति प्रतीकस्यैवाभावात् तस्यात्मत्वमेव न स्यादिति, तदप्ययुक्तं जीवस्य ब्रह्मशरीरतया तत्पर्यन्तत्वेन जीवभावप्रविलयेन विना ब्रह्मतादात्म्यसिद्धिवत् प्रतीकानामपि ब्रह्मशरीरत्वोपपत्तेस्तदभावप्रसङ्गाभावात् । अपरे तु “वासो ददाति अनो ददाती"त्यत्र तन्तुकाष्ठादीनामिव मनऽाद्युपासने ब्रह्मणश्चोदितत्वाभावादनुपास्यत्वमिति, तदयुक्तं तत्र तन्तुकाष्ठादिनिर्देशाभावादिह तु ब्रह्मसामानाधिकरण्याच्च दृष्टान्तवैषम्यात् अत्रोऽनादरः । ननु दृष्टिविधित्वे सिद्धे हि ब्रह्म वा मनो वा दृष्टिविशेषणमिति विशयः, प्रतीकस्यापि ब्रह्मशरीरतया तत्त्वोपासनपरत्वे सम्भवति कथमतत्त्वोपासनपरताङ्गीकारेण ब्रह्मणो दृष्टिविशेषणत्वपरं द्वितीयसूत्रं घटते? उच्यते- इतिकरणवैयर्थ्यं हेतुः, उद्देश्यत्वज्ञापकेन प्रथमनिर्देशेन विशेष्यतावगमश्च, क्कचित्प्रतीकगतद्वितीयाविभक्तिरपि हेतुः ॥5॥

॥ प्रतीकाधिकरणं समाप्तम् ॥