॥ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ 3 ॥ उक्तस्यासकृदावृत्तस्योपासनस्योपास्यं ब्रह्म किमुपासितुरन्यत्? उत तस्यैवात्मेति शङ्कायां व्यतिकरोपदेशज्ञापनाय पूर्वप्रकृतवाक्यस्थात्मशब्दार्थो निरूप्यत इति सङ्गतिः ।
आत्मत्वेनेति - आत्मशब्दः स्ववाची, आत्मत्वेनअहमर्थसामानाधिकरण्येन, अन्यत्वेन वैयधिकरण्येनेत्यर्थः । अथवा आत्मशब्दः शरीरप्रतिसम्बन्धिपरः, आत्मत्वेन- जीवं प्रति शरीरित्वेन, अन्यत्वेन- शरीरशरीरिभावसम्बन्धशून्यत्वेनेयर्थः । एवं सति ब्रह्मोपासनविधिः किं दृष्यिविधिः? उत नेति फलफलिभावः, मुमुक्षोः किं ब्रह्म वैयधिकरण्यनोपास्यम्? उत सामानाधिकरण्येन, किमुपास्यं ब्रह्मोपासितुरन्यत्वेनोपास्यम्? उतात्मत्वेन, किमात्मत्वेनोपासने “पृथगात्मान"मिति विहितपृथकत्वानुसन्धानविरोधः प्रसज्यते, नेति, प्रसज्यते, चेदन्यत्वेनोपासनं, न चेदात्मत्वेनोपासनमिति । ननु “अंशो नानावदेशात्” इत्यादिषु जीवपरयोः शरीरशरीरिभावे शरीरवाचिशब्दानां शरीरिपर्यन्ताभिधाने च सिद्ध यथावस्तूपासने च कर्तव्ये कथं संशयोत्थानम्, उच्यते- अहमर्थसामानाधिकरण्येन वैयधिकरण्येन च ब्रह्मोपासनानि विहितानि, शाण्डिल्यविद्यादिषु समानाधिकरणोपासनेषु वयधिकरणापासनेष्वप्ययं विचारोऽनुपयुक्तः स्यात्, यत्र सामानाधिकरण्योपासने दृष्टिविधित्वशङ्का सम्भवति “येऽन्नं ब्रह्मोपासने” “ये प्राणं ब्रह्मोपासतं” “विज्ञानं ब्रह्म चेद्वेद” इत्यादिषु जीवे ब्रह्मदृष्टिविधिदर्शनात् “आत्मेत्येव” इति वाक्ये इतिकरणदर्शनाच्च तस्य दृष्टिविधित्वशङ्काव्युदासार्थमारम्भणीयत्वमिति । अयथाभूता स्यादिति -
संसारित्वप्राप्तिः स्यादित्यर्थः । राद्धान्तमाह - एवं प्राप्त इति । सानानाधिकरण्यफलितमर्थमाह - स्वशरीरस्य
स्वयमिति । उपगच्छन्ति - गत्यर्था बुध्द्यर्थाः, उपासत इत्यर्थः । त्वं वा अहमस्मि- अहंबुद्धिरहंशब्दश्च त्वत्पर्यवसायिनौ, अहंशब्दयोगादुत्तमपुरुषः, अहंवै त्वमसि- अहंबुद्धिशब्दपर्यवसानभूमिस्त्वम्, त्वंशब्दयोगान्मध्यमपुरुषः, उभयस्मिन्वाक्ये अहंत्वंशब्दप्रयोगे सत्यपि अहंशब्दार्थतात्पर्यविवक्षयोत्तमपुरुषः, त्वंशब्दार्थतात्पर्येण मध्यमपुरुषः, अहं त्वं-त्वमहमिति सामानाधिकरण्येनार्थे लब्धे किमर्थमस्म्यदीति पदप्रयोगः इति चेत्, उच्यते- अस्तिधातोस्सत्ताह्यर्थः, तेनेदं तादात्म्यं युक्तमिति दर्शितं भवतीति, उपपादकशास्त्राणि दर्शयति । य आत्मनीति - “सन्मूला” इत्यादावपि सदायतनत्वतदनत्वाभ्यामात्मत्वसिद्धिः । “सन्मूलाः” इत्यादिवाक्योपेतस्य “य आत्मनि” इत्यादिवाक्यस्थार्थमाह - सर्वस्येति । कार्यकारणभावः कार्यकारणभूतजग्रद्ब्रह्मसामानधिकरण्योपयोगी, अत्र तु शुद्धस्वरूपजीवसामानाधिकरण्योपयोगी शरीरशरीरिभाव एव,. नियाम्यत्वं हि शरीरलक्षणत्वेनोक्तं, युक्तमिति उपपादयन्तीत्यन्वयः, एवं चेत्यादिना एकत्वपृथकत्वश्रुत्योरविरोधमाह तद्विविच्य दर्शयति । अहमिति - गुणगुणिरूपार्थद्वयसद्भावाभिप्राया भेदश्रुतयः । तत्र द्वयोरपि स्वनिष्ठत्वं नास्तीत्यन्यतरस्य प्रकारिनिष्ठत्वात् गुणभूतवस्तुनः स्व
निष्ठत्वनिषेधपरा अभेदश्रुतय इति विभाग इत्यर्थः । तदुपपादयति - अधिकस्येति । अकृत्स्नः- अपूर्ण, गुणमात्रपरत्वेन च न पूर्तिः, विशिष्ट एव पूर्णः, ईदृशापूर्तिवचनं गुणगुणिभेदे सत्येवोपपद्यते इत्यर्थः । एवं शरीरात्मभावगोचरस्य सामानाधिकरण्यस्याप्रामाणिकत्वानुपपन्नत्वयोरभावान्मोक्षफलश्रवणाच्च न दृष्टिविधित्वमित्युक्तं भवति, अधिकरणार्थमुपसंहरति - अत इति । परे तु- जीवपरयोरैक्यं सिद्धान्तयन्ति, तत्र विरुद्धधर्मयोगःदैक्यानुपपत्तिः, ईश्वरस्य जीवत्वे ईश्वराभावप्रसङ्गः, जीवस्येश्चरत्वे शास्त्रस्याधिकारिविरहः, अहं दुःखीत्यादिप्रत्यक्षविरोधश्चेति परिचोद्य ईश्वराभावं तस्य प्रामाणिकत्वात् परिहरन्ति, तदयुक्तं प्रामाणिकपरित्यागप्रसङ्ग इति चोदिते प्रामाणिकत्वादिति परिहासयोगात्, न हि प्रसञ्जनीयविषर्ययप्रतिज्ञानेन प्रसञ्जकधर्मः परिह्रियते सर्वतर्केच्छेदप्रसङ्गात् प्रसञ्जकप्रसञ्जनीयव्याप्तेरभग्नत्वाच्च, तत्त्वावबोधात् प्रागधिकारिलाभ इत्यधिकारिविरहं परिहरन्ति, तदप्ययुक्तम्, ईश्वरस्य सर्वज्ञत्वान्निर्विशेषचिन्मात्रस्य ज्ञातृत्वाभावात्, ज्ञातुश्च स्वनाशस्यापुरुषार्थत्वात् शास्त्रप्रद्वेपवत्त्वेन च त्रयाणागष्यधिकारानुपपत्तेः, श्रवणात्पूर्वं स्वनाशानभिज्ञत्वाद्दस्युभूयिष्ठामार्गे मार्गानभिज्ञवदवतरतीति चेन्न, अश्रुतेऽपि शास्त्रे सौगतानां सर्वक्षणिकत्ववत् मायावादिनां मुक्तेर्ज्ञातृनाशत्वस्य प्रसिद्धिप्राचुर्येण शास्त्रभीरुत्वाल्लोकस्य । प्रत्यक्षादीनां
संसार्यात्मविषयत्वादविरोध इति चायुक्तम्, नियमेन हेयनर्हतदर्हयोर्न्नियमेन शृङ्गानदर्हतदर्हयोः शशमहिषयोरिवैक्यविरोधस्यावर्जनीयत्वात्, दुःखयोगस्य मिथ्यात्वात् अविरोध इति चायुक्तम्, मिथ्याभूतहेयानर्हतदर्हयोर्विरोधस्यावर्जनीत्वात्, महिषनिषणमपि त्वन्मते मिथ्या तथापि शशमहिपयोः स्वरूपविरोध्रोभ्युपगतः । ननु स्वाप्नशशमहिषयोः स्वप्नावस्थायामेव विरोधः न प्रबोधे, विषाणस्य निवृत्तत्वात्, एवमयिद्ेंनिदृत्तशै दुःखनिवृत्तेजर्विपरर्योन स्वभावविरोध इति चेत्, तर्हि स्वाप्नशशमहिषयोरिव जीवेश्वरयोरुभयोरपि विनाश एवाविरोधनिर्वाहकः स्यात्, ततश्चेश्वरनित्यत्वश्रुतिविरोधः, स्वभावविरोधश्चापरिहृत्तः, यावत्सत्ताकं विरोधस्यावस्थित्वात्, यदि प्रबोधेऽपि परस्य हेयानर्हत्वं तिष्ठत्येव जीवस्य हेयार्हत्वमेव निवर्तत इत्युच्यते, तथाऽपि जाग्रदनुभूतशशस्वाप्नमहिषयोरिव न तयोरेकत्वसम्भवः, सत्तया हेयानर्ह ईश्वरः, विनाशात्तदर्नो जीव इति विद्यामानदशायां हेयार्हत्वतदनर्हत्वयोर्विनाशित्वाविनािात्वयोश्च विरोधस्यावीस्थत्कत्वात्, ईश्वरत्वं परमार्थश्चेन्निर्विशेषत्वहानिः, न चेदीश्वाराभावः, ऐश्वर्यादिगुणाभावेऽपि स्वरूपमवतिष्ठत इति चेत् रजतत्वनिवृत्तावप्यधिष्ठानमवतिष्ठत इति शुक्तिरूप्येश्वरयोरवैषम्यमेव स्यात्, जीवेश्वरैकत्वविधीनां दृष्टिविधित्वं पूर्वपक्षं आशङ्कय भेदनिषेधात्तदयुक्तमिति परिहृतम्, तदप्ययुक्तम्, दृष्टयुपासननिष्ठस्य भेदानुसन्धाने प्रत्यवायपरतयाऽपि भेदनिषेधश्रुत्युपपत्तेर्भेदतात्त्विकत्वावाधकत्वात्, न हि गरुडात्मनोर्भेददृष्टौ विषं न नायतीति गरुडनरेन्द्रैक वं तात्त्विकं स्यात्- हयानर्हत्वतदर्हत्वरूपस्वभावविरोधस्यावर्जनीयत्वादपरेषां पक्षोऽप्यनुपपन्नः, अन्येषान्तु गरुडोऽहमिति वदीश्वरोऽहमिति ज्ञानस्यात्तत्त्वविषयत्वात् अतत्त्वज्ञानान्मोक्षः स्यात्, यथोपासनं फलमिति मुक्तावपि भ्रान्त्यनुगमः स्यात् यदि सदहमिति सदैक्योपास्तिर्विधीयते, तदयुक्तम्, आत्मसत्त्वस्य लोकसिद्धत्वात् सदैक्यानुसन्धानस्याविधेयत्वात्, नियन्त्रशेन भोक्त्रंशस्य सदाकारेणैकत्वमनुसन्धेयमिति चेन्न, घटात्मकत्वतुल्यं स्यांत्, जगतो ब्रह्मणैकत्वं नाम जात्यैक्यं स्यात् ॥ 3 ॥
॥ आत्मत्वोपासनाधिकरणं समाप्तम् ॥