01 आवृत्त्यधिकरणम्

॥ आवृत्तिरसकृदुपदेशात् ॥ 1 ॥ अध्यायसङ्गतिमाह - तृतीय इति । तृतीये पादद्वयेन प्रथममुपासनोपयोगिवाह्यविषयवैतृप्ण्यभगवतृष्णाजननहेतोर्निरूपणीयं हि निरूपितम्, तृतीये विद्याभेदचिन्ता, चतुर्थेऽङ्गचिन्तेति तृतीाध्याये विद्यैव निरूपितेत्यर्थः । चतुर्थे फलमेव प्रधानतः प्रतिपाद्यम्, विद्याविषये पूर्वमनिरूपितांशश्च निरूप्यते, अस्य साध्यस्येदं साधनमिति साध्यसाधनभावसम्बन्श्रज्ञापनार्थं भक्तिरूपापन्नज्ञानस्य प्रीतिरूपतया फलकोटिनिवेशज्ञापनार्थं च कर्मयोगापेक्षया च साध्यत्वमस्तीत्यत्र चिन्त्यते, । तत्रेत्यादि - किं वेदान्तविहितवेदनं सकृत्कृतः शास्त्रार्थः? उतासकृदावृत्तमिति, किं ब्रह्म विदाप्नोतीत्यादिर्भिवेदनमात्रं विधीयते? उत निदिध्यासनम्, किमत्र विदिशब्दो ज्ञानमात्रपरः? उतोपासनपरः?, उपक्रमोपसंहाराभ्यां वाक्यान्तराच्चोपासनपरत्वं विदिशब्देऽवगम्यते, नेति, न चेदुपासनपरत्वाभावेन वेदनमात्रं विधीयत इति सकृत्कृतः शास्त्रार्थः । अवगम्यते चेद्विदिशब्दस्योपासनपरत्वान्निदिध्वासनपरं वेदनं विहितमित्यसकृदावृत्तमेव शास्त्रार्थः । आवृत्तौ प्रमाणभावेऽपि दृष्टोपयोगेष्वावृत्तिः क्रियत इत्यत्राह - न चेति । अदृष्टोपायत्वं सिद्धान्तिनैवोक्तमित्याह - ज्योतिष्टोमादीति ।

सिद्धान्तमाह - इति प्राप्त इति । ध्यानोपासनपर्यायेण वेदनशब्देनेति - अत्र निमित्तभेदेऽप्येकार्थपर्य्यवसायित्वं

पय्यर्ायत्वं विवक्षितम्, पर्य्यायत्वं कथमित्यत्राह - तत्पर्य्यायत्वं चेति । कीर्तिः- परत्वविषयप्रथा, यशः- सौलभ्यप्रथा, ताभ्यां भाति- ब्रह्मवर्चसेन तपतीत्यर्थः, यथा भक्तिस्त्रेहौ परत्वसौलभ्यविषयौ भिद्येते, तथा कीर्तियशसी, “स्नेहो मे परमो राजन्” “भक्तिश्च नियता वीर” इत्यत्र हि तथा दृश्यते, रञ्जनवाचिना राजन्शब्देन धीरशब्देन च स्नेहभक्ती सौलभ्यपरत्वविषये अवगम्येते “नाथ योनिसहस्त्रेषु” “तेषु तेष्वच्युता भक्ति” रिति तत्रैव प्रकरणे “या प्रतिरविवेकान"मिति च षठ्यते । तथा कीर्तियशसोर्भेदः “यस्तद्वेदयो वेदिता, यत्स वेदयच्च वेद्यं स मयैतदुक्तः- “स वेदिता रैक्कः, तद्वेद्यं ब्रह्म चोमयं मयोक्तमित्यर्थः, पुल्ँलिङ्गनिर्द्देशो रैक्काभिप्रायेण । अनुम इत्यादि - मे अनुशादीत्यन्वयः, “व्यवहिताश्चे"ति सूत्रात् । उपसंह्रियते - उपक्रमोक्तिः पश्चादनूद्यत इत्यर्थः । एकैकत्र विद्युपास्त्योरेकार्थविषययोः प्रयोगो दर्शितः । अथानेकत्र प्रदेशभेदेनैकैकस्य प्रयोगं दर्शयति - तथेति । अत्र “छागोवा मन्त्रवर्णात्” इति न्यायोऽभिप्रेतः, ध्यायमानशब्दोपादानेन “निदिध्यासितव्यः” इत्यत्र सन्प्रत्ययस्य इप्यमाणप्रधानत्वं दर्शितम्, ध्यायतिनां वेदनमुच्यताम्, ततः किमसकृदावृत्तेरित्यत्राह - ध्यानञ्च चिन्तनमिति । “ध्य चिन्ताया” मिति हि धातुः, असकृदावृत्तत्वं विच्छेदेऽप्युपपद्यत इति तद्वयात्तृत्त्यर्थमाह - असकृदावृत्तसन्ततस्मृतिरिति ॥ 1 ॥

॥ लिङ्गाच्च ॥ 2 ॥ लिङ्गशब्दं व्याचष्टे - लिङ्गं स्मृतिरिति । परे चापरे च श्रवणमनननिदिध्यासनानामावृत्तिरपेक्षिता वा नेति विचारयन्ति, तदयुक्तम्- श्रवणमननयोः रागप्राप्तत्वेन यावदर्शनिश्चयं तदावर्त्तनस्य प्राप्तत्वात्, असकृत्पदं हेत्वंशविषयमाहुः “श्रोतव्यो मन्तव्यो निदिध्यादितव्य” इत्यसकृदुपदेशादिति, तदयुक्तं - श्रोतव्यादिशब्दैरेकैकस्यावृत्त्यभावात्, उपदेशक्रियाया आवृत्तिर्विवक्षितेति चेत् तर्हि सकृच्छ्रवणेन सकृन्मननेन सकृन्निदिध्यासनेन च तस्योपदेशस्य सफलतया तेषां प्रत्येकावृत्तौ प्रमाणत्वाभावात् तेषामात्मसाक्षात्कारार्थत्वात् वैतुष्यार्थावधातस्येव दृष्टार्थत्वादावृत्तिसिद्धरिति चेत्, तर्हि “असकृदुपदेशा” दिति हेतुरहेतुः स्यात्, दृष्टार्थत्वादित्येव सूत्रयितव्यम्, असकृच्छब्दस्यावृत्तिविशेषणत्वन्तु सफलम्, आवृत्तिशब्दस्य द्विस्त्रिःप्रत्ययमात्रेणापि कृतार्थत्वात्, आवृत्तिश्चात्मापरोक्ष्ये दृष्टोपायः, सकृच्छ्रुताद्वाक्यादप्रतीतस्यार्थस्यावर्त्तनेन सम्यम्प्रतिपत्तिदर्शनात्, तदापरोक्ष्यं च बन्धनिवृत्तौ दृष्टशेपायः, रज्ज्वापरोक्ष्येण सपर्भ्रमनिवृत्तिदर्शनादिति चायुक्तं “धातुः प्रसादाद् वीतशोकः” “मद्भक्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यति” इति श्रुतिस्मृतिविरोधात्, ज्ञानवेदनशब्दान्वितवाक्यान्येव विषयः, न तु ध्यानादिशब्दान्वितानि, ध्यानादिपदानामावृत्तप्रत्ययविषयत्वे संशयाभावात्, आत्मने नित्यापरोक्षत्वाभ्युपगमान्न तदावृत्तिसाध्यम्, बन्धनिवर्त्तकसाक्षात्कारस्तु न वाक्यजन्यप्रत्ययावृत्त्या भवति ज्योतिष्टोमादिवाक्यार्थप्रत्ययावृत्तेस्तदर्थापरोक्ष्यहेतुत्वाभावात् एकश्चन्द्र इति वाक्यजन्यप्रत्ययावृत्त्या चन्द्रैकत्वापरोक्ष्याभा

वाच्च तिमिराद्यवगमे जायत इति चेत्, तत्तु चक्षुवा जायते, न तु चन्द्रैकत्वप्रत्ययावृत्तिमात्रात् तदनुगृहीतादेकश्चन्द्र इतिवाक्याद्वा, तिमिरादिस्थानीयदोषो भेदवासना चेत्- तत्र वक्तव्यं सर्वं प्रागेवाक्तम्, निर्गुणब्रह्मणो वेद्यत्वाभावात् ब्रह्म वेदेत्यादिवाक्यानां क्लिष्टता, तत्र कल्पनापोहेन सम्यङ्निश्चयोदयाय श्रवणाद्यावृत्तिर्विधेया, तदनुष्ठानान्तरीयकतया निर्गुणब्रह्मप्रत्ययावृत्तिरिति पक्षोऽप्ययुक्तः, ध्रुवानुस्मृतिविरोधात्, विजातीयप्रत्ययाव्यवहितप्रत्ययसन्तानं हि ध्रुवाऽनुस्मृतिः, भेदो मिथ्या निर्विशेषज्ञप्तिमात्रं सत्यमिति भावनाया विजातीयप्रत्ययसम्पर्क्कान्न ध्रुवानुस्मृतिसिद्धिः, समाधिविधिश्चानुपपन्नः, समाधौ मनसः प्रलयो नाम वहिर्व्यापारानर्हत्वं न तु विनाशः, अनुपपन्नत्वाद् बन्धनिवर्त्तकं वाक्यार्थज्ञानं मनोविनाशरूपसमाधिजन्यं वा जनकं वा । न प्रथमः, मनसो नाशे वाक्यस्य ज्ञानजनकत्वायोगात्, शब्दो हि मनसा गृह्यमाण एवार्थज्ञानं जनयति, न द्वितीयः, वाक्यर्थज्ञानस्य कृत्स्नप्रपञ्चमिथ्यात्वविषयस्य देहे स्थिते मनोमात्रप्रलयहेतुत्वानुपपत्तेः,

पुनर्मनउत्पत्त्यनुपपत्तेश्च, न हि ज्ञाननिवत्तस्य, बन्धस्य पुनरुदयः, पूर्वं ज्ञाननिवृत्तस्यापि रज्जुसर्पस्येव पश्चादुदयोपपत्तिरिति चेत्, तर्हि बन्धस्यापि पुनरुदयप्रसङ्गः, दोषानिवृत्त्या रज्जुसर्पस्य पुनरुदयः सम्भवेद् तदभावात् बन्धस्य पुनरुदयाभाव इति चेत्, मनोनिवर्त्तकस्यापि वाक्यार्थज्ञानस्य दोषनिवर्त्तकत्वात् पुनर्मनस्य उत्पत्त्यनुपपत्तिः, क्रियाविशेषेण मनः- प्रलयः, न तु वाक्यार्थज्ञानेनेति चेन्न, उत्पादकक्रियाविशेषाभावेन मनउत्पत्त्यनुपपत्तेः । किञ्च मनःफ्रलयस्य वाक्यार्थज्ञानोत्पत्तिविरोधित्वान्मुमक्षोः समाधिरकर्त्तव्यः स्यात्, मुक्तस्य सर्वज्ञत्वे प्राक्तनभगवदलाभानुसन्धानेनानन्तदुःखित्वमिति चेन्न, स्वसंसरणस्य भगवल्लीलात्वानुसन्धानस्य सुखरूपत्वात् । ननु मुक्तस्यानन्दाधिक्ये सार्वज्ञ्यं हीयेत, अतिशयिताननन्दस्य मोहनत्वदर्शनादिति चेन्न, तमोगुणसम्मिश्रणप्रयुक्तत्वान्मोहनत्वस्य, मनो हि गुणत्रयात्मकम् । इतरे त्रयोऽपि लिङ्गाच्चेति सूत्रमेवं व्याचक्षते- “रश्मिबहुत्वं पर्यावर्त्तये” दिति बहुपुत्रताथै रश्मिबहुत्वोपासनपरे वाक्ये आवृत्तिशब्देनोपासनानुवादश्चावृत्तौ लिङ्गमिति, एकस्मिन् दिने सकृच्चिन्तनेऽपि दिनभेदेनावृत्तिमात्रेणप्यावृत्तिशब्दव्यपदेशोपपत्तेर्निरन्तरावृत्तौ लिङ्गत्वायोगात् तदनादर इति । अन्ये त्विमं विचारमहङ्ग्रहोपासनव्यतिरिक्तविषयमाहुः, तस्य ध्यानफलसाक्षात्कारपर्यन्तत्वादावृत्तिसिद्धेरिति, तदयुक्तं- तस्य साक्षात्कारपर्यन्तत्वेऽन्येषामतत्पर्यन्तत्वे च नियामकाभावात्, दृष्टव्यताश्रुतिर्हि सर्वोपासनसाधारणी । किञ्च अहमर्थमात्रसाक्षात्कारो नित्यसिद्ध इति नोपास्तिसाध्यता, ईश्वरतादात्म्यं घटस्य शरावत्ववदतात्त्विकमिति शब्दप्रतीतिमात्रसिद्धस्य न साक्षात्कार उपपद्यते ॥ 2 ॥

॥ आवृत्त्यधिकरणं समाप्तम् ॥