॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ 51 ॥ सङ्गतिः स्फटा, किं मुक्तिफलमुपासनं स्वासाधनकर्मानन्तरभेवोत्पद्यते? उतानन्तरं? कालान्तरे वेत्यनियमः,किं परविद्यासाधनात्कर्मणः प्रबलकर्मन्तरं सम्भवति, नेति, असम्भवे नियमः, सम्भवे त्वनियम इति । मुक्तिफलशब्दो बहुव्रीहिः, उद्गीथाद्युपासनरहितयज्ञादिनिष्पाद्यपरविद्यानिष्पविविषयोऽयं विचारः । तस्य हेतोः- पूर्वत्रोक्तहेतोः । अधिकाशङ्कामाह - सर्वेभ्य इति । भगवत्प्रीत्यतिशयहेतुत्वेन प्राबल्यात् न तत्प्रतिबन्धकर्मस्तीति शङ्का, ब्रह्मविदपचारः प्रतिबन्धक इति परिहारः । इतरे त्रयोऽपि इदमधिकरणद्वयं विद्यासाधनानान्तरं विद्योत्पविविषयम्, निष्पन्नायां विद्यायां तत्फलभूतमुक्तिविषयं च वर्णयन्ति । तत्र परे तु “ऐहिक"मित्यत्र विद्योत्पत्तिरप्रतिबन्धे सत्यस्मिन् जन्मनि स्यात्, अन्यथा अन्यत्रेति सिद्धान्तयन्ति, तत्र विचारस्य ऐहिकोपासनविषयत्वाभावमात्र विरोधः, तत्त्वनन्तराधिकरणविचारानुपपत्तेरनुपपन्नम्, अनन्तराधिकरणस्य को विचारः, मुक्तिरूपे फलेऽपि उत्कर्षनिकर्षकृतः कश्चिद्विशेषप्रतिनियमः फलत्वात्सम्भवति इत्याशङ्कय परिह्रियते, मुक्तेरेकरूपत्वावधृतेरिति चेत्, उच्यते- उत्कर्षनिकर्षकृतविशेषप्रतिनियम इति, किं स्वरूपगतविशेषः? उत विलम्बाविलम्बरूप विशेषो विवक्षितः, न प्रथमः- इहासङ्गतत्वात्, चतुर्थस्य चतुर्थे पादे हि तस्य निरूप्यता, निरूप्यते च “संपद्याविर्भाव” इति, द्वितीयेऽपि किं विद्यायामनिष्पन्नायां विलम्बाविलम्बविचारः? उत निष्पन्नायाम्, प्रथमे निवर्त्तकानिष्पतौ निवर्त्यनिवर्त्तेः प्रसङ्गाभावेन विलम्बनिश्चयादनारम्भः, द्वितीये वसिष्टादीनामाधिकारिकाणां विद्यावतामपि विलम्बस्य पूर्वं समर्थितत्वात् इदानीन्तनानां ब्रह्म
ज्ञानवतां देहपातविलम्बाच्च विलम्बाविलम्बरूपविशेषप्रतिनियमनिरासोऽनुपपन्नः, अत उपासनभेदेनैव अधिकरणवर्णनं युक्तम् । अपरे तु विद्याफलमात्मापरोक्ष्यं किमिहैव जन्मनि? उत इह वान्यत्र वेत्यनिम इति विचार्य पूर्वाधिकरणेनानियम इति सिद्धान्तयन्ति । अनन्तरे च- आपरोक्ष्ये सति तद्देहपाते मोक्षः, दर्शनमात्रे कर्मक्षयश्रुतरिति पूर्वपक्षं कृत्वा आपरोक्ष्ये तारतम्यसम्भवात् तत्रैवान्यत्र वेत्यनियमः, मोक्षस्त्वेकरूपः, परमात्मावस्था हि मुक्तिरवधृतेत्याहुः, तेषामपि मोक्षैकरूपत्वं सिद्धान्तश्चेत् पूर्वपदसङ्गतिः पुनरुक्तिश्च । विलम्बाविलम्बसम्भवे निरूप्ये “यावदधिकार"मित्यनेन गतार्थत्वादनारम्भणीयता, संशयाभावाच्च आपरोक्ष्यमात्रे मुक्तिः कस्य केन सम्भाव्यते । अन्ये तु साक्षात्कारसाधनानि इहैव अप्रतिबन्धे, सति तु प्रतिबन्धेऽन्यत्र जन्मनि साक्षात्कारं जनयन्तीति पूर्वाधिकरणे निश्चित्य चरमाधिकरणे ब्रह्मसाक्षात्कारफलस्य मुक्तेस्तद्देहावसानभावित्वं स्वतः, सति तु प्रतिबन्धे जन्मान्तरे आधिकारिकेषु वसिष्ठादिषु मुक्तयवस्थावधृतेः, अयं च न्यायः कर्मफलेषु स्वार्गादिषु च, सूत्रकारेण प्रसङ्गादिह प्रतिपादित इत्याहुः, एषामपि चरमाधिकरणसिद्धान्तस्य प्रागेव सिद्धतया अधिकरणद्वयविभागानुपपत्तिः, पूर्ववदनुसन्धेया । यज्ञादिकर्मफलानामिह विचारस्तु न सूत्रविवक्षितः, मुक्तिफलशब्दोपादानात्, न हि “फलमत उपपत्तेः” इतिवत्साधारणशब्देन निर्देशः, अनपेक्षतत्वादभिप्रायकल्पं
चानुपपन्नम्, यज्ञादीनां विद्याङ्गत्वादपेक्षितमिति चेत्- तत्पूवसूत्रेण कृतमित्यनपेक्षितत्वम्, अत उपासनभेदविषयतयैव अधिकरणद्वयवर्णनं युक्तमिति ॥
॥ मुक्तिफलाधिकरणं समाप्तम् ॥
॥ इति श्रीहारीतकुलतिलकवाग्विजयसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन
श्रीमद्वरदाचार्यपादसेवासमधिगतभगसद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन
श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रकाशिकायां तृतीयस्याध्यायस्य चतुर्थः पादः ॥